देव्युवाच
अनन्तमासनं देव श्रोतुमिच्छामि तत्त्वतः ।
कीदृशन्तु भवेदन्तः आसनञ्च महेश्वरः ॥ १ ॥
ईश्वरः
भावार्णवविनिर्मुक्ताः शिवं यान्ति तनुक्षये ॥ २ ॥
आसनम् आश्रयन्नाम तत्वानां गगनस्य च ।
इच्छाशक्तिसमुद्भूतम् अनन्ताख्यं तदासनम् ॥ ३ ॥
मयाचादि धरित्र्यन्तं तत्र ज्ञातमशेषतः ।
व्या * * * * * * * शिवस्य परमात्मनः ॥ ४ ॥
प्। ३३५)
मायाकर्ममपङ्काढ्यं संवत्सरमहोदधौ ।
सदाशिवशिवाधारं नित्याधारेति सञ्ज्ञितम् ॥ ५ ॥
मायया स च द्वात्रिंशज्जले तत्त्वा व्यवस्थिताः ।
त्रयस्त्रिंशतिमाविद्या * * * * * * * * ॥ ६ ॥
चतुस्त्रिंशतिमस्त्वीश अष्टधा दलसंस्थितम् ।
अनादिमूलपङ्काढ्यं ज्ञानतोयसमुद्भवम् ॥ ७ ॥
प्रक्रियानालविन्यासं भुवनाः कण्टके स्थिताः ।
दश कोट्यस्तु मन्त्राणां शिवपद्मे व्यवस्थिताः ॥ ८ ॥
महासारो हि मन्त्राणां सर्वदेवाश्रयः परः ।
एतदध्वनपद्मन्तु शिवाख्ये सर्वमाश्रितम् ॥ ९ ॥
प्। ३३६)
आसनात्परतो नास्ति अध्वानन्तु वरानने ।
पुरुषाणामनन्तत्वात् तत्वादीनामनन्तता ॥ १० ॥
प्रकृतीनामनन्तत्वाच्छक्तीनाञ्चाप्यनन्तता ।
पशूनां भुवनानाञ्च परिसङ्ख्या न विद्यते ॥ ११ ॥
तदनुग्रहशक्तीनां मन्त्राणाञ्चाप्यनन्तता ।
अनादिरेष संसारो यस्यान्तो न हि विद्यते ॥ १२ ॥
धारकत्वादनन्तत्वात् अनन्तस्तेन उच्यते ।
न पद्मस्य प्रमाणोऽस्ति अनन्तत्वाच्छिवस्य तु ॥ १३ ॥
अनन्तो अन्तहीनत्वात् अनन्तं तेन सोच्यते ।
अनन्तः खाप्यते तेन अनन्तेनत्वधिष्ठितः ॥ १४ ॥
प्। ३३७)
अनन्तस्तु शिवो ज्ञेयो अप्रमेयस्त्वनौपमः ।
अप्रमेयं पशुज्ञानैः स्वतन्त्रे गीयते कलैः ॥ १५ ॥
तदनन्तमनन्तन्तु योगपीठमहात्मने ।
कर्तृत्वमीश्वरत्वञ्च नित्यतृप्तः प्रशान्तता ॥ १६ ॥
शक्तेख्याहतत्त्वाच्च धर्मोऽयं शाङ्करस्मृतः ।
सकृत् सर्वत्र सत् ज्ञानं सर्वज्ञत्वञ्च सर्वदा ॥ १७ ॥
सर्वज्ञानाश्रयत्वाच्च ज्ञानमेतत्परं प्रभोः ।
विरक्तः प्राकृतैर्भावैः निस्पृहत्वञ्च सर्वदा ॥ १८ ॥
नैष्ठिकब्रह्मचर्यञ्च वैराग्यं तत्परं प्रभोः ।
अणिमादिगुणैस्सर्वैः या भूत्यस्त्वभिघातिनी ॥ १९ ॥
प्। ३३८)
नास्वादिता जगत्यन्यैः तदैश्वर्यं परे शिवे ।
न तद्भुवनमध्वानं न रूपं न च वाङ्मयम् ॥ २० ॥
न शब्दं नापि चाकाशं विमलं सर्वतः स्थितम् ।
विरजन्निर्मलं व्योमं समन्तादनिवारितम् ॥ २१ ॥
