२८

देव्युवाच

सकलो निष्कलश्चैव तथा सकलनिष्कलः ।
सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयोऽथ पञ्चधा ॥ १ ॥

कीदृशस्सकलो देवो निष्कलश्चैव तत्र तु ।
तृतीयं भेदमाख्या हि यथा सकलनिष्कलम् ॥ २ ॥

सूक्ष्मो भिन्नकलश्चैव भेदानि कथयस्व मे ।

ईश्वरः

प्। १८९)

एतत्ते कथयिष्यामि पञ्च भेदात्मकं शिवम् ॥ ३ ॥

येन विज्ञातमात्रेण न पुनर्जन्मतां व्रजेत् ।
व्योमव्यापी परो देवः पञ्चमन्त्रो महेश्वरः ॥ ४ ॥

अष्टत्त्रिंशत्कलाविद्धो अ आमज्योतिरूपवान् ।
सकलश्चेति यः प्रोक्त स्वयं देवो ह्युमापतिः ॥ ५ ॥

सकलप्रकृतिस्थो हि प्रेरके च सदा पुमान् ।
व्यापयेद्भुवनं सर्वं व्यापयेत्सर्वदेहिषु ॥ ६ ॥

अवस्थितश्च सर्वत्र तेनासौ सकलस्मृतः ।
अविकल्पसमो भावो यत्र मन्त्रेण युज्यते ॥ ७ ॥

मन्त्राक्षरपदैः सर्वैः सकलस्तेन शब्द्यते ।

प्। १९०)

स्थूलसूक्ष्मेषु भूतेषु स्थितस्सर्वशरीरिणाम् ॥ ८ ॥

प्रधानपुरुषव्यापी तेनाऽसौ सकलस्मृतः ।
व्यापित्वात्सकलो देवाः कलातत्वं प्रकीर्तितम् ॥ ९ ॥

कलानां निलयो यस्मात् तेनाऽसौ सकलस्मृतः ।
सकलः कुरुते सृष्टिं मन्त्रसिद्धिं प्रयच्छति ॥ १० ॥

नाशयेत्सर्वविघ्नानि मुक्तिमन्ते करोति सः ।
अप्रमेयोह्यनिर्देश्यो नौपम्यो रूपवर्जितः ॥ ११ ॥

सर्वतत्वपरः सूक्ष्मो निष्कलस्तत्र उच्यते ।
देहतत्वपरिच्छिन्ने निनादः सर्वदेहिनाम् ॥ १२ ॥

नादकलयाऽतीतस्सर्वों निष्कल उच्यते ।

प्। १९१)

सकलेन विनिर्मुक्तो बिन्दुनादविवर्जितः ॥ १३ ॥

व्योमस्थं निष्कलं तत्वं वाच्यावाच्यविवर्जितम् ।
विद्याविद्याविनिर्मुक्तं निष्कलं परमं पदम् ॥ १४ ॥

व्योम्नि स्फटिकसङ्काशं जरामृत्युविनाशनम् ।
मनसा मोक्षसिध्यर्थन्निष्कले तु लयं कुरु ॥ १५ ॥

बिन्दुनादात्मकञ्चैव दृक् श्रोत्रेन्द्रियगोचरम् ।
दृश्यऽत्रार्धविमलं ज्ञेयं सकलनिष्कलम् ॥ १६ ॥

निष्कलं तद्विजानीयात् रूपं सकलनिष्कलम् ।
ओङ्कारशब्दतन्मात्रं श्रूयते कथ्यते न च ॥ १७ ॥

न च दृश्यति रूपेण ज्ञेयं सकलनिष्कलम् ।

प्। १९२)

सकलं योजयित्वा तु निष्कलं योज्यते यदा ॥ १८ ॥

तदा विचक्षणैर्ज्ञेयं शिवं सकलनिष्कलम् ।
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः ॥ १९ ॥

क्रियायोगादि गम्योऽसौ ज्ञेयः सकलनिष्कलः ।
चतुर्थमाकाशमयं नादातीतमतीन्द्रियम् ॥ २० ॥

सदाशिवाख्यममलं रूपं सूक्ष्ममिहोच्यते ।
परमाणुसुसूक्ष्मत्वात् भावितव्यं निरामयम् ॥ २१ ॥

अत्यन्तगहनं सूक्ष्मप्राणातीतमलक्षणम् ।
परमाणुसुसूक्ष्मोऽसौ हृदि मध्ये व्यवस्थितः ॥ २२ ॥

प्रेरते च जगत्सर्वं स वै सूक्ष्मः प्रकीर्तितः ।

प्। १९३)

मन्त्राक्षरपदैरग्रैर्वियस्थं पश्यते सदा ॥ २३ ॥

ज्ञानयोगप्रकाशार्थं तज्ज्ञेयं सूक्ष्मदर्शनम् ।
पापक्षयाच्च योगाच्च ध्यानस्योपचयात्तथा ॥ २४ ॥

हृज्ज्योतिर्मध्यसंलीनं शिवं सूक्ष्मं स पश्यति ।
सर्वान्तस्थस्समाधिस्थ अन्तःकरणगोचरः ॥ २५ ॥

नेत्रैः न दृश्यते सूक्ष्मं योगिभिस्तदुपास्यते ।
भूजलाग्न्यनिलाकाश राज्ये(आत्मे)न्दुरविरूपवान् ॥ २६ ॥

स शिवः सर्वधर्मात्मा स तु भिन्नकलो भवेत् ।
अकारादि क्षकारान्तं रूपं मन्त्रकलात्मकम् ॥ २७ ॥

विद्यते यस्तु बहुधा सकलो भिन्न उच्यते ।

प्। १९४)

मन्त्राक्षरपदैः यस्मात् पदार्थैः संस्थिता मतिः ॥ २८ ॥

भिन्नार्थवाचकैश्शब्दैः विद्याभिन्नकलश्शिवः ।
एवन्तु दशधा ज्ञेयं पुनर्ज्ञेयन्तु पञ्चधा ॥ २९ ॥

सप्तधा च चतुर्थाष्टौ चतुर्भिः पुनरेव च ।
शिवस्साङ्गोऽथ गायत्री सद्याद्याः पञ्च चापरे ॥ ३० ॥

विद्येशा लोकपालास्ताभिन्नैकं सकलं शिवम् ।
भिन्नावस्थमिदं ज्ञात्वा योजयेत्सुसमाहितः ॥ ३१ ॥

भिनत्तिपाशसङ्घातं तेन भिन्नकलस्मृतः ।
एष ते कथितो देवि पञ्चवस्थः परश्शिवः ॥ ३२ ॥

ज्ञात्वैवं मुच्यते पाशैश्शिवं याति स चाव्ययम् ।

प्। १९५)

इति निश्वासकारिकायाम् अष्टाविंशति पटलः ॥ ३३ ॥