देव्युवाच
बिन्दुदेवं परं तत्वं सर्वतत्वसमुद्भवम् ।
श्रोतुमिच्छामि देवेश परं कौतूहलं हि मे ॥ १ ॥
कथं कस्मिंस्थिता स्तत्वा देवाश्चैव महेश्वर ।
तत्वं पदं परञ्चैव विदुस्तत्वे यथा स्थितम् ॥ २ ॥
तदहं श्रोतुमिच्छामि त्वत्प्रसादान् महेश्वर ।
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छितम् ॥ ३ ॥
प्। ६५)
तदहं सम्प्रवक्ष्यामि बिन्दुदेवस्य निर्णयम् ।
अनक्षरमनुच्चार्यमव्ययं वृत्तलक्षणम् ॥ ४ ॥
ध्येयमप्रतिमञ्चैव बिन्दुतत्वमुदाहृतम् ।
बिन्दुभूतस्थितो यस्मात् शिवस्य परमात्मनः ॥ ५ ॥
दूरस्थः संस्थितो यस्मात् तस्माद्बिन्दुरिति स्मृतः ।
विद्यातत्वोपरि श्रीमान् सङ्क्रान्तिर्द्वादशैर्युतम् ॥ ६ ॥
भुवः पतिस्स वै सूर्यः कालरूपी परश्शिवः ।
कालसङ्ख्यार्थं देवेशि दीप्यते भुविचाम्बरे ॥ ७ ॥
अकालश्चैव सूर्यश्च स बिन्दुः स परश्शिवः ।
स देहस्तन्तु बोद्धव्य स्वगतं दृढगोचरम् ॥ ८ ॥
प्। ६६)
सोऽग्निस्तु वर्तुली भूत्वा प्राणिनां हृदि संस्थितः ।
सर्वभूतं हृदिस्थोऽसौ ज्वलत्पावकवर्चसम् ॥ ९ ॥
अन्तरात्मा स विज्ञेयो जगच्चक्षुर्न संशयः ।
हृस्वस्तु दहते ध्यानदीर्घस्तु मोक्षदो भवेत् ॥ १० ॥
प्लुतमूर्तिधरो बिन्दुस्सर्वलोकप्रकाशकः ।
विशतात् बिन्दुरूपाच्च विशेषानलविग्रहः ॥ ११ ॥
विश्वरूपमलत्वाच्च विलयाद्बिन्दुरुच्यते ।
विदन्ते येन तत्त्वांश्च देहमध्ये व्यवस्थितान् ॥ १२ ॥
वेदनाच्चैव तत्त्वानां देहे सर्वत्र संस्थिताः ।
लयं गमयते यस्मात् तस्माद्बिन्दुरिति स्मृतः ॥ १३ ॥
प्। ६७)
बिन्दुमध्यगतं सर्वं त्रैलोक्यं स चराचरम् ।
सृजन् संहरते विश्वं सदाशिव नियोगतः ॥ १४ ॥
योऽसौ ध्वस्ततमो बिन्दुः सर्वव्यापी महेश्वरः ।
क्षोभकस्सर्वभूतानां तारका इव चन्द्रमाः ॥ १५ ॥
चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जघनोपम् ।
तारकाचलिताकारं बिन्दुदेवस्य रूपकम् ॥ १६ ॥
ओषधीनां रसो यद्वत् दीप्तिर्यद्वद्धुताशने ।
सोमेव सौम्यता यद्वत् कर्णिकायां समासतः ॥ १७ ॥
सम्भवस्स तु बीजस्य यो यन्नेत्रेषु दृश्यते ।
नेत्रमध्ये भवेदात्मा छायाजीवस्य दृश्यते ॥ १८ ॥
प्। ६८)
आत्मनो दृश्यते छाया चक्षुभ्यां ज्योतिमाश्रितः ।
क्षेत्रज्ञः स च वै विष्णुः पुरुषः पञ्चविंशकः ॥ १९ ॥
