२३

देव्युवाच

प्रधानात्मेशतत्वानां कर्मैकं सहजं स्मृतम् ।
किमर्थं सृष्टिमीशानः कुरुते सा प्रधानजम् ॥ १ ॥

कृतकृत्यः पशुश्चायं कथं भवति शङ्कर ।
प्राधानिकं शरीरं वा किं विधं पारमार्थिकम् ॥ २ ॥

लक्षणं बुध्यमावस्य प्रबुद्धाबुद्धयोः कथम् ।
प्रधानपुरुषेशानां कर्तृत्वं कस्य कीदृशम् ॥ ३ ॥

सम्प्राप्य कललावस्था मास्ते वा पुरुषः कथम् ।

प्। १४३)

किमर्थं बन्धनं वाऽपि को वा बन्धः सुरेश्वर ॥ ४ ॥

किं स्वरूपो भवेद्बन्धो को वा बन्धेन बध्यते ।
किं प्रकृत्या सह पशुः युज्यते स वियुज्यते ॥ ५ ॥

तत्वानाञ्च कथं सृष्टिः क्रियाभेदश्च कीदृशः ।
स गुणन्निर्गुणञ्चैव योगभेदञ्च तत्वतः ॥ ६ ॥

सर्वमेतत्पुनर्देव ममाचक्ष्व यथाक्रमम् ।

ईश्वरः

देव्यनादिभवा पङ्क्ते सन्निमग्नाश्शरीरिणः ॥ ७ ॥

नौरिवोत्तरणायेदं त्रितत्वमुपदिश्यते ।
कथितं तव देवेशि प्रधानगुणमुत्तमम् ॥ ८ ॥

प्। १४४)

निर्गुणास्त्वणवो मूर्तास्सर्वगोप्यवशोऽव्ययः ।
अधोवृत्तिरतृप्तात्मा गुणभुक् पाशगोचरः ॥ ९ ॥

अनीशः पशुकर्ता च साञ्जनोज्ञः परस्तथा ।
असर्वविदसम्पूर्ण उदासीनः पुमान् स्मृतः ॥ १० ॥

ईदृशं लक्षणं वस्तु स भवेदप्रबुद्धता ।
निर्गुणस्सर्ववित्कर्ता स्वतन्त्रस्सर्वगोचरतः ॥ ११ ॥

परिपूर्णोऽक्षरः शान्तः सूक्ष्मोजः परमो तनुः ।
बुध्यमानः समाख्यातं लक्षणं परमेश्वरी ॥ १२ ॥

नित्यप्रबुद्धशुद्धात्मा कारणोमतिविग्रहः ।
अनन्तो निश्चलश्चैव नित्यतृप्तो निराश्रयः ॥ १३ ॥

प्। १४५)

कूटस्थः पशवो नाथः सर्वनाथो मितद्युतिः ।
अनादिरेको निष्कम्पः चेतनो सर्वभृच्छिवः ॥ १४ ॥

प्रबुद्ध एव विख्यात स्मृतयस्तु? सुलोचने ।
प्रधानमेक सर्वत्र क्षेत्रसञ्ज्ञमचेतनम् ॥ १५ ॥

सर्वेषाञ्च पुमानेकः क्षेत्रभुक् चेतनः स्मृतः ।
अचेतनत्वादव्यक्तो न स्वयं सम्प्रवर्तते ॥ १६ ॥

चेतनोप्यस्वतन्त्रत्वात् संयोगमुभयोरपि ।
अनयोर्भावयोर्योगं सम्मोहकरणं महत् ॥ १७ ॥

प्रलयोत्पत्तिरूपेण स्थितोऽनादिरलक्षितौ ।
चेतनाचेतनत्वञ्च द्वावप्येतावनीश्वरौ ॥ १८ ॥

प्। १४६)

बहुधा भेदमायान्ति विभिन्नाक्षरणेच्छया ।
ईश्वरस्तदधिष्ठाय प्रधानपुरुषद्वयम् ॥ १९ ॥

भावानुत्पाटयामास तत्वानामनुपूर्वशः ।
नामार्थमीक्ष्य कुरुते सृष्टिमीशः प्रधानजाः ॥ २० ॥

पशुपाशविमोक्षार्थ बाराम्भोयमुदीर्यते ।
सहजैरञ्जितः पाशैः केवलोप्यवशः पशुः ॥ २१ ॥

नाशाव्यक्त तत्वानाञ्चेत्र भावमबोधित ।
सदस्मादप्रबुद्धत्वात् अव्यक्तगुणसंश्रयात् ॥ २२ ॥

प्राप्य तद्भूतमश्नाति सुखदुःखफलोदयम् ।
शक्तोप्यनुग्रहं कर्तुं केवलस्येश्वरः पशोः ॥ २३ ॥

प्। १४७)

न करोत्येव सहसा कृतनाशाय वै प्रभुः ।
यस्मात्कारणहीनत्वान्नवेत्ति पुरुषात्मनि ॥ २४ ॥

तस्मात्कारणसंयोगं करोत्यस्य महेश्वरः ।
अव्यक्तमाहुः करणं कार्यञ्च दश लक्षणम् ॥ २५ ॥

तत्करोत्यन्यवशगः पुरुषार्थमनेकधा ।
तत्र विज्ञानमात्रन्तु पुरुषार्थः प्रकीर्तितः ॥ २६ ॥

पुरुषस्सकलाद्युक्ततत्वसञ्ज्ञो विधीयते ।
तत्वज्ञानाद्धि निश्शेषं क्षयमायाति बन्धनम् ॥ २७ ॥

बन्धक्षयाच्च न पुनः संसारं प्रतिपद्यते ।
संसारविनिवृत्तस्य पुरुषस्यापि न च्युतिः ॥ २८ ॥

प्। १४८)

भवत्येकान्तिकसुखः स्वतन्त्रश्चैव जायते ॥ २८ १।२ ॥

इति निश्वासकारिकायां त्रयोविंशतितमः पटलः ।