ईश्वरः
शुक्लञ्च रससंयुक्तं यस्माद्देहस्य सम्भवम् ।
प्। १६३)
ऋतुकाले यदा शुक्लं निर्दोषं योनिसंस्थितम् ॥ १ ॥
तदा तद्वायुना घृष्टं स्त्रीरक्तेनैकतां वृजेत् ।
विसर्गकाले शुक्लस्य जीवःकारणसंयुतः ॥ २ ॥
यस्य यस्याशयात्पाकात् भोक्तुर्भोगाय सर्पते ।
स तत्रैव रतिं याति प्राक् तनेनोपरञ्जितः ॥ ३ ॥
प्रविचारक्षमो वाऽपि नोद्वहेत्तं विचारितम् ।
तच्चित्तः तन्मयो भूत्वा भुङ्क्ते भोगान् बुभुक्षितः ॥ ४ ॥
अतीत्य जीवं भावानाम् उच्छ्राय पतनं तथा ।
संसृतः प्रविशेद्योनौ कर्मभिन्नैर्नियामतः ॥ ५ ॥
तच्छुक्लं रक्तमेकस्थम् एकाहात्कललं भवेत् ।
प्। १६४)
पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् ॥ ६ ॥
बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्तदा ।
द्विसप्ताहाद्भवेत्पेश्याद्रक्तमांसं तदा दृढम् ॥ ७ ॥
बीजस्येवाङ्कुराः पेश्याः पञ्चविंशति रात्रिभिः ।
पुनश्च मासमात्रेण पञ्चधा जायते तु सः ॥ ८ ॥
ग्रीवा शिरश्च स्कन्धौ च पृष्ठवंशस्तथोदरम् ।
मासद्वयेन सर्वाणि तमसस्सम्भवन्ति हि ॥ ९ ॥
त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गव्यक्तसन्धयः ।
मासैश्चतुर्भिरङ्गुल्य प्रजायन्ते यथाक्रमम् ॥ १० ॥
मुखं नासा च कर्णौ च मासैर्जायन्ति पञ्चभिः ।
प्। १६५)
दन्तपङ्क्तिस्तथा जिह्वा जायन्ते तु नखादयः ॥ ११ ॥
ओष्ठौ कपोलौ जायन्ते षण्मासाभ्यन्तरेण तु ।
वायुर्मेढ्रमुपस्थञ्च नाभिश्चैव प्रजायते ॥ १२ ॥
सन्धयश्चैव सर्वाणि मासैर्जायन्ति सप्तभिः ।
अङ्गप्रत्यङ्गसम्पूर्णं शिरः केशसमन्वितम् ॥ १३ ॥
विभक्तावयवस्सर्वं पुनर्मासाष्टकेन तु ।
पञ्च पञ्चार्थसंयुक्तः परिपक्वस्स तिष्ठति ॥ १४ ॥
मातुराहारवीर्येण षड्विधेन रसेन तु ।
नाभिमूलनिबन्धेन वर्धते स दिने दिने ॥ १५ ॥
ततः स्मृतिं लभेज्जीवः सम्पूर्णेऽस्मिन् शरीरके ।
प्। १६६)
सुखदुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥ १६ ॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनि सहस्राणि मया दृष्टानि जायता ॥ १७ ॥
अधुना जातमात्रोहं प्राप्तसंस्कार एव च ।
तत्र श्रेयः करिष्यामि येन गर्भो न सम्भवेत् ॥ १८ ॥
गर्भस्थः चिन्तयन्नैव मयं गर्भाद्विनिर्गतः ।
अध्येष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥ १९ ॥
एवं स गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायमचिन्तयन् ॥ २० ॥