एकाक्षरं चतुर्भेदं चतुर्मात्रैरलङ्कृतम् ।
चतुष्कसृङ्कलातीतं बिन्दुं ज्ञात्वा शिवं व्रजेत् ॥ २० ॥
यस्ततो दृश्यते शुक्लान्नेत्रयोः प्रान्तसंस्थिताः ।
आकारो ब्रह्मणो रूपं सात्विकं परिचक्षते ॥ २१ ॥
रक्तकृष्णा च या तत्र दृश्यते नयनस्थिता ।
ऊकारं वैष्णवं रूपं राजसं तत्प्रचक्षते ॥ २२ ॥
यस्तत्र दृश्यते कृष्णमण्डलं नयने स्थितम् ।
मकारं रुद्ररूपन्तु तामसं परिकीर्तितम् ॥ २३ ॥
प्। ६९)
कृष्णस्वच्छञ्च यस्तत्र नेत्रमध्ये व्यवस्थितम् ।
स बिन्दुरिति विज्ञेयो यत्रात्मा दृश्यते स्थितः ॥ २४ ॥
बिन्दुमध्यगतं सूक्ष्मं सुषिरं ज्योतिरूपिणी ।
दृष्ट्वाऽन्तं सर्वभूतात्मा स शान्तपददीपकम् ॥ २५ ॥
अथ * * * * * * देवा विन्यस्य सुवृते ॥ २६ ॥
ध्यातव्यं सततं देवि यमिच्छेत्तत्त्रिधा भवेत् ।
आकारः शुक्लवर्णस्तु ब्रह्मा सत्वगुणे स्थितः ॥ २७ ॥
रक्तकृष्णं भवेद्विष्णुराजसं तत्प्रचक्षते ।
कृष्णन्तु रुद्रविषयं तामसं तत्प्रचक्षते ॥ २८ ॥
प्। ७०)
कृष्णमच्छन्तु यत्तत्र मण्डलं नयनान्तगम् ।
स बिन्दुरिति मन्तव्यो यत्रात्मा दृश्यते स्थितः ॥ २९ ॥
स्वच्छमध्यन्तु यत्तत्र नेत्रान्तपदसंस्थितम् ।
स निष्कलो पराध्यात्मं परं ब्रह्ममिदं स्मृतम् ॥ ३० ॥
नेत्रा श्रुता तु याच्छाया भ्रुवोर्मध्ये विनिर्गता ।
बिन्दुदेवस्य तत्स्थानं परात्परतरं महत् ॥ ३१ ॥
यस्मात्प्रवर्तते सृष्टिः स्वरवर्णकलात्मिका ।
यस्मिंश्च लीयते भूयः तद्बिन्दुरिति सञ्ज्ञितम् ॥ ३२ ॥
यस्येच्छया विमुच्यन्ते पशवः पाशबन्धनात् ।
मन्त्राजलाज्यसंयोगात् तद्बिन्दुरिति सञ्ज्ञितम् ॥ ३३ ॥
प्। ७१)
निवृत्तिस्थो ह्युदासीनो विद्यास्थः शब्दकारकः ।
प्रतिष्ठा सृष्टिरभवत् शान्तिस्थः सकलेरणः ॥ ३४ ॥
बिन्दुमध्यगतो नादो नादमध्यगतो ध्वनिः ।
ध्वनिमध्यगतस्तारः तारमध्यगतश्शिवः ॥ ३५ ॥
तत्र जातमशेषं हि तस्मिन्नेव लयं गतम् ।
नित्यास्ते निर्विकारिण्यो निवृत्तिस्तेन चोच्यते ॥ ३६ ॥
यतश्चराचरमिदं जगदत्रैव संस्थितम् ।
तिष्ठत्यलक्षितगुणा प्रतिष्ठा तूच्यते ततः ॥ ३७ ॥
पशूनामप्रबुद्धानाम् ईश्वरादि कलान्तकाः ।
यस्माद्वेदयते तस्माद्विद्येति विहिता कला ॥ ३८ ॥
प्। ७२)
क्षित्यानिलाग्नि वाय्वाद्यै रेखा भावो व्यवस्थितः ।
