३६

देव्युवाच

चक्षुषा वाचया स्पर्शां मनसा उदकेन वा ।
धारणा ध्यानयोगेन करोत्यनुग्रहेच्छया ॥ १ ॥

एतद्देव महद्गुह्यं कथितन्तु त्वया विभो ।
एतेषां तु अविभागोऽयं यत्त्वया हृदि गोपितम् ॥ २ ॥

तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।

ईश्वरः

एतेषां कथयिष्यामि एकैकस्य विभागशः ॥ ३ ॥

ज्ञातव्यं देशिकेनैव दीक्षाकाले समासतः ।
पद्मानि च यथा लोके आदित्यः सम्प्रबोधयेत् ॥ ४ ॥

प्। २१९)

एवं संस्कार्य पद्मानि प्रसन्नो बोधयेच्छिवः ।
दूरस्थोऽपि समीपस्थः पिण्डस्थः पिण्डवर्जितः ॥ ५ ॥

मलिनो निर्मलश्चैव तिष्ठत्येको ह्यनेकशः ।
सूक्ष्मात्सूक्ष्मतरो नित्यं दूराद्दूरतरो विभुः ॥ ६ ॥

सन्निकृष्टे तमो देहो व्यापी न प्रभुरव्ययः ।
तत्त्वानि देवताश्चैव विभागेन यथा स्थिताः ॥ ७ ॥

ऐश्वर्यं ज्ञानतुष्टिञ्च धर्मान्या दैवतैस्सह ।
तेषां स्थानविभागञ्च स्वशरीरे यथाक्रमम् ॥ ८ ॥

ज्ञात्वा सर्वं विशेषेण सर्वपाशक्षयो भवेत् ।
देहपद्मं प्रवक्ष्यामि व्योमपद्मं विशेषतः ॥ ९ ॥

प्। ३२०)

वासवाष्टदलोपेतं रुद्रैकादश केसरम् ।
आदित्याः कर्णिका ज्ञेयाः पुष्करे द्वादश स्मृताः ॥ १० ॥

भव हे भावना यस्य सर्वदेवमये पुरे ।
तस्याहं भावितो देवि शेषा ये भ्रामिता जनाः ॥ ११ ॥

कदलीपुष्पसङ्काशं हृदयं सर्वदेहिनाम् ।
तस्य मध्ये स्थितं पद्ममष्टपत्रं सकर्णिकम् ॥ १२ ॥

वितस्तिमात्रहृदयं कमलं चतुरङ्गुलम् ।
अष्टाङ्गुलप्रमाणन्तु नाभेरूर्ध्वं व्यवस्थितम् ॥ १३ ॥

पद्मनालं नवद्वारं समन्तात्कामनान्वितम् ।
अङ्गुष्ठपर्वतुल्यन्तु कर्णिका वै स केसरा ॥ १४ ॥

प्। ३२१)

कर्णिकायां भवेत्सूर्यः तस्य मध्ये तु चन्द्रमाः ।
चन्द्रमध्ये भवेद्वह्निः वह्निमध्ये महेश्वरः ॥ १५ ॥

सदाशिवो महेशस्य तस्यापि परतश्शिवः ।
सर्वेषां सम्प्रवक्ष्यामि प्रमाणं शिवनिर्मितम् ॥ १६ ॥

किञ्चिदूनतरं सूर्यं कुर्यात्सोमं तथैव च ।
सोमादूनं विजानीयात् वह्निमण्डलमुत्तमम् ॥ १७ ॥

विधूमनिर्मलं दिव्यमादित्योदसन्निभम् ।
भूता सुमात्रमीशानं ज्वलत्कटकसन्निभम् ॥ १८ ॥

दशार्धास्य परं दिव्यं शुद्धस्फटिकनिर्मलम् ।
सदाशिवं महात्मानं तस्याप्यूर्ध्वं परापरम् ॥ १९ ॥

प्। ३२२)

सितं सुनिर्मलं दिव्यमग्राह्यं परमं शिवम् ।
देहनालं समाख्यातं ब्रह्मपत्रमयं विदुः ॥ २० ॥

कर्णिकायां स्थितो विष्णुः ग्रन्थिर्माया प्रकीर्तिता ।
अव्यक्तदक्षिणे पत्रे बुद्धिञ्चैव तु नैर्-ऋते ॥ २१ ॥

पश्चिमेन अहङ्कारं शब्दतन्मात्रं वायवे ।
उत्तरे तन्मात्रमीशान्यां रसनं तथा ॥ २२ ॥

रूपग्राही तु पूर्वेण घ्राणमग्निदले स्थितम् ।
पत्रान्तेषु महाभूताः केसराणि तु इन्द्रियाः ॥ २३ ॥

तन्मात्र इन्द्रियाणाञ्च मनस्सर्वत्र तिष्ठति ।
योऽसौ हृद्युपरोधी तु तामसो निद्ररूपिणः ॥ २४ ॥

प्। ३२३)

अधस्तात् कर्णिकाया तु तस्य देहो प्रतिष्ठितः ।
अन्ते तु कर्णिका चेता भावैश्च सह संयुताः ॥ २५ ॥

