१२

यथा ते संस्थिता देवास्तद्बुधा तत्परायणाः ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्शिव एव च ॥ १ ॥

तस्यापि परमं यच्च तत्परं परमन्त * ।

अकारश्च उकारश्च मकारो बिन्दुरेव च ।
शिवस्तु परतः तस्मात् परतस्तु परात्परः ॥ ३ ॥

प्। २)

अकारस्तु स्मृतो ब्रह्मा उकारो विष्णुरेव च ।
मकारो रुद्र इत्याहुः बीजमीश्वर एव च ॥ ४ ॥

नादश्शिवो यतो ज्ञेयः सर्वव्यापी परात्परः ।
शैषाश्चैव हि ये तत्वा परात्परतराः स्थिताः ॥ १५ ॥

बोद्धव्याः तत्वतो देवी बिन्दुनादाधिकाश्च ये ।

देव्युवाच

अक्षराश्चैव ये * * * * * * * * * ताः ॥ ६ ॥

कथमेकत्वमास्थाय गच्छन्ते परमं पदम् ।

ईश्वर उवाच

ओङ्कारं बिन्दुसंयुक्तं यत्तद्वेदमुखं स्मृतम् ॥ ७ ॥

प्। ३)

अकारस्तस्य देवस्य शिवस्य परमात्मनः ।
अकारोकारयोगेन ओङ्कारं परिकीर्तितम् ॥ ८ ॥

ओष्ठाभ्यां सम्प्रयुक्तस्तु मकारस्सम्प्रवर्तते ।
इन्दुश्च परतस्तस्य मकारोपरि संस्थितः ॥ ९ ॥

चतुष्कलं विजानीयात् चतुर्विद्याविभूषितम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ १० ॥

एताः कलाः समाख्याताः बिन्दुदेवसुधीमतः ।
ओङ्कारेण मकारस्तु स्पृष्टो वै नदते यदा ॥ ११ ॥

तदा बिन्दु स्पृशत्याशु मकारस्य च मूर्धनि ।
ककारादिमकारान्ताः चतुर्विंशत्कलास्मृताः ॥ १२ ॥

प्। ४)

ज्ञातव्या नित्यमेवाहुः त्रिस्थानस्था व्यवस्थिताः ।
सिद्धार्थ का * * कारं बिन्दुदेवस्य लक्षणम् ॥ १३ ॥

सामान्यं सर्वतन्त्रेषु तव देवि उदाहृतम् ।
म् कारसदृशाकारम् ओङ्कारस्य तु मूर्धनि ॥ १४ ॥

अर्धचन्द्रनिभश्चैव बिन्दोः परतरस्थितः ।
तस्याऽपि परमं यच्च नादरूपी सदाशिवः ॥ १५ ॥

परात्परपरातीतो नादस्तं व्याप्यसंस्थितः ।
अतः परतरन्नास्ति शिवात्परतश्च यत् ॥ १६ ॥

परिज्ञानस्य देवस्य सर्वकृन्मुच्यते नरः ।
आदिमध्यायतञ्चैव त्रिपञ्च सविसर्गकम् ॥ १७ ॥

प्। ५)

पितामहे शरीरस्था आत्मतत्वे व्यवस्थिताः ।
चतुर्थादपरश्चैव गृहीतात्परसप्तमम् ॥ १८ ॥

तस्याऽपि परमं यच्च केशवस्य विनिर्दिशेत् ।
आदिमादन्तिमं यच्च अधस्त्वैकादशश्च यत् ॥ १९ ॥

आदिमान् पञ्चवैशेषान् * * रुद्रांशमादिशेत् ।

यस्य यस्य हि यद्भावं तेन तेन हि यन्मया ।
यकारादि क्षकारान्ताश्शिवतत्वे व्यवस्थिताः ॥ २१ ॥

मातृका कथिता देवी ओङ्कारान्तर्व्यवस्थिताः ।

प्। ६)

