१७

शक्तिलक्षणम्

देवी

शक्तिं शिव महादेव कथयस्व विशेषतः ।
किमन्या कारणे शक्तिः अनन्या वा प्रकीर्तिता ॥ १ ॥

अन्यानन्यतया वाऽथ एतत्पृच्छामि संशयम् ।
यदि नान्या भवेच्छक्तिः तयोर्ब्रूहि यदन्तरम् ॥ २ ॥

अथवाऽन्या भवेच्छक्तिः शिवस्तस्मादकारणः ।
अनन्यान्यत्वभावेन अस्तिनास्तीति संशयः ॥ ३ ॥

प्। १०४)

प्रत्ययान्तानि शास्त्राणि संशयात्मा विनश्यति ।
तस्मान्निस्संशयो ब्रूहि अगोप्यं परमेश्वर ॥ ४ ॥

ईश्वरः

अनन्या कारणे शक्तिः अधिष्ठातृत्वलक्षणा ।
सर्वज्ञा चेतना शुद्धा सर्वतत्वप्रकाशिका ॥ ५ ॥

सर्वतत्वेषु तत्रस्था तांस्तान् भावान् प्रकाशयेत् ।
गुणतो दोषतश्चैव शुद्धाशुद्धेषु प्राणिषु ॥ ६ ॥

तथा सर्वेषु भूतेषु तत्त्वभावेन्द्रियेषु च ।
सर्वेष्वनुगता शक्तिः नित्यं सर्वेषु तिष्ठति ॥ ७ ॥

दाहकत्वं यथाह्यग्नौ शैत्यभावश्च वारिषु ।

प्। १०५)

अ * * नात्वे षट् वर्तन्तेऽथ चेश्वरशक्तयः ॥ ८ ॥

पृथिव्यो धारणं यद्वत् सूर्ये यद्वद्गभस्तयः ।
आकाशे चावकाशित्वं तत्त्वदीश्वरशक्तयः ॥ ९ ॥

पृथिव्यान्तु यथा गन्धो रूपं तेजो जले रसम् ।
स्पर्शोऽनिलेंवरे शब्दस्तद्वदीश्वरशक्तयः ॥ १० ॥

किरणा इव सूर्यस्य मणीनामिव रश्मयः ।
शक्तिशक्तिमतोस्तद्वदनादित्वमिहेष्यते ॥ ११ ॥

रत्नाग्निद्युतिसोमाद्या अविभक्ता रवेर्यथा ।
तेजो लोका स्वदेहस्थास्तथा शक्ति परे शिवे ॥ १२ ॥

अविभक्तं विभक्तञ्च धर्माधर्मित्वलक्षणम् ।

प्। १०६)

धर्मिणः स्वेच्छया धर्मं प्रवृत्तिमधितिष्ठति ॥ १३ ॥

अभावे धर्मिणी धर्म प्रसिद्धिमुपगच्छति ।
धृते धर्मिणि धर्मोऽसौ सत्कारणमिहोच्यते ॥ १४ ॥

इति निश्वासकारिकायां सप्तदशः पटलः ।