न लिप्यते सुसूक्ष्मत्वात् तस्माच्छान्तिरिहोच्यते ॥ ३९ ॥
यत्तत्सदास्ते विमलश्शिवशान्तविलक्षणः ।
सदाशिवाख्यमित्यस्मिन् नामानि परिगीयते ॥ ४० ॥
एतैः कलैः कलायाढ्यो उद्भवक्षयकृच्छिवः ।
यत्तच्छिवाख्यमाख्यातं तत्त्वमप्रतिमौजसम् ॥ ४१ ॥
धूम्राग्रपटलाकारं विस्तीर्णं सर्वतो मुखम् ।
दृश्यते नश्यते चैव स्थूलं बिन्दुरिति स्मृतम् ॥ ४२ ॥
दीप्रताम्रनिभञ्चैव खद्योतसदृशद्युतिः ।
हरिकुङ्कुमसङ्काशो मध्यमो बिन्दुरुच्यते ॥ ४३ ॥
प्। ७३)
नेत्रमध्ये स्थिता दीप्तिः पूर्यते स्वेन तेजसा ।
शुद्धस्फटिकसङ्काशो बिन्दुः ज्ञेयः परापरः ॥ ४४ ॥
दशदेवमयो बिन्दुः दश कर्मफलप्रदः ।
दशरूपञ्च बोद्धव्य सूक्ष्मात्सूक्ष्मतरं परम् ॥ ४५ ॥
सितं रक्तं तथा कृष्णं नीलमेघसमप्रभम् ।
पीतं रक्तञ्च पीतञ्च कपिलो धूम्रमेव च ॥ ४६ ॥
दशमं स्फटिकाभञ्च फलमेषां पृथक् पृथक् ।
पिशाचनाशने कृष्णं शिवेनोत्तममात्मना ।
सर्वग्रहविनाशाय नीलं वै परिकीर्तितम् ॥ ४८ ॥
प्। ७४)
मेघो व्याधिविनाशाय पीतरक्तञ्च मारणे ।
सर्वकर्मकरो धूम्रस्फटिकाभस्तु मोक्षदः ।
श्वेतादीनान्तु सर्वेषां देवताः सम्प्रचक्षते ॥ ५० ॥
अनन्तेशादितः कृत्वा शिखण्ड्यन्ताः प्रकीर्तिताः ।
कालाग्निरुद्रो नवमो दशमस्तु सदाशिवः ॥ ५१ ॥
इदं मुख्यं शिवाख्यस्य बिन्दुदेवस्य लक्षणम् ।
बोद्धव्यं साधकैः प्राज्ञैः मुनिभिः मोक्षकाङ्क्षिभिः ॥ ५२ ॥
शून्याख्यप्रथमो बिन्दुः परशून्यो द्वितीयकः ।
अतस्तृतीयमेवाहुः तत्वार्थं गहनं पदम् ॥ ५३ ॥
प्। ७५)
अक्षोभ्यंः परमो बिन्दुः षष्ठो निरतिसंशयः ।
सप्तमं शून्यतरं स्यात् शून्याभासन्तथाष्टमम् ॥ ५४ ॥
निराभासस्तु नवमो दशमस्तु रभासकः ।
सुकान्तैकादशः प्रोक्तो द्वादशस्सुशिवः स्मृतः ॥ ५५ ॥
त्रयोदश सुनादस्तु ताराख्यश्च चतुर्दश ।
दशपञ्च वराभास ध्रुवो बिन्दुश्च षोडश ॥ ५६ ॥
दश सप्ताव्ययः प्रोक्तो विद्यातत्त्वव्यवस्थितः ।
अव्ययस्तु शिवो यस्तु एवमष्टादश क्रमात् ॥ ५७ ॥
वेदितव्यः प्रयत्नेन बिन्दुदेवः परापरा ।
निश्रेण्यात्त्वेकमूलेन आरोहेत्परमं पदम् ॥ ५८ ॥
प्। ७६)
देव्युवाच
कथं बिन्दोरनुच्चार उच्चारो वा कथं भवेत् ।
शून्याच्छून्यतरं शून्यमुक्तमष्टादश क्रमात् ॥ ५९ ॥
एवं नामविभागेन के तत्वाः परिकीर्तिताः ।