निर्गुणं वाङ्मनातीतं ग्रहनक्षत्रवर्जितम् ।
तप्तचामीकराकारं क्वचित्प्रालेयसन्निभम् ॥ २२ ॥
क्वचिदिन्द्रायुधप्रख्यं क्वचित्तारकसमप्रभम् ।
चन्द्रचन्द्रकसङ्काशं क्वचिन्मरतकप्रभम् ॥ २३ ॥
विमलं दोषरहितं तेजस्तेजो महद्युतिः ।
व्यापकम् अप्रमेयञ्च पद्मं सार्वं महोज्वलम् ॥ २४ ॥
प्। ३३९)
व्योमनालं दिशापत्रं व्योमकण्टककेसरम् ।
व्यापिनीभिरनन्ताभिः व्रतम् अमृतशक्तिभिः ॥ २५ ॥
वितीर्णमव्यवच्छिन्नं सूर्यकोटिसमप्रभम् ।
विश्वस्वच्छं महातेजः स्वरूपानन्तवर्चसम् ॥ २६ ॥
अद्भुताश्शक्तयः सूक्ष्माः शान्ताशान्ता अनौपमाः ।
प्रदिष्ठास्तु गुणोपेताः शिवस्यानन्तशक्तयः ॥ २७ ॥
एताभिः शक्तिभिरसौ भाति नित्यं विभूषितम् ।
शोभते निर्मलं तन्तु निर्मलाभिलङ्कृतम् ॥ २८ ॥
स तु तत्प्रभाकमलं दिव्यमद्भुतदर्शनम् ।
अत्यन्तविमलं शान्तभास्वरं कमलच्छदम् ॥ २९ ॥
प्। ३४०)
तटित् सहस्रसङ्घातं किरणानेकसङ्कुलम् ।
विशुद्धचन्द्रिकाकारं स्फुरन्निक च केसरम् ॥ ३० ॥
स्फुरत्किरणसङ्घातं शबलीकृतमुन्मुखम् ।
बहुवर्णमवर्णञ्च प्रचलच्चारुकेसरम् ॥ ३१ ॥
सूर्यांशुकरविष्टब्धं व्रैतग्रसदृशद्युतिम् ।
अनेककिरणप्रख्यं विद्युत्कोटिसमप्रभम् ॥ ३२ ॥
तप्तचामीकराकारं क्वचित्प्रलयसन्निभम् ।
क्वचिदिन्द्रायुधप्रख्यं क्वचित्तारसमप्रभम् ॥ ३३ ॥
स्फटिकोपलसङ्काशं पद्मरागसमद्युतिम् ।
क्वचिद्रशिसुसङ्घातं वितानितनभस्थलम् ॥ ३४ ॥
प्। ३४१)
क्वचित्प्रल्यसाटोपं युगान्तकिरणत्विषम् ।
क्वचिच्च वर्णसङ्घातं विनिर्मुक्तवपूंषि च ॥ ३५ ॥
स्वशक्तिविभवद्योतं व्यापयन्तं समन्ततः ।
जलबुद्बुदसङ्काशं शरदिन्दुसमप्रभम् ॥ ३६ ॥
प्रोत्फुल्लकिरणामोदं विद्येशमधुपाकुलम् ।
सुषुम्नानालसन्तानं कालानलशिवान्तकम् ॥ ३७ ॥
तटिद्वलयसङ्काशं परिवृत्य समन्ततः ।
सहस्ररश्मिसङ्घातं दुर्निरीक्ष्यं समन्ततः ॥ ३८ ॥
असमान क्रियाज्ञान प्रभाव * * * द्ध्रुवम् ।
स्वतो भावितधर्मान्तं तदिच्छाद्यवतिस्वते ॥ ३९ ॥
प्। ३४२)
इच्छाशक्तिपरो धर्म शिवस्य परमात्मनः ।
तेन युक्तस्सुधर्मात्मा धर्मिसद्भिर्निगद्यते ॥ ४० ॥
द्ध्रुवे धर्मिणि धर्मोऽसौ सत्कारणमिहोच्यते ।
नाभावे धर्मिणा धमः प्रसिद्धिमुपगच्छति ॥ ४१ ॥
इच्छा च प्रेरणी चैका कालनीकलिनी तथा ।
अभावभाविनी ज्ञानी क्रियाशक्तिः प्रकीर्तिता ॥ ४२ ॥
