देव्युवाच
बहुचित्तमिदं ज्ञानं निश्चयो नोपपद्यते ।
तदेकं वचनञ्चिन्त्यं येन श्रेयोऽहमाप्नुयाम् ॥ १ ॥
ईश्वरः
ज्ञानन्तु बहुधा व्यस्तं लोके समुपदिश्यते ।
प्। २०४)
ज्ञेयन्तद्व्यतिरिक्तान्य ज्ञाने ज्ञेयं विधीयते ॥ २ ॥
शिवश्च केवलश्शुद्ध अशुद्धश्चाक्षरैः सह ।
शुद्धा स्वाभाविकी मूर्तिः अयत्नादेव जायते ॥ ३ ॥
न हि गोशब्दमात्रेण पयसः प्राप्तिरिष्यते ।
विशेषस्तु मधुक्षीरो जलानि अमृतादिभिः ॥ ४ ॥
उक्तैरपि न संस्पर्शादोष्ठाभ्यां जायते फलम् ।
ईश्वरः
मुक्त्यर्थन्तु प्रशंसन्ति ज्ञेयं धर्मप्रवेदिनः ॥ ५ ॥
विज्ञानात्तु गुणावाप्तिः संस्पर्शादिव धातवः ।
रसेन्द्रेणैव लोहानां कालिका स्पर्शवेधिना ॥ ६ ॥
प्। २०५)
हारिताग्निसंयोगाद्धेमत्वं प्रतिपादितम् ।
स्पर्शवत् ज्ञानमुद्दिष्टम् अग्निवज्ज्ञेयमिष्यते ॥ ७ ॥
हारितं परमेशान पशूनां पाशकालिका ।
स्वकारणगुणावेशात् तन्मयत्वं प्रपद्यते ॥ ८ ॥
लभन्ते योगिनस्सर्वे विज्ञानात्तुल्यतां तथा ।
स्वेषु स्वेषु तदैश्वर्य कारणं तुल्यधर्मताम् ॥ ९ ॥
अवाप्नुवन्ति सर्वत्र विज्ञानात्परमार्थतः ।
विज्ञानात्तु विशीर्येत त्रिविधं बन्धनञ्च यत् ॥ १० ॥
विशीर्णबन्धनो जन्तुरिच्छाशक्तित्वमाप्नुयात् ।
इच्छाशक्तिगुणा व्याप्त्या न जन्तुर्दुःखभाक् भवेत् ॥ ११ ॥
प्। २०६)
सर्वकारणधर्मत्वं लभते नात्र संशयः ।
देव्युवाच
शिवस्य परिपूर्णस्य अध्वानन्तु कथं भवेत् ॥ १२ ॥
कीदृशन्तु शिवाध्वानं तत्त्वतः कथयस्व मे ।
आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित् ॥ १३ ॥
एवं सर्वगतो देवो अध्वानन्नैव विद्यते ।
पशुभावापदातीत्य पतिभावेन तिष्ठति ॥ १४ ॥
तत्तस्य गमनं नाम सर्वगे गमनं कुतः ।
उन्नमत्वं शिवत्वञ्च प्रयातीत्युपचर्यते ॥ १५ ॥
सम्बोधो गमनन्नाम सर्वगे गमनं कुतः ।
प्। २०७)
देव्युवाच
सर्वव्यापीति देवस्तु कथ्यते मम शङ्कर ॥ १६ ॥
पक्ष एव विरुद्ध्ऽयं कथं निस्संशयो भवेत् ।
पत्रे पुष्पे फले तोये यदि सर्वत्र विद्यते ॥ १७ ॥
स्वगाङ्गकृन्तनं दुःखं कथं पूजा विधीयते ।
स्थावरे जङ्गमे चैव बीजाद्येषु च सर्वतः ॥ १८ ॥
स्वकाङ्गो दहनं दुःखं कथं होमेषु युज्यते ।
पत्रपुष्पफलादीनां यदि तत्र न विद्यते ॥ १९ ॥
अव्यापित्वं तदा तस्य सर्वव्यापी कथं भवेत् ।
अव्यक्ते व्यक्तता नास्ति रूपवर्णत्ववेदिनाम् ॥ २० ॥
प्। २०८)
व्याहृतं यदि गृह्णाति दत्तं भोजम?वाञ्च्छया ।
व्यक्तरूपं शरीरन्तु व्यक्तं वै कृतकात्मकम् ॥ २१ ॥
कालेनैव विनश्यन्ते ये ये विग्रहरूपिणः ।
सर्वव्यापी भवेद्देवः पूजा देहः प्रशस्यते ॥ २२ ॥
लिङ्गपूजाविधिर्देव न चेष्टा मम रोचते ।
प्रतिघाते विलक्षन्तु आकाशं सर्वतोमुखम् ॥ २३ ॥