यथा गिरिवराकान्तः कश्चिद्दुःखेन तिष्ठति ।
प्। १६७)
तथा जरायुषा देही दुःखी तिष्ठति वेष्टितः ॥ २१ ॥
पतितः सागरे यद्वा तद्दुःखं भवति दारुणम् ।
गर्भोदकेन सिक्ताङ्गः तथान्ते व्याकुलः पुमान् ॥ २२ ॥
लोहकुम्भे यथा न्यस्तः पच्यते क्वचिदग्निना ।
गर्भकुम्भे तथा क्षिप्तः पच्यते जाठराग्निना ॥ २३ ॥
सूचीभिरग्निवर्णाभिर्भिन्नस्य च निरन्तरम् ।
यद्दुःखमुपजायेत गर्भेह्येष गुणं भवेत् ॥ २४ ॥
गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् ।
देहेन दुःखबहुलं सुघोरमिति सङ्कुलम् ॥ २५ ॥
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् ।
प्। १६८)
चरस्कराणां सत्यानां गर्भे दुःखं महत्स्मृतम् ॥ २६ ॥
गर्भात्कोटिगुणं दुःखं योनियन्त्रप्रपीडनात् ।
मूर्छा च जायते तीव्रा जायमानस्य देहिनः ॥ २७ ॥
त्रिभिश्च कोटिभिश्चाण्डेश्च्छन्नस्तन्निद्राद्यकूपकैः ।
शरीरं स्थूलसूक्ष्माणि दृश्यादृश्याभिरन्वितम् ॥ २८ ॥
तावतीभिश्च नाडीभिः कोटिभिस्तत्समन्वितम् ।
प्रस्वेदमशुचिर्याति रन्तस्थं स्रवते बहिः ॥ २९ ॥
इति देहगृहञ्जातं नित्यस्यानित्यमात्मनः ।
अविशुद्धं विशुद्धस्य कर्मभिस्तस्य निर्मितम् ॥ ३० ॥
गर्भमासे महद्दुःखं योनियन्त्रप्रपीडनात् ।
प्। १६९)
बाल्ये च दुःखमज्ञानात् कौमारे गुरुशासनात् ॥ ३१ ॥
यौवने कामरोगात्तु दुःखमीर्ष्या यथा पुनः ।
कृषिवाणिज्यसेवादि गोरक्षाद्यैश्च कर्मभिः ॥ ३२ ॥
वृद्धभावे च जरया व्याधिभिश्च प्रपीडितः ।
मरणे च महद्दुःखं प्रार्थनायां ततोऽधिकम् ॥ ३३ ॥
राजाग्निजलदायाद्यैः चोरशतृभयं महत् ।
अर्थस्यार्जनरक्षा वा दुःखन्नाशे व्यये पुनः ॥ ३४ ॥
कार्पण्यं मत्सरं दभ्रस्तृणव्याधिभयं महत् ।
अकार्ये सम्प्रवृत्तिश्च दुःखं वैतीन्धने सदा ॥ ३५ ॥
अन्योन्यातिशयं दुःखमन्योन्याभिभवे पुनः ।
प्। १७०)
अन्तर्बहिः प्रकोपश्च दुःखं राज्ये महीभृताम् ॥ ३६ ॥
अनित्यता प्रभावानाम् उच्छ्रायाः पतनं तथा ।
अन्योन्यमहिमा चैवान्योन्यस्यापि भक्षणम् ॥ ३७ ॥
अन्योन्यातिशयैः पातैः सम्भवा भोगसम्प्लवाः ।
छिन्नभिन्नोपि शस्त्रैश्च व्याधिभिश्च प्रपीडिताः ॥ ३८ ॥
दुःखेन त्यजते देहं न विरागी कथञ्चन ।
गात्रं स्वं भिन्नमप्यस्त्रैर्विकलञ्चेन्द्रियैरपि ॥ ३९ ॥
नोत्सहेत परित्यक्तुं तद्भावगुणरञ्जितः ।
