३२

देव्युवाच

मनो हि चलते नित्यं प्रवह्वञ्चलते बलात् ।
समाधिस्थोऽपि देवेश कथं तिष्ठति निश्चलः ॥ १ ॥

ईश्वरः

प्। २१९)

कर्मसन्यासयोगञ्च मतियोगं महत्तथा ।
योगः पञ्चविधः प्रोक्तः पुनरावृत्तिलक्षणः ॥ २ ॥

पुनरावृत्तियोगेन ये सत्ता वरवर्णिनी ।
तेषां हि चलते नित्यं कर्मासक्तमनस्सदा ॥ ३ ॥

देव्युवाच

कर्मयोगञ्च संयासं मतियोगं महत्तथा ।
एतेषां श्रोतुमिच्छामि भगवन् वक्तुमर्हति ॥ ४ ॥

ईश्वरः

अभिमानात्मकं योग कर्मशब्दाभिशब्दितम् ।
तदेवं कृतकृत्यः सन् न्यस्ते सन्यास उच्यते ॥ ५ ॥

प्। २२०)

सह तैश्चैव वैराग्यं संयोगः प्रकृतेर्जयः ।
अतीत्य प्रकृतौह्यष्टौ वर्तन्ते पुरुषेश्वरा ॥ ६ ॥

चत्वारः कथिता योगा महद्योगं यथा भवेत् ।
उपर्युपरि वर्तन्ते योगिनो योगवर्धनौ ॥ ७ ॥

तथैव च प्रलीयन्ते योगधर्मास्वकर्मसु ।
द्वैतभावार्थसंसिद्धा पुनः सृष्टिं व्रजन्ति ते ॥ ८ ॥

अणिमादिगुणा लक्षाद्रूपादिग्रहणात्मिकाः ।
निरोधाद्योगसंसिद्धिः मोक्षस्तेषां न विद्यते ॥ ९ ॥

अणिमादिगुणान् प्राप्य अङ्गविङ्कान् महेश्वरान् ।
नासौ सायुज्यमाप्नोति न भवेद्यावदेकता ॥ १० ॥

प्। २२१)

ओङ्कारतत्पराधे तु रेचके पूरके स्थिताः ।
न तेषां तु परं स्थानम् आत्मेन्द्रियनिषूदनात् ॥ ११ ॥

प्रणवो वायुरधो नाडी उदानोर्ध्वं व्यवस्थितम् ।
एतत्संशययोगीनां गतानां पुनरागमः ॥ १२ ॥

गमागमनसंयुक्त निरुद्धाग्रन्थिपञ्जरे ।
विद्या योगात्मिका देवि विद्याभावाधिगच्छतः ॥ १३ ॥

भवान्तरयुगापेक्षि सविद्यस्योपजायते ।
अवश्यावेश्ययोगित्वात्ते तु व्याप्यमुदाहृतम् ॥ १४ ॥

ये केचित्कारणाभावान्न ते मुक्तास्तदात्मकाः ।
न योगी युञ्जकः कश्चिन्न च चक्षुर्निमीलितम् ॥ १५ ॥

प्। २२२)

नासाग्रवीक्षणञ्चैव न तु योगं प्रशस्यते ।

देव्युवाच

सावलम्बेह्यनित्यत्वं निरालम्बेपि शून्यता ॥ १६ ॥

पक्षद्वयेऽपि दोषोऽस्ति किं तद्ध्यायन्ति योगिनः ।

ईश्वरः

यथा शिशुरकिञ्चिज्ज्ञो मूढोप्युक्ता न शायितः ॥ १७ ॥

परतत्त्वमजानन्तः पुरुषा बालकोपमाः ।
अज्ञायमाने तज्ज्ञानं ज्ञाते सत् ज्ञेयमिष्यते ॥ १८ ॥

ज्ञेयोद्भवञ्च विज्ञानं विज्ञानं तत्तदात्मकम् ।

देवी

प्। २२३)

यथा तज्ज्ञेययोगेन मनस्थास्यति निश्चलम् ॥ १९ ॥

एतन्मे निश्चितं ब्रूहि अत्र मे संशयो महान् ।

ईश्वरः

मनस्तु कथयिष्यामि चतुर्भेदसमायुतम् ॥ २० ॥

यन्न कस्यचिदाख्यातं तदद्य कथयामि ते ।
सात्विकं राजसञ्चैव तामसञ्च विशेषतः ॥ २१ ॥

कथयामि समासेन योगभेदक्रमेण तु ।
चतुर्थन्तु महद्योगम् अनौपम्यमनामयम् ॥ २२ ॥

तानि प्रवक्ष्यामि मनसं मनसे चेष्टितानि तु ।
येन विज्ञातमात्रेण उन्मनत्वं स गच्छति ॥ २३ ॥

