देव्युवाच
ज्ञात्वा ज्ञानं परं दिव्यं योगसद्भावमुत्तमम् ।
कृताञ्जलि पुटाभूत्वा देवी वचनमब्रवीत् ॥ १ ॥
देव्युवाच
तत्वविज्ञानयोगञ्च शक्तिनादन्तथैव च ।
बिन्दुदेवस्य विज्ञानमष्टभेदस्य शङ्कर ॥ २ ॥
प्। २५८)
योगसद्भावविज्ञानं ज्ञातं मे त्वत्प्रसादतः ।
न यत्र सूत्रे देवेश पतिसद्भावमुत्तमम् ॥ ३ ॥
एकस्मिन् कथितास्सर्वे विदितास्त्वत्प्रसादतः ।
पुनश्च श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ ४ ॥
प्रकृतिमादितः कृत्वा नाडीं वायु समन्विताम् ।
कथयस्व महेशान प्रश्नं गुह्यतरं प्रभो ॥ ५ ॥
ईश्वर उवाच
शृणु देवि परं गुह्यं योगसद्भावमुत्तमम् ।
सर्वसंहितसामान्यं कथयामि महाफलम् ॥ ६ ॥
प्रत्याहुस्तथा ध्यानं प्राणायामोऽथ धारणा ।
प्। २५९)
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ७ ॥
चित्तं चेता तथा चिन्ता पञ्चधा कथितं मया ।
योगस्य करणान्येते कथितानि मया तव ॥ ८ ॥
एवमुत्पद्यते योगो धारणा सुकृतश्रमः ।
देव्युवाच
ध्यानधारणचिन्ताभिः योगारम्भक्रियादिभिः ॥ ९ ॥
कालेन यदि सिध्येत भगवन् किं कृतं त्वया ।
यदात्मपीडारहितं विना क्लेशैरवाप्यते ॥ १० ॥
ज्ञानं कथय देवेश सद्यः फलविभूतिदम् ।
पुराणे साङ्ख्ययोगे च यादृशं कथितं प्रभो ॥ ११ ॥
प्। २६०)
अत्रापि तादृशं प्रोक्तं किं विशेषमुदाहृतम् ।
योगधारणसंयुक्ता वेदाद्याः परमेश्वर ॥ १२ ॥
महाज्ञानं विनैव किम्मत्र भवता कृतम् ।
अनाख्येयमनिर्देश्यं भगवन् कथितन्तु यत् ॥ १३ ॥
तन्मया विदितं देव गृहीतजीवितं दृढम् ।
प्रकृतिं पुरुषञ्चैव नियतिं कालमेव च ॥ १४ ॥
मायाविद्येशमीशञ्च सद्योगं कथयस्व मे ।
विना तु करणैर्देवो ध्यानधारणवर्जितः ॥ १५ ॥
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
ईश्वरः
प्। २६१)
अहं ते कथयिष्यामि योगसद्भावमुत्तमम् ॥ १६ ॥
यत् ज्ञात्वा तत्क्षणादेव कृतार्थो जायते नरः ।
येतदत्यन्तसुखदमशेषफलभूषितम् ॥ १७ ॥
देवतानामृषीणाञ्च ज्ञानञ्चैतत्प्रकाशितम् ।
यदेतदमृतं ब्रह्म जनस्सर्वोऽधिगच्छति ॥ १८ ॥
तदा विमुच्यते लोके शून्या च पृथिवी भवेत् ।
सर्वे धर्माः प्रलीयन्ते वेदयज्ञतपः क्रियाः ॥ १९ ॥
नश्यन्ति चाग्निहोत्राणि मर्यादाश्च पृथग्विधाः ।
यान्ति देवा अदेवत्वमध्या तप विवर्जिताः ॥ २० ॥
