देवि
आचार्यः शिवतन्त्रन्तु शिवज्ञानं शिवस्य च ।
वेत्तिसर्वमशेषेण लोकहेतु विवर्जितः ॥ १ ॥
विरक्तो लौकिके शास्त्रे शिवज्ञानैक रागवान् ।
तेषाञ्च उत्तरं वाच्यं येनोपायेन ईश्वरम् ॥ २ ॥
तदहं श्रोतुमिच्छामि त्वत्प्रसादान्महेश्वर ।
ईश्वर उवाच
यो ब्रूयात् कश्चित् कश्शब्दो विनाशित्वेन पठ्यते ॥ ३ ॥
प्। २८७)
इतस्तस्य पुनर्ब्रूयात् तच्छृणुष्व वरानने ।
त्रिगुणः पुद्गलो वायुराकाशस्याथ वा गुणः ॥ ४ ॥
वर्णादन्योऽथ नादन्ते बिन्दुरूपेशवाचकः ।
पदवाक्यात्मकस्फोटः प्रणम्य विनिवर्तते ॥ ५ ॥
पदानां संहिता पूर्वमित्याचार्यः प्रभाषते ।
वाक्यं पदाश्रयं सर्वं पदं वर्णाश्रयं स्मृतम् ॥ ६ ॥
वर्णावागाश्रयास्सर्वे वाक् च प्राणसमाश्रया ।
प्राणो हि भगवान् वायुराकाशाश्रय उच्यते ॥ ७ ॥
शब्दतन्मात्रमाश्रित्य संस्थितो भूतयोनिषु ।
भूतादिस्तु महाश्चैव स चैवापरमाश्रितः ॥ ८ ॥
प्। २८८)
अन्तर्यागादितो देवि * * तस्मात्सदात्मकः ।
तस्मादपि परो देवः सर्वकारणकारणः ॥ ९ ॥
परतस्तस्य यो देव निस्सन्दिग्धः परश्शिवः ।
तदाधारमिदं सर्वं परोऽयं परमो मतः ॥ १० ॥
न वाक् प्रवर्तते चैव न मनो याति तत्वतः ।
यत्राऽसौ परमो देवः सर्वकारणकारणः ॥ ११ ॥
आराध्यस्साध्यते येन स शब्दस्तु समासतः ।
शब्देन साध्यते देवो शब्दो नास्ति तु देवता ॥ १२ ॥
अव्यक्ताच्छब्दस्योत्पत्तिः शब्दस्तस्य प्रकाशकः ।
त्रिविधोऽथ विनिर्मुक्तस्सूक्ष्मश्शब्दस्स उच्यते ॥ १३ ॥
प्। २८९)
अनैष्ठिकेन शब्देन बुद्धिर्मनविवर्जिते ।
तेन दिव्येन शब्देन नित्यं दृश्यमनामयम् ॥ १४ ॥
शब्दमात्रन्तु यत्सूक्ष्मं देहे देहव्यवस्थितम् ।
सर्वशब्दविशिष्टोऽसौ अनौपम्यमनामयम् ॥ १५ ॥
सूक्ष्मात्सूक्ष्मतरो देवो दिव्यश्शिव इति स्मृतः ।
श्रुतिमात्ररसाद्येषां प्रधानपुरुषेश्वरान् ॥ १६ ॥
न शब्देनात्र गृह्यन्ते न करेण न चक्षुषा ।
विना शब्देन यश्शब्द हुतभुङ्माषसन्निभः ॥ १७ ॥
हृदये सर्वदेहीनां वा विशुद्धः परश्शिवः ।
घोषोरावस्वनश्शब्दो स्फोटाख्यो ध्वनिरेव च ॥ १८ ॥
प्। २९०)
झङ्कारो हुङ्कृतिश्चैव शब्दमेवाष्टमम्बरम् ।
श्रवणाङ्गुष्ठसंयोगाद्यश्शब्दस्सम्प्रजायते ॥ १९ ॥
दीप्तवह्निशिखातुल्ये घोष इत्यभिधीयते ।
घोष्यते तु यश्शब्दः ईषन्मन्दो विभाव्यते ॥ २० ॥
भिन्नकांसरवो रूक्षो रवेति परिकीर्तितः ।
ततो वंशध्वनिस्सूक्ष्मो निवातवर्षोपमम् ॥ २१ ॥
सस्वनः परमस्सूक्ष्मो यत्तत्पदमनामयम् ।
चतुर्थन्तु महश्शब्दः सर्वशब्दभचारिणीम् ॥ २२ ॥
स्वशब्दस्साधयेत्सर्वं योगिनस्तु न संशयः ।
