देव्युवाच
भगवञ्च्छ्रोतुमिच्छामि प्रबुद्धाबुद्धबुद्धयोः ।
सप्तकोटिमहातन्त्र नोक्तं पूर्वं हि मे वद ॥ १ ॥
कथन्त्वप्रबुद्धो ज्ञेयः प्रबुद्धश्च कथं भवेत् ।
बुध्यमानस्य वेदस्य यथातथ्ये वा मे वद ॥ २ ॥
प्। १५४)
शृणु देवि परं शुद्धम् अशुद्धं गुणसंवृतम् ।
पौरुषं गीयते तत्वमभवं भवगोचरम् ॥ ३ ॥
अमूर्तमप्रबुद्धत्वात् भोगैर्मायात्मकैरिदम् ।
क्रीडतेऽव्यक्तसंयोगात् बालक्रीडनकैरिव ॥ ४ ॥
अचेतनञ्चेतनेन निर्गुणेन गुणात्मकम् ।
व्यक्तमव्यमेतेन तेनाप्येतत्समावृतम् ॥ ५ ॥
न क्षीयते क्षीयमाणे जायमानेन जायते ।
पौरुषे व्यक्तजैर्भावैस्सहात्मीयैरिवा व्ययः ॥ ६ ॥
अजातमक्षीणमिदं पुरुषं पुरुषा भुवि ।
वदन्ति जातमित्येवं कृतञ्चाकृतबुद्धयः ॥ ७ ॥
प्। १५५)
अन्य एव क्षयं याति प्राप्नोत्यन्यस्तु वेदनाम् ।
अन्योऽत्र दुःखनिर्मुक्तः प्रभुस्तिष्ठत्यलक्षितः ॥ ८ ॥
अप्रबुद्धः प्रबुद्धश्च बुध्यमानस्तथैव च ।
त्रिधा रूपः पशुरयं भवत्येकोप्यनिन्दिते ॥ ९ ॥
आत्मानं प्रकृतिञ्चैव न हि वेदयतेऽन्तरम् ।
अप्रबुद्धस्तदा प्रोक्तः तत्वविद्भिरयं पशुः ॥ १० ॥
पुरुषोऽव्यक्तविज्ञातः बुध्यमानोऽभिधीयते ।
नित्यबुद्धः प्रधानेश पुरुषाधीश्वरः स्मृतः ॥ ११ ॥
प्राकृतैरप्रबुद्धत्वात् गुणैर्बध्नाति चात्मनः ।
ततः प्रवर्तते रागस्तत्सङ्गादशुभं पशोः ॥ १२ ॥
प्। १५६)
रागानुरञ्जितः पश्चाद्विषयाननु सेवते ।
तत्प्रसक्तस्सतान्येव विचरन्त्यत्र चिन्तया ॥ १३ ॥
ध्यायतस्तस्य विषयान् अहन्यहनि केवलम् ।
अभिभूय बलं कार्श्न्यम् अनिवार्यः प्रवर्तते ॥ १४ ॥
ततः कामाभिभूतस्य क्रोधो भवति दारुणम् ।
प्रवर्तते विमूढस्य बुद्धिनाशस्तु देहिनः ॥ १५ ॥
प्रवर्तते बुद्धिनाशादक्षानादि चतुष्टयम् ।
अज्ञानसङ्गात्पुरुषोः प्रयात्यव्यक्तसंश्रयम् ॥ १६ ॥
अव्यक्तसंश्रयाज्जन्म पुनः कर्म च दारुणम् ।
प्रवर्तते मोहसङ्गात् निर्गुणस्यापि देहिनः ॥ १७ ॥
प्। १५७)
प्रगुणैर्गुणसम्भूतैर्भाविभिर्भूतविग्रहः ।
प्रयात्यूर्ध्वमधश्चैव घटयन्त्रवदच्युतः ॥ १८ ॥
कोऽहं किमात्मकश्चैव कर्ता कार्यमथापि वा ।
बलवान् गीयते पापैः कोऽत्र दुःखानि कस्यचित् ॥ १९ ॥
देव्युवाच
किं हेतुकं सुखं दुःखम् अकस्मादुपयुज्यते ।
बालयौवनवृद्धादिरूपाण्येतानि कस्य वा ॥ २० ॥
जायते म्रियते कोऽत्र जायते वाऽपि वर्तते ।
को वा गृहं समुत्सृज्य शरीराण्यपगच्छति ॥ २१ ॥
एतत्कार्यमशेषेण भगवन् वक्तुमर्हसि ।
प्। १५८)
ईश्वरः
एतानि कथयिष्यामि माययापहृतः पुमान् ॥ २२ ॥
मोहयत्यज्ञानसंसर्गात् पश्यन्नपि न पश्यति ।