रागञ्च रञ्जकं कस्य विषयानन्दलक्षणम् ॥ ४० ॥
येन युक्तं क्षयं यान्ति तिर्यङ्मानुषदेवताः ।
प्। १७१)
नौषधीर्न धनादानं न माता न च बान्धवाः ॥ ४१ ॥
शक्नुवन्ति परित्रातुं नरं कालप्रपीडितम् ।
(साधयान्तं तपो जप्यं योगसिद्धिर्महात्मभिः ॥ ४२ ॥
कालमृत्युवशं प्राप्य जीर्यते सालसैर्नरैः ।
सुसाधन तपोजप्यैः योगसिद्धैर्महात्मभिः ॥ ४३ ॥
कालमृत्युरपि प्राज्ञैः जीर्यते नालसैर्नरैः ।
हातातमातहा कान्ते क्रन्दत्येवं सुदुःखितैः ॥ ४४ ॥
मण्डूक इव सर्पेण पीड्यते मृत्युना जनः ।
बान्धवैस्तु परिष्वक्तः प्रियैश्च परिवारितः ॥ ४५ ॥
निश्वसन् दीर्घमुष्णञ्च मुखेन परिशुष्यता ।
प्। १७२)
चतुरन्ते च खड्वायां परिवृत्य मुहुर्मुहुः ॥ ४६ ॥
समूढः क्षिप्यतेभ्यङ्गानूहस्तापादावितस्ततः ।
खट्वात्तु वाञ्छिते भूमिं भूमेः खट्वां पुनर्महीम् ॥ ४७ ॥
विवस्तृस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकम् ॥ ४८ ॥
चिन्त्यमानस्तु वित्तानि कस्यैतानि मृते मयि ।
पञ्चाङ्गैः खिन्नमानश्च कालपाशेन कर्पितः ॥ ४९ ॥
मृयते पश्यतामेव गले घुरघुरायते ।
जीवस्तृणजदूकेव देहाद्देहां विशेत्क्रमात् ॥ ५० ॥
योहमस्मिन् मलाकीर्णे रमामि क्षणभङ्गुरे ।
प्। १७३)
नानाव्याधिसमाकीर्णे विषयोरगभूषिते ॥ ५१ ॥
मदोन्मादैः विमुच्यन्ते विनयाचारतस्करैः ।
कामक्रोधभवैस्तापैः मुहुर्मुहुरतापितः ॥ ५२ ॥
अत्यन्ते केशबहुले जराव्याधि भयाकुले ।
चिन्ताशोकसुसम्पूर्णे अहो देवि सुदुःखितः ॥ ५३ ॥
चर्मापिनद्धे दुर्गन्धवसाशोणितकर्दमे ।
विण्मूत्ररेतस्सम्पूर्णे कथमत्र रमाम्यहम् ॥ ५४ ॥
दर्पणेषु यथाच्छाया चित्रे रूपं यथा स्थितम् ।
अनर्थानि मनोज्ञानि तद्वदेतच्छरीरकम् ॥ ५५ ॥
महामायोर्मिसन्ताने त्रैगुण्यावर्त सङ्कुले ।
प्। १७४)
तत्वग्राहसमाकीर्णे प्लवोदज्ञानसागरे ॥ ५६ ॥
एतमर्णवमालोक्य भयाद्विह्वलतां गतः ।
सुचिरं दीर्घनिश्वासमुत्सृज्य परिवेद्य च ॥ ५७ ॥
अहो जगत्यज्ञत्वं सन्निमग्नमनागमम् ।
पुत्रागारादिकैश्वर्य व्याकुलीकृतमानसः ॥ ५८ ॥
त्वमाता त्वपिता चैव त्व दाराणि सुताः त्व वै ।
त्वचार्थाः त्व च मित्राणि बान्धवाः त्व गृहाणि वै ॥ ५९ ॥
मोहोऽयमस्य जगतः केनापि विहितः पुरा ।
पुत्रदारकुटुम्बार्थाः शतृवत्प्रतिभान्ति मे ॥ ६० ॥
यदात्मना तु तं कर्म वाङ्मनः कायसम्भवम् ।
प्। १७५)
तस्यानुसदृशं भुङ्क्ते फलमेकोऽन्यजन्मनि ॥ ६१ ॥
