२ योगपादः

॥ श्रीः ॥

अथेदानीं योगपादः ।

(श्रीमन्नारायणकण्ठकृतवृत्तिसहितः)

अत्र तावत् अस्मात्प्रवितताद्बन्धात्परसंस्थानिरोधकात् । दीक्षैव   

मोचयत्यूर्ध्वं शैवं धाम नयत्यपीति श्रुतेर्दीक्षाया एव
निरतिशयकैवल्यावाप्तिहेतुत्वात् तस्याश्च सर्वस्या एव पशुपाशेश्वर-
स्वरूपनिरूपणोपायगतेन समस्ताध्वव्याप्तिप्रदर्शकेन
मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन विना
निष्पादयितुमशक्यत्वात्तदेव बोधको विद्यापादस्सपरिच्छदः
पशुपाशेश्वरस्वरूपनिरूपणाय प्रथममुक्तः । ततः
क्रियापादोप्यनेकविधसाङ्गदीक्षाविधिप्रदर्शनायोपदिष्टः । सम्प्रति तु
ज्ञानक्रियाक्रमज्ञेनापि साधकपुत्रकादिना
समाध्याद्यनभ्यासादनात्मविदा सता
यथोपदिष्टस्वस्वव्यापारानुठानं सम्पादयितुं न शक्यमिति
प्राणायामाद्यङ्गसहितो योगज्ञप्तये योगपादप्रक्रमः । अत्र च
प्रक्षीणपाशस्याणोः परमेश्वरस्वरूपावभासनं तात्पर्यमिति
तन्त्रवस्तुत्रयेण पशुपाशेश्वरलक्षणेन सम्बन्धो व्यवस्थापितः ।
प्रयोजनं च तदुपन्यस्तं ज्ञेयम् । सौत्रोऽपि सम्बन्धः त्रिपदार्थं
चतुष्पादमित्युद्देशसूत्रप्रक्रमाल्लब्धः । वाक्यात्मकश्च
चर्यायोगक्रियापादैर्विनियोगोऽभिधास्यते इत्यादिभिर्वाक्यै । प्राकरणिकोऽपि
समयिनः पुत्रकस्य गृहीताभिषेकयोश्च साधकाचार्ययोः अवश्योपयोगि
योगप्रकरणमित्युक्तमेतत् । पाटलिकस्त्वनन्तर पादपटलान्ते
सुरयोगिजुष्टमित्यनेनोपक्षिप्तः ॥

अथानात्मवतां मत्वा
स्वाधिकारं सुदुष्करम् ।
यतेरन्नात्मवन्तो ये
देशिकाद्या जिगीषवः ॥ १ ॥

आत्मा विद्यते येषां ते आत्मवन्तः आत्मारामत्वेन नियुक्तत्वात्   

साक्षात्कृताऽऽत्मस्वरूपाः । नित्ययोगे मतुप् । किञ्चैवंविधानां
देशिकपुत्रकसमयिसाधकानां निजनिजाधिकारकरणमर्थं दुष्करं
बुध्वा ते दिशिकप्रभृतय उत्तरोत्तरभूमिका जयैषिणः तदर्थं यतेरन्
प्रयत्नवन्तस्स्युः इति विधौ लिङ् ।

अथ तावत्किमिदमात्मवत्वं नामेत्याह ।

तदात्मवत्वं योगित्वं
जिताक्षस्योपपद्यते ।
प्राणायामाद्यनुष्ठाना -
ज्जिताक्षत्वं शनैश्शनैः ॥ २ ॥