मुच्यते सर्वपाशैस्तु शिवं याति निरामयम् ।

देव्युवाच

यदेतत्कथितं देव ओङ्कारं सर्वदैवतम् ॥ २३ ॥

तत्कथं कथितं देव ध्यायते देव योगिभिस्तत्वचिन्तकैः ।

ईश्वर उवाच

चित्तञ्चेतो तथा चिन्ता चिन्त्योऽन्य चिन्तकस्तथा ॥ २४ ॥

एतद्धि पञ्चकं ज्ञात्वा ततो योगं समभ्यसेत् ।

देव्युवाअच

कीदृशन्तु भवेच्चित्तञ्चेता चैव कीदृशम् ॥ २५ ॥

चिन्ता च कीदृशी प्रोक्ता चिन्त्यस्तु चिन्तकं कथम् ।

प्। ७)

एतत्सर्वं पुनः ब्रूहि तत्वतः परमेश्वर ॥ २६ ॥

संशयो मे महादेव प्रासादिभवशूलधृक् ।

ईश्वरः

अवधानं स्मृतिश्चित्तं चेता बोध प्रकारकम् ॥ २७ ॥

एवं पञ्च प्रकारेण विज्ञाय परमेश्वरी ॥ २८ ॥

ततो योगं प्रयुञ्जीत अन्यथा न कदाचन ।

देव्युवाच

अद्यापि संशयो देव योगस्य परमेश्वर ॥ २९ ॥

कीदृशन्तु भवेद्योगं तत्वतः कथयस्व मे ।

प्। ८)

ईश्वरः

एवमेतत्समाख्यातं योगिनां योगमुत्तमम् ॥ ३० ॥

लक्षभूतमलक्ष्यञ्च द्विप्रकारं प्रकीर्तितम् ।
लक्षं दृष्ट्वा तु वै सम्यक् वेत्ता तत्स्थं नियोजयेत् ॥ ३१ ॥

तद्गतस्तन्मयो भूत्वा युञ्जनाद्योगमुच्यते ।
सुखदुःखेन संवेत्ति करणैश्च विवर्जितः ॥ ३२ ॥

निश्चलस्थिरभूतस्तु अलक्षं समुदाहृतम् ।
एष ते योग आख्यातः परञ्च परमञ्च यत् ॥ ३३ ॥

यः कश्चित्तन्मयी भूतो योगं तस्य समादिशेत् ।
ॐ बुद्धीमनोहङ्कारश्चैता जीवश्च पञ्चमः ॥ ३४ ॥

प्। ९)

तुर्यस्थाने समाश्रित्य प्रणवस्संव्यवस्थितः ।
प्रणवो बिन्दुबन्धो हि सुषुम्नानादगोचरे ॥ ३५ ॥

षोडशान्तविसर्गस्थः परतो मुक्तिरिष्यते ।
स एष वाङ्मयो देव मन्त्रपञ्चांशदव्ययः ॥ ३६ ॥

गीयते सर्वसिद्धान्तैरक्षरस्थानमुत्तमम् ।
स्वभावस्संस्थितस्तत्र ब्रह्मानाम्ना स विश्रुतः ॥ ३७ ॥

सुखमुच्चार्यमाणस्तु ब्रह्मा तत्राधि दैवतम् ।
उपांशूच्चार्यमाणस्तु विष्णुस्तत्राधि दैवतम् ॥ ३८ ॥

मनसा स्मरेन्नोच्चार्य शिवस्तत्राधि दैवतम् ।
आत्मा ध्याता मनो ध्यानं ध्येयश्शुद्धो महेश्वरः ॥ ३९ ॥

प्। १०)

यत्तत्परममैश्वर्यं सर्वव्यापि महेश्वरम् ।
तस्मिन् स्वदेहे देवेशि आत्मा ध्यानेन योजयेत् ॥ ४० ॥

निष्कलं प्रणवं कृत्वा अमात्रस्वरवर्जितम् ।
तस्यान्ते तु शिवं कृत्वा समेता मोक्षदं पदम् ॥ ४१ ॥

यस्यैवं भेदमुत्पन्नम् इदं परमदुर्लभम् ।
स गच्छेत् परमं स्थानं कुलकोटिशतैर्युतः ॥ ४२ ॥

सर्वावस्थां गतोवाऽपि युक्तो वा सर्वपातकैः ।
अवश्यं मुच्यते देवि सर्वस्यानुग्रहे क्षमः ॥ ४३ ॥

इदं तत्परमं देवि गोपनीयं प्रयत्नतः ।
मुच्यते पश्य देवेशि यन्त्रणारहितोपयः ॥ ४४ ॥

प्। ११)