प्। २२४)

संशिष्टश्च स्वलीनश्च विक्षिप्तो गतिरागतिः ।
मनश्चतुर्विधं प्रोक्तं भेदं तस्य इमं शृणु ॥ २४ ॥

न मनो नापि मन्तव्यो नमन्ता च न विभाव्यते ।
स्वलीनो विषयैर्मुक्ता एकीभूतस्सुषुप्तवत् ॥ २५ ॥

विषयान् गृह्णमानोऽपि ज्ञेयत्वमधिगच्छति ।
न च तैर्युज्यते ज्ञातस्सं शिष्टस्स तु उच्यते ॥ २६ ॥

अज्ञानात् गच्छते ज्ञानं ज्ञानादज्ञानमेव च ।
चलते यस्य दौर्बल्यात् तस्याऽसौ गतिरागतिः ॥ २७ ॥

ज्ञानेन शिष्यते यस्मात् इन्द्रियार्थ परायणः ।
त्रिकालमातलो नित्यं स तु विक्षिप्त उच्यते ॥ २८ ॥

प्। २२५)

स्वलीनश्चोत्तमस्तत्र गुणातीतो निरामयः ।
मध्यमस्स तु विज्ञेयो संशिष्टस्सात्विकः स्मृतः ॥ २९ ॥

अधमश्च फलक्षुद्रो राजसो गतिरागतिः ।
तामसः स तु विक्षिप्तः चतुर्थोह्यधमो मतः ॥ ३० ॥

गुणात्मकः समुद्दिष्टो मनः प्रायश्च देहिनाम् ।
निर्गुणत्वेऽधिकत्वेन यत्र लीनो भविष्यति ॥ ३१ ॥

एकीभावगतश्शान्ते स्वकालेनैव गृह्यते ।
सुषुप्तादधिकत्वेन चेति नात्र विशेषणम् ॥ ३२ ॥

न शक्यन्ते तदाख्यातुं न च तस्य तु धारणा ।
न चान्यो ज्ञापकस्तत्र यावन्नस्वतस्वयम् ॥ ३३ ॥

प्। २२६)

मनसश्च सुलीनश्च यत्सुखं ह्यात्मसाक्षिकम् ।
योगावस्था परा ह्येषा प्राहुर्योगविदो जनाः ॥ ३४ ॥

यदा मनः परे तत्वे लब्धलक्षो निलीयते ।
तदाह्यशेषविज्ञानं विनाशमुपगच्छति ॥ ३५ ॥

यस्य सर्वगतो भावः स बाह्याभ्यन्तरे स्थितः ।
चलितोऽपि मनस्तस्य चलित्वा यास्यते कुतः ॥ ३६ ॥

ज्ञानं तत्वार्थसम्बोध आत्मध्यानप्रकाशता ।
ज्ञेयं सर्वसमत्वञ्च ध्यानान्निर्विषयं मनः ॥ ३७ ॥

निराधारो निर्विकल्पः सर्वालयविवर्जितः ।
निर्गुणो लक्ष्य रहितः शिवयोगः प्रकीर्तितः ॥ ३८ ॥

प्। २२७)

मतः कोष्ठिणतो यस्य अन्तस्थः सुसमाहितः ।
यथा वायुः सुशीघ्रोऽपि मुक्त्वाऽकाशं न गच्छति ॥ ३९ ॥

ज्ञेयं विक्षिप्तचित्तस्य विषस्थोऽपि निश्चलः ।
भुङ्क्ते तु विषयान् सर्वान् नासौ लेह्यलेपकः ॥ ४० ॥

यस्य सर्वगतो भावो ज्ञेयावस्थो निरन्तरः ।
कायानुबन्धिचलिते नाऽसौ चलति निश्चलः ॥ ४१ ॥

यस्या ज्ञेयमिदं सर्वं मनस्त्वभ्यस्य निश्चलः ।
एवं योनिजितो धीरैस्स गत्वा किं करिष्यति ॥ ४२ ॥

क्षीरक्षये यथा वत्सः स्तनान्मातुर्निवर्तते ।
रागक्षये तदा पुंसां मनश्शीघ्रं निवर्तते ॥ ४३ ॥

प्। २२८)

चलाचलशरीरार्थं चित्तवृत्तिरपेक्ष्यते ।
स च त्यागी शरीरस्य सुरुद्धो न भविष्यति ॥ ४४ ॥

इच्छाद्वेषौ सुखं दुःखं विरागो ज्ञानमेव च ।
त्रयोदश विधस्तेन करणं निश्चलीकृतम् ॥ ४५ ॥

स्वभावाच्चलमन्यत्तु चलं वा केन चाल्यते ।
निश्चलं न कदाचित् स्यात् अयुतस्य युतस्य वा ॥ ४६ ॥

