२४

ईश्वरः

अथ सङ्क्षेपतः सम्यक् त्रितत्वपरिनिर्णयम् ।
प्राणिनामनुकम्पार्थमद्भुतं सम्प्रकाश्यते ॥ १ ॥

यत्तदव्यक्तमित्युक्तमुच्यते व्यक्तमिन्द्रियम् ।
स्वसंवेद्यमसंवेद्यमव्यक्तं गम्यतेऽर्थतः ॥ २ ॥

तदात्मकानि भूतानि पञ्चभूतात्मकञ्च तत् ।
भूतप्रसूति नानात्वमेकत्वञ्च निगद्यते ॥ ३ ॥

प्। १४८ अ)

यस्सदाशिवपर्यन्तः पार्थिवाद्यश्च सङ्ग्रहः ।
तत्सर्वं प्राकृतं प्रोक्तं तत्वविद्भिरनेकशः ॥ ४ ॥

प्राकृतान्यवितत्वानि दिव्यादिव्यविशेषणम् ।
शुद्धाशुद्धं न गीयन्ते नात्मरूप स्वभावतः ॥ ५ ॥

शुद्धिमायान्ति तत्वानि विज्ञानप्राकृतान्यपि ।
शुद्धानि च निबध्नन्ति अज्ञानिषु शरीरिषु ॥ ६ ॥

अज्ञानिनस्तु सत्कार्ये सन्निविष्टास्तु सत्क्रियाः ।
तत्वानि शुभरूपाणि निबध्नन्ति शरीरिणाम् ॥ ७ ॥

यद्विकारमयं किञ्चित् तत्वमित्युपदिश्यते ।
तत्प्राकृतमसन्दिग्धम् अर्थविद्भिरुदाहृतम् ॥ ८ ॥

प्। १४९)

व्यापित्वात्सूक्ष्मव्यक्तत्वात् अनुत्पाद्यगुणादपि ।
शून्यमिच्छन्ति बहवः परमात्मानमव्ययम् ॥ ९ ॥

प्राणमन्योग्निरपरे तथेन्दुरपरे जनाः ।
प्रपदन्ति परं ब्रह्म बोधयन्ति परस्परम् ॥ १० ॥

कार्यमुद्दिश्य भूतानां स्वभावगुणगौरवात् ।
न सम्यगुपचारार्थमुक्तन्न परमार्थतः ॥ ११ ॥

एकद्वित्रिचतुःपञ्च गुणाः प्रागनुपूर्वशः ।
शून्यादीनां विशेषाणाम् ऋषिभिः परिकल्पिताः ॥ १२ ॥

एकमेवामितगुणं शून्यमुक्तमिहाव्ययम् ।
तत्परापरभेदेन गीयते द्विविधः पुनः ॥ १३ ॥

प्। १५०)

यतः प्रवर्तते शब्दं तत्परं शून्यमुच्यते ।
शब्दतन्मात्रमुद्भूतं तदादिपरमं पदम् ॥ १४ ॥

एकतत्वनयोद्भेदं व्योमयोः कृतमन्तरम् ।
मायानिगूढपरमं परमायाविवर्जितम् ॥ १५ ॥

न च शुद्धं नचाशुद्धं शुद्धाशुद्धविवर्जितम् ।
सहजैरञ्जितैः पाशैः शून्यमव्यक्तरूपिणम् ॥ १६ ॥

स्थूलास्थूलतरैर्भावैः भावाभावविग्रहः ।
यदेतमभिसङ्ख्यातमाकाशमजमव्ययम् ॥ १७ ॥

क्षीरभावात्मकमिदं शब्दरूपं प्रवर्तते ।
शब्दाच्चकायसंसिद्धिः हेतुराकाशलक्षणम् ॥ १८ ॥

प्। १५१)

विद्याविद्यास्वरूपेण द्विविधः सम्प्रवर्तते ।
विद्या देहं करोतीति पुरुषाव्यक्तवेदनम् ॥ १९ ॥

विपरीतञ्च सम्मोह भावभावहते नृणाम् ।
ज्ञानरूपोऽपि वर्गार्थं विपरीत * माश्रयम् ॥ २० ॥

शब्दप्रकाशयत्येष विहितं प्राणिनां द्विधा ।
यतश्शब्दगुणं शून्यं बोधयत्येष मोहिनाम् ॥ २१ ॥

करोत्यन्यस्य शुद्धित्वमशुद्धित्वञ्च गीयते ।
मन्त्रात्मकं जगदिदं मन्त्रशब्दमयं स्मृतम् ॥ २२ ॥

शब्दशून्यात्मकं प्रोक्तं शून्यञ्चाव्यक्तसञ्ज्ञितम् ।
तस्मादुत्पन्नमात्रस्तु मन्त्रानिलसमीरिताः ॥ २३ ॥

प्। १५२)

श्रोत्रयोव्यक्तिमायाति तस्मात्तत्स्थूलकं स्मृतम् ।
शून्याद्यच्छन्दरूपन्तु उद्दिष्टममितौजसम् ॥ २४ ॥

एतत्सगुणमित्युक्तमशुद्धं वा परं शिवम् ।
एवमन्योन्यवितथा भूतानि स्वगुणैस्सह ॥ २५ ॥

क्रमात्सम्भावमायान्ति भावान् सन्दर्शयन्ति च ।
स्थूलभावेन महता सूक्ष्मेण च समन्ततः ॥ २६ ॥

व्याप्यव्यापकरूपेण स्थितान्येकान्यनेकधा ।
सर्वतत्त्वमयोह्येष समभावमयस्तथा ॥ २७ ॥

पञ्चभूतात्मकं पिण्डं प्राकृतं समुदाहृतम् ।
स्थितो यस्सर्वजं ज्ञानमेष पिण्डः प्रतापवान् ॥ २८ ॥

प्। १५३)

भूतात्मकं समुद्दिष्टं सुभोगरति हेतुकम् ।
पञ्चभूतात्मकं पिण्डमिदमव्यक्तसञ्ज्ञिकम् ॥ २९ ॥

सर्वभावोद्भवं मत्वा बन्धनात्प्रविमुच्यते ॥ २९ १।२ ॥

इति निश्वासकारिकायां चतुर्विंशतिः पटलः ।