नेत्राश्रिता तु याच्छाया भ्रुवोर्मध्ये विनिर्गता ॥ ६० ॥
कथं तस्य भवेल्लक्ष्म भगवन् वक्तुमर्हसि ।
ईश्वरः
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ॥ ६१ ॥
तदहं सम्प्रवक्ष्यामि लक्ष्मामृतमनुत्तमम् ।
एक एव यदा देवि बिन्दुरित्यभिशब्दितम् ॥ ६२ ॥
प्। ७७)
अनुच्चारशिवो ज्ञेयं तदव्यक्तमिति स्मृतम् ।
वर्णहीनं न किञ्चित्स्यात् कूटस्थस्तेन चोच्यते ॥ ६३ ॥
वर्णसंयुक्तदेहस्तु ब्रह्मादिस्तंवगोचरः ।
प्रकृत्या जालगहनं सर्वमुत्पाद्य गच्छति ॥ ६४ ॥
एतदुच्चारमित्युक्तं बिन्दुदेवस्य सुन्दरि ।
तस्मादन्यैस्तु संयुक्तमुच्चरेत्सर्वकर्मसु ॥ ६५ ॥
दीक्षाकाले जपे होमे वर्णयागे तथैव च ।
बिन्दुयुक्तेन कर्तव्यं सर्वकर्मप्रसिद्धये ॥ ६६ ॥
शून्यशब्देन चाह्वानां यन्मया कथितं तव ।
पृथिव्यादि विभागेन ज्ञातव्यन्तु वरानने ॥ ६७ ॥
प्। ७८)
तस्य प्रसूतिमेकेन शोभने * * * * * ।
शतं शतञ्च होतव्यं तत्वं तत्वेन सन्धयेत् ॥ ६८ ॥
षष्ठस्वरविनिर्मुक्तस्सप्ततत्वादिमस्तु यः ।
एकबीजेन होतव्यं सर्वाध्वानमशेषतः ॥ ६९ ॥
पूर्णाहुत्यतु दातव्याः प्रतिहोमं शते शते ।
सप्लुतोच्चारयोद्वर्णं बिन्दुयुक्तञ्च कारयेत् ॥ ७० ॥
बिन्दुयुक्ते तदा नादं कर्तव्यं देशिकेन तु ।
तस्यान्ते तु पुनर्देवी पूर्णाहुत्यस्तु पातयेत् ॥ ७१ ॥
एवं सायुज्यमाप्नोति तत्वे तत्वेन संशयः ।
नेत्राश्रिता तु याच्छाया तस्या लक्षं वदाम्यहम् ॥ ७२ ॥
प्। ७९)
येन विज्ञातमात्रेण मुच्यते जन्मबन्धनात् ।
अन्यशास्त्रे तु यत्प्रोक्तं तत्सर्वं परिकीर्तितम् ॥ ७३ ॥
वार्ता तु कथ्यते देवि प्रत्यक्षञ्चाप्ययञ्चनम् ।
बिन्दु बिन्द्विति देवेशि वदन्ते सर्वयोगिनः ॥ ७४ ॥
ईदृशं नाभिजानन्ते प्रत्यक्षस्य तु दर्शनम् ।
खड्गस्याभिमुखेनैव विमार्गप्रवहेन तु ॥ ७५ ॥
दिव्यदृष्ट्या प्र * * तेजोमण्डलमुत्तमम् ।
मुखमावृत्य तिष्ठेत लाक्षावर्णसमोपमः ॥ ७६ ॥
आदित्योदयसङ्काशः कौसुम्भरससम्भवः ।
निर्धूमाङ्गारसदृशं पिण्डीकृतमिव स्थितम् ॥ ७७ ॥
प्। ८०)
अहन्यहनि यो देवि अभ्यसेल्लक्षमुत्तमम् ।
द्वादशार्धेन मासेन व्याधिभिश्च न पीड्यते ॥ ७८ ॥
अनग्निज्वलनञ्चैव ब्रह्महत्या विशोधनम् ।
कुरुते नात्र सन्देहः शिवतेजोपवृंहितः ॥ ७९ ॥
