देव्युवाच
भगवन् श्रोतुमिच्छामि मन्त्रस्यानित्यनित्यताम् ।
संयोगात्मैकमन्त्रेण कथं मोक्षो विधीयते ॥ १ ॥
ईश्वरः
संयोगात्मस्य मन्त्रस्य विदित्वा मोक्षमाप्नुयात् ।
पशुमाकृष्यमात्मस्थः प्रयाति परमं पदम् ॥ २ ॥
प्। ५९)
देव्युवाच
जिह्वोष्ठपुटसंयोगात् मन्त्रस्योच्चारमिष्यते ।
तेनानित्या महादेवः कथं नित्यत्वता भवेत् ॥ ३ ॥
कथं वाऽनित्यता तेषां भगवन् वक्तुमर्हसि ।
न संयोगाद्बहिर्मन्त्रो जिह्वोष्ठपुटवर्जितः ॥ ४ ॥
स्वयं नित्यस्थितौ चात्र तेन नित्यत्वतां नयेत् ।
इच्छाशक्तिर्महेशस्य मन्त्रात्मावस्थितस्य च ॥ ५ ॥
उत्तमाधममध्येषु त्रिस्थानावस्थ भोगभुक् ।
उत्तमेष्वुत्तमं भुङ्क्ते मध्यमे मध्यमं तथा ॥ ६ ॥
हीने हीनं ह्यसौ देवो मन्त्रात्मा क्रीडयत्यसौ ।
प्। ६०)
देशिकत्वे समास्थाय पशुं गृह्य वरानने ॥ ७ ॥
भोगान् भुक्त्वा तु तत्त्वेषु स्थूलात्मा शान्ततां व्रजेत् ।
अधमो योगिभोगादिं भुञ्जते परमेश्वरः ॥ ८ ॥
तिर्यक् पञ्चविधञ्चैवमन्त्यभागांस्तथैव च ।
मध्यमे तात्विकं भोगं भुक्तन्तु परमेश्वरः ॥ ९ ॥
प्रकृतिञ्चादितः कृत्वा यावद्विश्वेश्वरं पदम् ।
तृतीयम् उत्तरं भोगमिति वारितसर्वभुक् ॥ १० ॥
स सर्वज्ञः परो देवः त्रिस्थानेष्वपि क्रीडति ।
क्रीडते मन्त्ररूपी सो वृश्चिके पन्नगेषु च ॥ ११ ॥
यस्य यस्य हि यद्वीर्यं मन्त्राणां परिगीयते ।
प्। ६१)
तेन तेन हि भावेन क्रीडन्ते परमेश्वरः ॥ १२ ॥
देव्युवाच
भगवन् श्रोतुमिच्छामि मन्त्रशब्दस्तु यादृशः ।
संशयो मे महादेव प्रसादी भव शूलधृक् ॥ १३ ॥
ईश्वर उवाच
मन्त्रशब्दन्तु सामान्यं बहवो मन्त्रजातयः ।
मातृकासम्भवास्सर्वे नास्ति मन्त्रमतः परम् ॥ १४ ॥
पञ्चधा मन्त्रमुद्दिष्टा नवधा दशधा पुनः ।
वेदनीयास्तु ते सर्वे शिवतत्वानुवर्तिभिः ॥ १५ ॥
अपरश्च परश्चैव परेभ्योऽन्यपरस्तथा ।
प्। ६२)
परतो यन्मया प्रोक्तस्सर्वेषां व्यापकस्मृतः ॥ १६ ॥
सर्वव्यापी परो ज्ञेयः कारणः सर्वशक्तिमान् ।
एकाक्षरस्मृतो मन्त्रो द्व्यक्षरास्त्र्यक्षराः पराः ॥ १७ ॥
पञ्च षट् सप्तमाष्टौ च अन्ये ब्रह्माक्षरास्मृताः ।
बह्वक्षरा ये देवेशि मन्त्रास्ते सम्प्रकीर्तिताः ॥ १८ ॥
ह्रस्वा दीर्घा प्लुताश्चैव स्वरयुक्तिविसर्गजाः ।
संयोगेन विहीनास्तु न ते मन्त्राः प्रकीर्तिताः ॥ १९ ॥
यत्तत्पूर्वं मया ख्यातं देहं परमकारणे ।
तदेवादौ नमश्चान्ते संयोगं समुदाहृतम् ॥ २० ॥
कूटस्थाश्चैव मन्त्राश्च मया पूर्वमुदाहृताः ।
प्। ६३)
संयोगेन विहीनास्तु मन्त्रशब्दबहिष्कृताः ॥ २१ ॥
प्रकृतिस्थं ह्रस्वमेवाहुः दीर्घं दीर्घेण भेदितम् ।
व्यापकेन समायुक्तं सम्पतन्तं विनिर्दिशेत् ॥ २२ ॥
अतीता बिन्दुनादेन परप्रकृतिसंस्थिता ।
स्वरमन्त्रं विजानीयाद्विसर्गेण विसर्गजाः ॥ २३ ॥
एवन्तु पञ्चधा मन्त्राः परमेशमुखोद्गताः ।
पञ्चधा संस्थितान् ज्ञात्वा ततः कर्म समारभेत् ॥ २४ ॥
हकारो मन्त्र उद्दिष्टस्सर्वेषां प्रभुरीश्वरः ।
प्रेरकस्सर्वमन्त्रेषु स्वशक्तिबलवर्धनः ॥ २५ ॥
समन्त्रीमन्त्रनमस्थो मन्त्रात्मा प्रभुरव्ययः ।
प्। ६४)
इति निश्वासकारिकायां ज्ञानकाण्डे मन्त्रोद्धारमन्त्रनित्यत्वविवक्षा प्रकरणे चतुर्दशः पटलः