एतस्मात्कारणाद्देवि गोपितं कथितं मया ।
प्। २६२)
योगधर्मार्थ शास्त्राणि विस्तीर्णगहनानि च ॥ २१ ॥
दृष्टान्योन्यविरोधीनि तेषु निष्ठा न विद्यते ।
विदेहचक्रमारूढमेवं भ्राम्यति वै जगत् ॥ २२ ॥
परस्परविरोधेन वर्तन्ते सर्वयोगिनः ।
त्वया दुर्ललितेनाहं पृष्टो भक्त्या प्रचोदितः ॥ २३ ॥
ग्राहेणैव गृहीतोऽस्मि अवश्यं कथयामि ते ।
न ब्रह्मा न च वै विष्णुः उतान्ये सुरसत्तमाः ॥ २४ ॥
वक्तुमेवं विधं प्रश्नं त्वद्दृते तु वरानने ।
तस्माच्छृणुष्व सद्भावं निस्सन्दिग्धमविस्तरम् ॥ २५ ॥
दि लक्षणगुणावाप्तिं क्षणादायासवर्जिताः ।
प्। २६३)
सिद्धिदा मोक्षदा चैव तुष्टिदा पुष्टिवर्धना ॥ २६ ॥
ज्ञानदा प्रीतिदा चैव आयुरारोग्यदा तथा ।
घोषिणी पिङ्गला चैव वैद्युती बिन्दुमालिनी ॥ २७ ॥
चान्द्री मनोनुगा चैव सुकृता च तथा परा ।
सौम्या निरञ्जना चैव निरालम्बा च कथ्यते ॥ २८ ॥
नाड्यस्त्वेता विनिर्दिष्टा मरुतादितृलङ्कृता ।
पूर्वमात्मा तु मेधावी शिवेन परमेण तु ॥ २९ ॥
कृत्वा पूर्वमशेषन्तु पश्चाद्ध्यानं समारभेत् ।
एकाग्रमनसो भूत्वा जितक्रोधा जितेन्द्रियाः ॥ ३० ॥
चतुर्विंशति मे तत्वे मात्रा नाम्ना तु घोषिणी ।
प्। २६४)
द्वितीया पिङ्गला नाम्ना सा तत्वे पञ्चविंशके ॥ ३१ ॥
षड्विंशके समाश्रित्य संस्थिता वैद्युती सदा ।
सप्तविंशति मे तत्वे विज्ञेया बिन्दुमालिनी ॥ ३२ ॥
अष्टाविंशति मे तत्वे मात्रा तिष्ठति चन्द्रिणी ।
एकोनत्रिंशतितमे मात्रा तिष्ठेन्मनोनुगा ॥ ३३ ॥
ततस्त्रिंशति मे तत्वे तामाहुः सुकृतेति च ।
एकविंशत् समाश्रित्य सौम्या मात्रा व्यवस्थिताः ॥ ३४ ॥
द्वित्रिंशके समाश्रित्य स्थिता मात्रा निरञ्जना ।
त्रयस्त्रिंशे निरालम्बा तस्या लक्षं न विद्यते ॥ ३५ ॥
त्रयस्त्रिंशतिकः पुरुषे नवमात्रावलम्बकः ।
प्। २६५)
तेषु लक्षणदिन्यानि लक्षितव्या विपश्चितैः ॥ ३६ ॥
देव्युवाच
यान्येतानि च तत्वानि नवमात्राश्रयाणि तु ।
तेषामवाप्तिं गमयन् कथं सद्योपलभ्यते ॥ ३७ ॥
सामान्ययोगशास्त्रेषु अनेकाकारवागुरैः ।
सीदन्त्यायासबहुलैः मृगाः कूटेव संस्थिताः ॥ ३८ ॥
वायुरोधं विना देव ध्यानधारणवर्जितम् ।
सद्योपलब्धिसुखदं तन्मे ब्रूहि महेश्वर ॥ ३९ ॥
ईश्वरः
शृणुष्वावहिता देवि अश्राव्यमकृतात्मनाम् ।
प्। २६६)
यं प्राप्य सद्यश्शिवतां लभन्त्यायासवर्जिताः ॥ ४० ॥
