१८

देव्युवाच

अद्याऽपि संशयो देव ज्ञानं ज्ञेयं महेश्वर ।
कथयस्व अशेषन्तु तत्वभेदं परापरम् ॥ १ ॥

कथं शरीरे चेष्टानि तत्त्वाः कुर्वन्ति देहिनाम् ।
कथञ्च शयने तत्वा विदन्ते स्वप्नवारिणः ॥ २ ॥

प्। १०७)

तिष्ठतो गच्छतो वाऽपि ब्रुवतो हसतोऽपि वा ।
श्वसने कस्थितास्तत्वा दीर्घप्राणे चरे स्थिताः ॥ ३ ॥

तस्य मध्यावसाने च के तत्वाः परिकीर्तिताः ।
नृत्यतो गायतश्चैव मन्युदः करुणोत्सुके ॥ ४ ॥

अनिमित्ते च के तत्वा निरीक्षे चैव के स्थिताः ।
एष कर्मसु सक्तानां प्राणत्यागेषु का गतिः ॥ ५ ॥

केन वा प्रेरितास्तत्वाश्चेष्टां कुर्वन्ति तद्वद ।
विज्ञायन्ते कथं तत्वा अष्टधा नवधा स्थिताः ॥ ६ ॥

कथं वर्गान्तवर्गेषु समन्तत्वं समं रसः ।
अन्तःकरणहीनाश्च यथा देहे प्रतिष्ठिताः ॥ ७ ॥

प्। १०८)

एतद्गुह्यं महादेव कथयस्व प्रसादतः ।

ईश्वर उवाच

शृणु देवि परं गुह्यं देहे तत्वा यथा स्थिताः ॥ ८ ॥

यथा चेष्टाञ्च कुर्वन्ते परेणाधिष्ठितास्तु ते ।
श्रूयतां ज्ञानसद्भावं तत्वभेदं परापरम् ॥ ९ ॥

उदात्तं व्याकुलं चित्ता रविसंविक्रमस्तथा ।
हर्षोन्मादश्च सम्मोहः कथितं सुरसुन्दरी ॥ १० ॥

सकले सरसं प्रोक्तं ज्ञातव्यं तत्त्वचिन्तकैः ।
ऊर्ध्वेधरोनुभावश्च वामदक्षिणतस्तथा ॥ ११ ॥

आकर्णान्निश्चलश्शान्तः कथितं निष्कलं परम् ।

प्। १०९)

वाग्वक्त्राधरनिक्षिप्तमनिमित्तनिरीक्षणम् ॥ १२ ॥

प्रहसन् हृद्गतो भावं परभासे कथितेष्टधा ।
एवं वै अष्टधा ज्ञात्वा एतद्वै शून्यलक्षणम् ॥ १३ ॥

हृयतास्वादतस्तालुः कासो श्वासः प्रलम्बिका ।
हुङ्कारमनसंयुक्तिः कलाढ्यः कथितोऽष्टधा ॥ १४ ॥

मधुरं हलाहलं भासं भीतं सन्त्रासकम्पितम् ।
मन्युकारुण्यसंयुक्तं मुखसंस्थमुपलक्षयेत् ॥ १५ ॥

बलनं भङ्गुरं देवि व्यावृत्तञ्च सुरेचितम् ।
अनलानिलविक्षिप्तं गेयं झङ्कारसंयुतम् ॥ १६ ॥

क्षपणन्नाममुद्दिष्टं कथितं ज्ञानमुत्तमम् ।

प्। ११०)

आघूर्मितं विघूर्मितं सुषुप्तं सुप्तलक्षयेत् ॥ १७ ॥

स्वप्नाभिघातसन्तानं विबोधस्तु सु शोभने ।
क्षयान्तस्य गुणाह्येते ज्ञातव्यास्तत्वचिन्तकैः ॥ १८ ॥

सौम्यस्थिरगतिश्शीघ्रं वल्लनञ्चालनं तथा ।
हुङ्कारं जर्झरवाक्यञ्च कण्ठोष्ठये निगमाष्टकम् ॥ १९ ॥

व्यापित्वं कथितं देवि स्वरसञ्च निबोधमे ।
उदाने सकलो देवो व्याकुले निष्कलं परम् ॥ २० ॥

चिन्ताशून्ये विजानीयात् हृद्भेदः कथितो मया ।
रहस्ये तु कलासारं विक्रमेव मलं स्मृतम् ॥ २१ ॥

हर्षे क्षेपणमित्युक्तं ज्ञातव्यं ज्ञानवेदिना ।

प्। १११)

क्षयमन्तं वरारोहे उन्मादे चावधारय ॥ २२ ॥

कण्ठोष्ठ्यन्तु ततो मोहे एतद्वै प्रथमाष्टकम् ।
ऊर्ध्वं सकलसंयोगं निष्कलं धारकम्पितम् ॥ २३ ॥

निराभं शून्यमित्युक्तं प्रेक्षितव्यं प्रयत्नतः ।
वामे कलेश्वरं तत्वं दक्षिणे भुजमालिनम् ॥ २४ ॥

आकर्णे क्षपणो देवि ज्ञातव्यं हृत्प्रयोगतः ।
क्षयमन्तं वरारोहे निष्कलो देहलक्षितः ॥ २५ ॥

