ईश्वरः
हृत्पद्मं सम्प्रवक्ष्यामि दशग्रन्थिष्ववस्थितम् ।
यथा सा साधना तत्र मातृका * * * * * * ॥ १ ॥
प्। ३८)
स एवं संस्थितो नित्यं देही देहत्वमागतः ॥ २ ॥
आपादतलमूर्धान्तं स्वेच्छया यः प्रवर्तते ।
स एव नालमित्युक्तम् आधारं सर्वदेहिनाम् ॥ ३ ॥
अष्टपत्रं भवेत्पद्मं षोडशच्छदमेव वा ।
अभयोरेव जानीयात् सम्पुटं परमं महत् ॥ ४ ॥
पूर्वपत्रात्समारभ्य आदिवर्गन्तु विन्यसेत् ।
एकैकमक्षरं विद्यात् पत्रे पत्रे यथाक्रमम् ॥ ५ ॥
ककारादिभकारान्तान् केसरान्तान् विनिर्दिशेत् ।
मकारं कर्णिका ज्ञेया तस्य पद्मस्य मध्यतः ॥ ६ ॥
प्। ३९)
यकारादि क्षकारान्तान् पुष्करान्तान् विनिर्दिशेत् ।
एष पद्मविधिप्रोक्तो हृत्पद्मस्य विशेषतः ॥ ७ ॥
अङ्गुष्ठाद्यावन्मूर्धान्तमेवमेव विधिस्मृतः ।
विधिमेव सकृत् ज्ञात्वा न भूयो जन्मतां व्रजेत् ॥ ८ ॥
षट्पदास्वादलोभेन यथा पुष्पाणि जिघ्रति ।
एवं सर्वेषु पद्मेषु हृदिस्थो याति नित्यशः ॥ ९ ॥
यदेतद्धृतिपद्मन्तु अधोमुखमवस्थितम् ।
तस्य मध्ये तु चात्मानमधश्चोर्ध्वमवस्थितम् ॥ १० ॥
अहर्निशास्तु देवेशि मध्यस्य क्रीडते प्रभुः ।
भुङ्क्ते तु विविधान् भोगान् धर्माधर्मेष्ववस्थितः ॥ ११ ॥
प्। ४०)
घटीयन्त्री यथा कश्चित् एकत्स्थः पूरयेद्बहून् ।
तद्वद्देहस्थितो देही पूरके रेचकेऽपि च ॥ १२ ॥
योऽसौ ज्ञेयमिति प्रोक्तं सर्वेषां श्रूयते महत् ।
स एव चेतनाऽत्मस्थः चेष्टा ह्येतानि कारयेत् ॥ १३ ॥
स जीव इति विज्ञेयस्सर्वेषाञ्च व्यवस्थितः ।
प्रेरकः सर्वभूतेषु इन्द्रियैश्च विशेषतः ॥ १४ ॥
शुभाशुभेषु सर्वत्र उभयोरपि धावति ।
धर्मिष्ठानान्तु धर्मिष्ठः पापिष्ठानान्तु पापकृत् ॥ १५ ॥
अविज्ञातः पशुस्सोहि विज्ञातः पति रेव सः ।
एवं पशुपतिश्चायं सर्वप्राणिषु संस्थितः ॥ १६ ॥
प्। ४१)
शुद्धस्फटिकसङ्काशं तारकेण तु लक्षयेत् ।
खद्योतमिव नाभाति प्रमाणमिच्छया स्मृतम् ॥ १७ ॥
स जीवः स पशुश्चैव स शिवो ज्ञेयमेव च ।
मनश्च चेतनश्चैव स एव परिगीयते ॥ १८ ॥
देव्युवाच
जीवं कथय देवेश पशुञ्च शिवमेव च ।
ज्ञेयं मनश्च चेता च कथयस्व विभागतः ॥ १९ ॥
ईश्वर उवाच
शुभाशुभेषु सर्वेषु जीवः संयुज्यते यदा ।
जीवन्ते सर्वभूतानि जीवस्तेनेह कीर्तितः ॥ २० ॥
प्। ४२)