यत्र तत्राश्रमरताः यत्र तत्र निवासिनः ।
लीयन्ते तु यथा लक्षे निमेषाध्ये तु ? ॥ ४१ ॥
स्रोत्रराद्धौ तथाङ्गुष्ठौ घ्राणमङ्गुलिभिस्तथा ।
ततोऽस्य सर्वतो व्यापी ध्वनिरूर्ध्वं विजृम्भते ॥ ४२ ॥
भुक्तं भुक्तं पचत्यग्निः शरीरेषु शरीरिणाम् ।
तस्य तेन प्रयोगेन शब्दमाहुरकृत्रिमम् ॥ ४३ ॥
चतुर्विंशति तत्वस्य स्रुत्वा पापैः प्रमुच्यते ।
तस्मात् षड्जादयस्सप्त स्वयम्भुरसृजत्पुरा ॥ ४४ ॥
यैरिदं सततं सर्वं सदेवासुरमानुषम् ।
प्। २६७)
सप्त स्वरास्तु सम्भूता ध्वनिमभ्यसतस्सदा ॥ ४५ ॥
ततोऽस्य मासमात्रेण * क पिण्डीकृतो नलः ।
रजस्तमं ततो भित्वा ज्योतिरन्ते प्रकाशते ॥ ४६ ॥
बाह्यतोऽपि यथा दृष्टं पश्यत्यन्ते तथैव सः ।
त्रिभिर्मासै स्वतन्त्रश्च शिवत्वं तस्य जायते ॥ ४७ ॥
एषा ते प्रथमा मात्रा कथिता देवि घोषिणी ।
लक्षेस्मिन् मनसा ज्ञानं नावज्ञां कर्तुमर्हसि ॥ ४८ ॥
एवं वै यो विजानाति स पापेन न लिप्यते ।
श्वपचेष्वपि भुञ्जानाः पद्मपत्रमिवाम्भसि ॥ ४९ ॥
इति ते कथिता देवि प्रथमा त्रातु घोषिणी ।
प्। २६८)
अतः परं प्रवक्ष्यामि लयमायासवर्जितम् ॥ ५० ॥
स्वदेहादुत्थितां सद्य शृणुमात्रान्तु पिङ्गलाम् ।
सूर्यातपे बहिस्थित्वा किञ्चित् भक्तिसमाश्रितः ॥ ५१ ॥
लक्षयेदात्मनो धूमं तालुं भित्वा विनिर्गतम् ।
यथा यथा तु चैतस्मिन् मनो लक्षे समादधे ॥ ५२ ॥
तथा तथाऽस्य महती वर्त्ति धूमस्य वर्द्धते ।
एवं मासप्रयोगेन मूध्निचारमपावृतम् ॥ ५३ ॥
तुर्यान्ते पिङ्गला मात्रं लयं तस्योपलक्षयेत् ।
देवयानपथं दृष्ट्वा पश्यतात्मानमात्मनि ॥ ५४ ॥
लोकालोकांश्च सकलान् सहाह्याभ्यन्तरे स्थितान् ।
प्। २६९)
धूमानुमार्गाञ्ज्योतींषि तां दृष्ट्वा न भृतं पदम् ॥ ५५ ॥
विमुक्तस्सर्वपापेभ्यो निर्द्वन्द्वं पदमाप्नुयात् ।
एवं ते पिङ्गलालक्षं मनसा परिलक्षितम् ॥ ५६ ॥
आत्मानं पश्यते तत्र शिवञ्चैव परापरम् ।
अनेन विधिना देव तेजसा परिसंवृतः ॥ ५७ ॥
सतताऽभ्यासयोगेन षण्मासेनैव सिध्यति ।
चिन्तितं मनसा सर्वं सम्पादयति लीलया ॥ ५८ ॥
देहपाते व्रजत्याशु शिवस्य परमं पदम् ।
पञ्चविंशति मे तत्वे लक्षमेतत्प्रकीर्तितम् ॥ ५९ ॥
कथितन्तु रहस्यन्तु मोक्षमार्गविशोधनम् ।
प्। २७०)
पञ्चविंशतिमं लक्षं कथितं तव शोभने ॥ ६० ॥