देव्युवाच

प्राणाद्या वायवः पञ्च (देहस्था) मनः पञ्च च देवताः ।
पुर्यष्टकं च तन्मात्रं बुध्यहङ्कारमेव च ॥ ४७ ॥

एभिस्तु व्याकुली भूत्वा वायवो मनसा युताः ।

प्। २२९)

चलते तु सदा देवि सुखदुःखेन मोहिताः ॥ ४८ ॥

सुखदुःखमयो मोह अनेन चलते मनः ।
यस्य तुल्यसुखं दुःखं मनस्तस्य सुनिश्चलम् ॥ ४९ ॥

देव्युवाच

अक्ष्णान्निमीलनञ्चैव नासाग्रस्य तु वीक्षणम् ।
न योगी युञ्जकश्चैवार्थतस्तु त्वया विभो ॥ ५० ॥

सावलम्बं निरालम्बं न योगमुभयात्मकम् ।
कथं योगं महादेव ज्ञेयस्य कथयस्व मे ॥ ५१ ॥

ईश्वरः

न योगकरणञ्चात्र आधारालम्बनं न च ।

प्। २३०)

हृच्चातिनासिकाग्रस्य वीक्षणान्न निमीलनम् ॥ ५२ ॥

किञ्चिदाभासमात्रन्तु ज्ञात्वा तु परमां तनुम् ।
प्रतिपूरितवद्वायुः सूक्ष्मेण सुषिरेण तु ॥ ५३ ॥

गता न ज्ञायते यद्वत् ज्ञेययोगं तथैव हि ।

देव्युवाच

वायुपूर्णशरीरन्तु दृतिवल्लक्ष्यते प्रभो ॥ ५४ ॥

कृतकेन तु कर्तव्यं किं बाह्यकृतकात्मकम् ।
कृतकस्य तु अध्वानं ज्ञातव्यं सर्वथा विभो ॥ ५५ ॥

ज्ञेयस्य कृतकं नास्ति अध्वानं न च कल्पना ।
एतन्मे संशयं देव यत्त्सत्यं तद्ब्रवीहि मे ॥ ५६ ॥

प्। २३१)

ईश्वरः

अनाख्ये यस्य तत्त्वस्य निर्गुणस्य यशस्विनी ।
गुणवद्ग्रहणं कृत्वा कथयेत्परमेश्वरम् ॥ ५७ ॥

किञ्चिदाभासमात्रन्तु क्रतू कथयेच्छिवम् ।
प्रक्रमाध्वानमार्गन्तु उच्चारकरणानि च ॥ ५८ ॥

स्थातव्यन्तु वरारोहे परित्याज्यमशेषतः ।
एवं स निर्जितो तिष्ठेत् मनो दुर्जयचञ्चलम् ॥ ५९ ॥

चलते न कदाचित् स्यात् ज्ञेयावस्थो भवेत्सदा ।
अनिर्जितो यथा मल्लो दर्पणीकुरुते बहून् ॥ ६० ॥

निजितं तिष्ठते धीरः तथा ज्ञेयविदां मनः ।

प्। २३२)

न हि गन्ता भवेत्कश्चित् गन्तव्यञ्च न विद्यते ॥ ६१ ॥

गमागमननिर्मुक्तो घटाकाशेव तिष्ठति ।
घटसंवृतमाकाशं नीयमानमितस्ततः ॥ ६२ ॥

घटो निर्याति नाकाशं शिवोह्येवं नभोपमः ।
कदलीसारवद्देहं वृतं तत्वदलैस्स्थितम् ॥ ६३ ॥

तस्मात्तत्वदलत्यागी व्ययवद्भवते तदा ।
निराकारात्मविज्ञाने भावनागतचेतसः ॥ ६४ ॥

मोक्षोल्पीयस्य नोत्कण्ठः स मोक्षमधिगच्छति ।
मोक्षो नाम स विख्यातो स शरीरो निराकृतिः ॥ ६५ ॥

अचिन्त्यो निर्गुणो मोक्षो न तु मोक्षो लयान्वितः ।

प्। २३३)

न मोक्षस्य भवेत्तस्मात् न चाध्वानं कदाचन ॥ ६६ ॥

सर्वत्र विगता दृष्टिः स मोक्षो मोक्षवादिनाम् ।
बाहुशो यस्तु वैराग्यम् आत्मा निर्व्यापितस्तु यैः ॥ ६७ ॥

तेषामन्योऽपि नास्त्यत्र गत्वा निरुपपत्तिकम् ।
एवमन्येऽपि ये केचित् निर्वाप्यन्ते विरागिताम् ॥ ६८ ॥

तथा तेऽपि गमिष्यन्ते निर्वाणं प्रथमं यथा ।
यथा शिलाश्रितं तोयं क्षपितं सूर्यरश्मिभिः ॥ ६९ ॥