तमादि कालरुद्रान्तं पाशानैकस्तु पाशितम् ।
भ्रमते भ्रममाणस्तु पशुस्तेनैव कीर्तितः ॥ २१ ॥
अविज्ञातः पशुस्सोहि विज्ञातश्शिव एव हि ।
ध्यायते पूज्यते यस्मात् तस्माच्छिव इति स्मृतः ॥ २२ ॥
अगृह्यस्सर्वभूतेषु नामभिश्च विवर्जितः ।
अस्तीति भावना यस्मात् तस्मात् ज्ञेयमिति स्मृतम् ॥ २३ ॥
शुभाशुभेषु कर्मेषु सङ्कल्पं कुरुते सदा ।
मानयोन्द्रे यान्यस्ता * * * * * * * * * ॥ २४ ॥
प्रेरकस्तेषु सर्वेषु मनस्थः परमेश्वरः ॥ इति ॥ २५ ॥
प्। ४३)
चितिस्वरूपपिण्डेषु चेतना भावमानतिः ।
स्पर्शितं वेदते यस्मात्तस्माच्चेता इति स्मृतः ॥ २६ ॥
देव्युवाच
अधोमुखन्तु यत्पद्मं कथमूर्ध्वमुखं भवेत् ।
अङ्गुष्ठाद्यावमूर्धान्तं नीत्वा शिवपदं व्रजेत् ॥ २७ ॥
तदहं श्रोतुमिच्छामि यथावत्त्वत्प्रसादतः ।
ईश्वरः
अष्टमेन हि तत्वेन जातवेदो द्वयेन च ॥ २८ ॥
अधोर्ध्वगतसंयुक्तमायतेन शिवं व्रजेत् ।
अधोमुखन्तु यत्पद्मं वर्तते नित्यमेव हि ॥ २९ ॥
प्। ४४)
अभेद्यं सर्वयोगीनां गुरुवाक्य बहिष्कृतम् ।
यथा च भेदमायान्ति अधः पद्मो वरानने ॥ ३० ॥
तदहं सम्प्रवक्ष्यामि भेदामृतमनुत्तमम् ।
दशग्रन्थि विभेदन्तु क्षुरिकातो यदा भवेत् ॥ ३१ ॥
अथ ते कथयिष्यामि भेदं तस्य परापरम् ।
भास्करप्रभवे मार्गे ध्यातव्यं ज्योतिमण्डलम् ॥ ३२ ॥
तदेव सम्मुखो मन्त्री मरणं परिकीर्तितम् ।
तत्तेजोऽन्तर्हितं कृत्वा स्वमार्गं पूरकेण तु ॥ ३३ ॥
मुखनासापुटे कर्णौ चतुष्टौ तु निमित्तकौ ।
शिखापञ्चसमोपेतं ध्यातव्यं योगिभिस्सदा ॥ ३४ ॥
प्। ४५)
स्रवन्तममृतं दिव्यं शिखामध्ये विचिन्तयेत् ।
निर्धूमाग्नौ पतत्येव शिष्यते च मुहुर्मुहुः ॥ ३५ ॥
एवं ते शोषमायान्ति अधः पद्मसमन्ततः ।
आपूर्य कुम्भकेनैव चित्राकारं विचिन्तयेत् ॥ ३६ ॥
सुषिरं दृश्यते तत्र बीजं दीपस्य बोधिता ।
ततस्तेनैव मार्गेण शनैरेचक सुव्रते ॥ ३७ ॥
ततस्तु प्रथमां ग्रन्थिच्छेदयेच्छेदकेन तु ।
एवं क्रमेण देवेशि यावन्मूर्ध्नि समाहतम् ॥ ३८ ॥
ततो हुङ्कारं कुर्वीत ऊर्ध्वं वायुं सुरेचयेत् ।
वेगेनाक्षिपतस्तत्र मूर्छा कम्पश्च जायते ॥ ३९ ॥
प्। ४६)
पतते मोहमापन्नो लब्धचेताश्च योगवित् ।
पुनराप्यायनं कुर्यात् मूर्छाकम्पं विनाशयेत् ॥ ४० ॥