इतश्चेतश्च वित्तानि कर्मणा येन केनचित् ।
एषामाश्रित्य भोगाय कल्पितास्तेन दुःखिताः ॥ ६२ ॥
ये बान्धवाः प्रियास्तस्य धर्मराजनिकेतनम् ।
सहाया न भवन्त्येते नानुगच्छन्ति गच्छताम् ॥ ६३ ॥
जन्तुरेकस्तु म्रियते जायते चैक एव हि ।
एकः सुकृतमश्नाति तथा दुष्कृतमेव च ॥ ६४ ॥
विदित्वैवमसम्मूढः कालोदरगतं जगत् ।
वैराग्यमपरमास्थाय मृगयत्यात्मनो गतिम् ॥ ६५ ॥
केनोपायेन संस्कारमिदमत्युग्ररूपिणम् ।
प्। १७६)
सन्तरिष्ये सुखेनाहमचिरादशुभार्णवम् ॥ ६६ ॥
दानयज्ञतपोन्यासवैराग्यज्ञानवृत्तयः ।
नौरिवोत्तारणायेदं संसाराम्भोनिधे स्मृतः ॥ ६७ ॥
यत्फलं दानयज्ञादि कर्मणा समुपार्जितम् ।
तदस्याप्युपभोगेन क्षयमायात्यशेषतः ॥ ६८ ॥
(तदस्याप्युपभोगेन क्षयमायात्यशेषतः ॥)
यज्ञात्स्वर्गफलावाप्तिः तत्क्षयात्पुरा गतिः ॥
कर्मतः स्वर्गतो यस्मात् तस्मादावर्तनं पुनः ॥ ६९ ॥
एवमादि गुणोपेता दानज्ञानादिकर्मणा ।
सम्प्रदृष्टा गतिरियं सर्वे ते क्षयधर्मिणः ॥ ७० ॥
प्। १७७)
तपः सम्यक् सुतप्तस्य स्वर्गमेव परं फलम् ।
क्षयमायाति विज्ञानं कर्मसन्यासमव्ययम् ।
सन्यस्तमप्यविज्ञानादुप * * * * * * ॥ ७२ ॥
वैराग्यवृत्तिरपरा ज्ञानवृत्तिस्तथा परा ॥ ७३ ॥
महदन्तरमर्थज्ञैः अमरैरप्युदाहृतम् ।
प्रधानाश्रयमापन्नः पुनरायात्यधोगतिम् ।
ज्ञानादपुनरावृत्तिः भवेत्तदपि कारिणी ॥ ७५ ॥
प्। १७८)
दानादि वैराग्यान्ताच्च कर्मणे * * * * * ।
क्रियाश्च वेदविहिता णीयन्ते चतुरः क्रमात् ।
स कामा कामितफला न्यासयोगादिलक्षणाः ॥ ७७ ॥
यत् * * * * * * * * * * * * * * * ।
दानयज्ञव्रतादीनि देवताया यदाग्रतः ।
कर्माणि विनिवेद्यन्ते सा तु सन्यासिकी क्रिया ॥ ७९ ॥
योगमारुह्य यत्कर्म * * * * * * * * ।
यास्समुद्दिष्टाश्चतस्रस्त्रिगुणात्मिकाः ॥ ८० ॥
प्। १७९)
फलमासां प्रवक्ष्यामि पुनरप्यनुपूर्वशः ।
यत्किञ्चिदार्जितं पुण्यं हिंसा पू * * * * * ॥ ८१ ॥
शेषवृत्ती गुणमयी तिष्ठत्येकाप्यविप्लुता ॥ ८२ ॥
शेषवृत्तिवशात्सर्वे ततस्ते फलभो * * ।
शरीरेणोपभुञ्जन्ति तादृशेनैव कर्मणा ।
स्वर्गे वा नरके वाऽपि यत्र यत्र यथा तथा ॥ ८४ ॥
कृतानां कर्मणां * * * * * * * * * * ।
प्। १८०)
येऽप्यसङ्कल्पितफला विधिकर्म सवैदिकम् ।
सन्यासं ये प्रकुर्वन्ति कृताना * * * * * ॥ ८६ ॥
अव्यक्ते वा परिक्षीणे गुणे नाशेन विद्यते ॥ ८७ ॥
