देव्युवाच
वेदसाङ्ख्यपुराणज्ञा पाञ्चरात्रेतिहासयोः ।
योगिनश्च तथा चान्ये कुपथेष्वपि ये स्थिताः ॥ १ ॥
कुचक्रेण मोहयित्वा तु स्वदेहं दर्शयन्ति ते ।
तेऽपि चात्र ब्रुवन्त्यैव गतिरत्र कुतोऽन्यतः ॥ २ ॥
पक्षपातो भवेदेषो मोक्षः सर्वत्र वा भवेत् ।
एवं मे संशयो देव यत्सत्यं तद्ब्रवीहि मे ॥ ३ ॥
ईश्वर उवाच
अहं त्वञ्च विशालाक्षी मूलं सर्वजनस्य तु ।
मातृका शिवरूपेण बुद्धिसम्भवपादपम् ॥ ४ ॥
प्। १२२ अ)
आब्रह्मस्तंवपर्यन्तं जगत्सर्वं चराचरम् ।
मम बीजोद्भवास्सर्वे तव योनिविनिर्गताः ॥ ५ ॥
वेदाद्याः पञ्च ये प्रोक्ताः महाज्ञानानि भूतले ।
संस्कृतं प्राकृतञ्चैव अपभ्रंशानुनासिकम् ॥ ६ ॥
दिव्यादिव्यञ्च यत्किञ्चित् वाङ्मयं त्वत्प्रसूतिजम् ।
त्वं सदा दर्पिणी देवी अहङ्काररता सदा ॥ ७ ॥
विकारास्तव जायन्ते यतस्सर्वं प्रतिष्ठितम् ।
अविकारं ततो लोको मद्विकारमपासितम् ॥ ८ ॥
मूलज्ञानविमूढास्ते ते यान्ति न परां गतिम् ।
भुञ्जतां षड्रसाहारं म्रियन्ते सर्वजन्तवः ॥ ९ ॥
प्। १२३)
मृतसञ्जीवनी मूलं भक्षयित्वा न मृयन्ति ते ।
मृत्पिण्डेषु घटो यद्वत् तन्तुष्वेव पटो यथा ॥ १० ॥
शक्तिरूपास्थिता वर्णा व्यक्तिं यान्ति शिवेच्छया ।
देव्युवाच
मूलज्ञानं जपित्वा तु युक्ता ध्यायन्ति योगिनः ॥ ११ ॥
सर्वकामसमृद्धास्तु शिवकामं विशन्ति ते ।
प्रवृज्य लभ्यते मोक्षश्चर्ययाथ महेश्वर ॥ १२ ॥
सन्तोषेण लभेन्मोक्षो यदज्ञानवृतैस्तथा ।
ज्ञानेन लभ्यते देव तत् ज्ञानस्य प्रकाशकः ॥ १३ ॥
उपासनञ्च देवेश ज्ञानं ज्ञेयो यथा भवेत् ।
प्। १२४)
तन्ममाचक्ष्व देवेश अत्र मे संशयो महान् ॥ १४ ॥
ईश्वरः
प्रवृज्यावृतचर्याभिस्सन्तोषं नियमेन च ।
क्षपणाच्चैव देहस्य मोक्षमिच्छन्त्यबुद्धयः ॥ १५ ॥
शीतवातप्रतापाग्नि दशकादशकानि च ।
क्षुत्पिपासी तथा वर्षी मोक्षार्थी सुबुधस्सहेत् ॥ १६ ॥
ब्रह्मचर्यं तपोदानं दयाक्षान्तिरहिंसितम् ।
नेतद्वै जननं वाक्यं जगद्व्याप्तिं न मुक्तये ॥ १७ ॥
दानेन न भवेन्मोक्षस्तपोभिर्वेदयज्ञतः ।
मोक्षो भवति ज्ञानेन देही निर्मुक्तकेवलम् ॥ १८ ॥
प्। १२५)
संयतेन्द्रियचित्तोऽपि किं कुर्याज्ज्ञान दुर्लभम् ।
विनीतरथमारूढरचक्षुरिव सारथिः ॥ १९ ॥
देव्युवाच
ये वेदवादिनो विप्रास्साङ्ख्यज्ञा योगवेदिनः ।
पञ्चरात्रिविदो ये तु अन्यैः पापादुकैस्सह ॥ २० ॥
ते ब्रुवन्ति महादेव तेषां ज्ञानं वदाम्यहम् ।
अग्निरग्नौ यथा क्षिप्तं तोये तोयमिवार्पितम् ॥ २१ ॥
मृत्पिण्डे दण्डपाषाणन्निस्सुखं निष्प्रचेतनम् ।
निर्वाणस्स तु विज्ञेयः सुखदुःखविवर्जितम् ॥ २२ ॥
एतत्ते देव आख्यातं मया तु विदितं यथा ।
प्। १२६)
ईश्वर उवाच
सर्वे क्लिष्टास्तथात्यन्तं मोक्षतत्वमजानतः ॥ २३ ॥