अमृतस्यन्दिनी बिन्दुरीढायाः प्रवहेन तु ।
चिन्तयेत्प्लावयत्येवं तत आप्यायतेद्ध्रुवम् ॥ ४१ ॥
अधोमुखेन पद्मेन परिवृत्या च दीपिकाः ।
सिध्यते येन यो भिन्नं मार्गविद्विजचिन्तकः ॥ ४२ ॥
अधोमुखेन तत्वेन सकलेन वरानने ।
एवमभ्यासतो देवि द्विमार्गं प्रवहेन तु ॥ ४३ ॥
एवमभ्यसतः शोष एवमाप्यायकेन तु ।
यदा निर्वेदमापन्नो दृष्ट्वा चञ्चलमात्मनः ॥ ४४ ॥
प्। ४७)
अनेकेन प्रकारेण आयामान्ते तु च्छेदयेत् ।
तदा निर्वाणमभ्येति छिन्नपाशनिबन्धनः ॥ ४५ ॥
इदं देवि न दातव्यं प्रयोगामृतमुत्तमम् ।
सप्ताहात्तु क्रमेद्वश्यं नात्रकार्या विचारणा ॥ ४६ ॥
निश्चितेन तु देवेशि शतायुरपि मुत्क्रमेत् ।
हृच्छिकारसमायुक्त उत्क्रमन्नात्रसंशयः ॥ ४७ ॥
कर्णान्निष्पीड्य हिक्कायां जिह्वा च परिवर्तयेत् ।
एष अन्ते प्रकुर्वीत अन्यथा न कदाचन ॥ ४८ ॥
अभ्यासं पूर्ववत्कृत्वा ज्ञात्वा उपरमेत्ततः ।
मृत्युलिङ्गं यदा ज्ञातं तदा एतत्प्रयोजयेत् ॥ ४९ ॥
प्। ४८)
क्रुद्धलब्धावमानेन कुर्या * * * * * * ।
विद्याभावाऽथ गच्छेताः स * * * * वर्तयेत् ॥ ५० ॥
पद्मसूत्राणि सूक्ष्मन्तु नालं तस्य विचिन्तयेत् ।
अङ्गुष्ठाद्यावन्मूर्धान्तं तावत्पदमनामयम् ॥ ५१ ॥
ईश्वरेण सहायेन गन्तव्यं शङ्कितेन तु ।
मूर्तिध्यानं समाश्रित्य त्वा * * * * * * * ॥ ५२ ॥
प्र * * * यदा प्राप्तं सखायं परमं महत् ।
जीवन्तमयतां स्थाप्य गच्छेत्पदमनामयम् ॥ ५३ ॥
सूत्रेणेव मणिर्यद्वत् वेधयेत्कश्चिन्मानवः ।
तद्वत्तदात्मको योगी बिन्दुर्मणिरिव ग्रथेत् ॥ ५४ ॥
प्। ४९)
यत्तद्धित्रामितं सूक्ष्मं हृत्पद्मन्तु अधोमुखम् ।
पूरितं कुम्भकेनैव तदा चोर्ध्वमुखं भवेत् ॥ ५५ ॥
ऊर्ध्ववत्वं भावयेद्योगी शिखातालुप्रभेदिनी ।
सूर्यमण्डलमध्यस्था सोमश्चाग्नेश्च मध्यगाः ॥ ५६ ॥
स्थूलास्सूक्ष्मास्सुसूक्ष्माश्चान्तः करणवर्जिताः ।
स्थूलञ्चाक्षररूपेण सूक्ष्मं बिन्दुसमाश्रितम् ॥ ५७ ॥
सुसूक्ष्मं नादमित्युक्तं स नादोऽयं त्रिधा स्थितः ।
नादान्तर्निहिता शक्तिः शक्त्यतीतस्तु निष्कलः ॥ ५४ ॥
क्षरतेऽक्षरभोगेन बीजसृष्टिरनेकधा ।
अक्षरप्रकृतिज्ञेया तदतीतस्तु निष्कलः ॥ ५९ ॥
प्। ५०)
या सा कुण्डलिनी प्रोक्ता मया पूर्वमुदाहृता ।
निपतन्ति त्रिधाभूता प्रकृतिः सा परा परा ॥ ६० ॥