पुनरेव प्रवक्ष्यामि भेदं तस्य परापरम् ।
दर्शनास्पर्शनाच्चारे ज्ञेयं ध्यानेन योगिनाम् ॥ ४५ ॥

प्राप्यते हि परं स्थानं केवलं स्मरणादपि ।
तं प्रवक्ष्याम्यहं देवि यत्सुरैरपि दुर्लभम् ॥ ४६ ॥

अष्टत्त्रिंशत्कलैर्युक्तं शिवोमिति च यद्भवेत् ।
वेदरूपो हि सोऽवश्यं संसारार्णवतारकम् ॥ ४७ ॥

देव्युवाच

शिवोङ्कारविधानोऽयं कीदृशः कथयस्व मे ।
पुन * सन्दिग्ध उत्पन्नः शिव ओमिति स्मृतः ॥ ४८ ॥

ईश्वरः

प्। १२)

सर्वतत्वादि देवस्य द्वादशान्तोपरी यदा ।
त्रिकपञ्चान्वितश्चैव शिवोमिति विधीयते ॥ ४९ ॥

देव्युवाच

अष्टत्रिंशत्कला चैव कस्मिंस्थाने व्यवस्थिताः ।
सञ्ज्ञाभिः स्थानभेदे तु कथयस्व * * * * ॥ ५० ॥

सिद्धि-ऋद्धिद्युतिर्लक्ष्मीर्मेधाकान्तिस्वधा स्थितिः ।
रजारक्षारतिः पाल्या कामा संयमिनी क्रिया ॥ ५१ ॥

बुद्धिः कार्या च धात्री च ग्रामिणी मोहिनी भवा ।
तमो मोहाक्षुधा निद्रा मृत्युर्माया भया जरा ॥ ५२ ॥

प्रवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव ।

प्। १३)

शशिनी अङ्गदा इष्टा मरीचिज्वालिनी तथा ॥ ५३ ॥

अर्धचन्द्रश्च शक्तिश्च कलाभिस्सह जानतः ॥ ५४ ॥

निरोधीह्यर्धचन्द्रस्य नादस्यादूर्ध्वगामिनी ।
शक्तिस्था या मया प्रोक्ता व्यापिनीं तां विनिर्दिशेत् ॥ ५५ ॥

प्रणवोच्चारणं तस्य * * * * * * * * ।

द्वयमुत्पन्ननादस्य यच्छब्दं श्रूयते सदा ।
स एव ऊर्ध्वगामी तु नादस्यान्तर्बहिस्थिता ॥ ५७ ॥

शक्त्यान्तु वीक्ष्यमाणायां यत्तेजः सम्प्रदृश्यते ।

प्। १४)

सा एव व्यापिनी चैव शक्तेश्चान्तर्बहिस्थिता ॥ ५८ ॥

अष्टत्रिंशत्कला ख्याता प्रणवस्य समासतः ।
वेदनीयास्तु ता नित्यं शिवतन्त्रानुवर्तिभिः ॥ ५९ ॥

योऽसौ सर्वगतो देवः सर्वेषां श्रूयते महान् ।
अनिर्देश्यमनाख्यञ्च समो * स्सर्वतस्थितः ॥ ६० ॥

अस्तीति भावना तस्य आद्यावस्था तु तस्य वै ।
देवैरपि न विज्ञातं किं तदस्तीति भावना ॥ ६१ ॥

तस्यैव सञ्ज्ञा सञ्जाता शक्तिरित्यभिधीयते ।
प्रत्यक्षा सर्वलोकेषु दृश्यते सर्वतः स्थिता ॥ ६२ ॥

फलभावन्तु यत्तस्य प्रत्यक्षस्सर्वतः स्थितः ।

प्। १५)

श्रूयते सततं देवि नादाख्येति च विश्रुतम् ॥ ६३ ॥

अपरस्तस्य भावस्य निरोधीत्यभिधीयते ।
अर्धचन्द्रमिति प्रोक्तं व्यापी चान्ते बहिस्थितः ॥ ६४ ॥

संयोगेन हि चान्यत्र यः कः * च्चोदितोक्षरः ।
रोधते सर्वयोगीनामर्धचन्द्रेति विश्रुतम् ॥ ६५ ॥

ज्ञानं योगजपध्येयं शिवाचाग्नि विधि क्रिया ।
इन्द्रियादिषु सर्वेषु ज्ञेयः परतरः स्थितः ॥ ६६ ॥