अथ षड्विंशके तत्वे वैद्युतीं शृणु सुवृते ।
योगारम्भं विनायामं लीलामार्गोपशोभितम् ॥ ६१ ॥
रात्रौ शयनकाले तु प्रविश्याभ्यन्तरं विना ।
विना दीपान्धकारे तु उद्वत्य नयने स तु ॥ ६२ ॥
ततस्तान् नेत्रजान् दीप्तिं तटद्वलयसन्निभाम् ।
सौदामिनीव चपलां दृष्ट्वा द्रष्टृ प्रणश्यति ॥ ६३ ॥
प्रयोगमेतत् सततं कृत्वा कृत्वा तु विश्रमेत् ।
स्थित्वा कालान्तरं किञ्चित् तान्येवाभ्यसतः पुनः ॥ ६४ ॥
यथा यथा तु चाभ्यासं कुरुते साधको निशि ।
प्। २७१)
तथा वर्धति तत्तेजस्तैलबिन्दुरिवाम्भसि ॥ ६५ ॥
पश्यतेऽन्यावृतं व्योम स्फुलिङ्गा इव काञ्चने ।
तानेव तु गृहान् विद्वान् पश्यते च न संशयः ॥ ६६ ॥
दशार्धमासयोगेन ज्योतिरन्ते प्रकाशते ।
दृष्ट्वा ज्वलनं सर्वत्र दिव्यं चक्षुःप्रवर्तते ॥ ६७ ॥
तत स्वतन्त्रतामेति विशते च परे शिवे ।
एतत्ते कथितं लक्षं सुषुम्नायां व्यवस्थितम् ॥ ६८ ॥
कथितं ते यथा न्यायं गूदं सङ्गोपितं मया ।
ततस्वच्छन्दतामेति शिवतत्वेन संशयः ॥ ६९ ॥
सप्तविंशति मे तत्वे या स्थिता बिन्दुमालिनी ।
प्। २७२)
तस्योपलब्धिं तस्यापि लक्षन्तु कथयामि ते ॥ ७० ॥
शुचिर्भूत्वा बहिर्ग्रामात् तरुच्छायां समाश्रितः ।
किञ्चिदुन्नम्य वक्त्रन्तु शुद्धमालोक्येन्नभः ॥ ७१ ॥
तस्मिन् स लाय चैतन्यं पश्यत्याकाशसातपम् ।
ज्योतिस्फटिकसङ्काशा निपतन्त्युत्पतन्ति च ॥ ७२ ॥
इडयास्तद्भवेद्रूपं देवानान्ते च विद्युषा ।
यथा यथा हि योगेन तस्मिन् लक्षं स सन्दधे ॥ ७३ ॥
तथा तथा दिशस्सर्वा बहिः पूर्णैरिवा वृताः ।
अनेकाकारवश्ये तु स बाह्याभ्यन्तरे स्थिताः ॥ ७४ ॥
दृष्ट्वाऽत्मना तदा योगी पुण्यपापैर्न लिप्यते ।
प्। २७३)
त्रैलोक्ये सर्वभूतानां सुभगः प्रियदर्शनः ॥ ७५ ॥
जायते नात्र सन्देहः ततो नामाधि गच्छति ।
एष ते कथिता मात्रा सौम्याख्या बिन्दुमालिनी ॥ ७६ ॥
मुच्यते सर्वरोगैश्च देहपाते शिवं व्रजेत् ।
सप्तविंशति मे तत्वे लक्षमायासवर्जितम् ॥ ७७ ॥
अष्टाविंशति मे तत्वे मात्रा नाम्ना तु चान्द्रिणी ।
योगारम्भं विनायासं मन्त्रोच्चारविवर्जितम् ॥ ७८ ॥
यत्र यत्र स्थितो देशे यत्र तत्राश्रमे रतः ।
पूर्वमध्या परा हेतुः अभ्यसेल्लक्षमुत्तमम् ॥ ७९ ॥
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।
प्। २७४)
वर्चसं स्फटिकाभन्तु लक्षयेत्परमाणवम् ॥ ८० ॥