पञ्चमन्तु महश्शब्दं सर्वयोगिहितावहम् ॥ २३ ॥
प्। २९१)
मनोह्लास्सादकरं नॄणां स्फोट एवौषधस्मृतः ।
शब्दतत्वपरे लीनं शब्दान्तर्गतमानसः ॥ २४ ॥
परां सिद्धिमवाप्नोति स्फोटस्सर्वार्थसिद्धिदः ।
वंशध्वनिविनिर्मुक्तो यश्शब्दस्सम्प्रवर्तते ॥ २५ ॥
शाश्वतोऽनादिरव्यक्तस्सशब्दो ध्वनिलक्षणः ।
मृदुवीणास्वनश्शब्दः शान्तघण्टनिनादितः ॥ २६ ॥
कुसुमामोदमत्तानां षट्पदानामिव ध्वनिः ।
झङ्कारस्तु स्मृतः शब्दः समस्त परमेश्वरी ॥ २७ ॥
विद्युत्पुञ्जमिवाभातं घनं गभीरनिस्वनम् ।
सकलाकलसङ्घातं वज्रपातसुभैरवम् ॥ २८ ॥
प्। २९२)
ध्वङ्कृतेषु स्मृतश्शब्दः शब्दान्तलयमालयम् ।
स शिवश्शिवतत्वस्थो ध्वङ्कृतः प्रणवस्मृतः ॥ २९ ॥
अष्टौ शब्दाः परा देवि समाख्याता समासतः ।
सेवितव्याः प्रयत्नेन यदिच्छेत् सिद्धिमात्मनः ॥ ३० ॥
देवी
शब्दोऽर्थं बोधयेद्देव श्रोतुमिच्छामि तत्वतः ।
अनानात्त्वेन वर्तन्ते नानात्वेन महेश्वर ॥ ३१ ॥
ईश्वरः
शब्दार्थयोश्च सम्बन्धं कार्यकारणरूपकः ।
वाच्यवाचकरूपो वा ना सम्बन्धः प्रयुज्यते ॥ ३२ ॥
प्। २९३)
अन्यथा तु प्रयत्नोऽसौ सर्वस्यैव तु संशयः ।
स्वभावस्याविनाभावी नान्या नान्यतया मतः ॥ ३३ ॥
कार्यकारणभावश्च वस्तुनो यदि हेतुतः ।
अन्यार्थवाचकस्सो वै सर्वेषाञ्च तदा भवेत् ॥ ३४ ॥
अथ शब्दः प्रदीपः पूर्वशब्दस्ततश्च ? ।
विज्ञानमिवज्ञानं शब्दप्रकृष्टन्तुकन्तत् ॥ ३५ ॥
शब्दस्तु पाशयेद्धर्मो शमकामार्थसाधकः ॥ ३६ ॥
पशुशब्दात्परं ज्ञानं पतिरूपं विधीयते ।
शब्देन साध्यते ह्यर्थो ह्यर्थ एव तु शब्दतः ॥ ३७ ॥
प्। २९५)
शब्दार्थविस्मृतं ज्ञानम् अज्ञानन्तु निरर्थकम् ।
वाचा शब्दनिबन्धास्तु प्रभुः प्रभवतामिह ॥ ३८ ॥
अर्थग्रहणनिष्पतीः शब्दमाहुः स्वयम्भुवः ।
यो यस्यार्थस्य निष्पतीः भूतग्रामे चतुर्विधे ॥ ३९ ॥
स एव शब्दो विज्ञेयः कार्यार्थो येन सिध्यति ।
यदर्थहीनं लोकेऽस्मिन् वचनं सम्प्रवर्तते ॥ ४० ॥
अपशब्दस्तु तज्ज्ञेयं सर्वतः प्राकृतोऽपि वा ।
गमकाश्चैव शब्दास्तु ऋषिदैवतभाषिताः ॥ ४१ ॥
आगमाद्यपशब्दानि वर्णयन्ति विदुर्बुधाः ।
संस्कृतेनापि किं तेन मृदुना ललितेन च ॥ ४२ ॥
प्। २९६)
अविद्यारागवाक्येन संसारक्लेशहेतुना ।
यच्छृत्वा जायते पुण्यं पापादीनां परिक्षयः ॥ ४३ ॥
विनष्टमपि तद्वाक्यं विज्ञेयमति शोभनम् ।
पुत्रदारादि संसारः पुंसां सम्मूढचेतसाम् ॥ ४४ ॥
विदुषां शास्त्रसंसारः स योगाभ्यास विघ्नकृत् ।
देहे देहे यदा कत्वं विज्ञातत्वं चरेन्मुखात् ॥ ४५ ॥
तदा विमुच्यते जन्तुः अन्यथा न कदाचन ।