कन्दादिनालपद्मानां सर्वेषां सर्वतस्थितः ।

देवी

निष्कलं प्रणवं देव त्वया पूर्वमुदाहृतम् ॥ ६७ ॥

प्। १६)

पुनश्च सकलङ्कानां किमर्थञ्च सुरेश्वर ।

ईश्वरः

अवगृह्णाति भूतानि मन्त्ररूपेण संस्थितः ॥ ६८ ॥

मन्त्ररूपं पुरा गृह्य पश्चात् ज्ञानं प्रकाशते ।
पशुपाशं जगन्मूलं पशुपाशात्मकं स्मृतम् ॥ ६९ ॥

तस्य चोन्मूलने हेतुं मन्त्रमूर्तिर्महेश्वरः ।
विद्यदर्कायुतप्रख्यः सर्वभूतानुकम्पनः ॥ ७० ॥

मन्त्रमूर्तिगतो देवः कारुण्यात् सशिवोऽव्ययः ।
व्यापिनी व्योमरूपा चानन्तानाथानश्रुता(अनाश्रिता) ॥ ७१ ॥

मूर्तिर्देवस्य विख्याता प्रणवो ब्रह्मभिर्युता ।

प्। १७)

ईशानपुरुषा घोरवामसद्यादिग्रहः ॥ ७२ ॥

चराचर * * * स्ता अप्रमेयगुणोदयः ।
प्रणवः सकलो देवः सर्वविद्याधिपः प्रभुः ॥ ७३ ॥

अविनाशी सुसम्पूर्णः तेजो बिन्दुः परश्शिवः ।
प्रणवस्तनुरीशानं धृतं मन्त्रेश्वरेश्वरम् ॥ ७४ ॥

ज्ञात्वा महे * * * * * * * * * * प्रभुः ॥

प्रणवस्थस्वरावर्णा यावन्तदति सुव्रते ।
तावत्सुरगणास्सर्वे अभिव्यक्ता भवन्ति ते ॥ ७५ ॥

प्रणवान्तस्थिताश्चैताः प्रणवे तत्वतः स्थिताः ।
प्रणवः सर्वधर्मात्मा प्रणवासक्तचेतसः ॥ ७६ ॥

प्। १८)

सर्वाधारोऽप्यनाधारः प्रणवोऽनन्तमूर्तिमान् ।
प्रणवे च जगत्सर्वं शब्दाद्यं यच्च तत्परम् ॥ ७७ ॥

प्रणवः प्राणानां प्राणः प्रमाणपरिवर्जितम् ॥ ७८ ॥

ब्रह्मादीनां प्रणेशानां प्रणवात्मा महेश्वरः ।
मन्त्ररूपसमूहस्तु तत्स्वरूपपरश्शिवः ॥ ७९ ॥

प्रणवप्रभवं सर्वमा ब्रह्मभुवनं जगत् ।
तल्लयञ्च जगत्सर्वमवबुध्यस्व तत्वतः ॥ ८० ॥

आदौ तु यादृशं रूपं कलान्तेष्वपि तादृशम् ।
नित्यत्वादन्तरत्वाच्च प्रागुक्तात्प्रणवस्मृतः ॥ ८१ ॥

प्। १९)

ब्रह्मा विष्णुश्च रुद्रश्च शिवश्शान्तश्च सुवृते ।
प्रणवं तस्य कुर्वन्ति तेनाऽसौ प्रणवस्मृतः ॥ ८२ ॥

विशुद्धं सर्वगं नित्यं शिवः प्रणवसंस्थितः ।
विद्यादेहं परं शुद्धम् आद्यं यत्पारमेश्वरम् ॥ ८३ ॥

प्रणवस्यान्तर्गतं त यत्किञ्चित् भाससंस्थितः ।
साकायकारशुद्ध्यर्थं स च मोक्षस्य कारणम् ॥ ८४ ॥

देवनामशेषाणां कृत्स्नस्य जगतस्थितः ।
सर्वव्यापी परो देवः प्रणवः सर्वकर्तृणाम् ॥ ८५ ॥

प्रणवः सर्वधर्मात्मा प्राणिनां हृदि संस्थितः ।
तिस्रो मात्राऽर्धमात्रा च प्रणवोऽनादिसम्भवम् ॥ ८६ ॥