व्याधिजन्मजरामृत्यु दुःखाया सपरिच्छदः ॥ २३ ॥
जानन्नपि स मूढात्मा नोद्वेगमुपगच्छति ।
एवमव्यक्तजैर्भावैः गुणैरप्यनुरञ्जितः ॥ २४ ॥
बलाद्विकोशमन्योऽपि हीयते मायया बलात् ।
जायते वर्धते चैव दुःखाया स परिच्छदः ॥ २५ ॥
रज्वा च विरूपत्वं स्थूलात्मा स विनश्यति ।
एतदप्रतिबन्धस्य पुरुषस्य गुणान्तरम् ॥ २६ ॥
प्। १५९)
साम्प्रतं शृणु वक्ष्यामि बुध्यमानगुणोदयम् ।
अज्ञत्वमस्य सहजम् ईशानुग्रहचोदनात् ॥ २७ ॥
विबुध्यमानभावोऽयं देहिनस्सम्प्रवर्तते ।
तत्प्रसङ्गादयं धीमान् महानिद्रागतव्यथः ॥ २८ ॥
पशुरालोकयत्यग्रे संसारार्णवमव्ययम् ।
उष्णोदकसुसम्पूर्णमाशापाशोर्मिसङ्कुलम् ॥ २९ ॥
महामोहतरं गाढ्यं रागबुद्बुदसंवृतम् ।
इच्छाद्वेषादिकलुषं समनोऽयशीतलम् ॥ ३० ॥
कामोग्रस्वादुविरसं क्रोधनिर्घोषभीषणम् ।
योन्यावर्तसमाकीर्णं मायानिविडकर्दमम् ॥ ३१ ॥
प्। १६०)
व्याधिजन्मजरामृत्यु भृमनकनिषेवितम् ? ।
सुखदुःखभयं काले वेलापरिच्छदम् ॥ ३२ ॥
पशुहंसकुलैर्व्याप्तं प्रकूजद्भिरितस्ततः ।
रक्तमांसकफाश्शुक्लं क्रमादन्नात्प्रवर्तते ॥ ३३ ॥
शुक्लाद्भवन्ति भूतानि तस्मादन्नमयं जगत् ।
तदन्नं पिण्डकबलैः ग्रासैरक्तन्तु देहिभिः ॥ ३४ ॥
अन्तस्थूलाशये पूर्णप्राणस्थापयते क्रमात् ।
भुक्तपीततदाहारम् अतस्तत्कुरुते द्विधा ॥ ३५ ॥
सम्प्रविश्यान्नमध्ये तु पृथगन्नं पृथग्जलम् ।
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नञ्च जलोपरि ॥ ३६ ॥
प्। १६१)
ज्वलनोर्ध्वं स्वयं प्राणः स्थित्वाऽग्निं धमते शनैः ।
वायुना धाम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥ ३७ ॥
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः ।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसम् ॥ ३८ ॥
कर्णाक्षिनासिकाजिह्वादन्तशिश्नागुदानखाः ।
मलाश्रयाः कफस्वेदविण्मूत्रा द्वादश स्मृताः ॥ ३९ ॥
हृत्पद्मप्रतिबद्धास्तु सर्वनाड्यस्समन्ततः ।
तासां मुखे पुनस्सूक्ष्मं प्राणस्थापयते रसम् ॥ ४० ॥
रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।
प्रतर्पयति सम्पूर्णास्तास्वदेहं समन्ततः ॥ ४१ ॥
प्। १६२)
ततस्तन्नाडिमध्यस्थं शरीरोष्णेन तादृशम् ।
पच्यते पच्यमानञ्च भवेत्पाकद्वयं पुनः ॥ ४२ ॥
त्वङ्मज्जास्थिसमन्ताच्च स्नायुश्चैव प्रजायते ।
रक्तलोमानि मांसञ्च केशमेदस्तथैव च ॥ ४३ ॥
नाड्यो वसाऽथपूयश्च मज्जापि च कफस्तथा ।
एतदन्नात्समुद्भूतं शुक्लञ्च प्रसवात्मकम् ॥ ४४ ॥
इति निश्वासकारिकायां पञ्चविंशतिः पटलः ।