देव्युवाच
शब्दात् सर्वमिदं जातं यत्त्वयोक्तं महेश्वरी ।
वर्णतत्वसमूहन्तु ज्ञातं मे त्वत्प्रसादतः ॥ १ ॥
शब्दे शब्दे समुत्पत्तिः देवान्यानां महेश्वर ।
योगं ध्यानञ्च देवेश विद्येशानां तथैव च ॥ २ ॥
अणिमाद्यष्टकानाञ्च कथयाद्य प्रसादतः ।
प्। ३०२)
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ॥ ३ ॥
तदहं सम्प्रवक्ष्यामि साधकानां हितावहम् ।
न मया कस्यचित् ख्यातम् इदं यो वरं महत् ॥ ४ ॥
ऋषिभिर्दैवतैर्देवि नैव पृष्टं कथञ्चन ।
शब्दमात्रेण ते तुष्टा नाहं पृष्टस्तु शोभने ॥ ५ ॥
शब्दे शब्दे यथा सृष्टिः यो नियोगादि सम्भवः ।
विद्येशानां प्रवक्ष्यामि अणिमात्तारमं भवोः ॥ ६ ॥
घोषशब्दस्तु यः प्रोक्तो वर्णोच्चारविवर्जितः ।
करणेन तु सम्प्राप्तिः तस्य सृष्टिं वदाम्यहम् ॥ ७ ॥
प्। ३०३)
तस्मात्प्रकृतिरुत्पन्ना सा माया कथिता तव ।
वाचकस्तत्र मन्त्रोऽयम् ऊकारः परिकीर्तितः ॥ ८ ॥
विद्येशप्रथमोऽनन्तः तस्मिस्तत्वे प्रकीर्तितः ।
योगिनामकृतञ्चैव पैशाचं योनिषु स्मृतम् ॥ ९ ॥
करणेन तु सम्प्राप्तं * * * * * * * * ।
अणिमा तु तथैश्वर्यं तथा तुष्टिः प्रकीर्तिता ॥ १० ॥
तारज्ञानं समाख्यातं शिशब्दः परमस्मृतः ।
प्रथमे शब्दतत्त्वे तु सृष्टिरेषा प्रकीर्तिता ॥ ११ ॥
रावश्शब्दस्समाख्यातं तत्त्वया विदितं पुरा ।
तस्मिन् पुरुषजातो हि तन्मया कथितं तव ॥ १२ ॥
प्। ३०४)
वाचकस्तत्र मन्त्रोऽयं यकारः परिकीर्तितः ।
सूक्ष्मो विद्येश्वरः प्रोक्तो योगिनान्तु कृतस्मृतः ॥ १३ ॥
योनिनां राक्षसः प्रोक्तः ऐश्वर्यंलयमा स्मृता ।
सलिलसृष्टिरित्युक्ता सुता राज्ञा न कीर्तिता ॥ १४ ॥
द्वितीये शब्दतत्त्वे तु सृष्टिरेषा प्रकीर्तिता ।
तृतीये सम्प्रवक्ष्यामि शृणुष्वैकमना मम ॥ १५ ॥
स्वनान्नियतिरुत्पन्ना माया पूर्वमुदाहृता ।
वाचकस्तु वरारोहे विद्येशानां शिवोत्तमः ॥ १६ ॥
योगिनां वैभवं प्रोक्तं यक्षाः योनिः प्रकीर्तिता ।
ऐश्वर्यं महिमा तेषां मोघा तुष्टिस्तथैव च ॥ १७ ॥
प्। ३०५)
तारायां तत्स्मृतं ज्ञानं तृतीयं कथितं तव ।
चतुर्थं सम्प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १८ ॥
शब्दः पूर्वं मया ख्यातः पृच्छितस्ते शुभानने ।
तस्मात्कालः समुत्पन्नो दुर्जयः सर्वयोगिनाम् ॥ १९ ॥
लकारे वाचकस्तेऽस्य शब्दतत्त्वस्य कीर्तितः ।
विद्येश एकनेत्रस्तु तस्मिंस्तु कथितस्तव ॥ २० ॥