तथा निर्वापितोह्यात्मा गतो निरुपपत्तिकम् ।
न तत्तोयगतं भूम्या न च तत्रैव तिष्ठति ॥ ७० ॥

न च तत् केनचित् पीतं गतो निरुपपत्तिकम् ।

प्। २३४)

एवं ग्राह्यात्मवैराग्यं यदुक्तं गुरुणा हितम् ॥ ७१ ॥

गताध्वानमयं भावं तदेकन्तु सनातनम् ।
का ह्याशा मोक्षवादीनां यत्र सर्वे क्षयं गताः ॥ ७२ ॥

एतदत्यन्तवैराग्यमपि सत्वसुखावहम् ।
यन्नास्ति तत्र सन्तोषं प्रायः कश्चित्करिष्यति ॥ ७३ ॥

स मुक्तो निर्विकल्पस्तु स विकल्पस्तु बध्यते ।
नदीनां सागरं प्राप्य नामरूपं निवर्तते ॥ ७४ ॥

ते तत्र न विजानन्ति परस्परविशेषणम् ।
न चान्यो जायते तत्र उदकस्य विशेषणम् ॥ ७५ ॥

तत्र क्षयं गता नद्यस्सदप्येको महोदधिः ।

प्। २३५)

एवं नद्युपमो देही निर्वाणं सागरोपमम् ॥ ७६ ॥

निर्ममास्ते तु तिष्ठन्ति सागराश्रित सिन्धवः ।
तिष्ठते निश्चलत्वं हि तृप्तिस्थं तस्य जायते ॥ ७७ ॥

सुखदुःखं न संवेत्ति गृह्णाति शिवजान् गुणान् ।
अभावे भावमालम्ब्य भावं कृत्वा निराश्रयम् ॥ ७८ ॥

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ।
अभावे भावमाश्रित्य भावलीनोप्यशङ्कितः ॥ ७९ ॥

विभुरिति समन्तव्यो नात्र कार्या विचारणा ।
अभावस्य कुतो भावः निष्कलस्य महात्मनः ॥ ८० ॥

अमने अव्यवस्थानं निर्वाणं तस्य तत्पदम् ।

प्। २३६)

यस्य जाग्रे प्रलीयन्ते सर्वे भावास्सुषुप्तवत् ॥ ८१ ॥

पर्याप्तं तस्य विज्ञानं त्रिपदं ते न लङ्घितम् ।
पूर्वकोह्यक्षरो ज्ञेयः सुरेचितमनक्षरम् ॥ ८२ ॥

कुम्भकेन तदा ज्ञेयं क्षराक्षरपरश्शिवः ।
सर्वं त्यक्त्वा समाधिस्थ अन्तःकरणगोचरम् ॥ ८३ ॥

ततस्तु पश्यते नित्यं योगिभिस्तदुपास्यते ।
गुरूपदेशनिर्दिष्टं सम्प्रदायं यथा स्थितम् ॥ ८४ ॥

स बाह्याभ्यन्तरे सूक्ष्म अनादि शिव अव्ययः ।

देव्युवाच

पितृयानपथं देव देवयानं तथैव च ॥ ८५ ॥

प्। २३७)

निश्चयं श्रोतुमिच्छामि पथद्वय विशेषणम् ।

ईश्वरः

पितृयानेन गच्छन्ते इष्टापूर्तरता दिवि ॥ ८६ ॥

ते तत्र अनुभुञ्जन्ते यदत्र सुकृतं कृतम् ।
कृतक्षये निवर्तन्ते पुनर्जायन्ति भूतले ॥ ८७ ॥

पानरोधक्षये पत्रं यथा गत्वा निवर्तते ।
पथं चान्द्रमसं सर्वं मिडा तस्य तु सारथिः ॥ ८८ ॥

पितृयानेति विज्ञेयं स पथे यज्ञयाजिनाम् ।
क्षीयते वर्धते चन्द्र अस्थिरो विषमश्चलः ॥ ८९ ॥

पितृयानप्रपन्नस्य गतिस्तस्यापि ईदृशी ।

प्। २३८)

देवयानपथे सूर्यः सुषुम्ना तस्य सारथिः ॥ ९० ॥

तं भित्वा गच्छते योगी दक्षिणेनाऽनिवर्तकः ।
सर्वभूतात्मभूतानां साधूनां तत्वदर्शिनाम् ॥ ९१ ॥

सर्वकामान्निवृत्तानां स पथोभ्यासयोगिनाम् ।
न ते भूयो निवर्तन्ते देवयानेन योगिनः ॥ ९२ ॥

तस्मात्सर्वं परित्यज्य दक्षिणेन प्रपद्यथा ।
एवं पथं विदुर्देवि पितृयानं समासतः ॥ ९३ ॥