सतताभ्यासयोगेन षड्भिर्मासैस्तु सुवृते ।
जायते सर्वकामित्वम् उद्देश्यं त्रिदशैरपि ॥ ८० ॥
संवत्सरेण युक्तात्मा योगीन्द्रश्शिवभावितः ।
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ॥ ८१ ॥
लीलये तेजमध्ये तु देहेनानेन सुवृते ।
सृजन् संहरते विश्वं शिववत्स्वेच्छतां व्रजेत् ॥ ८२ ॥
प्। ८१)
तस्याऽपि तेजसो मध्ये यथा लक्षो भविष्यति ।
तथा ते कथयिष्यामि अधुना शृणु चान्यथा ॥ ८३ ॥
तत्तेजस्येव मध्ये तु शक्तिलक्षं यथ भवेत् ।
ज्ञातव्यं विदितं तैश्च शक्तिलक्षं सुशोभने ॥ ८४ ॥
एकं विज्ञप्तिमात्रन्तु द्वितीयं सिद्धिमिच्छताम् ।
लक्षाशीतमहालक्षं द्रुतलोहथकालवित् ॥ ८५ ॥
प्रत्यक्षेण यथा दृष्टं दिव्यदृष्ट्या तथैव च ।
प्रत्यक्षस्य प्रवक्ष्यामि योगसद्भावमुत्तमम् ॥ ८६ ॥
स्तनं निपीड्य वामेन अर्धहस्तं प्रसारयेत् ।
प्रसृता सर्वमङ्गुल्य एकां तत्र समुत्सृजेत् ॥ ८७ ॥
प्। ८२)
मध्यममञ्चैव देवेशि तत्र लक्षं समादधत् ।
तस्मिन्नग्रे तु संस्थाप्य अभ्यासादपकर्षयेत् ॥ ८८ ॥
एकदृष्ट्या तु ध्यातव्यञ्चलिते चलितेद्ध्रुवम् ।
शनैश्शनैस्तु तल्लक्षमाकर्षेन्मुखसम्मुखम् ॥ ८९ ॥
शुक्लगोक्षीरसङ्काशं प्रविशन्तं विचिन्तयेत् ।
सुशीतलमुखस्पर्शम् अनौपम्यमनुत्तमम् ॥ ९० ॥
लब्धमात्ररसन्देवि सिध्यते नात्र संशयः ।
मेधाकान्तिसमायुक्तो मासमात्रं न संशयः ॥ ९१ ॥
देहमस्य विशेषेण उत्पतेन्नात्र संशयः ।
शक्तिवत्सर्वगामित्वं भवते साधकेश्वरे ॥ ९२ ॥
प्। ८३)
अप्रविष्टेऽपि लक्षे तु सुभगः प्रियदर्शनः ।
सार्वशास्त्रस्य वेत्ताऽसौ वागीशेव न संशयः ॥ ९३ ॥
प्रत्यक्षस्येव लक्षस्य कथितं तव शोभने ।
दिव्यदृष्ट्या तु या सिद्धिरस्य सङ्क्षेपतः शृणु ॥ ९४ ॥
निश्चलं दृश्यते देवि मानो ह्लादकरं नृणाम् ।
लक्षयीत महालक्षं सर्वसिद्धिप्रदायकम् ॥ ९५ ॥
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ।
अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥ ९६ ॥
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
अग्निवत् ज्वलते सर्वं दुस्पर्शं त्रिदशैरपि ॥ ९७ ॥
प्। ८४)
भक्ष्याभक्ष्यैर्न लिप्येत शुपचानपि दीक्षयेत् ।
ब्रह्महत्यादिभिः पापैः नैवलिप्येत योगवित् ॥ ९८ ॥
त्रिस्थानावस्थितं बृन्दं शेषं मालेव लक्षयेत् ।