योगिनां ब्रह्मा इत्युक्तो योनौ गन्धर्व उच्यते ।
प्राप्तिरैश्वर्य देवेशि चतुर्थे कथितं तव ॥ २१ ॥
तुष्टिवृष्टिः समाख्याता मयां चैव वरानने ।
प्रमोदो ज्ञानमाख्यातं चतुर्थे कथितं तव ॥ २२ ॥
प्। ३०६)
पञ्चमं सम्प्रवक्ष्यामि शृणुष्वायतलोचने ।
स्फोटश्शब्दपरश्रेष्ठो मायातत्वस्य सम्भवः ॥ २३ ॥
स्वशब्दो मोहयत्येषां वादजल्पवितण्डकैः ।
परं भावमजानन्तो शब्दवादेन मोहिताः ॥ २४ ॥
मकारो वाचकस्तस्य शब्दतत्त्वस्य कीर्तितः ।
विद्येश एकदृष्टिस्तु तव देवि उदाहृतः ।
योगिनां वैष्णवं तत्र पञ्चमं परिकीर्तितम् ॥ २६ ॥
ऐन्द्रं योनिस्समुद्दिष्टा ऐश्वर्यं शृणु साम्प्रतम् ।
प्राकाम्य इति विख्यातः सुतरा तुष्टिरुच्यते ॥ २७ ॥
प्। ३०७)
ज्ञानं प्रमुदितः प्रोक्तश्शिवेन परमात्मना ।
पञ्चमं ते समाख्यातमनुपूर्वं यथाक्रमम् ॥ २८ ॥
षष्ठं ते सम्प्रवक्ष्यामि कथ्यमानं मया शृणु ।
ध्वनिः पूर्वं मया ख्यातो यस्मिन् विद्यासमुद्भवः ॥ २९ ॥
क्षकारो वाचकस्तस्य शब्दतत्त्वस्य कीर्तितः ।
विद्येशानां त्रिमूर्तिस्तु कथितश्चानु पूर्वशः ॥ ३० ॥
कौमारं योगिनां प्रोक्तं योनौ सौम्यं प्रकीर्तितम् ।
ईशित्वञ्च समाख्यातं गुणानां सुरसुन्दरि ॥ ३१ ॥
सुतारा तुष्टिरित्युक्ता मोदो ज्ञानं प्रकीर्तितम् ।
एतत्ते कथितं देवि षष्टं शब्दमनुत्तमम् ॥ ३२ ॥
प्। ३०८)
सप्तमं सम्प्रवक्ष्यामि शब्दं परमदुर्लभम् ।
झङ्कारेति समाख्यातः त्वस्मिन्नीश समुद्भवः ॥ ३३ ॥
वाचकस्तस्य तत्त्वस्य रकारं मन्त्रमुत्तमम् ।
विद्येशात्तु श्रीकण्ठो योगिनामौमकीर्तितम् ॥ ३४ ॥
योन्याञ्चैव प्रजेशस्तु कथितस्तव शोभने ।
ऐश्वर्यञ्च पुनस्तस्मिन् शिवत्वं तत्प्रकीर्तितम् ॥ ३५ ॥
सुनेत्रात्तुष्टिराख्याता ज्ञानं रम्यकमुच्यते ।
एतत्ते तु समाख्यातं सप्तमं शब्दमुत्तमम् ॥ ३६ ॥
अष्टमं सम्प्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
ध्वङ्कृतन्ते समाख्यातं यस्मात्तत्वं सदाशिवम् ॥ ३७ ॥
प्। ३०९)
वाचकस्तस्य तत्त्वस्य हकारः परिकीर्तितः ।
विद्येशानां शिखण्डीशो योगी श्रीकण्ठ उच्यते ॥ ३८ ॥
योनिब्रह्मा समुद्दिष्टो अष्टमः परिकीर्तितः ।
ऐश्वर्यं तत्र देवेशि सर्वकामावसाधिता ॥ ३९ ॥
सुमारी तुष्टिरित्येवं तस्मिन् तत्वे न संशयः ।
ज्ञानं तत्र समाख्यातं सदा प्रमुदितं मया ॥ ४० ॥
अष्टमं ते मया ख्यातं शब्दः परमकारणम् ।