केचिद्वदन्ति पुरुषास्तदिदं सुमिथ्या ॥ ४६ ॥
देहे स्थितस्तु भगवान् परमात्मनेति ।
त्वं मांसकीटकफशोणितमूत्रमध्ये ॥ ४७ ॥
प्। २९७)
यद्दुर्लभं सुरमुनेऽपि कथं शरीरे ।
यद्दृश्यते गृहगृहेऽपि जगत्समस्ता ॥ ४८ ॥
ऽनादिकाभिमुदितो जगदेकभानुः ।
एवं परेण परमस्थितसूक्ष्मशक्त्या ॥ ४९ ॥
सङ्ग्रन्थितं जगति जन्तुषु मोहजालम् ।
देव्युवाच
अष्टौ शब्दाः पराः सूक्ष्माः के तत्वा वर्णकाश्च ये ॥ ५० ॥
देवता तत्र देवेश कथयस्व प्रसादतः ।
ईश्वरः
एतानि कथयिष्यामि सर्वतत्वेषु देवताः ॥ ५१ ॥
प्। २९८)
येन विज्ञातमात्रेण साधकस्सिद्धिमाप्नुयात् ।
न पाप्मनो वरारोहे ते वर्णास्ते च देवताः ॥ ५२ ॥
ते शब्दास्तानि तत्त्वानि बोद्धव्यानि वरानने ।
देवैस्तत्त्वैः समायुक्तो मे क्षरेण च सुन्दरि ॥ ५३ ॥
तदा सिद्धिमवाप्नोति देहपा देवि मुच्यते ।
शब्दे च देवतास्सर्वे ब्रह्माद्याश्च वरानने ॥ ५४ ॥
तस्मिन् लयङ्गता देवाः श्रीकण्ठाद्याश्च शोभने ।
देवाश्शब्दपरन्धाम शब्दात् वर्णा समुद्भवाः ॥ ५५ ॥
वर्णाद्यैः मन्त्रसम्भूति तस्मात् सर्वं प्रवर्तते ।
शब्दात् सर्वमिदं जातं त्रैलोक्यं स चराचरम् ॥ ५६ ॥
प्। २९९)
तस्माच्छब्दपरं देवि सेवितव्यं हि ते विधिः ।
शब्दध्यानपरो भूत्वा योऽभ्यसेत्सुसमाहितः ॥ ५७ ॥
तस्य ते कथिता सिद्धिः अशब्देनैव सिद्धया ।
प्रथमं यत् स्पृशेच्छब्दं प्राकृतं सिद्धिदायकम् ॥ ५८ ॥
तृतीयं यत्परं शब्दं पौरुषं सिद्धिदायकम् ।
तृतीयं यत्परं शब्दं नियतं सिद्धिदायकम् ॥ ५९ ॥
चतुर्थं शब्दतत्त्वन्तु कलातत्वं समासतः ।
तेन ध्यानेन देवेशे सर्वेषां फलभाक् भवेत् ॥ ६० ॥
पञ्चमं यत्स्मृतं शब्दं माया दुर्धरा परा ।
षष्ठं यच्छब्दतत्त्वन्तु विद्या नाम्ना तु सा स्मृता ॥ ६१ ॥
प्। ३००)
सा तु वागीश्वरी देवी तत्र जातो न जायते ।
सप्तमं यत्परं तत्वम् ईश्वरं तं प्रवक्ष्यते ॥ ६२ ॥
तत्र शब्दे यदालीनमीश्वरेण समो भवेत् ।
अष्टमं यत्परं शब्दमनौपम्यमनामयम् ॥ ६३ ॥
तत्र लीनो यदा योगी सादाख्यपदवाचकम् ।
नवमं यत्परं देवि सर्वशब्दमयं स्मृतम् ॥ ६४ ॥
तस्माच्छब्दाद्विनिष्क्रान्ता अधश्चोर्ध्वे च सुवृते ।
तेन ध्यानेन देवेशि सर्वेषां फलभाक् भवेत् ॥ ६५ ॥
सर्वे शब्दस्थितास्तस्मिन् बिन्दुदेवे महेश्वरी ।
तेन ते कथितो बिन्दुश्शब्दराशिमयस्ततः ॥ ६६ ॥
प्। ३०१)
दश पश्चात्परं देवि शब्दज्ञानविवर्जितम् ।
विज्ञप्तिमात्रं तत्रैव पारम्पर्येण संस्थितम् ॥ ६७ ॥
इति निश्वासकारिकायां चतुस्त्रिंशत्पटलः ॥ ६७ १।२ ॥