देवयानात्पथो नास्ति श्रूयतां येन हेतुना ।
पथेन गम्यते यत्र यत्किञ्चित्परिकल्पितः ॥ ९४ ॥

अत्र धातामनिर्देश्यं पथो भवति कीदृशः ।

प्। २३९)

यथाऽध्वानञ्च योगञ्च सर्वतन्त्रं न विद्यते ॥ ९५ ॥

शिष्यप्रबोधनार्थाय एवं शास्त्रेषु चोदितम् ।
तन्मानार्थमिदं वाक्यं देवयाने यथा तथा ॥ ९६ ॥

सर्वव्यापित्वगमनं पथ्या भवति कीदृशः ।
यत्र गम्यति तन्नास्ति न च तत्र पथा क्वचित् ॥ ९७ ॥

नास्ति योगगतिस्तत्र सर्वलक्षात्परं पदम् ।
गतिर्नावर्तते वश्यं सुदूरेष्वपि योगतः ॥ ९८ ॥

देवयाने पथे नास्ति तेनाऽसौ न निवर्तते ।
यः कश्चित्पितृयानेन पथेन तु गतो नरः ॥ ९९ ॥

निवर्तते सुदूरोऽपि यत्र यानं समाश्रितः ।

प्। २४०)

देवयानेन सो गत्वा सर्वपापैर्विवर्जितः ॥ १०० ॥

भोक्तव्यञ्चैवमैश्वर्यमाशापाशविवर्जितम् ।
करणञ्चैव सञ्ज्ञा च अहङ्कारं तथैव च ॥ १०१ ॥

निवर्तते यतस्सर्वं कथं तत्र विभज्यते ।
ऐश्वर्यं चोदितं शास्त्रे अल्पसत्वमनौपमम् ॥ १०२ ॥

निराभासे तथैश्वर्यं न कदाचिद्भविष्यति ।
यस्येश्वरोऽपि नैराश्यं निराशं सम्प्रशस्यते ॥ १०३ ॥

त्यक्तं येन जगत्सर्वम् आत्मा भोक्तव्य एव च ।
आत्मार्थे सर्वकार्याणि आशाभूतः प्रवर्तते ॥ १०४ ॥

आत्मत्यागः कृतो येन तस्याशा कस्य कारणे ।

प्। २४१)

तावद्बध्यति संसारे यावदाशा न मुञ्चति ॥ १०५ ॥

आशाच्छेदः कृतो येन स मुक्तः सर्वबन्धनैः ।
अतीतानागतञ्चैव वर्तमानं तथैव च ॥ १०६ ॥

अथात्मा स्थावरान्तत्वसर्वज्ञानादि कृत्रिमम् ।
जातं नास्ति तथाऽवश्यम् अजातञ्च विशेषतः ॥ १०७ ॥

एवं नैराश्यभावेन महामोहं त्यजिष्यति ।
अजातत्वादजो नास्ति जातं नास्त्यविनाशकम् ॥ १०८ ॥

चतुर्विधञ्च यज्ज्ञानं तदेव कृतकं स्मृतम् ।
काममूलो महावृक्षः संसारस्तीक्ष्णकण्टकः ॥ १०९ ॥

सिच्यते रागतोयेन फलग्राहेण वर्धते ।

प्। २४२)

कामरागन्न * * * * स जिष्यति पण्डितः ॥ ११० ॥

वृक्षोपमन्तु संसारं सर्वमुन्मूलयिष्यति ।
प्रागुक्ताङ्गबलं सर्वं विद्युद्दर्शनसन्निभम् ॥ १११ ॥

योह्यज्ञः पर्युपासीत स मृत्युः पर्युपास्यते ।
तस्माच्छिद्रं पवित्रञ्च क्षेममङ्गुलमेव च ॥ ११२ ॥

स्वस्ति शान्ति शिवं तस्य हृदयं यस्य निष्प्रभम् ।
पातालस्सप्तलोकान्तः सर्वमेतद्विभीषिका ॥ ११३ ॥

भगनाशा शून्यमन्त्रेण ते स्मृता मन्त्रवादिनः ।
न हुतं न च वा दत्तन्न परत्र नचैहिकम् ॥ ११४ ॥

नचात्र बध्यते कश्चित् न च कश्चिद्विमुच्यते ।

प्। २४३)

बन्धव्यो बन्धनञ्चैव तथा चैवान्यबन्धकः ॥ ११५ ॥

दाता प्रतिगृहीता च तथा दातव्यमेव च ।
अग्निदर्भाश्च मन्त्राश्च होता होतव्यमेव च ॥ ११६ ॥