ज्ञानेन मुच्यते जन्तुः अशेषपशुबन्धनात् ॥ ४१ ॥
नवमीया भवेत्तुष्टिः बिन्दुदेव उदाहृतः ।
बिन्दुश्चतुष्कलश्चैव शान्त्यतीतश्च सुव्रते ॥ ४२ ॥
प्। ३१०)
शक्तिः चतुष्कलश्चैव नवधा तु यथा भवेत् ।
तथा ते कथयिष्यामि गुह्याद्गुह्यतरं महत् ॥ ४३ ॥
अष्टाष्टौ ये मया प्रोक्ता भेदास्तु तव सुवृते ।
तेषान्तु यजनं वक्ष्ये यथावत्तन्निबोध मे ॥ ४९ ॥
पूर्वोक्तभूप्रदेशे तु केशकीटास्थिवर्जिते ।
तत्र पद्मं समालिख्य अष्टपत्रं सकर्णिकम् ॥ ४५ ॥
कर्णिकायां यजेद्देवं शिवं परमकारणम् ।
अनन्तः पूर्वमेवोक्तः पद्मशक्तिं तथा पुरा ॥ ४६ ॥
धर्माद्यान् गात्रकांश्चैव विन्यसेत्तु यथाक्रमम् ।
हृत्पद्मे तु यथा प्रोक्तं न्यासं मन्त्रञ्च तादृशम् ॥ ४७ ॥
प्। ३११)
प्रकृतिं पूर्वपत्रे तु आग्ने येनं तमेव च ।
अकृतं दक्षिणे चैव पैशाचं नैर्-ऋतेन तु ॥ ४८ ॥
अणिमां पश्चिमेनैव वायव्यामम्भसि न्यसेत् ।
उत्तरेण तु विन्यस्य ताराज्ञानं समाहितः ॥ ४९ ॥
बिन्दुदेवं महादेवि ईशान्यां परिकल्पयेत् ।
मध्ये घोषन्तु विन्यस्य इदं कुर्यात्ततः पुनः ॥ ५० ॥
ह्रस्वदीर्घप्लुतेनैव उकारेण तु शोभने ।
त्रितत्त्वं कारयेत्तत्र घोषमार्गं यथाक्रमम् ॥ ५१ ॥
ह्रस्वञ्चैवात्मतत्त्वन्तु दीर्घं विद्या प्रकीर्तितम् ।
प्लुतेन तु सदा कुर्यात् शिवतत्त्वन्तु सर्वतः ॥ ५२ ॥
प्। ३१२)
एवं त्रितत्त्वविन्यासं स्वशब्दे अक्षरत्रये ।
कर्तव्यं देवदेवेशि सर्वेषामनुपूर्वशः ॥ ५३ ॥
ईकारादिसमारभ्य आकारान्ते च ये स्थिताः ।
ये वर्णा देवता प्रोक्ताः पूर्वादारभ्य सुन्दरि ॥ ५४ ॥
सर्वेषां वाचकस्ते वै यावत्सर्वं समाप्यते ।
सकलं भौमकर्मेषु सर्वेषां परिकल्पयेत् ॥ ५५ ॥
पञ्चाशच्चैवमप्युक्तां पूर्वादारभ्य होमयेत् ।
शब्दे शतन्तु होतव्यं त्रितत्वे त्रिशतं हुनेत् ॥ ५६ ॥
पूर्णाहुतिस्तु दातव्या घोषमाकर्ण्य सुवृते ।
ध्यायेच्छब्दमयं देवं सिद्धिमोक्षार्थकाङ्क्षितः ॥ ५७ ॥
प्। ३१३)
पञ्चब्रह्मैर्विना देवि शिवाङ्गैश्च तथैव च ।
लोकपालैश्च विद्यैशैः अस्त्रेणैव तु सुवृते ॥ ५८ ॥
द्विविधेन तु यष्टव्यं योगमेतत्समासतः ।
सद्द्रव्ये द्रव्ययागन्तु निर्धने ध्यानमेव च ॥ ५९ ॥
मोचयेद्विविधेनापि आचार्यच्छिन्नसंशयः ।
द्वितीये निष्कलं तत्त्वं रावश्शब्दः प्रकीर्तितः ॥ ६० ॥
तृतीये शून्यतत्त्वन्तु स्वनश्शब्दः प्रकीर्तितः ।
एवमादिक्रमेणैव शब्दे तत्वं यथाक्रमम् ॥ ६१ ॥