किञ्चिदुन्नम्य वक्त्रन्तु निर्मले तु नभस्थले ।
एकैकाभ्यासयोगेन सिध्यते साधकेश्वरः ॥ ८१ ॥
वायव्याः कृष्णवर्णास्तु आद्ये शेषविनाशने ।
उच्चाटने यथोन्मत्ते योजयेद्योगवित्सदा ॥ ८२ ॥
एवमादीनि चान्यैस्तु ताडनं स्तम्भनादि च ।
आप्यायनञ्च पुष्टिश्च शान्तिकादि क्रमेण च ॥ ८३ ॥
कुरुते योगविच्छ्रीमान् एकैकाभ्यासयोगतः ।
प्रतिमासप्रयोगेन एभिः कर्माणि कारयेत् ॥ ८४ ॥
षण्मासा ध्यानयोगेन त्रैलोक्यं यत्प्रवर्तते ।
प्। २७५)
प्रत्यक्षं जायते तस्य सिध्यन्ते च शिवो भवेत् ॥ ८५ ॥
पञ्चमः सर्वकर्माणि कुरुते परमाणवः ।
पञ्चरूपधरं ह्येतत् पञ्चमं यत्प्रकीर्तितम् ॥ ८६ ॥
ध्यात्वात्मैवं विधं योगी सर्वकर्माणि कारयेत् ।
तेषां मध्ये पुनर्योगी पश्यते ऊर्मिसङ्कुलाम् ॥ ८७ ॥
वीचीतरङ्गकुटिलां विद्युद्रेखासमप्रभम् ।
सभोग भोगिसङ्काशामिन्द्रायुधसमप्रभाम् ॥ ८८ ॥
यथा यथा तु चैतन्यस्तस्मिन् लक्षे समादधे ।
तथा तथा तु सम्पश्य ऊर्मिरेवतिरन्तरम् ॥ ८९ ॥
एतां दृष्ट्वा तु योगीन्द्र पुण्यपापक्षयो भवेत् ।
प्। २७६)
सतताभ्यासयोगेन सिध्यते नात्र संशयः ॥ ९० ॥
द्वादशार्धार्धमासेन क्षुत्तृष्णा परिवर्जितः ।
दिव्यदृष्टितनुर्दिव्या जायते नात्र संशयः ॥ ९१ ॥
संवत्सरेण युक्तात्मा योगीन्द्रः सुसमाहितः ।
दूराच्छ्रवणविज्ञानं मनश्चावलोकनम् ॥ ९२ ॥
प्रत्यक्षं जायते तस्य त्रैलोक्यं यत्प्रवर्तते ।
अन्तर्धानो तथा कर्षो पादचारे तथैव च ॥ ९३ ॥
वायव्येन च कर्तव्यं के च वैहायसादयः ।
आग्नेयैः शोषणं कुर्यात् ताडनं मारणानि च ॥ ९४ ॥
स्तम्भनं मूकताञ्चैव पार्थिवेन तु कारयेत् ।
प्। २७७)
आप्यायनादितः कृत्वा वारुणेन तु कारयेत् ॥ ९५ ॥
पञ्चमं सर्वकार्येषु प्रयोज्यं योगिना सदा ।
अष्टाविंशति मात्रस्य लक्षह्येताः प्रकीर्तिताः ॥ ९६ ॥
एकोनत्रिंशके तत्वे मात्रा तत्र मनोनुगा ।
लक्षितव्या प्रयत्नेन यदिच्छेत्सिद्धिमात्मनः ॥ ९७ ॥
एकान्ते विजने गत्वा दिव्ये चाक्ष्णौ निमीलयेत् ।
आत्मा तु काञ्चनच्छाया अक्ष्णी आवृत्य तिष्ठति ॥ ९८ ॥
तस्मिन् सन्धाय चैतन्यं निनादस्सम्प्रविश्यति ।
सितरक्तपीतकृष्णमिन्द्रायुधसमप्रभम् ॥ ९९ ॥
अन्योन्यवेधिनां वर्णा दृष्ट्वा दृष्ट्वा पुनः पुनः ।
प्। २७८)
लक्षयीत पुनस्तान्तु राजिकापरिवर्त्तुलाम् ॥ १०० ॥
