२९

देव्युवाच

सार्वज्ञादिगुणादेव गीयन्ते सर्वतश्शिवे ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ १ ॥

ईश्वरः

पशुं पाशान् तथा तत्वान् उद्भवं प्रलयं तथा ।
सर्वज्ञानादिदेवेशि सर्वज्ञस्तेन सोच्यते ॥ २ ॥

सर्वैश्वर्यसुसम्पूर्णास्सर्वाश्रयनिराश्रयः ।
सर्वगः परिपूर्णश्च परितृप्तस्स उच्यते ॥ ३ ॥

अनादित्वात्स्वभावश्च सर्वात्मा दृढगोचरः ।

प्। १९६)

स्वशक्त्या बोधयेद्यस्मात् तस्माद्बोधः प्रकीर्तितः ॥ ४ ॥

उत्पादयेज्जगत्कृत्स्नं त्रैलोक्यं स चराचरम् ।
स्थितिनाशश्च देवेशस्वतन्त्रस्तेन सोच्यते ॥ ५ ॥

नित्यत्वादजरत्वाच्च सर्वज्ञत्वाच्च शङ्करः ।
योगैरव्याहतत्वाच्च अलुप्तस्तेन सोच्यते ॥ ६ ॥

अनादिमध्यनिधनं परं वेत्ति कश्चनम् ।
शक्तेरव्याहतत्त्वाच्च अनन्तस्तेन सोच्यते ॥ ७ ॥

एतेह्यङ्गा महेशस्य वेदितव्याः प्रयत्नतः ।
मुच्यते सर्वपापेभ्यः शिवं याति अनामयम् ॥ ८ ॥

इति निश्वासकारिकायां ज्ञानकाण्डे एकोनत्रिंशत्पटलः ।