यत्र शून्यन्निराभासं कुतस्तत्र इमे स्मृताः ।
अग्निहोत्रादयो यज्ञा वेदाश्च ऋषयस्तथा ॥ ११७ ॥

असुराः पितरो देवाः सर्वेह्यपरमार्थिकाः ।
सर्वे मन्त्रात्मका देवा देवो मन्त्रगणस्मृतः ॥ ११८ ॥

दैवं पैत्रञ्च यज्ञाश्च सर्वे तिष्ठन्ति मन्त्रतः ।
तत्र मन्त्राणि वर्तन्ते तत्र ज्ञेयं सुनिष्कलम् ॥ ११९ ॥

तस्मात् मन्त्रोदितं सर्वं विद्यादपरमार्थिकम् ।

प्। २४४)

सर्वे धर्मा विरुध्यन्ते परमार्थस्य निश्चयात् ॥ १२० ॥

नैतद्बाह्यं गृहस्थानां ज्ञानमेतत्तु नैष्ठिकम् ।
न च नास्ति क्रिया यज्ञा अस्तित्वे च फलप्रदाः ॥ १२१ ॥

फलञ्चात्मा प्रियैस्त्यक्तः तेषां तेनास्ति सुन्दरी ।
ना पृष्ठः कस्यचिद्ब्रूयात् न चान्यायेन पृच्छितः ॥ १२२ ॥

अन्यायैः पृच्छिते यस्तु न ब्रूयात्तस्य पृच्छतः ।
विदितो योगसद्भावे तदाक्षमपुनर्गृही ॥ १२३ ॥

अपुनर्गृह्नवासेति येनोक्तं तस्य भाषयेत् ।
विरागे निश्चयो यस्य ज्ञेयस्य प्राङ् निवेदयेत् ॥ १२४ ॥

पुत्रदारकुटुम्बेषु सक्तं सर्वमिदं जगत् ।

प्। २४५)

तस्य त्यागः कृतो येन तद्विरागस्य लक्षणम् ॥ १२५ ॥

अनैष्ठिकेन वक्तव्यं गोष्ठिकामे कुटुम्बिने ।
सस्पृहे चावरक्ते च दुष्टचित्तेऽजितेन्द्रिये ॥ १२६ ॥

तव देवि मम ख्यातं मम भक्तेति सुन्दरि ।
तस्मात्सन्यासिनं मुक्त्वा नाख्येयं कस्यचित्त्वया ॥ १२७ ॥

देयुवाच

मत्सरीत्वं महादेव समत्वं यन्न पश्यति ।
सिद्धान्ते ब्रूहि को दोषो गृहस्थानां प्रकाशते ॥ १२८ ॥

श्रुतिस्मृत्युदितो मार्गो धर्मकामार्थसंयुतः ।
सिद्धान्ते केवलं ज्ञानं धर्मकामार्थवर्जितम् ॥ १२९ ॥

प्। २४६)

धर्माद्यास्तत्र हीयन्ते तेषाञ्चैव प्रकाशते ।
न सिध्यते च तत्कार्यं तस्यारम्भो निरर्थकः ॥ १३० ॥

दद्याद्यो विमलं वेद्या अदत्त्वामलशोधनम् ।
ओषधीन्नैव सिध्येत मतिग्रस्तस्य देहिनः ॥ १३१ ॥

तद्वद्दोषो भवेद्देवि गृहस्थानां प्रकाशते ।
न दोषोयमियद्ब्रूहि श्रूयतां केन हेतुना ॥ १३२ ॥

ऐहिकामुष्मिकान् भोगान् यो भुङ्क्ते तु वरानने ।
कदाचिद्यजते यज्ञं तेन यज्ञो विदूषितः ॥ १३३ ॥

अभोज्यं भोक्तुकामस्य अनर्थकमिदं भवेत् ।
विधियज्ञ प्रमाणस्तु सस्पृहस्य न युज्यते ॥ १३४ ॥

प्। २४७)

त्यागात्संसिध्यते ज्ञेयः सस्पृहस्तु न सिध्यति ।
गृहस्थस्य परित्यागो न कदाचिद्भविष्यति ॥ १३५ ॥

ऐहिकामुष्मिकान् तृष्णान् त्यक्त्वा त्यागी भविष्यति ।
गृहस्थोऽपि परित्यक्तुम् ऐहिकं नैव शक्यते ॥ १३६ ॥

वित्तहीने गृहस्थत्वं न कदाचित्प्रसिध्यति ।
उपादानन्तु वित्तस्य सर्वोपायेन कारणम् ॥ १३७ ॥

तृष्णाञ्चाशेषतः त्यक्त्वा वैराग्येन यदा स्थितः ।
पञ्चसु नादृतैर्दोषैः गृहीणां गृह्यते तदा ॥ १३८ ॥

