२७

ईश्वरः

वक्ष्ये नित्यप्रबुद्धस्य गुणोदयमतः परम् ।
यथा तस्य मतिर्देवि जायते परमे पदे ॥ १ ॥

प्। १८५)

विचार्य निपुणो भूत्वा तत्वत्रयमहामतिः ।
तत्वातीतं यदान्वेषी गुरुशुश्रूषणे रतः ॥ २ ॥

मोक्षमिच्छति योगेन लिङ्गं सङ्गृह्यते पुनः ।
लिङ्गहीनेत्वगमनं तस्माद्देवि न सिध्यति ॥ ३ ॥

इन्द्रियार्थे यथा चित्तं नित्यं गच्छति देहिनाम् ।
तया चैवेन्द्रियातीते तस्य नैकाकृते पदे ॥ ४ ॥

मनो न गोपमाज्ञेयं रूपं गृह्णाति सर्वतः ।
नीयते च यदा रूपं गच्छते * * * तदा ॥ ५ ॥

नानाभावं भवेत्क्षीणे स्वभावे केवले स्थिते ।
तदा निवर्तते देवि अन्यथा न निवर्तते ॥ ६ ॥

प्। १८६)

मनो निवर्तते रूपान्न वक्तुं शक्यते क्वचित् ।
न तत्र कथयेत्किञ्चित् को वा पृच्छति सुन्दरि ॥ ७ ॥

मन्तव्यं तत्परं ब्रह्म सङ्कल्परहितं यदा ।
सङ्कल्पञ्चैव वाचा च तस्मात्प्राज्ञः परित्यजेत् ॥ ८ ॥

शिष्याचार्यस्य सम्बन्धात् ज्ञात्वा तन्न निवर्तते ।
तत्रैव तु रतिं नित्यं बुद्धिः प्रज्ञा स्मृतिर्मतिः ॥ ९ ॥

अनुच्चार्यमसन्दिग्धं स्वरवर्णविवर्जितम् ।
शिवं शान्तं परं सूक्ष्मं यो वै वेत्ति स शैववित् ॥ १० ॥

अक्षरादिषु सर्वेषु क्षरेष्वक्षरतः क्रमात् ।
ये वदन्ति ततो मूढाः न ते शैवस्य पारगाः ॥ ११ ॥

प्। १८७)

पञ्चाशाक्षरनिर्मुक्तं क्षराक्षरविवर्जितम् ।
बिन्दुनादं परित्यज्य मन्त्रग्राममशेषतः ॥ १२ ॥

दन्तोष्ठतालुजिह्वाया स्पन्दनं यत्र दृश्यते ।
अक्षरत्वं कुतस्तस्य क्षरत्वे वर्तते सदा ॥ १३ ॥

यावदुद्गिरते वाचा यावख्यो प्रवर्तते ।
तावत्तत्सकलो ज्ञेयो निष्कलस्तु ततोऽन्यथा ॥ १४ ॥

यत्किञ्चित् चक्षुषा ग्राह्यं श्रवणाच्छ्रूयतेऽपि वा ।
सर्वमेतदनित्यन्तु स देवासुरमानुषम् ॥ १५ ॥

अक्षरेषु कुतो मोक्ष आकाशे कुसुमं कुतः ।
सिकतासु कुतस्तैलं शशशृङ्गे धनुः कुतः ॥ १६ ॥

प्। १८८)

इति देवि समाख्यातं प्रबुद्धस्य तु लक्षणम् ॥ १६ १।२ ॥

इति निश्वासकारिकायां ज्ञानकाण्डे सप्तविंशतितमः पटलः ॥