ईश्वर उवाच
सृजते ईश्वरो भूत्वा संहरेच्च सदाशिवः ।
शिवन्तु स्थ्तिकर्तृत्वे शान्तेति परमं पदम् ॥ १ ॥
आत्मतत्वं भवेच्छ्रष्टा पद्मपत्रं स उच्यते ।
विद्या वै केसरं तस्य संहारं कर्णिकाह्यधः ॥ २ ॥
प्। ३२९)
कर्णिकायां शिवं तत्त्वं स्थितितत्वप्रकर्तृकः ।
एतत्त्रितत्वतत्त्वादिं कैलासकमलं विदुः ॥ ३ ॥
ओष्ठौ पद्मस्य पत्राणि दन्ताः केसरसञ्ज्ञिताः ।
जिह्वा वै कर्णिका प्रोक्ता शरीरन्नालमुच्यते ॥ ४ ॥
मुखमध्ये यदाकाशं तत्र देवो जगद्गुरुः ।
सगिका तालुमध्ये तु जिह्वा कैलासपिण्डिका ॥ ५ ॥
स्वयमाचरते यस्मादाचारं दर्शयेति च ।
उच्चिनोति च शास्त्राणि आचार्यस्तेन पठ्यते ॥ ६ ॥
अशब्ददेहोऽपि स शब्दकारी कृतस्य कर्मस्य च अन्तकारी ।
त्रैलोक्यमायापुरसूत्रधारी यस्तन्तु पश्येत्सतु सर्वकारी ॥ ७ ॥
प्। ३३०)
एवं कृत्वा तु देवेशे देवतानां निवेशनम् ।
मुखमन्त्ये पि * न्त्येन करोत्यनुग्रहेच्छया ॥ ८ ॥
वाचयानुग्रहेद्देवि कथितन्तु वरानने ।
इति वाचनुग्रहः * * * * * * * * * ॥ ९ ॥
देव्युवाच
सूत्रन्नाम महादेव आलोकपदवाचकम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ १० ॥
ईश्वरः
सूचनात्सूत्रमित्याहुः सूत्रन्नाम महत्पदम् ।
तेन सर्वमिदं प्रोक्तं सूत्रे गणिगणा इव ॥ ११ ॥
प्। ३३१)
अखण्डितन्तु विज्ञेयं खं व्यापी अजरं पदम् ।
तदिद्वलयसङ्काशं घटिकायां प्रकाशयेत् ॥ १२ ॥
हृत्पौण्डरीकमध्यस्थं सोमसूर्याग्निमध्यशम् ।
यः पश्येत्परमं सूक्ष्मं सुलेख्यं कर्तुमर्हसि ॥ १३ ॥
देव्युवाच
तत्त्वादेव गणाश्च सर्वे न्यासे व्यवस्थिताः ।
तेषां मन्त्रविवाहोऽयं कथयस्व प्रसादतः ॥ १४ ॥
ईश्वर उवाच
सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः ।
शिवात्मकेन मन्त्रेण शिवयागे तु पूजयेत् ॥ १५ ॥
प्। ३३२)
अप्राप्य शिवसद्भावंः पठन्तोऽपि हि संहिताम् ।
अज्ञात्वा कुरुते दीक्षां शिष्याचार्यौ व्रजत्यधः ॥ १६ ॥
तस्मान्न समानवसोः शिष्यत्वेनोपतिष्ठति ।
नचाभ्युभयोः पत्यनुग्रहोऽयं प्रवर्तते ॥ १७ ॥
विभुरेकः परः पश्येच्छिष्याचार्यौ प्रवर्तते ।
अविदित्वा स्वयं सम्यक् क्रियां यः कुरुते भिषक् ॥ १८ ॥
आतुरो दुःखमाप्नोति वैद्योऽपि न फलं भवेत् ।
ज्ञानविज्ञानकुशलः सर्वावस्थां गतोऽपि यः ॥ १९ ॥
स मोचयति पापेभ्यो ज्ञाननिर्धूतकिल्बिषः ।
सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरुच्यते ॥ २० ॥
प्। ३३३)
दीक्षावित्तु विधानज्ञः पाशजालप्रदाहकः ।
शिवभक्तो महाभक्तिः भक्तिभावेन देशिकः ॥ २१ ॥
उभयोरन्तरं नास्ति देशिकस्य शिवस्य च ।
स चैवाङ्कारबिन्दुश्च स नादो लयनिष्कलः ॥ २२ ॥
तस्मिन् सर्वाणि विद्यन्ते स चैव च परश्शिवः ।
सर्वविद्यासुसम्पूर्णः सर्वविद्यार्थकोविदः ॥ २३ ॥
आचार्यस्य च मन्त्रस्य शिवज्ञानशिवस्य च ।
नानात्वं नैव कुर्वन्ति अनन्तेशादयः शिवाः ॥ २४ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे वाचानुग्रहवक्त्र पद्मप्रकरणे सप्ततृंशत् पटलः ॥