देव्युवाच
भगवन् श्रोतुमिच्छामि नादशब्दस्य निर्णयम् ।
स्थूलसूक्ष्मविभागेन द्विप्रकारं प्रकीर्तितम् ॥ १ ॥
कथं स्थूलं भवेन्नादस्सूक्ष्मं वाऽपि महेश्वर ।
कथं शरीरे ज्ञातव्यं तत्वतः कथयस्व मे ॥ २ ॥
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं ते प्रवक्ष्यामि नादज्ञानमनुत्तमम् ॥ ३ ॥
योऽसौ घोषस्सुसम्पूर्णः श्रूयते देहमध्यतः ।
प्रकृतिस्तत्र सम्भूता महाजालपरिच्छदा ॥ ४ ॥
तस्य घोषस्य मध्ये तु स्थितं तत्र निवेदयेत् ।
प्। ९८)
पुरुषस्तत्र सञ्जातो गुणातीतो निरञ्जनः ॥ ५ ॥
तृतीयन्तु महच्छब्दं स्थितं घण्टानिनादवत् ।
तस्मिन् रुद्रस्समुत्पन्नः प्रभुस्त्रैलोक्यनायकः ॥ ६ ॥
योऽसौ शान्तस्समाख्यातश्शब्दः परमकारणम् ।
कोपिप्रदण्डप्रतीकाशा ज्योत्स्नाकरमिव स्थितः ॥ ७ ॥
तस्मिन्नीशस्समुद्भूतस्तेजो राशिर्महात्मनः ।
योऽसौ सिद्धः शिवस्सूक्ष्मः सुशान्तस्सर्वतोमुखः ॥ ८ ॥
अप्रमेयोह्यनुच्चार्यो नादात्मा स तु कीर्तितः ।
लयस्थानन्तु तत्त्वज्ञैः स एव परिकीर्तितः ॥ ९ ॥
लयातीतं परो देवो निरूपाख्यो निरामयः ।
प्। ९९)
ज्ञात्वैवं मुच्यते ज्ञानी भुञ्जानो विषयानपि ॥ १० ॥
एतत् ज्ञानं परं गुह्यं नाख्यातं यस्य कस्यचित् ।
देव्युवाच
कोऽसौ नादः किं प्रमाणः किं रूपः क्षरितः कुतः ॥ ११ ॥
किमर्थं केन चैवाऽयम् ईरितः सम्प्रवर्तते ।
ईश्वर उवाच
ममैषा परमा मूर्तिः नादसञ्ज्ञा वरानने ॥ १२ ॥
चिन्त्यते योगिभिर्नित्यम् अपुनर्भवकाङ्क्षिभिः ।
नास्य प्रमाणं व्यापित्वान्मुक्तेः समुपलभ्यते ॥ १३ ॥
अनादित्वात्सम्भवश्च नित्यत्वान्नियतिर्न च ।
प्। १००)
यथा संवेत्यनुच्चार्य शब्दाक्षरविवर्जितम् ॥ १४ ॥
सम्प्राप्यते सुखेनैव तदुपायं ब्रवीमि ते ।
अङ्गुष्ठाभ्यां छादयित्वा साधकश्रवणावुभौ ॥ १५ ॥
ततश्शृणोति तन्नादमम्बुदप्रतिमस्वनम् ।
अस्य संश्रवणाद्देवि नादस्यायतलोचने ॥ १६ ॥
परमभ्येति निर्वाणं छिन्न पाशनिबन्धनः ।
ममात्मीयमिदं सूक्ष्मं शरीरं नादसञ्ज्ञितम् ॥ १७ ॥
पशोः पाशोपनोदाय प्रकाशीकृतमद्भुतम् ।
ततः परतरध्येयं योऽन्यः प्रत्युपदिश्यते ॥ १८ ॥
न चैतदप्रसन्ने तु मयि देव्युपलभ्यते ।
प्। १०१)
परमेतस्य वीर्यं यत् अनुच्चार्यमनामयम् ॥ १९ ॥
सम्यक् यस्संविजानाति तन्मयत्वं स गच्छति ।
एष ते कथितः सम्यक् नादः परमदुर्लभः ॥ २० ॥
साम्प्रतं शृणु यत्रायं लयमायात्यनिन्दितम् ।
पदमेतदतिक्रम्य चतुर्थं तुर्यसञ्ज्ञितम् ॥ २१ ॥
पञ्चमं पदमाकाशं लक्षयेत्समवस्थितम् ।
तच्चाचलमनिर्देश्यमनन्तमजमव्ययम् ॥ २२ ॥
अनादिमध्यनिधनमेकमप्रतिवृत्तिमत् ।
निष्प्रपञ्चमनस्वान्तमतीन्द्रियमनामयम् ॥ २३ ॥
विस्तीर्णमव्यवच्छिन्नमध्यान्तं सर्वतोमुखम् ।
प्। १०२)
निष्तूयं विमलं वृत्तमुत्तुङ्गव्यापिनद्ध्रुवम् ॥ २४ ॥
सदाशिवाख्यमाकाशमीदृग्गुणमुदाहृतम् ।
जगद्बीजमिदं सूक्ष्मं परमाकाशमव्ययम् ॥ २५ ॥
नादोऽत्र लयमायाति निवृत्तं कार्यसङ्क्षये ।
पदमेतीच्छान्तिलयं गतोह्यत्रापि सङ्ख्ययः ॥ २६ ॥
तदिच्छया भवन्त्येते पुनश्शब्दशरीरिणः ।
ततस्ते शब्दतनवोश्चक्रवर्ति पदे स्थिताः ॥ २७ ॥
लोकानुग्रहकर्तृत्वं प्रकुर्वन्ति पतीच्छया ।
तेऽधिकारं ततः कृत्वा कालस्यास्य परिव्ययात् ॥ २८ ॥
अप्राप्यमात्मकं भावं यान्ति शून्यमदं पुनः ।
प्। १०३)
इति निश्वासकारिकायां षोडशः पटलः ॥