युज्यते शिवत्वलक्षणया स्वस्वरूपाभिव्यक्त्याऽवश्यमिति योगी । तस्य   

भावो योगित्वम् आत्मवत्वाविनाभावि । अत एव युजिर्योग
इत्यस्माद्धातोर्योगशब्दो ज्ञेयः । न तु युज्समाधाविति । अस्य
तदङ्गत्वेनेष्टत्वात् । एतच्च जिताक्षस्येति तस्य वशीकृतेन्द्रियग्रामस्यान्यदपि
कार्यन्निर्वहति । किं पुनर्योगित्वम् । तथा चाहुः । इन्द्रियाणां विचरतां
विषयेष्वपहारिषु । संयमी यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् इति ।
जितेन्द्रियस्यत्वचिरादेव स्वरूपलाभः । उक्तं च सनकेन
इन्द्रियाणीन्द्रियार्थांश्च तन्मात्राणि मनस्तथा । नियम्य गतिसङ्कल्पः
परमात्मनि लीयते इति । कथं तज्जिताक्षत्वं स्यादित्याह
प्राणायामाद्यनुष्ठानादिति ।
वक्ष्यमाणलक्षणप्राणायामाद्यङ्गसप्तकाभ्यासाज्जितेन्द्रियत्वं
शनैः क्रमेण भवति । द्वितीयश्शनैश्शब्दोऽभ्यासविषये
शनैर्वक्ष्यमाणमात्राविवर्धनक्रमेण प्राणायामादयोऽनुष्ठेयाः ।
यस्मादतिमात्रमभ्यस्यतां
वातगुल्मगुदोदावर्तोर्ध्वश्वासोन्मादस्मृतिमोषादयो योगविघ्नहेतवो दोषा
उद्भवेयुः ॥ २ ॥

अथ साङ्गं योगमुपदेष्टुमाह ।

प्राणायामः प्रत्याहारो
धारणा ध्यानवीक्षणे ।
जपस्समाधिरित्यङ्गान्य -
ङ्गी योगोऽष्टमस्स्वयम् ॥ ३ ॥

प्राणायामादीनि सप्ताङ्गानि । योगस्तु स्वयमष्टमोऽङ्गित्वेन ज्ञेयः   

॥ ३ ॥

अथैषां प्राणायामादीनां लक्षणं वक्ति ।  

प्राणः प्रागुदितो वायुः
आयामोऽस्य प्रखेदनम् ।
प्रेरणाकृष्टिसंरोध
लक्षणः क्रतुदोषनुत् ॥ ४ ॥

प्राणनादिवृत्तिभेदादेकस्याऽपि वायोः   

प्राणापानादिपञ्चभेदत्वं तद्वृत्तयश्च विद्यापादे प्रदर्शिताः ।
तादृग्विधस्य तस्य वायोः खेदनं स्वातन्त्र्यभावादाधिक्येन बहिः
प्रेरणम् । तस्यैवचान्तः तथाकर्षणं संरोधश्च कुम्भीकरणं
रेचनप्रवेशनविरामः एवंलक्षणं यत्प्राणादीनां प्रखेदनं स
प्राणायामः । क्रतुशब्देनेन्द्रियाणि सङ्कल्पो वा तेषां दोषाः
विहिताननुष्ठाननिषिद्धाचरणकृताः तान्नुदत्युपशमयतीति तद्दोषनुत् ।
उक्तं हि दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
प्राणायामैस्तथा दोषाश्शाम्यन्तीन्द्रियगोचरा इति ॥ ४ ॥

अथ प्रत्याहारस्य लक्षणम् -  

ततस्सुखलवास्वादे
तेषां वृत्तस्य चेतसः ।
प्रत्याहारो विधातव्यः
सर्वतो विनिवर्तनम् ॥ ५ ॥

ततः प्राणायामाभ्यासादनन्तरं प्रत्याहारः कार्यः ।   

किंरूपोसावित्याह तेषामिति तेषामिन्द्रियाणां सम्बन्धी वैषयिको
यस्सुखलव आनन्दलेशस्तदास्वादे वृत्तस्य तत्परस्य चेतसस्सर्वेभ्यः
एवेन्द्रियार्थेभ्यः प्रत्याहरणं प्रत्याहारः विधेयः ॥ ५ ॥

इत्थमनुष्ठितः किं स्यादित्याह ।  

तेनेन्द्रियार्थसंसर्ग
विनिवृत्तेश्चितो मतिः ।
धारणायोग्यतामेति -
पदे स्वेच्छाप्रकल्पिते ॥ ६ ॥

तेन प्रत्याहारेण चितश्चित्तस्येन्द्रियार्थसंयोगात्प्रत्याहृतत्वा-द्या
विनिवृत्तिः स्वव्यापारविरतिस्तस्या हेतुभूतायाः स्वेच्छाप्रकल्पिते पदे
वक्ष्यमाणधारणायोग्यतां मतिरभ्येति । नचात्र मतिर्बुद्धिः अपि तु
मननं मतिस्सङ्कल्पाख्यश्चेतसो व्यापारः तस्यैव धारणाश्रवणात् ।
यदाह पतञ्जलिः देहबलश्चित्तस्य धारणा इति । तथा धारणासु
मनसोयोग्यतेति ॥ ६ ॥