शिलास्तम्भजलैः कुड्यैः पर्वतैश्च निवार्यते ।
यदेतत्प्राक् समुद्दिष्टमाकाशमजमव्ययम् ॥ २४ ॥
तद्वदीश्वरमव्यक्तमस्वतन्त्रमचेतनम् ।
पराधीनमकर्तारमज्ञं प्रसवधर्मिणम् ॥ २५ ॥
प्। २०९)
व्याप्यमव्यापकं क्षोभ्यं ग्राह्यं सगुणमुच्यते ।
विकारिणं सातिशयं व्यक्तमव्यक्तलक्षणम् ॥ २६ ॥
असर्वज्ञत्वमेतस्य योनिभूतमुदाहृतम् ।
एष धर्मः समुद्दिष्टः शून्यस्यानीश्वरत्वता ॥ २७ ॥
ईश्वरः
विदित्वा तु पुनर्देवी न मोहमुपयास्यसि ।
न तथा तु परं तत्वं व्यापयन्तं निवार्यते ॥ २८ ॥
जलदर्पणमध्ये तु छायारूपं यथा विशेत् ।
नोत्सरेन्न च भिद्येत तद्वद्देवो विरोचते ॥ २९ ॥
व्यापिनश्चाविरोधी च नावरुध्यति केनचित् ।
प्। २१०)
सोन्तर्बहिस्थितो यो वै न च कुत्रचिदाश्रितः ।
अनुमानन्नचोपम्यं न च तस्यास्ति यन्मम ॥ ३० ॥
स्वभावनिर्मलश्शुद्ध अनुत्पन्नमलाञ्जनः ।
न शक्यं किञ्चित्तस्याथ प्रवक्तुं गुणलक्षणम् ॥ ३१ ॥
ततस्तोये यथा चन्द्रो दृश्यत्याकाशसंस्थितम् ।
तद्वत्सर्वगतो देवस्सूक्ष्मत्वान्नोपलभ्यते ॥ ३२ ॥
स च योगेन दृश्येत प्रत्यक्षं जलचन्द्रवत् ।
क्षीयते वर्धते चन्द्र अस्थिरो विषमश्चलः ॥ ३३ ॥
विकारित्वमुपायाति उत्पन्नश्शशलाञ्छनः ।
अमायी निर्विकारी च बहिरन्ते च संस्थितः ॥ ३४ ॥
प्। २११)
समायी बिम्बसङ्क्रान्तो खे स्थितो न तु तज्जले ।
मलिनेऽपि स्वदेहे तु दृश्यते परमेश्वरः ॥ ३५ ॥
उपदेशेन देवेशि प्रत्यक्षं जलचन्द्रवत् ।
यथा शरीरमध्येऽपि प्रत्यक्षः परमेश्वरः ।
विद्यमानो न दृश्येत तथा पत्रफलादिषु ॥ ३६ ॥
स्वभावेन हि तत्रस्था खे तु दृश्यति चन्द्रमाः ।
उपदेशेन देवेशि प्रत्यक्षं सर्वतस्थितः ॥ ३७ ॥
पत्रपुष्पफलादीनां मलत्वान्न च दृश्यते ।
यथा त्वं देवि सम्मूढा असङ्ग्राह्ये व्यवस्थिताः ॥ ३८ ॥
मणौ तोये यथादर्शे दृश्यन्ते रश्मिमालयः ।
प्। २१२)
एवं पत्रेषु पुष्पेषु दृश्यते परमेश्वरः ॥ ३९ ॥
पत्रपुष्पफलादीनां बीजाद्येषु च सर्वतः ।
सूक्ष्मत्वात्संस्थितस्तत्र दृष्ट्वा तन्नविकल्पना ॥ ४० ॥
पत्रपुष्पफलादीनां बीजाद्येषु च सर्वतः ।
विद्यमानोऽपि तेष्वेव सूक्ष्मत्वान्न तु विद्यते ॥ ४१ ॥
दह्यमानेषु बीजेषु सूक्ष्मत्वान्न तु दह्यते ।
तेजोग्नि मणिकांसानाम् आकाशे दर्शने तथा ॥ ४२ ॥
आपशस्त्रानिपाकेन न हि वेदोऽत्र दृश्यते ।
एषं पत्रफलादीनां बीजाद्ये प्रसवेषु च ॥ ४३ ॥
सूक्ष्मत्वाद्देवदेवस्य च्छेददाहो न दृश्यते ।
प्। २१३)
सर्वतः पाणिचरणं सर्वतोऽक्षिशिरोमुखम् ॥ ४४ ॥
सर्वव्यापि स्वरूपेण तत्वं सर्वगतं यतः ।
तस्मात्तन्न विकल्पेत अविचारेण शोभते ॥ ४५ ॥
प्रत्यक्षे दृश्यमाने तु हेतुस्तत्र न कारणम् ।
