देव्युवाच
सर्वज्ञस्यार्चनं ब्रूहि नियोगञ्च महेश्वर ।
कस्मिन् काले तु भगवान् अर्घ्यं दद्यात्परे शिवे ॥ १ ॥
परेण सह चात्मानं यथा चैकत्र तां व्रजेत् ।
तथा त्वं देवदेवेश अर्चनं कथयस्व मे ॥ २ ॥
ईश्वरः
शृणु देवि परं गुह्यम् अर्चनं सार्वकामिकम् ।
येन यष्टेन यष्टास्तु अशेषभुवनाधिपाः ॥ ३ ॥
वामाङ्गे तु तथा देवि वामा शक्तिःप्रकीर्तिताः ।
प्। ३५५)
पितॄणामाधिपत्येन ज्ञातव्या ज्ञानचक्षुषा ॥ ४ ॥
दक्षिणाङ्गे पुनर्ज्येष्टा देवानामधिदेवता ।
मध्ये रौद्री सदा विद्यात् योगीनां योगदेवता ॥ ५ ॥
इडायां संस्थिता वामा वामाङ्गे सर्वदेहिनाम् ।
सुषम्नायां पुनर्ज्येष्ठा रौद्री तु पिङ्गलाश्रिता ॥ ६ ॥
एतास्तु शक्तयः प्रोक्ताः वर्णत्रयसमाश्रिताः ।
नाडीत्रयसमायुक्ता ब्रह्मविष्ण्वीशसंयुताः ॥ ७ ॥
पिङ्गलायां प्रभुः रौद्री सुषुम्नायान्तु ब्रह्मणः ।
इडायान्तु उपेन्द्रो वै सर्वकार्येषु संस्थिताः ॥ ८ ॥
वामस्थाने यदा देवः स्नानं तत्र समाचरेत् ।
प्। ३५६)
अग्निकार्यन्तु मन्त्रज्ञः जपये हेतुदक्षिणे ॥ ९ ॥
ध्यानमेकं सदा सेव्यं मध्यदेशं प्रतिष्ठितम् ।
निर्हत्य व्यापयित्वा सर्वावस्थो भवेत् क्षणात् ॥ १० ॥
पुष्पपूर्णाञ्जलिः कृत्वा यत्र तत्र मुखे स्थितः ।
मानसैः प्राकृतैर्वापि अद्भिः सम्पूर्णमञ्जलिम् ॥ ११ ॥
स्वसम्भवस्थमार्गेण यावच्छब्दमुदाहरेत् ।
शब्दान्ते लीयते यावत् पुण्यकालमिहोच्यते ॥ १२ ॥
निस्तत्वे निर्मलीभूतं निर्विकल्पं प्रकल्पयेत् ।
तत्र चैवावतिष्ठेत कृतकृत्यश्च जायते ॥ १३ ॥
एवं वै व्यापयित्वा तु पूरकेन पुनर्विशेत् ।
प्। ३५७)
अप्रबुद्धः प्रबुद्धात्मा तदा भवति नान्यथा ॥ १४ ॥
शिवं करोति सर्वत्र ऊर्ध्वञ्चैव प्रसाधयेत् ।
उपास्य सर्वकर्माणि शिवेना शिवहारिणा ॥ १५ ॥
देव्युवाच
सिद्धान्तज्ञानज्ञेयञ्च लक्षणञ्च महेश्वर ।
तदहं श्रोतुमिच्छामि प्रसादाद्वक्तुमर्हसि ॥ १६ ॥
ईश्वरः
तत् ज्ञानार्थं स्मृता वेदाः सिद्धान्ताश्च सहस्रशः ।
एतस्मात्कारणाद्देवि ज्ञेयमित्यभिधीयते ॥ १७ ॥
ज्ञेयज्ञानपदार्थौ च सिध्यर्थं विधिरूपकम् ।
प्। ३५८)
शास्रेण सिध्यते सिद्धिः सिद्धान्तस्तेन स स्मृतः ॥ १८ ॥
सञ्ज्ञालक्षणमित्युक्तं लक्ष्येऽर्थे लक्षणस्मृतम् ।
लक्ष्यं संयक् परिज्ञानाल्लक्षणं तेन संस्मृतम् ॥ १९ ॥
ध्यानधारणरहितं योगारम्भे विवर्जितम् ।
तस्योपलब्धेर्विज्ञानं तत् ज्ञातुन्नैव शक्यते ॥ २० ॥
तेनोक्ता कल्पना पूर्वन्निश्चयेनास्ति कल्पना ।
अस्तित्वे यो न सम्मूढस्सरज्ञस्स च पण्डितः ॥ २१ ॥
प्रयासा यस्य अस्ति स सर्वज्ञोऽयं व्यवस्थितः ।
अस्तिभावेन गृह्णन्ति देही मायाविमोहितः ॥ २२ ॥
यथा नास्ति ध्रुवं किञ्चित् तथा ते कथितं मया ।
प्। ३५९)
तदक्षयं तदमृतं तत्सत्यं तत्सनातनम् ॥ २३ ॥
तादृशे वर्त्तनासोऽपि यस्य योगं स सर्ववित् ।
बन्धने मायया मायी आशापाशेन वेष्टितः ॥ २४ ॥
आशापाशैर्विमुक्तोऽयम् अमृतं पर्युपासते ।
इति निश्वासकारिकायां ज्ञानकाण्डे सर्वज्ञार्चनसिद्धान्तज्ञानज्ञेयलक्षणन्नाम चत्वारिंशत्पटलः ।