प्। २०)

प्रणवः सर्वभूतानां हृदिस्थो हि महेश्वरः ।
संवेद्यश्चैव याज्यश्च स ध्येयो जप्य एव च ॥ ८७ ॥

विश्वात्मा विश्वभावी च बिन्दुसाधनमेव च ।
प्रत्येकसाधनञ्चैव मन्तव्यः प्रणवस्सदा ॥ ८८ ॥

प्रभुत्वञ्च विभुत्वञ्च महत्वञ्च तथैव च ।
ध्यानमात्रेण देवेशि निस्सन्दिग्धं वरानने ॥ ८९ ॥

ध्यातः सर्वेश्वरो देवः सर्वज्ञत्वं प्रयच्छति ।
हृदिस्था देवतास्सर्वा हृदि प्राणे व्यवस्थितिः ॥ ९० ॥

हृदि ज्योतीषि सर्वाणि प्रणवोऽयं हृदि स्थितः ।
एतैस्स्त्रिभिस्समायुक्तस्सर्वभूते व्यवस्थितः ॥ ९१ ॥

प्। २१)

चित्तः चेतोऽधिको देवी आत्मानं वेत्ति तत्वतः ।
चित्तं शरीरमाख्यातं चेता शक्तिः प्रकीर्तिता ॥ ९२ ॥

एतैर्विहीनं यदात्मानं विषसुप्ते च लक्ष्यते ।
तथा हि लक्ष्यते देवि एतैर्हीनस्तु चेतनः ॥ ९३ ॥

रूपस्पर्शस्तथा शब्दः त्रिकलः सर्वतः कलः ।
प्रणवः परमः सूक्ष्मं प्रमाणं परिवर्जितम् ॥ ९४ ॥

प्रसूतिः सर्वतत्वानां सात्वराजसतामसाः ।
एषु वै प्रणवो ज्ञेयः क्षेत्रज्ञस्य तु सारथी ॥ ९५ ॥

सा की चेता शरीरेऽस्मिन् सर्वभूतगतः प्रभुः ।
स शब्दः प्रणवो ज्ञेयो सर्वमापूर्य तिष्ठति ॥ ९६ ॥

प्। २२)

प्रकृतिः सा परा सूक्ष्मा सा करोति शिवात्मिकाम् ।
पञ्चाशत्प्रणवा देवि भेदेनैकेन कीर्तिता ॥ ९७ ॥

ज्ञातव्या योगिभिर्नित्यं शिवज्ञानानुवर्तिभिः ।
वेदसाङ्ख्यपुराणेषु पाञ्चरात्रेतिहासयोः ॥ ९८ ॥

स्मृतयश्च तथा चाऽन्ये ब्रुवन्ति विविधं क्रमात् ।
ओमित्येकाक्षरं ब्रह्म वदन्ते सर्वयोगिनः ॥ ९९ ॥

वदन्ते नाऽभिजानन्त इति माया शिवात्मिका ।

देव्युवाच

पञ्चाशत्प्रणवा देव ज्ञातं मे त्वत्प्रसादतः ॥ १०० ॥

तस्मिन् वर्णा स्थिता देव बिन्दुनादं तथैव च ॥

प्। २३)

स * * * * * * * * * * * * * * * ॥ १०१ ॥

भूयोऽहं श्रोतुमिच्छामि संशयो मे महेश्वर ॥ १०२ ॥

ईशानः पुरुषो घोरो वामस्सद्यस्तथैव च ।
विद्येशा लोकपालाश्च अस्त्राणि च यथाक्रमम् ॥ १०३ ॥

एतेषामविशेषेण मन्त्रोद्धारं वदस्व मे ।

ईश्वरः

शृणु देवि परं गुह्यं मन्त्रसद्भावमुत्तमम् ॥ १०४ ॥

प्रणवे सर्वमन्त्रास्तु प्रवक्ष्यामि वरानने
अकारस्तु भवेनन्तः प्रथमं यः प्रकीर्तितः ॥ १०५ ॥

प्। २४)

धर्माद्यस्तु द्वितीयो वै च्छादनानि तथैव च ।
तृतीयं कल्पयेत्पद्मं सानुस्वारञ्च सद्भवेत् ॥ १०६ ॥