मोहनी रञ्जिनी बोधा प्रभावा विभुनी रसौ ।
दमनी धामनी बोधा मननी उन्मनी शिवा ॥ ४३ ॥
धात्री च जननी क्रोधा चालिनीह्यपरिग्रहा ।
विरजा विजया सौम्या मायाऽविद्या च रागिणी ॥ ४४ ॥
प्। ३४३)
अलुप्ता च प्रतीघाता अजरा अपराजिता ।
अग्रजा च विलोमा च कलानापि विनिर्मिणी ॥ ४५ ॥
बलदा बलदायी च दमनी धर्मदापि च ।
स्वरूपा वर्णरूपा च पाशजालावकुण्ठिनी ॥ ४६ ॥
पाशिनी मोहिनी त्राणि निग्रहानुग्रहेति च ।
मही च हर्षिणी भावा सौम्या वै सौम्यधर्मिणी ॥ ४७ ॥
भावा स्वभाविनी याति तीव्रा शान्ता च सिद्धिदा ।
अप्रमेया प्रमेया च प्रमाणा च विकल्पिनी ॥ ४८ ॥
व्यापिनी सर्वगोप्ता च भया च भयहारिणी ।
सृष्टिसंहारिणी चेता तृप्तिर्निद्रा प्रभा क्षुधा ॥ ४९ ॥
प्। ३४४)
दहनी श्रुतिर्मतिः प्रज्ञा भाविनी च विभाविनी ।
भाव्यनी च व सौम्या च ध्रुवा च ध्रुवहारिणी ॥ ५० ॥
अनन्ता चामृता चैव ईश्वरी अव्यया तथा ।
रतिः प्रीतिश्च विज्ञेया विषादजननीति च ॥ ५१ ॥
स्थितिरुत्सादिनी चैव प्राणिनाञ्च विनिर्मिणी ।
आवेशिनी निरोधी च प्राणिनां कल्पिनी तथा ॥ ५२ ॥
अमृताऽनन्तशक्तिश्च पराशक्तिस्तथैव च ।
इत्येताः शक्तयस्सर्वाः केसरे नित्यसंस्थिताः ॥ ५३ ॥
शुद्धगोरोचनाभास्तु ज्ञेया शक्तिगणास्तु वै ।
कर्णिकापीठपर्यन्ता भासयन्ति दिशो दश ॥ ५४ ॥
प्। ३४५)
कन्दं पटोलकाकारं शक्तिभिः परिवारितम् ।
कर्णिकास्थं प्रभुर्नित्यं शक्तिभिः परिवारितम् ॥ ५५ ॥
आदित्यस्य यथा रश्मिः अविभक्ता व्यवस्थिताः ।
एवं शक्तिगणास्सर्वे रश्मयः परिकीर्तिताः ॥ ५६ ॥
शक्त्या तु चेष्टते नित्यं हृत्पद्मे परमेश्वरी ।
तत्तेजो निर्वृतास्सर्वाः शक्तयः परिकीर्तिताः ॥ ५७ ॥
एवं शक्त्यात्मकं ज्ञात्वा तदा मुच्यति मोचति ।
यथेन्द्रवद्बलं दीप्तं व्यापयन्ति चराचरम् ॥ ५८ ॥
तच्चाचलमनिर्देश्यमनन्तमजकर्णिकम् ।
अनादिमध्यनिधनमेकम् अप्रतिपत्तिमम् ॥ ५९ ॥
प्। ३४६)
निष्प्रपञ्चं निरध्वानम् अतीन्द्रियमनामयम् ।
निष्कलं विमलं वृत्तमुत्तुङ्गव्यापिनं परम् ॥ ६० ॥
हेमार्कसम्प्रतीकाशं सर्वतत्वप्रकाशकम् ।
प्रकाशवृत्तिस्तज्ज्ञेयं विमलं व्योमकर्णिकम् ॥ ६१ ॥
एवं व्याप्य परन्देवमनन्तादिद्शिवान्तकम् ।
इति निश्वासकारिकायां ज्ञानकाण्डे अनन्तशक्तिप्रकरणे अष्टत्तृंशत्पटलः ॥