न कुर्यादन्यथा देवि अस्तिनास्तीति कल्पना ।
आज्ञासिद्धि च देवेशि न किञ्चिदपि चिन्तयेत् ॥ ६२ ॥
प्। ३१४)
नयसूत्रे यथा प्रोक्ता रेखासिद्धिः शिवेन तु ।
प्रतिमासप्रयोगेन शब्दसिद्धिर्न संशयः ॥ ६३ ॥
नाऽनेन सदृशो योगः सर्वतन्त्रेषु सुवृते ।
नानेन सदृशी सिद्धिः त्रिषु लोकेषु विद्यते ॥ ६४ ॥
प्रत्ययो न परो देवि एभिस्तु सदृशो भवेत् ।
ज्ञातव्यं परमं किञ्चित् शब्दज्ञानं परं भवेत् ॥ ६५ ॥
अविकल्पञ्चतुर्थञ्च प्रत्यक्षं सर्वतः स्थितम् ।
बिन्दुःकला चतुष्कोणकलाशक्तिचतुष्टयम् ॥ ६६ ॥
एतद्यागपरं प्रोक्तं नादं कर्णिकया न्यसेत् ।
उत्क्षणी उकारस्तु शक्तिस्तु प्रथमा कला ॥ ६७ ॥
प्। ३१५)
एकारस्तु द्वितीया वै सूक्ष्मा सम्परिकीर्तिता ।
अमृता तु तृतीया वै इकारः परिकीर्तितः ॥ ६८ ॥
अमृतामृता चतुर्थन्तु ईकारः कथितस्तव ।
बिन्दुदेवकला या तु मया पूर्वमुदाहृता ॥ ६९ ॥
नादस्यापि मयाप्युक्तं बिन्दुयागे वरानने ।
प्रथमं बिन्दुदेवस्य कलां पूर्वेण विन्यसेत् ॥ ७० ॥
द्वितीयं दक्षिणेनैव तृतीयं पश्चिमेन तु ।
चतुर्थीम् उत्तरे चैव कला बिन्दोः प्रकीर्तिता ॥ ७१ ॥
उत्कर्षणी तु आग्नेय्यां सुसूक्ष्मान्नैर्-ऋतेन तु ।
अमृता नाम कला या तु वायव्येन तु विन्यसेत् ॥ ७२ ॥
प्। ३१६)
अमृता मृता तु ईशान्ये न्यसेच्छक्तिचतुष्टयम् ।
नादशाक्तसमायुक्तं कर्णिकायान्तु विन्यसेत् ॥ ७३ ॥
सोच्चामात्मतत्त्वन्तु कथितं तव सुवृते ।
ब्रह्माविष्णुस्तथा रुद्रः त्रयो वै वर्णतस्थिताः ॥ ७४ ॥
ईश्वरो नादशक्तिश्च ऊर्ध्वभागे व्यवस्थितः ।
तत्त्वेन विततास्सर्वे सर्वे तत्वा न संशयः ॥ ७५ ॥
द्विविधेन भवेद्दीक्षा ध्यानद्रव्ये न शोभने ।
शतं शतञ्च होमेन दीक्षा निर्वाणगामिनी ॥ ७६ ॥
पृथिव्यादीनि तत्वानि कथितानि मया पुरा ।
आनुपूर्वेण बोद्धव्यं शक्तिनादे स बिन्दुके ॥ ७७ ॥
प्। ३१७)
एष यागवरो देवि दुर्लभो ह्यकृतात्मनाम् ।
देवा अप्यस्य यागस्य ईहन्ते सुरसुन्दरि ॥ ७८ ॥
ना प्रसन्ने मयि देवि प्राप्यते विधिरीदृशी ।
ना शिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ७९ ॥
गुरुप्रियाय दान्ताय अभिषिक्ता यदा भवेत् ।
सर्वाध्वानविधिज्ञस्य दातव्या विधिरीदृशी ॥ ८० ॥
कुलशीलगुणोपेते शिष्याय प्रियवादिने ।
अन्यथा तु न दातव्यम् आज्ञैषा पारमेश्वरी ॥ ८१ ॥
इति निश्वासकारिकायां पञ्चतृंशत् पटलः ।