चथ्र्थेन तु बीजेन विन्यसेन्नव शक्तयः ।
मकारः कर्णिकाऽख्यातं तस्य पद्मस्य नित्यशः ॥ १०७ ॥

एतस्मिन्नंशकाः प्रोक्ता उकारादि समासतः ।
ओङ्कारान्तेन देवेशि पुष्करान्तेन कल्पयेत् ॥ १०८ ॥

ऌकाराद्यास्तु ये प्रोक्ता एकारान्ते प्रतिष्ठिताः ।
केसरास्ते तु विज्ञेयाः तस्य पद्मस्य शोभने ॥ १०९ ॥

एवं विन्यस्य यत्नेन मूर्तिं विन्यस्य पूर्ववत् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ ११० ॥

प्। २५)

शान्त्यतीतश्च देवेशि पञ्च ब्रह्मा प्रकीर्तिताः ।
वायव्यमादितः कृत्वा शकारान्तात्प्रतिष्ठिताः ॥ १११ ॥

शिवाङ्गानि तु विज्ञेयाः कथितास्तु समासतः ।
षकारस्तु भवेन्नेत्रं सा गायत्री प्रकीर्तिता ॥ ११२ ॥

क्षस्सावित्री सदा ज्ञेया अस्मिन् तन्त्रे वरानने ।
सम्पूज्य देवदेवेशि हंसाख्यं च सदाशिवम् ॥ ११३ ॥

परमाक्षरः परो देवः सर्वतन्त्रसमन्वितः ।
तेन सञ्चिन्त्य देवेशं पूजयेत यथाक्रमम् ॥ ११४ ॥

प्रथमे विन्यसेद्गर्भं द्वितीये चक्रवर्तिनाम् ।
तृतीये लोकपालांश्च चतुर्थेऽस्त्राणि विन्यसेत् ॥ ११५ ॥

प्। २६)

ककारादि जकारान्ता अष्टौ वै चक्रवर्तिनः ।
झकारादि तकारान्ता लोकपालाः प्रकीर्तिताः ॥ ११६ ॥

थकारादि भकारान्ता अस्त्राणि तु यथाक्रमम् ।
अकारेण समायुक्ता विद्येशाः परिकीर्तिताः ॥ ११७ ॥

बिन्दुना लोकपालास्तु विसर्गेऽस्त्राणि योजयेत् ।
प्रणवेन तु सर्वेषां गन्धधूपविधिक्रमात् ॥ ११८ ॥

कर्तव्यं सर्वथा देवि आनुपूर्वेण यत्नतः ।
प्रणवेन तु कार्याणि सर्वाण्युक्तानि यानि वै ॥ ११९ ॥

कर्तव्यं सर्वकार्याणि अविकल्पेन भाविनी ।
पृथिव्यादि शिवान्तञ्च ये तत्वाः परिकीर्तिताः ॥ १२० ॥

प्। २७)

प्रणवेन तु सर्वेषां पूजा होमविधिक्रिया ।
कर्तव्यं सर्वकार्याणि जपध्यानादिरेव च ॥ १२१ ॥

शतत्तृंशच्च होतव्यं पूर्णाहुत्या क्रमेण च ।
एष ते मातृका यागो दुर्लभः त्रिदशैरपि ॥ १२२ ॥

एष ते मातृकायागो कृतार्थश्च्छिन्नसंशयः ।
व्रजते शिवसायुज्यं निर्मलो विगतज्वरः ॥ १२३ ॥

आदितः कथितो देवि परमाक्षरसञ्ज्ञितः ।
तस्याऽपि चेदृशं प्रोक्तं यागं देवेन शोभने ॥ १२४ ॥

एष मन्त्रविभागस्तु प्रणवस्य उदाहृतः ।
पश्चात् * * * * * * * * * * जयात्मकम् ॥ १२५ ॥

प्। २८)

अचिरेणैव कालेन कालमृत्युं जयिष्यति ।
मासे वर्षशतं प्रोक्तं मासे द्व * * * * * ॥ १२६ ॥

जपार्चनविधानेन अब्देनैकेन सिद्ध्यति ॥ १२७ ॥

अतः परं प्रवक्ष्यामि न्यासचक्रे यथाक्रमम् ।
(पूर्व) विन्यसेद्देवदेवेशि यावत्सर्वं समाप्यते ॥ १२८ ॥