अहं ते कथयिष्यामि शृणु मोक्षस्तु यादृशम् ।
जीवनाशो भवेद्यत्र निस्सुखं निष्प्रचेतनम् ॥ २४ ॥
मृत्पिण्डपिण्डवन्मोक्षो न तु मोक्षस्स उच्यते ।
तेषां मायोदरो मोक्षस्स चैतन्यमवस्थया ॥ २५ ॥
शिवावर्ग इव्रातिष्ठेत् सुषुप्तद्वैतवर्जितः ।
अवमानेन मोक्षेण चेतनारहितेन तु ॥ २६ ॥
पर एवं स सारोऽपि विषयासक्तचेतसः ।
अस्मिन् शैवे महाज्ञाने विज्ञाननगरे शुभे ! ॥ २७ ॥
प्। १२७)
प्रभुः सर्वज्ञचेता च व्यापी सूक्ष्मः शिवोऽव्ययः ।
पतिभावसमत्वं वै भवते ज्ञानिनः स तु ॥ २८ ॥
सर्वज्ञः परिपूर्णश्च सर्वगोप्यव्ययो भवेत् ।
दुःखानामागमो नास्ति सुखं तत्र निरन्तरम् ॥ २९ ॥
सर्वालयश्च शान्तश्च मोक्ष इत्यभिधीयते ।
चेतनाभावयोर्मुक्तिः न तु सम्मोहमोचिताः ॥ ३० ॥
चेतनो व्याप्यसम्मूढो मोक्ष इत्यभिधीयते ।
शिवो निरञ्जनो भूत्वा तिष्ठते रागवर्जितः ॥ ३१ ॥
स्वाधीनवृत्तिः यः प्राज्ञः सुखासीनः सुखप्रदः ।
अशरीरी शरीरी वा स्वेच्छया च भवत्यसौ ॥ ३२ ॥
प्। १२८)
स्थूलात्स्थूलतरो भूत्वा सूक्ष्मात्सूक्ष्मतरस्तथा ।
ऐश्वर्यं सर्वलोकेषु भुञ्जते च यथा सुखम् ॥ ३३ ॥
अप्रतीघातकास्ते वै रागलोभविवर्जिताः ।
शिवज्ञानं परं प्राप्य निर्गुणं सर्वकामिकम् ॥ ३४ ॥
असमे माहात्मको भूत्वा सृजत्यात्मानमात्मनि ।
सर्वं व्याप्य प्रतिष्ठन्ते सर्वभूतेष्ववस्थिताः ॥ ३५ ॥
न चास्या विदितं किञ्चित् न चादृष्टं न चाश्रितम् ।
अप्राप्य सर्वलोकेषु ना गतिश्च कदाचन ॥ ३६ ॥
पतिभावेन तत्वानां विषयान् गृह्णते सदा ।
प्रकृतेर्ये विकारास्तु निर्गुणं गुणमेव च ॥ ३७ ॥
प्। १२९)
कारणाद्विधृतं भूत्वा गृह्णते विषयान् स्वकान् ।
ये चैश्वर्यगुणास्सर्वे शिवे तिष्ठन्ति शाश्वते ॥ ३८ ॥
दीक्षितेष्वपि ते चैव तत्सर्वं तत्त्ववेदिषु ।
अप्रमेयबलोपेतस्सर्वज्ञः खलु सर्वदः ॥ ३९ ॥
सर्वकृत् सर्वयोगेशः शिवतुल्यस्तु संस्मृतः ।
दूराच्छ्रवणविज्ञानमननञ्चावलोकनम् ॥ ४० ॥
मनोबुद्धिरहङ्कारकारणाकारवर्जितः ।
स्वाधीनस्सर्वकार्येषु प्रवृत्ते बलिसूदनः ॥ ४१ ॥
धारकः प्रेरकश्चैव अधिष्ठाता कले रणः ।
दमनः सर्वभूतानां मनश्चोन्मन एव च ॥ ४२ ॥
प्। १३०)
सर्वेश्वरश्च सर्वात्मा सर्वेशश्च महागतिः ।
अजरश्चामरश्चैव अक्षयः क्षोभकारकः ॥ ४३ ॥
गर्भजन्मजरादुःखं ये केचिद्वन्द्वजा गुणाः ।
अज्ञानसम्भवाह्येते सुखञ्चैकञ्च केवलम् ॥ ४४ ॥
काष्ठमध्ये स्थितो यद्वत् मथितो निर्मलोऽनलः ।
स शान्तसमये प्राप्ते न भूयो विशतेऽरणिम् ॥ ४५ ॥
घृतभावं समापन्नं न भवेद्दधिता पुनः ।
सम्यक् ज्ञानं विदित्वा तु पशुत्वं न भवेत्पुनः ॥ ४६ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे विंशति पटलः ।