ध्यानं वक्तुमाह -  

चिन्ता तद्विषया ध्यानं
तच्चादिष्टं मुहुर्मुहुः ॥ ६� ॥

धारणारुद्धस्य चित्तस्य त्रिनेत्रपञ्चवक्त्राद्याकारविषया या चिन्ता
तद्ध्यानम् । तच्चादिष्टमिति हेमालिहिमरत्नाभवक्त्राम्बुज-चतुष्टयम्
इत्यादिनाऽवसरान्तरेषु मुहुर्मुहुरुक्तम् ॥ ६� ॥

अथ समाधेर्लक्षणम् -  

तदेकतानतामेति
स समाधिर्विधीयते ॥ ७ ॥

तद्ध्यानमेकतानतां ध्येयैकनिर्भासत्वं यदाभ्येति तदा  

समाधिरिति शास्त्रेषु प्रदृश्यते यदाह पतञ्जलिः तदेवार्थमात्रनिर्भासं
स्वरूपशून्यमिव समाधिरिति ॥ ७ ॥

वृत्तिः ।

जपस्य लक्षणं कथयति ।  

जपस्तद्भाषणं ध्येय
सम्मुखीकरणं मुने ॥ ७� ॥

मानसस्यान्तस्सञ्जल्परूपस्योपांशुसञ्ज्ञस्य च   

स्वसंवेद्यलघुध्वनेर्भाष्यस्य च श्रूयमाणस्य मन्त्रस्य
ध्येयसम्मुखीकरणाय १आवर्तनं जप इत्युक्तम् ॥ ७� ॥


१। प्रत्ययादिप्रकरणे द्वाविंसश्लोकः ।

ऊहमिदानीं लक्षयितुमाह -  

ऊहोऽभिवीक्षणं वस्तु
विकल्पानन्तरोदितः ॥ ८ ॥

यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गति । तत्कुर्वन्नुच्यते   

प्राण इत्यनेन विद्यापादे प्राणाख्यस्य वायोस्सौक्ष्म्याच्च
तक्ष्यन्नुदन्नूहन् यदुक्तं तथा च श्रीमत्स्वायम्भुवे तदनूहःप्रवर्तते ।
इति स ऊहो वीक्षणात्मकः तत्तद्भूमिकावाप्तितो लब्धे वस्तुनि
असन्तोषकृताद्विकल्पात्समनन्तरमुदित उद्भूतो ज्ञेयः ॥ ८ ॥

अथ कस्मिन्नूहोऽसौ कार्ये योगिन उपयोगीत्याह ।  

यदा वेत्ति पदं हेय
मुपादेयं च तत्स्थितेः ।
तत्पोषकं विपक्षं च
यच्च तत्पोषकं परम् ॥ ९ ॥

तस्योहस्य स्थितिरवस्थानं ततो हेतोः क्रमेण यदेति यस्मादर्थे   

यस्मात्कारणाद्योगी समुत्पद्यमानः यथावस्थितसकलवस्त्ववभास-नया
हेयं पदं तस्य च पोषकं तद्विपक्षकं विपक्षपोषकं च वेत्ति । यथा
उपादेयं तत्पोषकं विपक्षकं विपक्षपोषकं च जानाति अत एव
प्रकृष्टं योगाङ्गम् । यथोक्तं मालिनीविजये योगाङ्गत्वे समानेऽपि तर्को
योगाङ्गमुत्तमम् । हेयाद्यालोचनायेति श्रीमत्स्वायम्भुवेऽपि अनेन
लक्षयेद्योगी योगसिद्धिप्रवर्तकम् । निरोधकं च यद्वस्तु बहुधा
संव्यवस्थितम् इति ॥ ९ ॥