एवं वर्गक्रमेणैव विन्यसेत्सुसमाहितः ।
क्षकारैकेन कर्तव्यं सप्तधा * * * * * ॥ १२९ ॥

रुद्रबीजसमायुक्ता षडङ्गेन समन्विता ॥ १३० ॥

प्। २९)

जुङ्कारमादितः कृत्वा सकारान्तेन शोभने ।
एके मृत्युञ्जयं तेषु चतुष्षष्ट्या समासतः ॥ १३१ ॥

उच्चारेण जपं कुर्यात् आनुपूर्वेण योगवित् ।
ध्यानञ्च सततं कुर्यात् मार्गविच्चक्रसंस्थितः ॥ १३२ ॥

शुद्धस्फटिकसङ्काशो ज्ञेयो मन्त्रगणस्तु वै ।
ध्यानेन मनसा * * * * * * न संशयः ॥ १३३ ॥

कालक्षेत्रं यदा गच्छेत् योगी मृत्युञ्जयेषिणः ।
सम्पुटं चिन्तयेच्चमुपरिष्ठाद्द्वितीयकम् ॥ १३४ ॥

एवं कृत्वा तु देवेशि अध्वानन्तु व्रजेत् सदा ।
लक्षैकं जपते * * * * * * * * * * ॥ १३५ ॥

प्। ३०)

विषयस्य हनेन्मृत्युप्रतिरोधीवशेन तु ।
एष ते कथितो देवि चक्रमृत्युञ्जयं प्रति ॥ १३६ ॥

मुच्यते सर्वरोगैस्तु अमृतीशसमो भवेत् ।
पुनरेव प्रवक्ष्यामि दीक्षाञ्चक्रे वरानने ॥ १३७ ॥

जन * * * * * * * * क्षेपविवर्जिताम् ।
संहृत्य सर्वसंहारं विधिं कुर्यात्समासतः ॥ १३८ ॥

परमाक्षरेण देवेशि प्रोक्षणाभिरक्षणं स्मृतम् ।
पूज्यसंस्कारशुध्यर्थं पशूनां लम्भनं तथा ॥ १३९ ॥

सर्वमनेन कर्तव्यं * * * * * * * * ।
क्रममनसालोक्य ध्यायेच्चैव यथाक्रमम् ॥ १४० ॥

प्। ३१)

अग्ने चैव तु देवेशि पशुदेहे विशेषतः ।
ध्यात्वा चक्रं यथावस्थं कर्मकुर्याद्यथाक्रमम् ॥ १४१ ॥

पूर्वपत्रात्तु आरभ्य यावत्सर्वं समाप्यते ।

हृच्चक्रे योजयित्वा तु होमं तत्र समारभेत् ।
शतं शतञ्च होतव्यं पूर्णाहुत्या क्रमेण तु ॥ १४३ ॥

नाडिमार्गेण संयोज्य यस्ते तु * विशेद्धनः ।
तत्र पूर्णाहुतिर्देया पुनरन्येषु योजयेत् ॥ १४४ ॥

पूरकेणैवमाकृष्य हृदि चक्रे प्रवेशयेत्

प्। ३२)

एवन्नाडीषु संयोज्यमानुपूर्वेण सुव्रते ।
एष यागविधानन्तु न दद्याद्यस्य कस्यचित् ॥ १४६ ॥

एक * * * * कञ्च * * * * * * * * ।

देवैश्च समतां याति मत्समीपे न संशयः ।
एतद्गुह्यान्तरं सर्वमाप्रेमातुल * * * ॥ १४८ ॥

अष्टपत्रं लिखेत्पद्मं मन्त्रं विन्यस्य यत्नतः ॥ १४९ ॥

हृच्चक्रे सर्वमेतत्तु पूर्वोक्तविधिमाचरेत् ।
यदिष्टं तं यजेन्मन्त्री सिध्यतो नात्र संशयः ॥ १५० ॥

प्। ३३)

अविकल्पेन देवेशि स सिद्धिफलभाक् भवेत् ।
हृच्चक्रे देवता न्यासं कृत्वा पूर्वं वरानने ॥ १५१ ॥

मण्डलानान्तु विन्यासं पूर्ववत्कारयेत्प्रिये ।
एतद्गुह्यतमं देवि न देयं परिकीर्तितम् ॥ १५२ ॥