स शिवः सर्वदेहेषु कर्णिकोपरि संस्थितः ।
पद्मनाले स्थिता देवाः कण्टकेष्वधस्थिताः ॥ २६ ॥

गणाश्च विविधाः पत्रे दैत्याश्चैवाऽथ रोमसु ।
ग्रहनक्षत्रताराश्च यक्षराक्षसपन्नगाः ॥ २७ ॥

भगिन्यो मातरश्चैव नालमूले व्यवस्थिताः ।
सर्वदेवमयं पद्मं यो भित्वा ज्ञानसूचिभिः ॥ २८ ॥

पश्यते विमलात्मानं प्रत्यक्षं देहमध्यतः ।
जाग्रतश्चास्य सर्वस्य आचार्यः प्रभुरुच्यते ॥ २९ ॥

प्। ३२४)

तेन तुष्टेन तुष्टास्तु अशेषभुवनाधिपाः ।
दीक्षकस्तु गुरुश्रेष्ठश्शिवतत्वस्य पारगः ॥ ३० ॥

अन्यथा न गुरुर्ज्ञेयः न च दीक्षा न मुक्तिदा ।
मन्त्रमूर्तिस्मृताचार्यो मन्त्रमूर्तिपरश्शिवः ॥ ३१ ॥

मन्त्रास्तदात्मका ज्ञेयाः शिवो ज्ञेयस्तदात्मकः ।
तस्मात्सर्वेषु भूतेषु अनुग्रहं सम्प्रवर्तते ॥ ३२ ॥

इच्छा भगवतश्चैषा तान्यथा तु विचिन्तयेत् ।
शिवो देशिकदेहस्थः प्राण्यनुग्राहकारकः ॥ ३३ ॥

ददाति विविधां सिद्धिं मोक्षञ्च नयते पशुम् ।
यत्तच्छान्तं परं तत्त्वं कारणं कारणाधिपम् ॥ ३४ ॥

प्। ३२५)

शिवविद्यात्मतत्त्वानि तत्स्थो भूत्वा प्रकाशयेत् ।
अणिमादिगुणां सिद्धिं शिवं परमकारणम् ॥ ३५ ॥

प्रकाशयति तत्रस्थो यथा भूतं यथा स्थितम् ।

देव्युवाच

त्रितत्त्वस्य तु यद्भूतम् अक्षराद्विदितं यथा ॥ ३६ ॥

कथं लोकेह्यविज्ञानं सर्वसत्वे तथा वद ।
यो यथाऽवस्थितोह्यर्थो गुणदोषस्वभावतः ॥ ३७ ॥

यावत्फलञ्च पुण्यञ्च तत्सर्वं विदितं प्रभो ।
कथं लोके ह्यविज्ञातं सर्वज्ञत्वे तथा वद ॥ ३८ ॥

ईश्वरः

प्। ३२६)

मध्यस्थन्तु यदा ज्ञातं तत्त्वज्ञानं सुनिर्मलम् ।
सर्वज्ञत्वं तदा तस्य सर्वोपायो विभावितम् ॥ ३९ ॥

क्रोधाभिधानमात्सर्यकाममोहार्थलुब्धता ।
पैशुन्यमनृतद्रौप्यं वयोऽतीतेष्वपि नृषु ॥ ४० ॥

दम्भक्रौर्यास्थिरत्वञ्च साध्यं कुटिलचिन्तिता ।
एभिरेवावृतो लोकस्तेन देवं न विन्दति ॥ ४१ ॥

एतत्पदविधिं कृत्वा आचार्यस्सुसमाश्रितः ।
दीक्षयेत्सर्वजन्तूनि ध्यानेनानेन सुवृते ॥ ४२ ॥

एतद्ध्यानविधिः ख्यातो मानसं प्रोच्यतेऽधुना ।
एकेन्द्रिये तु ते सर्वे विधिमेतन्नियोजयेत् ॥ ४३ ॥

प्। ३२७)

एकेन्द्रियप्रमाणेन प्रवृत्तास्सर्वचेन्द्रियः ।
एकेन सर्वभूतास्तु तत्वाश्चैव वरानने ॥ ४४ ॥

प्रवृत्तिस्सर्वकार्येषु अनादिश्च न संशयः ।
मनसा गृह्यते देवि युज्यते मनसा पशुः ॥ ४५ ॥

एकेन्द्रियप्रमाणैस्तु मनस्सर्वेषु सुन्दरि ।
मनसा गृह्यते यस्मात् तस्मादेवान्मनात्मकः ॥ ४६ ॥

तत्स्थानं मनसा सर्वं तन्मनो बुद्धिसंयुतम् ।
सर्वैः करणयोगैश्च उपलब्धुं महेश्वरे ॥ ४७ ॥

आत्मविद्याशिवञ्चैव सृष्टिसंहारकल्पना ।
एवं तत्वानि विन्यस्य शिवाह्युपरि विन्यसेत् ॥ ४८ ॥

प्। ३२८)

एवन्तु मनसा ध्यात्वा कर्तव्यानुगृहेच्छया ।
मानसं विधिमेकन्तु कथितन्तु समासतः ॥ ४९ ॥

इति निश्वासकारिकायां ज्ञानकाण्डे संस्कारोपन्यासमानसानुग्रहविधिः षट्त्रिंशत् पटलः ॥