प्रत्यक्षे शुक्लपीतानि नीलकृष्णसितानि च ॥ ९९ ॥
एवमादीनि वर्णानि शुक्लमध्ये तु लक्षयेत् ।
सुत्रेणैव मणिर्यद्वद्वेधितः भ्राजते शुभे ॥ १०० ॥
एवं भ्राजति सा माला नादतन्तुस्युतानि तु ।
एष ते तत्त्वसद्भावं तव देवि उदाहृतम् ॥ १०१ ॥
अधुना कथयिष्यामि बिन्दुलक्षणमुत्तमम् ।
तस्य मण्डलमध्ये तु ललाटस्योपरि स्थितः ॥ १०२ ॥
प्। ८५)
जलबुद्बुदसङ्काशं स्वच्छस्फटिकनिर्मलम् ।
धूम्रवर्णन्तु देवेशि अनेककिरणोज्वलम् ॥ १०३ ॥
अहन्यहनि वर्धेत लक्षमेतद्वरानने ।
मासमात्रेण योगीन्द्रो यां दिशामवलोकयेत् ॥ १०४ ॥
विद्युच्च शिवसङ्काशं पश्यते नात्र संशयः ।
स्रवन्तञ्चिन्तयेद्बिन्दुं तुर्यचारेण योगिनः ॥ १०५ ॥
घण्टिकातालुमार्गेण हृत्पद्मे वितते शुभे ।
एतन्मृत्युञ्जयार्थाय ध्यातव्यं योगिभिस्सदा ॥ १०६ ॥
इडायाः प्रवहेनैव सर्वमाप्यायते ध्रुवम् ।
विविधेन वरारोहे सर्वसिद्धिकरः स्मृतः ॥ १०७ ॥
प्। ८६)
एतल्लक्षपरं दिव्यं सर्वसिद्धिकरं भवेत् ।
दूरश्रवणविज्ञानं मननञ्चावलोकनम् ॥ १०८ ॥
जायते नात्र सन्देहो देहेनानेन सुवृते ।
पूर्वोक्ता यानि रूपाणि सर्वाण्यस्मिन् प्रतिष्ठिता ॥ १०९ ॥
दृष्टलक्षेण देवेशि सर्वसिद्धिकरः स्मृतः ।
सिद्धयः सन्ति सर्वत्र तत्त्वालोकेषु सुवृते ॥ ११० ॥
इदं देवि न दातव्यं ज्ञानसद्भावमुत्तमम् ।
दुर्विदग्धे शठे क्रूरे अन्यायपथवर्तिने ॥ १११ ॥
देयन्दान्ताय शान्ताय शिवभक्तिरताय च ।
शिववर्त्मन्यते यस्तु आचार्यं तत्वपारगम् ॥ ११२ ॥
प्। ८७)
शिवाद्गुरुतरी भक्तिः यस्य नित्यं गुरोस्सदा ।
तस्य देयमिदं ज्ञानम् अन्यथा न कदाचन ॥ ११३ ॥
देव्युवाच
चतुष्कं यं महादेव जगत्सर्वं चराचरम् ।
कथयस्व यथा न्यायं कलाध्वानं मम प्रभो ॥ ११४ ॥
ईश्वरः
कलाध्वानं प्रवक्ष्यामि तत्समासेन मच्छृणु ।
निवृत्या च यथा सृष्टिः प्रतिष्ठाया यथा भवेत् ॥ ११५ ॥
विद्या * सम्प्रवक्ष्यामि शान्त्याश्चैव समासतः ।
शान्त्यतीतञ्च देवेशि कथयामि समासतः ॥ ११६ ॥
प्। ८८)
निवृत्यायास्तु होतव्यं पृथिव्यादिरनुक्रमात् ।
प्रकृत्यन्ते तु देवेशि तस्य सृष्टिरुदाहृता ॥ ११७ ॥
पौरुषं त्वादितः कृत्वा माया तत्वमपश्चिमम् ।
प्रतिष्ठायास्तु होतव्यं दीक्षाकाले महेश्वरी ॥ ११८ ॥