गृहस्थत्वं भयं घोरं लोभा * * * जेष्यति ।
न स त्यजति संसारलोभमोहतमो व्रतः ॥ १३९ ॥

प्। २४८)

यथा सर्वं परित्यज्य तथेदं श्रुतिरब्रवीत् ।
ईशावास्यमिदं सर्वं यत्किञ्च जगतां जगत् ॥ १४० ॥

तेन त्यक्तेन भुञ्जीथा माहृथाः कस्यविद्धनम् ।
तद्गृहस्थस्य किं बाह्यमस्मिन् लोकेप्यवस्थितम् ॥ १४१ ॥

यत्रासक्तो दयां त्यक्त्वा भूतग्रामं जिघांसति ।
तस्मात्सुन्दरि तस्यापि गृहे मुक्तिर्न दृश्यते ॥ १४२ ॥

न च संयासयोगेन इच्छाद्वेषस्य वर्जनात् ।
न माया मत्सराद्युक्तो गृहस्थोऽपि न सिध्यति ॥ १४३ ॥

त्यागहीना न सिध्यन्ति पक्षद्वयविडम्बकाः ।
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म कीर्तितम् ॥ १४४ ॥

प्। २४९)

अन्तःकरणहीनस्य न किञ्चिदपि सिध्यति ।
लोकस्य सर्वतो मौनी समश्शान्तः समाहितः ॥ १४५ ॥

सर्वमात्मवशं पश्येत् भूतग्रामे चतुर्विधे ।

देव्युवाच

नोपकाराय यत्किञ्चित् न चान्यो जायते गुणः ॥ १४६ ॥

मौनभावेन देवेश तस्मान्मौनं निरर्थकम् ।

ईश्वरः

उपकारकृतस्तेन परेषां हितकाम्यया ॥ १४७ ॥

येन निर्वापितो ह्यात्मा वैराग्यं गृह्यते यतः ।
अनेन हेतुना दुःखं शरीराद्विनिवर्तते ॥ १४८ ॥

येन निर्वापितो ह्यात्मा वैराग्यं गृह्यते यतः ।
अनेन हेतुना दुःखं शरीराद्विनिवर्तते ॥ १४९ ॥

प्। २५०)

परेभ्यः कुरुते दुःखं यं यं वाचा समीहते ।

देव्युवाच

अस्य वैराग्ययोगस्य किं भवेत्सिद्धि वा न वा ॥ १५० ॥

एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ।

ईश्वरः

शृणु देवि परं गुह्यं तस्यसिद्धिमनौपमाम् ॥ १५१ ॥

न रूपं न च वर्णञ्च न च तस्यैव भावना ।
सकलं निष्कलञ्चैव करणाधारवर्जितम् ॥ १५२ ॥

न चोच्चारविभक्तिश्च वर्णरूपविवर्जितः ।
अमनस्थ महायोगं सर्वसिद्धिप्रदायकः ॥ १५३ ॥

प्। २५१)

गुरुप्रसादमात्रन्तु पारम्पर्यं वरानने ।
तं लब्ध्वा लब्धमात्रस्तु यथा सिद्धिं लभेन्नरः ॥ १५४ ॥

समुदायमिदं ज्ञानं न पृथक्त्वं कदाचन ।
स्वरवर्णविहीनस्तु सर्वसिद्धिप्रदं शुभम् ॥ १५५ ॥

तेन ज्ञेयमिति प्रोक्तं यस्माद्भ्रान्तिर्न जायते ।
भ्रान्ति निर्नाशनं ह्येतत् सर्वज्ञानार्थ साधकम् ॥ १५६ ॥

सर्वज्ञानमिति ज्ञेयं सर्ववर्णप्रसाधकम् ।
एतद्देवि महाज्ञानं विज्ञानं शून्यमव्ययम् ॥ १५७ ॥

बिन्दुमात्रा विनिर्मुक्तस्वरवर्णविवर्जितम् ।
ज्ञेयमेतत्समाख्यातं जरामृत्युविनाशनम् ॥ १५८ ॥

प्। २५२)

सर्वव्याधिहरञ्चैव सर्वपापान्तकं तथा ।
अचिन्त्यं सूक्ष्ममाकाशमशेषव्यापकं परम् ॥ १५९ ॥

ईषत्प्रसार्य वक्त्रन्तु जिह्वाकाशे नियोजयेत् ।
तस्मिंस्थाने तु यत्किञ्चित् स्पर्शमीषद्विभावयेत् ॥ १६० ॥

भवितव्यन्तु योगीभिः सिध्यर्थमिदमुत्तमम् ।
अस्यैव कथयेद्देवि योगस्य विधिमुत्तमम् ॥ १६१ ॥

विज्ञप्तेन तु कुर्वीत सत्यं देवि वदाम्यहम् ।
न देवा नासुरा यक्षा न नागा न च राक्षसाः ॥ १६२ ॥