इत्थं योगाङ्गान्युक्त्वा फलमेषामभिधातुमाह ।  

येषु व्यस्तसमस्तेषु
कृतयत्नस्य योगिनः ।
विभान्ति शक्तयो विश्वं
व्याप्य भानोरिव त्विषः ॥ १० ॥
न तमीष्टे नरः कश्चित्
न रक्षोदानवामराः ।
रोरुचानमतीत्यैतान्
दृक्क्रियाप्राणरोचिषा ॥ ११ ॥

येषु प्राणायामादिष्वङ्गेषु व्यस्तसमस्तेषु कृताभ्यासस्य योगिनः   

सर्वाश्शक्तयो विवस्वत इव दीप्तयो विश्वं व्याप्य भान्ति भ्राजन्ते ।
सर्वकार्येषु अयमव्याहतसामर्थ्यस्स्यादित्यर्थः । नच तम् अत्युग्रतेजस्त्वात्
देदीप्यमानं सन्तं राक्षसदानवत्रिदशमनुजेभ्यः कश्चिदप्याक्रामति
। प्रकृष्टैर्ज्ञानक्रियावीर्यतेजोभिरेतान् अतीत्यातिक्रम्य स्थितत्वादिति ।
रोरुचानमिति विशेषणद्वारेण हेतुः ॥ १० - ११ ॥

अत्र मुनिः प्रश्नयति -  

निवृत्तेर्मनसो हेतुः
संसर्गात्प्राणखेदनम् ।
निवृत्तिर्धारणादीनां
मूलं सर्वस्य तत्ततः ॥
विस्तरेण सुरश्रेष्ठ
विप्रकृष्टं च यत्स्थितम् ।
यदन्यत्साधनं किञ्चित्
योगसिद्धेश्च कथ्यताम् ॥ १२ - १३ ॥

इन्द्रियार्थसंसर्गान्मनसो या निवृत्तिः तस्याः किल प्राणायामाः   

कारणत्वेनेष्यन्ते । प्राणादिजयाद्धि मनसो वश्यता भवति । सा च मनस
इन्द्रियार्थेभ्यो निवृत्तिः धारणादीनां हेतुः ततश्च हेतोस्तत्प्राणखेदनं
सर्वस्य धारणादेर्मूलमिति कृत्वा विस्तरेणोच्यताम् ।
यच्चान्यद्योगसिद्धेर्विप्रकृष्टम् अङ्गाङ्गितया साधनं स्थितं
हितमितजीर्णाशननिर्बाधस्थानासनादि शौचादि वा तदपि
भगवन्नमरेश्वरास्मभ्यमभिधीयतामिति मुनेः प्रश्नः ॥ १२ - १३ ॥

अथात्रोत्तरम् -  

न शक्यं विस्तराद्वक्तुं
तत्प्रसङ्गभयाद्विधेः ।
प्रश्नस्यावश्यवाच्यत्वात्
तथाप्युद्देश उच्यते ॥ १४ ॥

विधिप्रकाशकत्वेनोपचारात् शास्त्रेऽपि विधिव्यपदेशः । विस्तरेण   

वक्तव्येऽभिधीयमाने शास्त्ररयातिविस्तरप्रसङ्गस्स्यात् इति विस्तरेण
तावदभिधेयं वक्तुमयुक्तं यथायथं विस्तरभीरवो हि श्रोतारः
तथापि अवश्यवक्तव्यत्वात्प्रश्नस्योद्देशस्सङ्क्षिप्तसकलविधिनिरू-पणं
क्रियते ॥ १४ ॥

तत्रादितस्तदङ्गतया स्थितं शौचं सङ्क्षेपतो वक्तुमाह ।  

मूत्राद्युत्सृज्य विधिव
देकार्धदशसप्तभिः ।
मृद्भिर्लिङ्गगुदासव्य
हस्तयुग्मानि शौचयेत् ॥ १५ ॥
द्विर्व्रती त्रिरपः पीत्वा
द्विर्विमृज्याननं स्पृशेत् ।
खबाहुनाभिहृत्कानि
द्विस्त्रिर्वा शौचिताधरः ॥ १६ ॥