गुणैश्चैवा परिक्षीणे कथमेमाक्षे * * * ।
द्विविधस्तु भवेद्योगः सगुणो निर्गुणस्तथा ।
स्थूलसूक्ष्मविभागेन शिवेन परमात्मना ॥ ८९ ॥
सप * * * * * * * * * * * * * * ।
निर्गुणं योगं प्राप्य सगुणेन मुमुक्षवः ॥ ९० ॥
प्। १८१)
प्राप्नुवन्त्येव साम्राज्यं गुणैः शातिशयैः पुनः ।
भुक्त्वा शातिशयान् भोगान् अन्ते तत्र गुणात्मिकान् ॥ ९१ ॥
व्रजन्त्यनिच्छमानाश्च पुनरप्यधमां गतिम् ।
विद्यायोगेन सिद्धानां दुःखं सातिशयात्मकम् ॥ ९२ ॥
यदधः पातो भवति अतः कष्टतरं नु किम् ।
तस्मात् सातिशयं योगं स विद्याकल्पनायुतम् ॥ ९३ ॥
गुणं पाशात्मकं योगमिष्यते न विमुक्तये ।
अधुना कथयिष्यामि विद्यायोगस्य निर्णयम् ॥ ९४ ॥
निरालम्बेऽपि देवेशि शृणुष्व कथयामि ते ।
त्रिसरेणुभ्रमो वायुरेणुकः परिकीर्तितः ॥ ९५ ॥
प्। १८२)
चतुर्भिरणुकैर्मात्रैः अर्धमात्रा अणुद्वयम् ।
मनोवस्थमणुं विद्यात् वाक् स्थाने च अणुद्वयम् ॥ ९६ ॥
जिह्वाग्रे त्र्यणुकं विद्धि निसृतां मातृकां विदुः ।
ह्रस्वदीर्घपॢताख्यस्तु मात्रात्रयमुदाहृतम् ॥ ९७ ॥
प्लुतातीता पुनर्देवी चतुर्थांशः प्रकीर्तितः ।
एकमात्रं वदेच्चाषो द्विमात्रं वायसो वदेत् ॥ ९८ ॥
त्रिमात्रस्तु मयूरो वै एषा मात्रा विकल्पना ।
घण्टानादान्तसंस्थन्तु विरामो यः प्रकीर्तितः ॥ ९९ ॥
तद्विनादन्नदेन्नाद्वं हृदिस्थं कण्ठसम्पुटे ।
हृद्गतेनैव भावेन अनादी नादमव्ययम् ॥ १०० ॥
प्। १८३)
यदा विभाव्यतेऽव्यक्तमर्धमात्रं ततस्मृतः ।
मनसा चिन्तयेद्यावद्धृदिस्थन्नाभि भाषते ॥ १०१ ॥
अर्धमात्रार्धमित्युक्तमिति शास्त्रस्य निश्चयम् ।
यदेतदक्षरन्नाम अर्धमात्रार्धसंस्थितम् ॥ १०२ ॥
विद्यायोगस्स विज्ञेयो मुक्तियोगस्ततोऽन्यथा ।
स विद्यस्य तु योगस्य निर्णयं समुदाहृतम् ॥ १०३ ॥
मोक्षे हेतुरिति ज्ञानमेतदभ्युपगम्यते ।
एतत्प्रधानिकं सर्वं साङ्ख्यज्ञानार्थदर्शनम् ॥ १०४ ॥
एवं ज्ञात्वा तु देवेशि आचार्यमिदमब्रवीत् ।
भगवंस्तीव्रसंसारादज्ञानावर्तसङ्कुलात् ॥ १०५ ॥
प्। १८४)
त्रायस्व मामनुगतं शरण्यं शरणागतम् ।
त्वत्प्रसादादहं सर्वं विज्ञानामृतमुत्तमम् ॥ १०६ ॥
ज्ञातुमिच्छाम्यशेषेण यथावद्भवनाशनम् ।
पुरुषाव्यक्तयोरेवम् अन्तरं ज्ञानचक्षुषा ॥ १०७ ॥
ज्ञात्वा कैवल्यगुणभुक् कथयस्व प्रसादतः ।
इति निश्वासकारिकायां ज्ञानकाण्डे षड्विंशतिः पटलः ।