किन्नराप्सरसश्चैव पिशाचा न च भूतले ।
न वसुः न च विद्या च विद्याधरगणेन च ॥ १६३ ॥

प्। २५३)

लोकपालान नक्षत्रा चन्दसूर्यौ न चैव हि ।
न वायुस्सलिलञ्चैव न वृक्षा न च पर्वताः ॥ १६४ ॥

न मेरुर्गिरिराजानो न चैव विषयस्तथा ।
न ब्रह्मा न च वै विष्णुः नाहं देवि त्वया सह ॥ १६५ ॥

अनन्तं सर्वमेतत्तु स किञ्चिदपि चिन्तयेत् ।
एवं यो भावयेद्योगी विततं शून्यमव्ययम् ॥ १६६ ॥

न यमो मयतो वाऽपि न कार्यं तस्य वर्तते ।
दष्टो यदि महानागैरनन्तगुलिकादिभिः ॥ १६७ ॥

न विषं क्रमते तस्य यस्तु शून्यं विचिन्तयेत् ।
अपरञ्च परञ्चैव सर्वमस्मिन् प्रतिष्ठितम् ॥ १६८ ॥

प्। २५४)

शून्यध्यानमिदं देवि मयोक्तं विधिवत्त्वया ।
धर्माधर्मक्षयं कर्म जन्मव्याधि विनाशनम् ॥ १६९ ॥

ईदृशज्ञानसद्भावं न दद्याद्यस्य कस्यचित् ।
दीक्षयित्वा महादेवि दातव्यं सुपरीक्षिते ॥ १७० ॥

इदञ्चारमिदञ्चारमिह देहस्यगोचरे ।
इदं तत्वमिदं तत्वमिदं ज्ञानमिदं सर्वज्ञमेव च ॥ १७१ ॥

इदन्नाडीसुसञ्चारमेवं ज्ञात्वा विमुच्यते ।
एवं वदन्ति बहव अन्योन्यज्ञानगर्विताः ॥ १७२ ॥

एवञ्च निश्चितं ज्ञात्वा न तु तत्वं प्रकाशयेत् ।
ब्रह्मचारीति वक्तव्यमहो शान्तेति वा पुनः ॥ १७३ ॥

प्। २५५)

एवं वा तोषयित्वा तु तूष्णीं भूतस्समाचरेत् ।
शृणु देवि परं गुह्यं स मुद्राभिनयमुत्तमम् ॥ १७४ ॥

एतद्विज्ञानमात्रेण अभावं पदमाप्नुयात् ।
सव्यहस्तेन कर्तव्यं मुद्राबन्धमनुत्तमम् ॥ १७५ ॥

सर्वेषां ज्ञानिनामेतत् सर्वदर्पापहं महत् ।
यदि स्यात् ज्ञानिनः कश्चित् ज्ञानिनो गृहमागतः ॥ १७६ ॥

दर्शयेभिनयं देवि येन विज्ञायते श्रमम् ।
एवं ज्ञानी यदा ज्ञानं पृष्टव्यं पुनरेव हि ॥ १७७ ॥

कथयेद्यस्य मुद्राया देवतामनुपूर्वशः ।
तदा तस्य पुनर्देवि पृष्टव्याः गुरवः क्रमात् ॥ १७८ ॥

प्। २५६)

गुरू शास्त्रक्रमञ्चैव ज्ञात्वा तद्वद्विशारदः ।
तदा तत्पूजयेद्देवि शिववच्छिवसम्मतः ॥ १७९ ॥

तस्य लक्षणतो ब्रूहि मुद्राया वरवर्णिनी ।
येन विज्ञातमात्रेण न पुनर्जन्म चाप्नुयात् ॥ १८० ॥

कनिष्ठायां स्थितो ब्रह्मा अनामायाञ्च केशवः ।
मध्यमायां स्थितो रुद्रः तर्जन्यामजमीश्वरः ॥ १८१ ॥

सदाशिवस्थितोङ्गुष्ठे कथितन्तु समासतः ।
तर्जन्यङ्गुष्ठकौ लग्नौ नीतोर्ध्वं विसृजेत्पुनः ॥ १८२ ॥

सम्मुखेन तु देवेशि सकृतत्वप्रकीर्तितः ।
मध्यमानामिका चैव कनिष्ठाया समन्वितः ॥ १८३ ॥

प्। २५७)

प्रसृतादि सदा देवि मुद्रयाभिनयं शुभम् ।
ज्ञातेनाऽनेन मुद्राया मुच्यते पाशबन्धनात् ॥ १८४ ॥

कुलकोटिशतं साग्रं नरकात्तार इष्यति ।

इति निश्वासकारिकायां द्वात्रिंशत्पटलः ॥