विण्मूत्रोत्सर्गं विधिवदिति सामान्यशास्त्रविध्यनतिक्रमेण कृत्वा ।   

यथोक्तं वासिष्ठे अवकुण्ठितशिराः भूमिमयज्ञीयैस्तृणैरन्तरितां
कृत्वा मूत्रपुरीषे कुर्यात् । उदङ्मुखोऽहनि नक्तं दक्षिणाभिमुख इति ततः
एकपञ्चदशसप्तसङ्ख्याभिर्मृद्भिः यथासङ्ख्यं शिश्नं पायुं
वामहस्तम् उभौ च पाणी शौचयेत् । द्विर्व्रतीति । समयिपुत्रकादीनां
चतुर्णामपि चर्यापादे व्रतित्वं वक्ष्यति ।
ततश्चायमव्रतिविषयश्शौचविधिः । व्रतीतु तदेव द्वुगुणमाचरेत् त्रिरपः
पीत्वेति आचम्य द्विश्चास्यं परिमृज्य खानि इन्द्रियच्छिद्राणि
बाहुनाभिहृच्छिरांसि च स्पृशेत् । द्वौ वारौ त्रीन् वारान् वाऽधरोष्ठौ
क्षालयेत् ॥ १५ - १६ ॥

तदनन्तरं च -  

हितजीर्णाशनस्वस्थः
त्रिकुड्यावेष्टिते गृहे ।
बाधाशून्ये वनादौ वा
स्वासनस्थ उदङ्मुखः ॥ १७ ॥
नमस्कृत्य महेशानम्
उमास्कन्दगणाधिपान् ।
ऋजुग्रीवशिरोवक्षाः ।
नासाग्राहितदृग्द्वयः ॥ १८ ॥
पार्ष्णिभ्यां वृषणौ रक्षन्
दन्तैर्दन्तानसंस्पृशन् ।
विष्टब्धदेहो दन्ताग्रे
जिह्वामादाय सुस्थितः ॥
रेचयेच्छक्तिपर्यन्तं
नासापुटेन मारुतम् ॥ १९� ॥

हितं पीडारहितं जीर्णे परिणामप्राप्तौ अशनं यस्य स एवम् ।   

स्वस्थः अत एव धातुसाम्यादिना । त्रिभिः कुड्यैः प्राकारैः आवृते निश्शब्दे
गृहे निर्बाधे वा वने गिरिगुहादौ वा सुखावस्थितिहेतुत्वात् सुष्ठु शोभने
चेलाजिनाद्युत्तरे आसने पीठपट्टादौ स्थितः यद्वा अभ्यासवशात् सुष्ठु
स्थैर्यसुखहेतौ आगमान्तरेषूपदिष्टलक्षणे पद्मस्वस्तिकार्धचन्द्रादिके
योगासने तिष्ठतीति स्वासनस्थः । उत्तरदिङ्मुखः । परमेश्वरं देवीं
गुहं गणेशं च नत्वा । सुस्पष्टकण्ठशिरोवक्षाः
स्वनासिकाप्रान्तनिहितदृष्टिः व्यवहितोत्तराधरदन्तपङ्क्ति । पार्ष्णिभ्यां
मुष्कपीडम् उद्घातवशात् उत्प्लुतौ वारयन् अकुञ्चितशरीरः सुस्थितो
दन्तप्रान्तनिहितजिह्वस्सन् यथशिक्ति दक्षिणेन नासापुटेन वायुं
शरीरान्तस्थनाडीसंशोधनार्थं रेचयेत् बहिः क्षिपेत् ॥ १९� ॥

स रेचकस्तदभ्यासात्
वेधविक्षिप्तकर्मसु ।
क्रमशश्शक्ततामेति
विकृष्टविषयेष्वपि ॥ २०� ॥

उक्तलक्षणस्य रेचकस्याभ्यासात् क्रमेण व्यवहित विषयेष्वपि   

वेधकर्मसु विक्षिप्तकर्मसु च विशरारुताकारणरूपेषु योगी शक्ततां
प्राप्नोति ॥ २०� ॥

अथ पूरकलक्षणम् -

बाह्येन वायुना मूर्तेः
यथाशक्तिप्रपूरणम् ।
पूरकस्सतदभ्यासा -
त्सुगुर्वपि विकर्षयेत् ॥ २१� ॥