साणुमात्रा हृदिस्थाने कर्णस्था द्विरणुस्मृता ।
जिह्वाग्रे त्रिरणं विद्धि निसृतां मातृकां विदुः ॥ ६१ ॥
चतुर्विधा या देवेशि लिख्यते याऽग्रकुण्डली ।
लिख्यते पठ्यते नैव अणुर्नादेन वेष्टितः ॥ ६२ ॥
स्वरार्द्धस्पर्शार्धञ्च शक्तिनाथोऽथ बिन्दुकम् ।
शिवतत्वन्तु बोद्धव्यं वर्णे वर्णे व्यवस्थितम् ॥ ६३ ॥
चारणात्स्पर्शनाच्चैव स्वस्वरं समनादितम् ।
शक्तिश्च शान्तता चैव बोद्धव्यमनुपूर्वशः ॥ ६४ ॥
प्। ५१)
उच्चारे कथितो ब्रह्मा अक्षरक्षरसम्भवः ।
आत्मतत्त्वागतो येन आकरस्तेन चोच्यते ॥ ६५ ॥
स्पर्शे विष्णुस्समाख्यातो विद्यातत्वसमाश्रितः ।
मायया मोहयत्येष मकारस्तेन चोच्यते ॥ ६६ ॥
सकलस्तु भवेद्रुद्रो वर्णरूपीह्यधस्थितः ।
प्राणो भूत्वा हरत्यूर्ध्वं हकारस्तेन चोच्यते ॥ ६७ ॥
मदलोर्लेपहीनस्तु झर्झरत्वं प्रपद्यते ।
बिन्दुहीनास्तथा वर्णा सुस्वरन्न प्रकाशयेत् ॥ ६८ ॥
हृत्कर्णतालुमूर्धान्तं नादस्थानं प्रकीर्तितम् ।
तत्रस्थं चिन्तयेद्योगी शिखां तालुप्रभेदिनीम् ॥ ६९ ॥
प्। ५२)
बिन्दुमध्यगतो नादः स तु नादः परापरः ।
शिवतेजोद्भवा शक्तिः वर्णे वर्णे व्यवस्थिता ॥ ७० ॥
तेन दीप्तप्रभावञ्च वर्णा सिद्धिस्तु कामिकी ।
तत्वेन विततास्सर्वे तन्तुभिस्तु यथा परः ॥ ७१ ॥
क्षीरभूते भवेद्वर्णा बिन्दुर्घृतमिव स्थितम् ।
घृतमध्यसमो नादः शक्तिर्वीर्यमिव स्थितः ॥ ७२ ॥
तेजो भूतं परं तत्वं सर्वदोषविवर्जितम् ।
व्यापकस्सर्व * *? नां गुरुवक्त्रात्तु लभ्यते ॥ ७३ ॥
देवी स्वरार्धं स्पर्शार्धं सुस्वरं समनादितम् ।
अनया देवि विज्ञातं परेण सह संयुतम् ॥ ७४ ॥
प्। ५३)
देवतानान्तु यत्स्थानं वर्णे वर्णे व्यवस्थितम् ।
तदहं श्रोतुमिच्छामि तत्वतो ज्ञातुमर्हसि ॥ ७५ ॥
ईश्वर उवाच
स्वरार्धे कथितो ब्रह्मा स्पर्शार्धेन तु केशवः ।
सुस्वरे च समाख्यातः तत्र रुद्रो व्यवस्थितः ॥ ७६ ॥
समशब्दे स्थितो गीशः स तु बिन्दुरुदाहृतः ।
आयते देवदेवेशि नादाख्यः स सदाशिवः ॥ ७७ ॥
शक्तिः परतरस्तस्य परेण सह संयुता ।
भागमेकं शिवस्थाने अङ्गेष्वेव द्वितीयकम् ॥ ७८ ॥
तृतीयं निष्ठमं तस्य येन वर्णास्फुटो भवेत् ।
प्। ५४)
चतुर्थन्तु ततो बाह्ये पञ्च षष्ठं तथैव च ॥ ७९ ॥
