ईश्वर उवाच
अतः परं प्रवक्ष्यामि शब्दज्ञानमनुत्तमम् ।
वाक्यस्थं हृदयस्थन्तु ददाने वैव संस्थितम् ॥ १ ॥
प्। ११८)
त्रिस्थाने सकलो देवः पाशबन्धक्षयङ्करः ।
शिवञ्चानुगतं विद्या विद्याराज्ञान्तु विक्रमः ॥ २ ॥
श्वसनेऽनुगतं देवि निष्कलन्तु विनिर्दिशेत् ।
अपाकप्रभवं दिव्यं नाभिकर्णान्तवर्जितम् ॥ ३ ॥
शून्यमध्यगतं नित्यं सर्वान्तः पाशमोक्षकम् ।
कर्णनाभ्यन्तरे तालुं पद्मनालानुकुञ्चितम् ॥ ४ ॥
कलाढ्यन्नाममुद्दिष्टं सर्वाकारकारकम् ।
उभौ तौ तत्क्षिपत्तत्वं शान्तत्त्वं सकलैस्सह ॥ ५ ॥
मनो लयैस्सदा चिन्त्यमखिलं खपदैस्सह ।
ऊर्ध्ववाहमनौ गारं प्रस्फुरन्तं समासतः ॥ ६ ॥
प्। ११९)
सुप्रयुक्तं सुशान्तञ्च क्षपणोपाशबन्धहृत् ।
हृत्पद्मेनाभिदेशन्तु कर्णतालुकमध्ययोः ॥ ७ ॥
अन्ते ह्येतेषु स्थानेषु क्षयः पाशान्तकः शुभः ।
उदाने निश्चलस्थाने सर्वस्थाने सुलोचने ॥ ८ ॥
सर्वशब्देन भोक्तव्यं कूटस्थं शब्दमष्टमम् ।
एतच्छब्दाष्टकं देवि हिताय समुदाहृतम् ॥ ९ ॥
निश्रेयन्न च दातव्यं ज्ञानन्नास्ति अतः परम् ।
अनादिनिधनाभावदुर्लक्षं शून्यभावना ॥ १० ॥
तस्मात्सर्वप्रयत्नेन भावाभावेन लक्षयेत् ।
तेनेदं ज्ञातं सुश्रोणिर्यस्य भावेन मत्स्थितिः ॥ ११ ॥
प्। १२०)
अभावरक्षणार्थाय भावजल्पे मया कृतः ।
अभावस्य परित्यागी भावोपगतचेतसः ॥ १२ ॥
तावद्भ्रमति संसारे यदा भावन्न विन्दति ।
श्रुतिस्मृत्यर्थ वाक्यैश्च काव्यालङ्कारशोभनैः ॥ १३ ॥
चिन्तया शब्दशास्त्राणां सम्मूढो यात्यथोगतिम् ।
अभावश्शून्यतां याति शून्यञ्चाभाव उच्यते ॥ १४ ॥
अभावो मोक्ष इत्युक्तो बन्धनं भावकल्पना ।
अभावेन सदा शून्ये मनो निश्चलतां गतम् ॥ १५ ॥
ततो निर्वाणगो देही निलयं यात्यनामये ॥ १५ १।२ ॥
प्। १२१)
अपदपदमगम्यं शुद्धनिर्वाणशून्य-
मुपरिविततव्योमं व्यापिनञ्चिन्तयामि ।
येनाभ्यस्तसशून्यन्न पुनरिह नरो जायते गर्भवा *?
सञ्च्छिन्नं पाशजालं प्रकृति विरमते सृष्टिभावे निवृत्तः ॥ १६ १।२ ॥
एकान्तं शून्यभूतं पशुकलरहितं पश्य निर्वाणशून्य-
न्निर्मुक्ताशेषबन्धैः कथितमिहपदं पश्य निर्वाणबन्धैः ।
इदं शून्यमिदं शून्यं शून्याच्छून्यं परापरम् ।
शून्यादपि च यच्छून्यन्तच्छून्यन्तु निरामयम् ॥ १७ १।२ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे एकोनविंशति पटलः ।