बहिष्ठेन मारुतेन यथाशक्ति मूर्तेः प्रकर्षेण पूरणं पूरकः ।   

तस्मिन्नभ्यस्ते सुष्ठु गरिष्ठमपि शिलाद्याकर्षणशक्तो भवेत् ॥ २१� ॥

कुम्भकं कथयितुमाह -

त्यागसङ्ग्रहणे हित्वा
निरोधः कुम्भकस्स्मृतः ।
रोधशक्तिस्तदभ्यासात्
व्यक्तिमेत्यनिवारिता ॥ २२� ॥

रेचनात्मकं त्यागं पूरणरूपं सङ्ग्रहणं त्यक्त्वाऽन्तस्थस्य   

वायोर्निरोधात् कुम्भकः । तदभ्यासात् अव्याहतरोधशक्तिः
अभिमतवस्तुस्तम्भनसामर्थ्यं व्यज्यते ॥ २२� ॥

तथास्य चरतो विद्वान्
सोमसूर्येशवर्त्मसु ।
तद्धर्मयोग्यतां बुद्ध्वा
योगी संसाधयेन्मतम् ॥ २३� ॥

तदभ्यासात् विधेयत्वेनास्य वायोः चरतः प्रचारज्ञो योगी   

मध्यवामदक्षिणनाडीचारेषु चिकीर्षितवस्त्वानुगुण्यं निश्चित्य
यथाऽस्मिन् कर्मणि दक्षिणश्चरन् श्रेष्ठः अमुष्मिन् मध्यमः एतस्मिंस्तु
सौम्यः प्रशस्तः इत्येवं मत्वाऽभीष्टं योगी साधयेत् ॥ २३� ॥

तथाहि -

पूरकं कुम्भकं वाऽपि
भजेच्चन्द्रपथि स्थिते ।
पुष्टिं मृत्युञ्जयाद्यर्थं
स्वात्मनोऽन्यस्य रेचकम् ॥ २४� ॥
अनग्निज्वलने वृक्ष
शोषणे बीजनाशने ।
स्तोभोन्मादविषोद्दीप्ति
मुखेषु॥॥॥टु रेचकम् ॥ २५� ॥
ध्यानार्चनजपाद्येषु
देहत्यागे च शाङ्करे ।
कुम्भको रेचकश्रेष्टा
दीक्षा संस्थापनेषु च ॥ २६� ॥

वामनाड्यवस्थिते मरुति कुम्भकपूरकौ पुष्ट्यर्थम् आत्मन   

आप्यायनार्थं मृत्युञ्जयाद्यर्थमित्यादिग्रहणात्॥॥॥॥॥॥॥॥॥च कुर्यात् ।
(यदुक्तं) परस्य पुष्ट्याद्यर्थं वा वामस्थं रेचकं भजेत् । इति ।
यदात्वनग्निज्वलनवृक्षशोषणनिर्बीजीकरणस्तोभोन्मादविषोद्दीपन-
प्रमुखकार्याणि कर्तुमिष्टानि तदानीं सौरमार्गस्थेन चारेण रेचकं
कुर्यात् । स्थोभः स्वल्पस्य विषज्वालादेर्बहलीकरणं शाङ्कर इति
शिवाश्रयसौषुम्नमार्गस्थविषुवति कर्तव्यतयोक्तं
यत्तद्ध्यानार्चनजपादिकार्यम् उत्क्रान्तिर्वा तद्विषये दीक्षासंस्थापने
कुम्भकरेचकाविष्टौ । संस्थापनं प्रतिष्ठापनम् ॥ २६� ॥

अथैषां रेचकादीनाम् अभ्यासाय कालपरिमाणं प्रति नियमं   

वक्तुमाह ।

यवीयान् मध्यमो ज्येष्ठ
स्सतालैर्द्वादशादिभिः ।
तालो द्वादशभिर्जानु
परिणाहपरिभ्रमैः ॥ २७� ॥

हस्तेन जानुमण्डलपरिभ्रमणं यावत्या कालमात्रया क्रियते   

तावतीभिर्द्वादशभिः तालाख्यः कालांशो ज्ञेयः । तैश्च
तालैर्द्वादशभिः कनिष्ठः प्राणायामः । चतुर्विंशत्यामध्यमः
अष्टाचत्वारिंशताश्रेष्ठः । तथोक्तं श्रीसर्वज्ञानोत्तरे तालद्वादशको
ज्ञेयः प्राणायामस्तु कन्यसः । मध्यश्चतुर्भिर्विंशत्या
श्रेस्ठस्तद्द्विगुणो भवेत् । इति ॥ २७� ॥