छायामध्ये तु लक्ष्यन्ते चित्रास्सर्वगताश्शुभाः ।
सर्वदेवमयो देवि देवानाञ्च पृथक् पृथक् ॥ १०१ ॥
तानि रूपाणि पश्यन्ते बिन्दुरूपाणि सुन्दरी ।
तयोर्योगी दिवारात्रौ नान्यं पश्यति चक्षुषा ॥ १०२ ॥
मासेनाल्पपुरीषत्यं क्षुत्तृष्णापरिवर्जितः ।
सुगन्धास्य तनुर्दिव्या जायते तृप्तिरेव च ॥ १०३ ॥
मासद्वयानुबन्धेन दिव्यचक्षुः प्रजायते ।
नश्यन्ति पुण्यपापानि तमः सूर्योदये यथा ॥ १०४ ॥
सतताभ्यासयोगेन त्रिभिः मासैर्न संशयः ।
प्। २७९)
एकोनत्रिंशके तत्वे तुल्यमेतद्वरानने ॥ १०५ ॥
नाडी वै सुकृता नानामा महापातकनाशिनी ।
तस्य लक्षमिदं देवि शृणु एकमना मम ॥ १०६ ॥
अप्रयोगमनायास मात्रा बिन्दुविनाकृतिः ।
कण्ठताल्वोष्ठरहितं मन्त्रोच्चारविवर्जितम् ॥ १०७ ॥
सुनिष्णातो नरस्तस्मिन् अमृतत्वाय कल्पते ।
अप्रयोगमनारम्भमनायासोपलक्षितम् ॥ १०८ ॥
येन सर्वमिदं पूर्णमाकाशं सर्वगेन तु ।
तस्य यत्नात् शृणु देवि आकाशे मनसं दधेत् ॥ १०९ ॥
यत्र तत्र स्थितो वाऽपि शुचिवाप्यथवाऽशुचिः ।
प्। २८०)
चित्तं श्रोत्र समाधाय बाह्यशब्दविवर्जितम् ॥ ११० ॥
निवाते स्वल्पवाते वा घण्टानामिव ताडिता ।
यवनिकाऽकर्णयेद्देवि पुण्यपापक्षयङ्करीम् ॥ १११ ॥
कांसस्य सुविशुद्धस्य सुप्रभारहितस्य च ।
सदृशं शब्द आकर्ण्य अमृतत्त्वाय कल्पते ॥ ११२ ॥
तेन सर्वमिदं पूर्णम् आकाशं सर्वगेन तु ।
तस्याभ्यासेन सततं चिद्रा पश्यति मेदिनीम् ॥ ११३ ॥
मासार्धं येन योगीन्द्रो व्याधिभिश्च न पीड्यते ।
प्राप्नोति सुभगत्वञ्च देहपाते शिवं व्रजेत् ॥ ११४ ॥
आदितस्त्र्यक्षरो योऽसौ त्रिविधो यः प्रकीर्तितः ।
प्। २८१)
शिवस्य वै स विज्ञेयः सामान्यत्वात्प्रकाशकः ॥ ११५ ॥
द्वितीयः प्रणवो देवि हंसाकारसमन्वितः ।
बिन्दुना सहितेनैव रुद्राकारः प्रकीर्तितः ॥ ११६ ॥
अकामाद्याः प्रवर्तन्ते व्यापकत्वोपलक्षिताः ।
स्वच्छन्दवृत्तिः सूक्ष्मोऽयं निधानोङ्कार उच्यते ॥ ११७ ॥
हकारा उकारसंयुक्तमोङ्कारेण समन्वितः ।
बिन्दुना सहितो देवि तृतीयः परिकीर्तितम् ॥ ११८ ॥
आब्रह्मपथमोङ्कारस्स तु सूतिः प्रकीर्तितः ।
श्रीकण्ठादिमनन्तान्तं रुद्रोङ्कारस्स उच्यते ॥ ११९ ॥
तस्योपरिष्ठाद्विज्ञेयं तृतीयं प्रणवस्मृतम् ॥
प्। २८२)
शान्तिविद्याधिका सिद्धिः निधने निधनान्तिका ॥ १२० ॥
