२१

देव्युवाच

अप्राप्य परमां सिद्धिं दीक्षितो ज्ञानसंयुतः ।
विदित्वा शास्त्रसद्भावं मृत्युदुःखैश्च पीड्यते ॥ १ ॥

प्रत्ययं किं भवेत्तस्य क्रियमाणेषु जन्तुषु ।
अप्रत्यक्षा गतिर्देव ब्रूहि मे परमेश्वर ॥ २ ॥

ईश्वरः

द्व्यङ्गुलोर्ध्वन्तु तत्स्थानं यत्रासौ वन्दने भवेत् ।
स शूलो वायुवेगेन दक्षिणस्तनकोपरि ॥ ३ ॥

जनो नामेन चात्मेन सप्तरात्रे च शृण्वति ।
ह्रस्वदीर्घप्लुतञ्चैव साधारितसकौशकम् ॥ ४ ॥

प्। १३२)

स्पन्दनादिकलेत्कालं यावन्मासं स्वपक्षकम् ।
अष्टाभेनैव संयुक्ततन्त्रिणी अमृतं स्मृतम् ॥ ५ ॥

नन्दा भद्रा जया रिक्ता पूर्णाचेति त्रिरावरा ।
लौकिकास्तेषु विज्ञेया शिवतीर्थ्यानु मे शृणु ॥ ६ ॥

अमृता तु तिथिः पूर्वं प्रकृत्या च द्वितीयकम् ।
अभिजिच्चैव नक्षत्रं तस्योपरि जयन्तिका ॥ ७ ॥

ब्रह्मविष्णुमयौ ऋक्षौ मुहूर्तः पिङ्गलस्मृतः ।
ध्रुवतारागणज्योत्स्ना चक्रवत्परिलेलिहेत् ॥ ८ ॥

लेलिहेत शिवाभाति उदितामितजां रविः ।
तदा मृत्युवशं याति पूर्णाब्दे तु न संशयः ॥ ९ ॥

प्। १३३)

एवं ज्ञात्वा तु मेधावी अमृतेऽहनि कारयेत् ।
दानं जपं ततो ध्यानं तत्सर्वं मोक्षदं भवेत् ॥ १० ॥

अभिजित्सञ्ज्ञनक्षत्रे जयत्यां रुद्रवैष्णवे ।
यत्किञ्चित्कुरुते कर्म तत्सर्वं मोक्षसिद्धिदम् ॥ ११ ॥

मुहूर्ते पिङ्गले चैव यत्कर्म कुरुते नरः ।
ज्ञात्वा वारं तिथिञ्चैव तत्सर्वं सिद्धिमोक्षदम् ॥ १२ ॥

सत्यासत्यमयौ वारौ ध्रुवञ्चैव तृतीयकम् ।
अमृतेन तु संयुक्तम् आभ्यान्त्वेकेन मोक्षदम् ॥ १३ ॥

जपेन ध्यानयोगेन सिद्धिरेकाह्निका भवेत् ।
एवं वै यो विजानाति रहस्यमिदमुत्तमम् ॥ १४ ॥

प्। १३४)

स भवेच्छिवतुल्यस्तु शिवेन सह मोदते ।
मृतं कायं न शीर्येत एतत्प्रत्ययमुत्तमम् ॥ १५ ॥

इति निश्वासकारिकायां ज्ञानकाण्डे एकविंशतितमः पटलः ।