विद्यान्तु आदितः कृत्वा यावत्तत्वं सदाशिवम् ।
विद्याया होमयेन्मन्त्री दीक्षाकाले शिवाध्वरे ॥ ११९ ॥
शान्त्यायाश्चैव होतव्यं शिवतत्वं यथाक्रमम् ।
शान्त्यतीतेन देवेशि दद्यात्पूर्णाहुतिं क्रमात् ॥ १२० ॥
ओङ्काराद्दीपनं कृत्वा नमस्कारमलन्तथा ।
ह्रस्वहंसो निवृत्तिः स्यात् प्रतिष्ठा दीर्घभेदिता ॥ १२१ ॥
प्। ८९)
विद्याबिन्दुसमायुक्ता कर्तव्या देशिकेन तु ।
विसर्गेण समायुक्ता शान्ति वै परिकीर्तिता ॥ १२२ ॥
हंसोकारसम्मायुक्तवौषडन्तसमन्वितम् ।
अर्धेन्दुनादसंयुक्तमूकारेण समन्वितम् ॥ १२३ ॥
एतद्देवि समाख्यातं शान्त्यतीतस्य कारणम् ।
तेन पूर्णाहुतिं दद्यात् शिवसायुज्यमिच्छताम् ॥ १२४ ॥
निवृत्याष्टत्रितत्वानि होतव्यानी तु देशिकैः ।
प्रतिष्ठायान्तु सप्तैव होतव्यानि समाहितैः ॥ १२५ ॥
विद्यायां त्रीणि तत्त्वानि विद्यापूर्वाणि होमयेत् ।
उपरिष्ठाच्छिवं तत्वं शान्त्यायां समुदाहृतम् ॥ १२६ ॥
प्। ९०)
एतद्देवि कलाध्वानं सृष्टिव्याप्तिरुदाहृता ।
एवं ज्ञात्वा तु मुच्येत मोचयेच्च न संशयः ॥ १२७ ॥
देव्युवाच
अक्षराश्चैव देवाश्च सर्वे बिन्दुसमाश्रिताः ।
बिन्दुभिः द्युतिनादेन स नादः केन भिद्यते ॥ १२८ ॥
ईश्वर उवाच
तस्य पुष्करमध्ये तु बीजजीवमुदाहृतम् ।
मृणालतन्तुसूत्राभं नादशून्येन भिद्यते ॥ १२९ ॥
देव्युवाच
निष्कलः कथितो देव बिन्दुदेवो महेश्वरः ।
तस्याहं श्रोतुमिच्छामि कथं सकल निष्कलम् ॥ १३० ॥
प्। ९१)
पुनश्च संशयो देव बिन्दुदेवो महेश्वरः ।
कथयस्व मेहशान भेदं तस्य परापरम् ॥ १३१ ॥
ईश्वरः
शृणु देवि परं गुह्यं यथा सकलनिष्कलम् ।
तदहं सम्प्रवक्ष्यामि बिन्दुदेवस्य शोभने ॥ १३२ ॥
पञ्चाशत्तत्वसम्भूतिः बन्धमोक्षप्रबन्धकृत् ।
स्थितः संहारतत्वेऽस्मिन् व्यक्तरूपं स्वयं भुवः ॥ १३३ ॥
योगपीठस्थितो देवः सकलः परिकीर्तितः ।
तदतीतं पुनर्देवि निष्कलं कथितं तव ॥ १३४ ॥
देव्युवाच
प्। ९२)
तस्य देहः किमात्माऽसौ किं बीजैर्विदितोच्यते ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ १३५ ॥
ईश्वरः
ईशानादिवशोक्ते तु मन्त्रशब्दे तथा परे ।
इज्यते गुणमाहात्म्यात् सर्वतत्वादितो महान् ॥ १३६ ॥
चतुर्दश स्वरातीतं कलातीतमतीन्द्रियम् ।
नपुंसकैः सह ज्ञेय अक्षरन्तु त्रिपञ्चकम् ॥ १३७ ॥