शान्ततत्वे मम प्रोक्तं द्वितीयं भेदलक्षणम् ।
सकलं वक्त्रमार्गे तु वाममार्गे तु निष्कलम् ॥ २६ ॥

शून्यमाधारविक्षेपे स्वभावाभावकल्पितः ।

प्। ११२)

अनिमित्ते कलाढ्यस्तु निरीक्षे खमलस्मृतः ॥ २७ ॥

क्षपणं हसिते ज्ञेयं मनसे वेव लक्षयेत् ।
हृद्गतक्षयमन्तस्थ उद्भासे कथयामि ते ॥ २८ ॥

कण्ठोष्ठ्यप्रभुरीशानस्संस्थितो नास्ति विक्रमः ।
त्रिविधेन तु विज्ञेयं ज्ञानभेदे मलाष्टकम् ॥ २९ ॥

कथितं तु वरारोहे तृतीयं भेदमुत्तमम् ।
हृद्याता सकलो देवो निष्कलस्यादलक्षितः ॥ ३० ॥

तालुशून्यं विजानीयात् स्वभावे भावलक्षयेत् ।
कलाढ्यो भासिते विद्यात् खमले श्वासकम्पिते ॥ ३१ ॥

प्रलम्बे क्षपणं देवि ज्ञातव्यं स्वरितीरितः ।

प्। ११३)

क्षपितन्तु वरारोहे हुङ्कृतेन तु लक्षयेत् ॥ ३२ ॥

नमयुक्तस्तथा देवि कण्ठोष्ठ्यः परिकीर्तितः ।
चतुर्थं भेदमेतत्तु कथितं सुरसुन्दरी ॥ ३३ ॥

मधुरे तु वरारोहे सकले शाश्वता गतिम् ।
गलानन्तपदं विद्यात् हास्ये शून्यार्थ लक्षितम् ॥ ३४ ॥

भीते कालेश्वरं ज्ञेयं त्रासिते खमलं स्मृतम् ।
कम्पिते क्षपणं प्रोक्तं कथितन्त्वनुपूर्वशः ॥ ३५ ॥

क्षयमन्यो स्थितं तत्वं कारुण्यममृताष्टकम् ।
पञ्चमं भेदमेतद्धि कथितं त्वनुपूर्वशः ॥ ३६ ॥

चलने त्रिपदाधारं भङ्गुरे निष्कलं परम् ।

प्। ११५)

व्यापिते शून्यमित्याहुः एष ते भुजमालिनम् ॥ ३७ ॥

खमलानिलविक्षेपे क्षपणेनन्तरे स्थितम् ।
पृथक् भावस्सदा ह्येते बोद्धव्यास्त्वपराजिते ॥ ३८ ॥

क्षयमन्तं वरारोहे गेहे तन्तुविधारय ।
झङ्कारस्वरसंयुक्तं कण्ठोष्ठ्यं सुरसुन्दरी ॥ ३९ ॥

कथितान्यनुपूर्वेण षड्भेदास्सम्प्रयोगतः ।
अघूर्मिते कलाधारं विघूर्मे निष्कलात्मकम् ॥ ४० ॥

सुषुप्ते शून्यमित्याहुः स्थगितमुपलक्षयेत् ।
स्वप्ने तु कलनात्कालं स्वप्नान्ते खमलं स्मृतम् ॥ ४१ ॥

विघाते क्षपणा देवि सन्ताने क्षयमन्तकम् ।

प्। ११६)

कण्ठोष्ठ्यन्तु विबोधे तु सुभेदः सप्तमः क्रमात् ॥ ४२ ॥

सौम्ये सौम्यगतिं प्राहुः स्थिरे वै निष्कलं परम् ।
शीघ्रं शून्यं विजानीयात् स्वगतमुपलक्षयेत् ॥ ४३ ॥

वल्गने कालतत्वाख्यं चालने खमलं स्मृतम् ।
हुङ्कारे क्षपणो देवः सर्वमेतद्विपारयेत् ॥ ४४ ॥

क्षयान्ते झर्झरं प्रोक्तं शुभाख्ये उपलक्षयेत् ।
वाक्ये स्थूलपदे शुभ्रे कण्ठोष्ठ्यः सर्वतस्थितः ॥ ४५ ॥

एतद्भेदाष्टकन्देवि तत्वभेदामलं परम् ।
तत्वं विज्ञायते सम्यक् विधिपूर्वेण निष्कलम् ॥ ४६ ॥

एवं विज्ञानभेदज्ञो मोक्षन्तस्य न संशयः ।

प्। ११७)

हंसाख्ये बिन्दुनादञ्च अर्धचन्द्रे निरोधिका ॥ ४७ ॥

व्यापिनीत्यूर्ध्वगामी च शक्तिश्शान्तपदं महत् ।
अक्षरे चाक्षरं सर्वं बोद्धव्यमनुपूर्वशः ॥ ४८ ॥

एवं यो वेत्ति तत्त्वेन स भवेत्तत्परा गतिः ।
एवं वै ह्यष्टधा भेदं व्याख्यातं तव शोभने ॥ ४९ ॥

नवधा तु पुनः पश्चात् कथयिष्ये यथा भवेत् ।

इति निश्वासकारिकायामष्टादशः पटलः ।