शब्दाकाशे व्यतीता तु गतिस्तस्यैरनुत्तमा ।
त्रिभिन्नमेतत्सकलमध्वानं परिकीर्तितम् ॥ १२१ ॥
सकलः पञ्चतत्त्वस्तु त्रयस्सकलनिष्कलः ।
उच्चारेण यदा हीनो बिन्दुं निष्कलतां गतः ॥ १२२ ॥
शिवेच्छयाऽनुगृह्णाति साधको मुक्तिमिच्छति ।
सौम्यनाडीति विख्याता महापातकनाशिनी ॥ १२३ ॥
किं स स्वरादतिक्रम्य घण्टाशब्दादिलक्षणः ।
यश्शब्दः श्रूयते देवि रुद्रोङ्कारस्स उच्यते ॥ १२४ ॥
सर्वकर्मकरं दिव्यम् अणिमादिफलप्रदम् ।
प्। २८३)
एकत्त्रिंशद्विजानीयात् शिवोङ्कारस्तु तत्परः ॥ १२५ ॥
द्वात्त्रिंशत् तत्समाख्यातं तन्मात्रगुणवर्जितम् ।
व्यापकेन समायुक्ता नाडी प्रोक्ता नरञ्जना ॥ १२६ ॥
शिवोङ्कारा परं दिव्यम् ओङ्कारममलं विदुः ।
सतताऽभ्यासयोगेन साधकानां प्रयच्छति ॥ १२७ ॥
मासार्ध दशभिश्चैव अणिमादि गुणाष्टकम् ।
दूरश्रवणविज्ञानं सर्वलोकेषु भाषितम् ॥ १२८ ॥
पश्यते च महातेजः सर्वत्र समवस्थितम् ।
व्याप्तोऽति कामरूपित्वं सर्वज्ञत्वं तथैव हि ॥ १२९ ॥
देहपातो व्रजन्त्याशु शिवस्य परमं पदम् ।
प्। २८४)
घण्टानादविरामान्ते शिवोङ्कारं निगद्यते ॥ १३० ॥
शिखा सा लक्षणेनोक्ता विमला परिकीर्तिता ।
कालतत्वः स एवोक्तो नाडीप्रोक्ता निरञ्जना ॥ १३१ ॥
विमलाख्या वरारोहे परमाक्षरसंयुता ।
निरालम्बं प्रवक्ष्यामि नवतत्वफलप्रदम् ॥ १३२ ॥
पराक्षरपरोच्चार्यं बिन्दुतत्वमनुस्मरेत् ।
पश्चात्तु परमेतत्तु न किञ्चिदपि चिन्तयेत् ॥ १३३ ॥
त्रयस्त्रिंशत् स्मृतं तत्वं विमलन्तु वरानने ।
द्वात्त्रिंशकस्समाख्यातो निरालम्बे परे स्थितः ॥ १३४ ॥
त्रयस्त्रिंशत् परो यस्तु निर्देश्यो नाम वर्जितः ।
प्। २८५)
तं ज्ञात्वा देवि सिद्ध्यन्ते लक्षैतत्परिकीर्तितम् ॥ १३५ ॥
एवं बहुविधं प्रोक्तं तत्वमेकं शिवेन तु ।
सिद्धिदं मोक्षदञ्चैव दिष्टन्तत्तु विचिन्तयेत् ॥ १३६ ॥
ज्ञात्वैवं ज्ञानसर्वस्वं विचरस्व यथा सुखम् ।
एतन्न कस्यचिद्देयं ज्ञानामृतमिदं शुभम् ॥ १३७ ॥
एतत्सर्वं समाख्यातं तत्वध्यानं सुनिर्मलम् ।
परं तावदिदं देवि तत्त्वानां परिकीर्तितम् ॥ १३८ ॥
एतेषां यदपरो निरूपाख्यो निरामयः ।
सर्वेषान्धारकस्सोहि स वै चाऽधार वर्जितः ॥ १३९ ॥
न च तस्येदृशं ध्यानं तव देवि प्रकीर्तितम् ।
प्। २८६)
इति निश्वासकारिकायां त्रयस्त्रिंशत्पटलः ।