वर्णा देहं समाख्यातं यत्र सर्वे प्रतिष्ठिताः ।
अधुना देहगं देवि कथयामि यथा स्थिता ॥ ८० ॥
स्वरोऽहं हृदयो देवि स्पर्शः कण्ठे समाश्रितः ।
तालुमध्ये समाख्यातं सुस्वराख्यं वरानने ॥ ८१ ॥
समत्वं यन्मया ख्यातं ललाटान्ते महेश्वरी ।
तस्योपरि शिखा व्योम नादाख्यस्स सदाशिवः ॥ ८२ ॥
स्वशक्तिकिरणैर्देवः परस्सर्वत्र संस्थितः ।
स्वदेहे देवि ज्ञातव्या देवता भवनाशना ॥ ८३ ॥
अर्धार्धेन विभागेन ज्ञात्वा मुह्यति बन्धनात् ।
प्। ५५)
एवं षट् त्रिविधं ज्ञात्वा पञ्च व्योमा परा स्थिता ॥ ८४ ॥
परस्तु परतो देव शक्तिभावं प्रकाशकम् ।
तस्य स्थानं न वक्तव्यं स सर्वत्र व्यवस्थितः ॥ ८५ ॥
त्यक्त्वा सर्वमिदं भावं संस्थितो गुरुवर्त्मनि ।
पञ्चव्योमपदातीतं यदा प्राप्यति तत्पदम् ॥ ८६ ॥
तदा व्याप्ता च भोक्ता च तेषां देवि भविष्यति ।
यदा गुरुमुखाद्देवि विज्ञातं पारमेश्वरम् ॥ ८७ ॥
तदा वर्णाश्च देवाश्च न किञ्चिदपि चिन्तयेत् ।
चिन्ताहीनश्च यो देवि स सर्वत्र व्यवस्थितः ॥ ८८ ॥
तेन युक्ताश्च देवाश्च नानासिद्धिफलप्रदा ।
प्। ५६)
तेन हीना न सिध्यन्ति न च यान्ति परं पदम् ॥ ८९ ॥
तस्मात्तन्तु वरारोहे वेदितव्यं प्रयत्नतः ।
न च तेन विना सिद्धिः पूजयाध्वरकर्मणि ॥ ९० ॥
एवं सिद्धिप्रदो देवः स एव मुक्तिदस्सदा ।
पञ्च व्योमात्मके देहे शक्तिरूपेण भाव्यते ॥ ९१ ॥
देवी
पञ्चव्योमेति देवेश न मया यच्च धारितम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ ९२ ॥
ईश्वरः
बीजयोनिसमायोगात् वर्ण इत्यभिशब्द्यते ।
प्। ५७)
योनिः पृथक् पृथक् बीजं व्योम इत्यभिधीयते ॥ ९३ ॥
पृथक् पृथक् स्वरूपेण व्याप्य स्वस्थानमात्मनि ।
स्थितास्ते व्योमवद्देवि तेन व्योमेति कीर्तिताः ॥ ९४ ॥
सर्वेषां व्याप्य देवेशि बहिरन्तश्च संस्थिताः ।
तेन सा देवि आख्याता व्योमव्यापी परश्शिवः ॥ ९५ ॥
एवं ते ज्ञानिनः सर्वे परेण सह संयुताः ।
(एवं ते ज्ञानिनस्सर्वे परेण सह संयुताः ॥)
तादृशं वर्णरूपेण देवदेवमुपास्यते ॥ ९६ ॥
तेन ते देवतास्सर्वे काममुक्तिफलप्रदाः ।
वर्णयोगं यदा ख्यातं तत्स्थानालय भोगभुक् ॥ ९७ ॥
प्। ५८)
सदेवावययुक्तस्तु विलयं दैवतैस्सह ॥ ९७ १।२ ॥
इति निश्वासकारिकायां ज्ञानकाण्डे हृत्पद्मप्रकरणे त्रयोदशः पटलः ॥