त्रिपञ्चकपरोऽन्यस्तु बिन्दुत्वे मुक्तषोडशी ।
स शिवः सकलो ज्ञेयः स शिवः सृजते कलाम् ॥ १३८ ॥
बिन्दुरन्तेन संरुद्धश्शब्दकूटविनिस्रुतम् ।
प्। ९३)
बिन्दु विजृम्भते ग्रन्थ्या ततः शब्दसमुद्भवः ॥ १३९ ॥
पञ्च सङ्घातनिष्यन्दं बीजयोनिसुवासितम् ।
शक्त्यम्बुनाऽभिषिक्तस्तु बिन्दुतेजोङ्कुरो महान् ॥ १४० ॥
देव्युवाच
बिन्दुतेजेति किन्नाम कोऽसौ बिन्दुरिहोच्यते ।
ईश्वरः
तदहं सम्प्रवक्ष्यामि त्वत्प्रसादान्महेश्वरि ॥ १४१ ॥
एष ते भगवान् बिन्दुस्सर्वलोकस्य गामिकः ।
नादमध्यावसानोऽसौ नोत्पत्तिप्रलयात्मकः ॥ १४२ ॥
नक्षत्रं न च वा बीजं कर्ता तस्य न विद्यते ।
प्। ९४)
न क्षीयते न चाल्पोऽपि न निन्द्यो वर्धते क्वचित् ॥ १४३ ॥
अव्यक्ताव्यक्तसंस्थान सु सूक्ष्मो न च सूक्ष्मवान् ।
वायुवद्भ्रमते नित्यं मूर्तिभिर्दशभिस्तथा ॥ १४४ ॥
अष्टलोकजगत्पालः पङ्कजेक्षमम्बुना ।
स एष भगवान् बिन्दुस्सर्वलोकजगद्गुरुः ॥ १४५ ॥
कल्पक्षयकरश्चण्डस्सप्तद्वीपादिपूर्णकः ।
सप्तार्णवावशेषोक द्वादशार्कनिपातनः ॥ १४६ ॥
रसातलास्वालकं * भुजङ्गाङ्गविमर्दनम् ।
इहैकाण्डं जगत्कृत्स्नं मृत्पिण्डमिव संस्थितम् ॥ १४७ ॥
सूक्ष्मेण योगतुलया चराचरमिदं जगत् ।
प्। ९५)
चिबुकार्धार्धकक्षेव मणिवत्तुलयेच्छिवः ॥ १४८ ॥
संसारघटिवद्यन्त्रं भ्रामयन्मायया जगत् ।
स कालस्स च वै मृत्युस्स इन्द्रो वरुणश्शशी ॥ १४९ ॥
सोऽनलो नील आदित्य आकाशश्च क्रमेण तु ।
स ब्रह्मा स च वै विष्णु रुद्र ईश्वर एव च ॥ १५० ॥
ह्री श्री स्मृतिधृतिश्चैव मेधाकान्तिस्सरस्वती ।
प्रकृतिः पुरुषश्चैव नियतिः काल एव च ॥ १५१ ॥
माया विद्या च ईशोऽयं बिन्दोस्सर्वमिदं जगत् ।
वेदं साङ्ख्यञ्च योगञ्च बौद्धमार्हतं तथा ॥ १५२ ॥
यानि कानि च शास्त्राणि सर्वे बिन्दोर्विनिसृताः ।
प्। ९६)
सर्वं बिन्दुमयं ज्ञेयं चित्तं चैतन्यमाकृतिः ॥ १५३ ॥
सर्वामरमयं श्रेष्ठं सर्वशास्त्रधुरन्धरम् ।
अप्रमेयश्च सूक्ष्मश्च अव्यक्तश्च सनातनः ॥ १५४ ॥
चलते स्पन्दते शेते भुञ्जते जाग्रतेऽपि च ।
शिवभावितधर्माणां बिन्दुदेवस्सदात्मकः ॥ १५५ ॥
अर्धनारी विभक्ताङ्गो तदा ते सकलस्मृतः ।
लीनांशनात्मयोगेन तदा सा निष्कलस्मृतः ॥ १५६ ॥
इति निश्वासकारियां पञ्चदशः पटलः