देव्युवाच
पञ्चभूतात्मके पिण्डे कस्मिन् के देवता स्थिताः ।
पादौ च जानौ जङ्घायाम् ऊरुयुग्मे च के स्थिताः ॥ १ ॥
प्। ३६०)
लिङ्गे च देवदेवेश स्फिजौ कटिके स्थिताः ।
नाभिःप्रदेशपार्श्वे च पृष्ठवंशे तथैव च ॥ २ ॥
आन्त्रे मज्जे च देवेश रुधिरे कफपित्तयोः ।
रोमकूपे च के चोक्ता हस्तौ पादौ * * * * ॥ ३ ॥
चुबुके चक्षुषोश्चैव ललाटे मस्तके चके ॥ ४ ॥
वाचां नाडी देवेश अहङ्कारे च के स्थिताः ।
इन्द्रियाणां च के देव विदिते यत्फलं भवेत् ॥ ५ ॥
एतन्मे देवदेवेश प्रसादाद्वक्तुमर्हसि ।
ईश्वर उवाच
प्। ३६१)
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ॥ ६ ॥
तदहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं वरानने ।
सत्त्वञ्च आदितः कृत्वा प्रवक्ष्यामि निबोधत ॥ ७ ॥
सत्त्वं प्रधानमित्युक्तं स ब्रह्मा तु निगद्यते ।
रजो विष्णुस्तमो रुद्रो बुद्धिरष्टगुणाः शृणु ॥ ८ ॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च तथा परा ।
अधर्मश्चैव विज्ञेयम् अज्ञानञ्च तथैव हि ॥ ९ ॥
अवैराग्यमनैश्वर्यं योगीशानां क्रमेण तु ।
ब्रह्मादि देवता बुद्धेर्धर्माद्याश्शक्रदेवताः ॥ १० ॥
अहङ्कारे स्थितो रुद्रः शून्ये शब्दः प्रतिष्ठितः ।
प्। ३६२)
स्पर्शे वायुस्समाख्यातो रूपे वह्निः प्रकीर्तितः ॥ ११ ॥
तस्य तन्मात्रे वरुणो गन्धे तु पृथिवी स्थिता ।
प्रजापतिः पृथिव्यां वै द्रवे सोमः प्रतिष्ठितः ॥ १२ ॥
सूर्यस्तु संस्थितस्तेजे मारुतस्पर्शने स्थितः ।
शिवतत्वं परं गुह्यमाकाशे सम्प्रतिष्ठितम् ॥ १३ ॥
श्रोत्रेन्द्रिये महादेवि दिशः सर्वाः प्रतिष्ठिताः ।
त्वगिन्द्रिये तु मरुतः चक्षुर्भ्यां हुतभुक् स्थितः ॥ १४ ॥
जिह्वेन्द्रिये सदा देवि भुवशक्तिः सरस्वती ।
घ्राणेन्द्रिये तु वै ज्ञानं पादयोर्विष्णुरेव हि ॥ १५ ॥
क्रियाशक्तीति निर्दिष्टा मित्रो वायुश्च गृह्यते ।
प्। ३६३)
ज्येष्ठा प्रजापतिर्लिङ्गे वामा रौद्री च वचया ॥ १६ ॥
जलेन्दुर्मनसि ज्ञेया वाक् सवित्री हृदि स्थिता ।
गौरी वागीश्वरी कर्णे ललाटे विमलारि तु ॥ १७ ॥
स्नायुवर्गे स्थितोऽनन्तः सूक्ष्मः शुक्ले व्यवस्थितः ।
शिवोत्तमोत्तमो देवः स्थितोस्थि निचये सदा ॥ १८ ॥
एकनेत्रस्थितो मांसे एकरुद्रस्तथापरे ।
रुधिरे संस्थितो नित्यं त्रिमूर्तिः कफपित्तयोः ॥ १९ ॥
श्रीकण्ठो रोमसङ्घाते मूत्रेषु च सदा स्थितः ।
शिखण्डी च परो रुद्रो नखेषु सर्वतस्थितः ॥ २० ॥
तन्महेशस्थितो देहे ऋषयश्चापि सन्धिषु ।
प्। ३६४)
पृष्ठवंशे च चण्डीशः पार्श्वेषु च संस्थितः ॥ २१ ॥
अङ्गुलीषु स्थिता नागा बाहौ पितरस्संस्थिताः ।
नाभौ वह्नि स्थितः साक्षात् सर्वेषामेव देहिनाम् ॥ २२ ॥
विद्याधरास्तथा यक्षाः रोमकूपेषु संस्थिताः ।
हस्तयोरिन्दुदेवत्यो जानुजङ्घे तथाश्विनौ ॥ २३ ॥
ऊरुयुग्मौ स्थितौ देवौ मित्रावरुणविश्रुतौ ।
नेत्रयोर्गन्धयोश्चैव ग्रीवायां चिबुके स्थिताः ॥ २४ ॥
सप्तगृहास्ससपस्संस्थिताश्चाधिदैवताः ।
नक्षत्रमण्डलं दिव्यं मुक्तनानु केऽनु संस्थिताः ॥ २५ ॥
एवं वै यो विजानाति सर्वदेवैरधिष्ठितम् ।
प्। ३६५)
शरीरं सर्वजं ज्ञानं न पापेन विलिप्यते ॥ २६ ॥
एतन्यासपरं देवि योऽभ्यसेत दिने दिने ।
स श्रियं लभते देवि ईश्वरेण समो भवेत् ॥ २७ ॥
न पापं न च वै पुण्यं न भयेषु भयं भवेत् ।
मुच्यते किल्बिषैर्घोरैः सप्तजन्मकृतैरपि ॥ २८ ॥
सेवितव्यं प्रयत्नेन योगिनां मुक्तिमिच्छता ।
नवोपायं मयाचोक्तं तेन त्वामृतसंस्थिताः ॥ २९ ॥
सर्वेषां यः परो देवः सर्वव्यापी व्यवस्थितः ।
इति निश्वासकारिकायां ज्ञानकाण्डे सर्वदेवशरीरन्यासे एकचत्वारिंशत्पटलः ॥