देव्युवाच
त्वया सृष्टाः पुरा देव विधानेषु वियोजिताः ।
यजन्ति विप्रा यज्ञैस्तु मूर्त्यष्टकसंयुताः ॥ १ ॥
कर्तृभिर्विविधैश्चैव दक्षिणाभिश्च भूरिशः ।
तेऽपि कस्मान्न मुच्यन्ति मन्त्रैस्तैरेव दीक्षिताः ॥ २ ॥
वर्णान्नयन्ति सायुज्यं यदि सत्यं प्रभाषसे ।
प्। १३५)
वर्णैरेवचिता वेदास्तेऽपि कस्मान्न मुक्तिदाः ॥ ३ ॥
ईश्वरः
आहुः प्रणवमित्येके मकारमपरे विदुः ।
शतार्धाक्षरविन्यासं पुरुषं बिन्दुविग्रहम् ॥ ४ ॥
कला षोडशकं कश्चित् चन्द्रमाश्चामृतद्युति ।
वृक्षगुल्मलतानान्तु ओषधीनां स सम्भवः ॥ ५ ॥
अमृतामृतवच्छ्रीमान् सर्वभूतभृतां वरः ।
यकाराक्षरमित्येके प्राणाद्या विश्वतोमुखम् ॥ ६ ॥
सर्वेषु सर्ववित्कर्ता यत्र वा सम्प्रवर्तते ।
रकारमनलञ्चात्र प्रपदन्ति विपश्चितः ॥ ७ ॥
प्। १३६)
संहारः सर्वतत्त्वानां कालाग्निरिव विश्रुतम् ।
अन्नपानेन्धनो भोक्ता स जीवात्मेति चोच्यते ॥ ८ ॥
इन्दुमन्ये प्रशस्यन्ति सुरासुरनमस्कृतम् ।
विभूरिति इमं प्राहुः तच्छक्रमवपूजितम् ॥ ९ ॥
नमः पूर्वन्ति ते सर्वे लकारं परमं पदम् ।
अमृतस्यन्दकुन्दाभं चन्द्रांशुसमशीतलम् ॥ १० ॥
प्राणदं प्राणिनान्नित्यवारुणं बीजमुत्तमम् ।
अथाहुरपरे केचिद्व्योमबीजमनुत्तमम् ॥ ११ ॥
आश्रयस्सर्वभूतानामाकाशमवकाशदम् ।
केचिदाहुरयं श्रेष्ठ शतार्धार्धं व्यवस्थितम् ॥ १२ ॥
प्। १३७)
मकारं परं तत्त्वमूर्ध्वबाहुरयं स्थितः ।
त्रैविद्य वृद्धास्तद्वन्ति पुरुषं द्वादशाक्षरम् ॥ १३ ॥
सोऽग्निर्यज्ञपतिर्यज्ञो वषट्कारस्वधा च सः ।
सकलोन्तकमादित्यं यत्पुरस्तात्प्रकाशते ॥ १४ ॥
अकारपरञ्जाग्रत् सर्ववर्णप्रवर्तकम् ।
ऋग्वेदाहवनीयोऽग्निः सात्विको गुण उच्यते ॥ १५ ॥
अकारस्सर्वभूतानां पार्थिवं ब्रह्म कीर्त्यते ।
उकारो विष्णुदेवत्यं राजसं द्रवलक्षणम् ॥ १६ ॥
यजुर्वेदमयोह्येष दक्षिणाग्निरिति स्मृतः ।
स्वप्नोन्तरात्मा इत्येवं वदन्ति परमं पदम् ॥ १७ ॥
प्। १३८)
मकारं रुद्रदेवत्यं तामसं परिकीर्तितम् ।
साम वै गार्हपत्याग्निस्तामसं गुणलक्षणम् ॥ १८ ॥
सुषुप्तं पदमित्याहुः तमेव परमं पदम् ।
हकारममात्रो वै तुर्यं तत्परमं पदम् ॥ १९ ॥
अथर्ववेदमन्त्रात्मा सञ्जीवः सर्वदेहिनाम् ।
गुणातीतः परं शान्तिं यज्ज्ञात्वाऽमृतमश्नुते ॥ २० ॥
आकाशममलं दिव्यं सर्वगं प्रभुरव्ययमिति ।
तुर्यातीतं परं ब्रह्म पदं * * सदात्मकम् ॥ २१ ॥
इदं साक्षाच्छिवं केचित् दशात्मा बीजसम्पुटम् ।
आलयं सर्वविद्यानां विद्यालयमिति स्मृतम् ॥ २२ ॥
प्। १३९)
तत्राप्यन्ये प्रभाषन्ते त्रितत्वाक्षरभाषितम् ।
दश लक्षेश्वरं केचित् तारकं ज्ञानमाश्रिताः ॥ २३ ॥
षण्णवादीश्वरं केषापाशहानं तथैव च ।
शतार्धबीजसंहारं कारणं परमं मतम् ॥ २४ ॥
कारणं सर्वभूतानां नादमाहुः सदाशिवम् ।
स एव पञ्चधावस्थः शिवः सकलनिष्कलः ॥ २५ ॥
तथान्ये कल्पयन्त्यस्मिन् शिवज्ञानविदो जनाः ।
भुजङ्गकुटिलाकारम् अनुच्चार्यमनामयम् ॥ २६ ॥
प्रथमं सर्वशास्त्राणां लिख्यते न च पठ्यते ।
इत्यञ्जलिनमस्कार जपध्यानविवर्जितम् ॥ २७ ॥
प्। १४०)
गन्धरूपरसस्पर्श शब्दादि करणोज्झितम् ।
नियुक्तमनसङ्कल्प स एष परमं पदम् ॥ २८ ॥
ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्शिव एव च ।
पञ्चधा पञ्च दैवत्यं प्रणवं परिकीर्तितम् ॥ २९ ॥
एकमात्रो द्विमात्रश्च त्रिमात्रोभ्यधिकस्तथा ।
अर्धमात्रार्धसंस्थञ्च पञ्चधा विग्रही शिवः ॥ ३० ॥
एवमादिषु सम्मूढा वेदज्ञाः साङ्ख्यवादिनः ।
ज्ञानपादेन सम्मूढाः निश्चयं नाधिगच्छतः ॥ ३१ ॥
परतत्वविहीनास्ते आद्योत्पत्तिविवर्जिताः ।
ऋच एव मन्त्रव्यापित्वं नविजानन्ति मोहिताः ॥ ३२ ॥
प्। १४९)
पुराणवेदगर्वेण स्मृतिना च तथैव च ।
स्थूलभावसुवृष्टात्मा पशुज्ञानरता नराः ॥ ३३ ॥
दूषयन्ति शिवज्ञानं शैवं सर्वा शिवापहम् ।
दुष्यन्ति परपक्षाणि स्वपक्षपरिनिष्ठिताः ॥ ३४ ॥
वर्णव्याप्तिमजानन्तः तत्वव्याप्तिं तथैव च ।
परतत्त्वमजानन्तः स्थूलज्ञानफलेप्सवः ॥ ३५ ॥
एतस्मात्कारणाद्देवि तस्मिन् वर्णा न मुक्तिदाः ।
अनिश्चितमतास्सर्वे विवदन्ति परस्परम् ॥ ३६ ॥
दूषयन्ति तथाऽन्योन्यं वादजल्पवितण्डकै ।
इति निश्वासकारिकायां ज्ञानकाण्डे ज्ञानविभ्रमप्रकारो नाम द्वाविंशतितमः पटलः ॥