३९

देव्युवाच

ईदृशे आसने शुभे शक्तिभिः परिवारिते ।
मूर्तिं कथय देवेश आसने आसनाधिपम् ॥ १ ॥

प्। ३४७)

ईश्वरः

मूर्तिः पूर्वं मयाख्यातं ब्रह्माद्यानां पुरा घियाम् ।
ऋषयश्च तथाऽन्ये च दुर्व्यासाद्यास्तथा परे ॥ २ ॥

आत्मा मूर्तिस्तु विज्ञेयो निष्क्रियो अस्वतन्त्रकः ।
तस्य मन्त्रे समायोगः क्रियते सुरसुन्दरि ॥ ३ ॥

पञ्चधा तूच्यते मन्त्रो येनाऽसौ सकलो भवेत् ।
मन्त्रैर्युक्तः स मन्त्रात्मा वर्णैर्युक्तस्सदात्मकः ॥ ४ ॥

कलाभिस्तु यदा युक्तः तदा प्रोक्तः कलात्मकः ।
पदभेदात्मकश्चैव तत्त्वभेदात्मकस्तथा ॥ ५ ॥

पशुः पूर्वं मयाख्यातः सा मूर्तिः परिकीर्तिता ।

प्। ३४८)

करणं सदात्मकं यस्मात् तस्मात्प्रोक्तः सदाशिवः ॥ ६ ॥

सदा नित्योह्यचिन्त्यश्च तेन प्रोक्तऽस्सदाशिवः ।
सततं तत्पदं शान्तं तत्प्राप्य तत्पदानुगम् ॥ ७ ॥

आसम्पूर्णं शिवं शान्तं गुरुं त्रिदश वन्दितम् ।
अशेषभुवनाधारं व्योमपीठान्तसंस्थितम् ॥ ८ ॥

शक्तिकेसरमध्यस्थं शक्त्यालङ्कारभूषितम् ।
सर्वशक्तिसुसम्पूर्णं सर्वशक्तिप्रदीपकम् ॥ ९ ॥

नैशन्तमो यथा सूर्यः स्वप्रभालोक्य रश्मिभिः ।
निहत्य तिष्ठते व्योम्नि तथा मूर्तिः परे शिवे ॥ १० ॥

कृत्स्नमाभासते भाभिः भाभिर्भिन्नमिवोदितम् ।

प्। ३४९)

निश्चलं प्रज्वलं भाति नित्यानित्यं निरञ्जनम् ॥ ११ ॥

प्रशान्तं विमलं शुद्धं व्यापी अत्यन्तनिर्मलम् ।
सूर्यकोटिद्युतिहरं सकृद्योदितसुप्रभम् ॥ १२ ॥

नास्य प्रमाणं व्यापित्वात् मूर्तिः समुपदिश्यते ।
अनादित्वादसम्भावो नित्यत्वान्निधनं न च ॥ १३ ॥

निर्गुणस्सर्ववित्कर्ता स्वतन्त्रः सर्वतोमुखः ।
परिपूर्णोऽव्ययश्शान्तः सूक्ष्मोऽजः परमो तनुः ॥ १४ ॥

नित्यप्रबुद्धशुद्धात्मा कारणोऽमितविग्रहः ।
अनन्तो निधनश्चैव नित्यतृप्तो निराश्रयः ॥ १५ ॥

कूटस्थः प्रभवो नाथो अनाथोह्यमितद्युतिः ।

प्। ३५०)

अनादिरेको नियम्यश्चेतनस्सर्वहृत् शिवः ॥ १६ ॥

सर्वकृत् सर्वविच्छर्वस्सर्वशक्तिरजोऽव्ययः ।
सर्वैः कारयिताकर्ता तेन सर्वमिदं ततम् ॥ १७ ॥

सर्वान्तं सर्वपरमं सर्वदोषविवर्जितम् ।
सर्वतत्वपदातीतम् अजमीशानमव्ययम् ॥ १८ ॥

सुशाश्वतं सुसम्पूर्णं सुनिर्वाणं सुशोभनम् ।
सर्वावरणनिर्मुक्तमद्भुतैकं सनातनम् ॥ १९ ॥

सर्वव्यापी ससर्वज्ञः सर्वस्योपरि संस्थितः ।
सर्वगः सर्वगातीतः मूर्तीनां सकलो मलः ॥ २० ॥

सोऽयं रुद्रो महादेवो मूर्तीनां मन्त्रविग्रही ।

प्। ३५१)

परापरविभागेन विश्वमूर्तिमिवाव्ययम् ॥ २१ ॥

अनन्तरूपोऽनन्तश्च अनन्तोऽनन्त एव च ।
अनन्तशक्तिरनन्तात्मानन्तेन्द्र्योनन्तवक्त्रकः ॥ २२ ॥

सर्वधामातिरिक्तोऽसौ इन्द्रियातीततत्पदम् ।
तदात्मकमिदं सर्वं ते वाचप्रणितं जगत् ॥ २३ ॥

तत्त्वतत्वन्तु तत्वेन तत्वतत्वन्तु भिस्तकम् ।
अचिन्त्यस्सर्वसूक्ष्मो मतो दृष्टिविवर्जितः ॥ २४ ॥

अनन्तो मूर्तिसंयोगः सकलोऽसौ प्रकीर्तितः ।
एष ते कथितोऽनन्तो यस्यान्तस्तु न विद्यते ॥ २५ ॥

अविदितत्वात्तु देवेशे अनन्तविधिमुत्तमम् ।

प्। ३५२)

शिवयागन्तु कुरुते नाऽसौ मोचयते पशुम् ॥ २६ ॥

चक्षुषा बिन्दुयोगेन कथितोऽनुग्रहो मया ।
शिवहस्तसमायोगात् स्पर्शास्सर्वत्र कीर्तिताः ॥ २७ ॥

उदकेन यथा कुर्यात् शृणु देवि वदाम्यहम् ।
सर्वसंहितसामान्यं विधिरेषा मुदाहृता ॥ २८ ॥

पञ्चब्रह्मशिवाङ्गाश्च शिवेन सह संयुताः ।
त्रि तत्र देवतान्यासमध्वानं यत्प्रकीर्तितम् ॥ २९ ॥

सर्वे सर्वत्र कर्तव्या उदके च विशेषतः ।
न यज्ञेन विधिज्ञेन अध्वन कुशलेन च ॥ ३० ॥

त्रितत्वदेवतत्त्वेन कर्तव्या विधिरुत्तमा ।

प्। ३५३)

ग्रहणे योजने तत्ज्ञ उत्क्षेपस्सन्नियोजने ॥ ३१ ॥

सन्धाने चैव सर्वेषां लयं निर्वाणमेव च ।
सर्वज्ञानाति तत्त्वज्ञः स तु योग्यश्शिवाध्वरे ॥ ३२ ॥

प्रकृतिं यो विजानाति विकारैस्सह संयुतम् ।
आधाराधेयवित् प्राज्ञः स तु योग्यः शिवाध्वरे ॥ ३३ ॥

ससाधकस्सदाचार्यः ससम्पूज्यो महामतिः ।
स गुरुः साधकेन्द्राणां शेषा यन्नामधारकाः ॥ ३४ ॥

एवं विधिविधानज्ञः आचार्यस्तन्त्रपारगः ।
दीक्षकस्सर्वजन्तूनां स तु नेता परं पदम् ॥ ३५ ॥

इति निश्वासकारिकायां ज्ञानकाण्डे मूर्तिविन्यासो नाम एकोनचत्वारिंशत्पटलः ॥