परीक्ष्य च दातव्यं न नास्तिकनिन्दके ।
तर्कानुमानबुध्या तु निगृह्यार्थीव शासनम् ॥ १५३ ॥

गृहीतं नैव सिध्येत तस्मात्तं परिवर्जयेत् ।
त्रिगुणस्सगुणोवाऽपि सर्वावस्थोऽपि देशिकः ॥ १५४ ॥

पूजनीयस्सदा * * शिवतत्वविदैस्सदा ।
न्यासं पूर्वं मया प्रोक्तं सूत्र उत्तरसञ्ज्ञिते ॥ १५५ ॥

प्। ३४)

तदेव तस्मिन् विज्ञेयं मुद्रास्ता एवं कीर्तिताः ।
न कुर्यादन्यथा देवि आज्ञैषा पारमेश्वरी ॥ १५६ ॥

अविदित्वा तु यो मोहाद्विधिमेतदनुत्तमम् ।
मृत्युनाशनहेत्वर्थं स स्निग्धफलभाक् भवेत् ॥ १५७ ॥

आप्यायनविधिज्ञश्च न्यासयोगविधानवित् ।
नाडिसञ्चारतत्वज्ञः स मृत्युं विजयिष्यति ॥ १५८ ॥

दाहशोषपरिक्षीणः अर्धानेनापकामतः ।
धू * * वरानेन ह सुषिम्नाभिन्नमस्तकम् ॥ १५९ ॥

एवमादि विभागेन यः कश्चित्तत्त्ववेदिकः ।
स मुक्त इति विज्ञेयश्शेषाद्यात्मविडम्बकाः ॥ १६० ॥

प्। ३५)

तत्वानि यो विजानाति तत्त्वानां व्याप्तिरुत्तमम् ।
धर्माधर्मान्न लिप्येत स सर्वानुगृहे क्षमः ॥ १६१ ॥

ब्राह्मणक्षत्रियो वेश्यः शूद्रो वा तत्वविद्यदा ।
विभक्तिं नैव विद्येत यथाग्नावग्निरेव हि ॥ १६२ ॥

क्षीरे क्षीरं यथा न्यस्तो तोये तोयमिवार्पितम् ।
विभागो नैव विद्येत तत्वमिश्वर भावितम् ॥ १६३ ॥

यथा हि सरितस्सर्वास्सागराश्रयसंस्थिताः ।
विवेकन्तु न शक्यन्ते रसभावं पृथक् पृथक् ॥ १६४ ॥

तद्वद्वर्णाश्रमा देवि दीक्षितो यदि व पशुः ।
शिवभाव समायुक्तो तुल्यमेतन्नसंशयः ॥ १६५ ॥

प्। ३६)

शिवतन्त्रं समाश्रित्य विभक्तिं यः करिष्यति ।
स पच्येन्नरो घोरेषु द्वात्रिंशन्नरकेषु च ॥ १६६ ॥

ब्रह्मणस्तु दिनाः पञ्च दिनाः पञ्च च केशवे ।
दिनत्रयन्तु रुद्रस्य प्रायश्चित्तीयते नरः ॥ १६७ ॥

तस्मात्सर्वप्रयत्नेनेत्यविवेकी सदा भवेत् ।
विवेकी गच्छतेऽधस्तात् अविवेकी * * * जेत् ॥ १६८ ॥

एतत्ते कथितं देवि तत्वानां व्याप्तिरुत्तमा ।
त्वया गुप्ततरं कार्यं न दद्या परदीक्षिते ॥ १६९ ॥

दशद्वादशभिष्षड्भिः त्रिभिर्वर्णामनुत्तरात् ।
अथवा सत्य एव स्यात् विदिताराधि तोर्यदा ॥ १७० ॥

प्। ३७)

न लिखेत्पुण्यपापेभ्यो सत्यं देवि उदाहृतम् ॥ १७१ ॥

चिच्छक्त्यागमेचोक्तं विधिनानेन सुवृते ।
सर्वे ते प्रणवा ज्ञेयाः काममुक्तिफलप्रदाः ॥ १७२ ॥

एष ते मातृकायागः कथितस्तव शोभने ।
येन इष्टो इष्टं वा अ * * * * * * * * ॥ १७३ ॥

इति निश्वासकारिकायां ज्ञानकाण्डप्रकरणे द्वादशः पटलः ।