देव्युवाच
षड्वणूरहितेत्येवं यत्त्वयोक्तं महेश्वर ।
तन्ममाचक्ष्व देवेश वर्णे हीनं यदा भवेत् ॥ १ ॥
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छितम् ।
तदहं ते प्रवक्ष्यामि यत्सुरैरपि दुर्लभम् ॥ २ ॥
पञ्चधा देवदेवेशि वेदितव्यं प्रयत्नतः ।
वर्णभेदस्तु ज्ञातव्यं तत्त्वभेदञ्च तत्वतः ॥ ३ ॥
वायुभेदं पुनस्तस्य देवदेवस्य कीर्तितम् ।
देवतावस्थाभेदञ्च पञ्च भेदास्समासतः ॥ ४ ॥
प्। १९८)
एभिभेदैर्यदा हीनो देवदेवे जगद्गुरुः ।
तदा तु कथितो देवि षड्वर्णरहितश्शिवः ॥ ५ ॥
देव्युवाच
वर्णभेदः कथं देव तत्वभेदश्च शङ्कर ।
वायुभेदं पुनस्तस्य देवतावर्णभेदनम् ॥ ६ ॥
एभिर्हीनं यदा देव सद्भावं तस्य कीदृशम् ।
तन्ममाचक्ष्व देवेश अत्र मे संशयो महान् ॥ ७ ॥
ईश्वरः
एतानि कथयिष्यामि यद्यथा तु वरानने ।
तद्गतस्तन्मयो भूत्वा शृणु एकाग्रमानसा ॥ ८ ॥
प्। १९९)
वर्णभेदं मया ख्यातं तच्छृणुष्व वरानने ।
वर्णैर्गुप्तं विलुप्तञ्च तद्यथा कथयामि ते ॥ ९ ॥
अकारेण विलुप्तेन ओङ्कारश्शिववर्जितः ।
तेन देवि विलुप्तेन पञ्चमेन समन्वितः ॥ १० ॥
पञ्चमेन यदा हीनष्षष्ठस्तत्र प्रकीर्तितः ।
षष्ठहीनं यदा देवि मकारस्तत्र दृश्यते ॥ ११ ॥
तेन हीनं यदा देवि कथं चन्द्रनिभो भवेत् ।
यदा तेन विहीनस्तु षड्वर्णरहितश्शिवः ॥ १२ ॥
सकलस्य तु तत्वस्य वर्णैर्हीनस्तु निष्कलः ।
न लोपेन वरारोहे यस्मिन्वक्रहलाकृतिः ॥ १३ ॥
प्। २००)
तत्वे हीनं यदा देवि तस्यैव कथयामि ते ।
सप्ततत्वादि देहेऽस्मिन् मया पूर्णमुदाहृता ॥ १४ ॥
षड्भिस्तत्वैः विहीनस्तु कर्तव्यः परमेश्वरः ।
पञ्च तत्वा स्थिता ह्यूर्ध्वमयश्चैव व्यवस्थितः ॥ १५ ॥
तैर्विहीनं यदा देवि षड्वर्णरहितो भवेत् ।
वायुभेदं पुनस्तस्य कथ्यमानमिदं शृणु ॥ १६ ॥
यस्मिन् यस्मिन् स्थितास्ते वै श्रूयतान्तु यथाक्रमम् ।
उदानस्संस्थितो ह्यूर्ध्वे अपानोऽधो व्यवस्थितः ॥ १७ ॥
प्राणो मध्यगतस्तत्र व्यानस्सन्धानगोचरे ।
समानस्सर्वगस्तत्र व्यापी तेषां धनञ्जयः ॥ १८ ॥
प्। २१)
एभिस्सर्वे यदा हीनो देवदेवो जगद्गुरुः ।
तदा तु कथितो देवि षड्वर्णरहितश्शिवः ॥ १९ ॥
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्शिव एव च ।
शक्तिनादेन तु यदा हीनं तैर्विहीनस्तु निष्कलः ॥ २० ॥
सितरक्तपीतकृष्णं स्फटिकाभं मनोरमम् ।
एभिर्वर्णैर्यदा हीनं षड्वर्णरहितो भवेत् ॥ २१ ॥
एभिर्वर्णैर्यदा हीनो बिन्दुरेको व्यवस्थितः ।
तदान्तौ परमं शान्तं वर्णरूपविवर्जितम् ॥ २२ ॥
न स्वरव्यञ्जनं तत्र न रूपं नैव भावना ।
न मनो विद्यते तत्र चिन्ता तत्र न विद्यते ॥ २३ ॥
प्। २०२)
न तत्र विद्यते किञ्चित् यजनो नात्र गम्यते ।
देव्युवाच
अद्याहं देव जानामि जीवितञ्च सुजीवितम् ॥ २४ ॥
किञ्चिद्दोदूयते चित्तं तन्ममाचक्ष्व शङ्कर ।
व्यञ्जनस्वरनिर्मुक्तं वर्णरूपविवर्जितम् ॥ २५ ॥
त्वया देव समाख्यातं कथं विज्ञायते प्रभो ।
ईश्वरः
गुरुपारं पराद्देवि सम्प्रदायमिवोदितम् ॥ २६ ॥
न चाद्म कथयिष्यामि गुरुवक्त्रकलामृते ।
यथा येन च भावेन भावज्ञः कथयेद्गुरुः ॥ २७ ॥
प्। २०३)
तत्तथा तु न चान्योस्ति श्रद्धातव्यं हि शोभने ।
यथा च भावमाभावे भावं भावति शोभने ॥ २८ ॥
तथा ते कथयिष्यामि निवृत्तिं येन यास्यसि ।
इति निश्वासकारिकायां तृंशत्पटलः ॥