सर्वाभासन्निराभासमरूपसर्वरूपकम् ॥ ४६ ॥
नैकदेशस्थितत्वाच्च तस्य आवाहनं कुतः ।
सर्वव्यापि शरीरे स्वे पठ्यते वर्णसंहरौ ॥ ४७ ॥
योगपीठस्य शब्देन तथा पूर्वस्थितेन तु ।
यतस्वदेहे पठितो निरोधोऽस्य कुतस्मृतः ॥ ४८ ॥
सर्वसान्निध्य शब्देन स्वतनौ पठितो यतः ।
प्। २१४)
सान्निध्यकारणञ्चैव विरोधञ्च न विद्यते ॥ ४९ ॥
एवमेतानि रूपाणि तथान्यानि शिवस्य तु ।
विधिसामग्र्यहेतौ तु कीर्तिता हीनशासने ॥ ५० ॥
आवाहनञ्च देवेशि क्रियात्मकविसर्जनम् ।
नचैतदर्थवादस्तु विधिवादः प्रकीर्तितः ॥ ५१ ॥
विधिवादं समासाद्य देवा ब्रह्मपुरोगमाः ।
ऐश्वर्यमतुलं लाभममरत्वञ्च शाश्वतम् ॥ ५२ ॥
भुक्तिमुक्तिपदं शास्त्रं शैवं नाम महात्मने ।
नहि दोषो विशोधो वा उभयार्थप्रसिद्धिदः ॥ ५३ ॥
देव्युवाच
प्। २१५)
रथ्यापुरुषवद्दोषो भवतीति शिवेन्यथा ।
प्रदेशिनीति वृत्तिः स्यान्न तु सर्वगता विभोः ॥ ५४ ॥
ईश्वरः
लक्षालक्षमयो देवः शिवः परमकारणः ।
अर्चायां लक्षणोपेतं जपयोगे तथैव च ॥ ५५ ॥
मनोबुद्धिरहङ्कारमन्तःकरणसञ्ज्ञितम् ।
तदेव स्थानमित्युक्तं मनोबुद्ध्यादि कल्पितम् ॥ ५६ ॥
सङ्कल्पबुद्धिरहितमहङ्कारविवर्जितम् ।
स्तुत्यादिविधि निर्मुक्तं परापस्थमिदं स्मृतम् ॥ ५७ ॥
स तु सर्वगतो देवी लक्षालक्षविवर्णितः ।
प्। २१६)
देव्युवाच
यदि सर्वगतो देवस्सर्वावस्थोष्ववस्थितः ॥ ५८ ॥
तस्मात् स्थानविकल्पस्तु न तत्कुर्यान्महेश्वर ।
उभयार्थप्रसिध्यर्थं शैवं ज्ञानमुदाहृतम् ॥ ५९ ॥
सर्वव्यापी महेशानो मुक्तौ को दोषमावहेत् ।
ईश्वरः
सर्वङ्गतेषु भगवान् न हि देहेषु पूज्यते ॥ ६० ॥
लिङ्गेऽथवान्यत्र शुभे सम्पूज्यो भगवान् शिवः ।
आवाहनमनुध्यानं मनो भुक्ति निरोधनम् ॥ ६१ ॥
शिवेन सह संयोगं चिन्तयेन्मनसा धिया ।
प्। २१७)
अर्चयेत् सकलं देवं जपेत्सकलनिष्कलम् ॥ ६२ ॥
ध्यायेज्ज्योतिर्मयं सूक्ष्मं कलाभिन्नं तु तर्पयेत् ।
व्योम्नि स्फटिकशुद्धाभं जरामृत्युविनाशनम् ॥ ६३ ॥
मनसा मोक्षसिध्यर्थं निष्कलन्तु लयं कुरु ।
स्नाने तु निर्मलो मन्त्री जपात्सिद्धिर्न संशयः ॥ ६४ ॥
पूजायां सन्निधावेव होमेनैव फलप्रदः ।
ध्यानेन सर्वगं देवं योगयोगित्वमाप्नुयात् ॥ ६५ ॥
व्रतेन कायशुद्धिः स्यात् दीक्षायां मुक्तिरिष्यते ।
आवाहनं स्थापनञ्च सान्निध्यं सन्निरोधनम् ॥ ६६ ॥
विधौ स्थितानि नामानि कर्मणां कथितानि तु ।
प्। २१८)
न चैवावाप्यते कश्चिन्न च कश्चिन्निवेश्यते ॥ ६७ ॥
निरुध्यते न देवेशि सान्निध्यं क्रियते न च ।
व्यापी मन्त्रस्वरूपेण चिन्तयन्ति परं शिवम् ॥ ६८ ॥
तदा वाहनमित्युक्तं क्षमस्वेति विसर्जनम् ।
इति निश्वासकारिकायाम् एकत्रिंशत्पटलः ।