इत्थं प्रतिनियमप्राणरेचककुम्भकपूरकसमुदायरूपो यः
प्राणायामः ।

सोऽपि ध्यानजपोपेत
स्सगर्भोऽन्यस्तदुझितः ।
यथा सगर्भस्स्थैर्याय
मनसो न तथेतरः ॥ २८� ॥

सोऽप्ययं प्राणायामो ध्यानेन जपेन युक्तः । सगर्भाख्यया   

ज्ञेयः । यस्तु विनैव ध्यानजपाभ्यां क्रियते स निर्गर्भः । यथा च
मनसस्स्थैर्यहेतुत्वं सगर्भस्य न तथा निर्गर्भस्येति
सगर्भप्राणायामार्थम् अभ्यासः कार्य इति तात्पर्यम् ॥ २८� ॥

प्रातर्निशाकृतं पापं
दिनान्ते च दिवाकृतम् ॥ २९ ॥

प्रभाते कृतोऽयं सगर्भप्राणायामः निशाकृतं पापं हन्ति ।   

दिनान्ते तु कृतः स दिवाकृतं हन्ति ग्रहस्थेनेति सम्बन्धः ॥ २९ ॥

एवं च किञ्चिन्निर्गर्भेण प्राणायामेन प्रयोजनम् । अतः किं   

तेनेत्याह ।

हन्त्यगर्भोऽपि देवानां
प्रचलत्वं प्रधावताम् ॥ २९� ॥

देवानां मनस्सहितानामिन्दियाणां विषयेषु अनाद्यविद्यावशात्   

प्रकर्षेण धावताम् एष निर्गर्भः प्राणायामः सातत्येन क्रियमाणः
प्रचलत्वं प्रकृष्टवेगवत्वं हन्ति । इन्द्रियजयकारीत्यर्थः ॥ २९� ॥

किं च -

स्नातो भवति तीर्थेषु
सर्वक्रतुषु दीक्षितः ।
पोतः पितॄणां पश्शश्वत्
सगर्भमिममाचरेत् ॥ ३०� ॥

यस्तु नियुक्तत्वेन इमं जपध्यानयुक्तं सगर्भमभ्यस्यति स   

सर्वतीर्थेषु स्नातस्य समस्ताध्वरेषु दीक्षितस्य च फलं लभते । पितॄणां
च संसारोत्तरणे पोतः प्लवो भवति । तत्प्रसादात्तेऽपि भवाब्धिं
समुत्तरन्तीत्यर्थः ॥ ३०� ॥

सगर्भतामेव वक्तुमाह -

ध्यायेदध्वान्तकं देवं
जपेत्तद्वाचकं सदा ।
क्षित्यादीन्यथ तत्वानि
तद्रूपाणि कृतानि वा ॥ ३१� ॥

सर्वाधिष्ठातृत्वेन हेतुनाऽध्वनः पर्यन्तवर्तिनं परमेश्वरं   

सकलकारणातीतं परमार्थत्वेन ध्यायेत् । तस्य च वाचकमन्त्रं
जपेच्छब्दार्थरूपाववियुक्तौ प्राणायामसमये कुर्यादित्यर्थः । यदि वा
धारणाफलं लिप्सुः पृथिव्यादीनि परमेश्वरस्वरूपाश्रयत्वेन च ध्यायेत्
। सकलचिदचिद्भावाधिष्ठातृत्वेन तथा भगवतस्सर्वदा सर्वत्रावस्थितेः ॥
३१� ॥

अथ पृथिव्यादितत्वध्याने किं भगवद्भावनयेत्याह -  

यस्मान्नाचेतनं तत्वं
सिद्धमप्युपकारकम् ।
शैवं वपुरिति ध्याये
दतो यद्यत्समीहितम् ॥ ३२� ॥

यतः किल स्वभावजडं पृथिव्यादिवस्तुजातं   

शिवस्वरूपाधिष्ठानं विना कृतध्यानाभ्यासतस्सिद्धमपि नोपकारकम्
अतः पारमेश्वरमेवैतत्सर्वं वपुरिति ध्यायेत् । अतः यद्यत्किमप्यभिप्रेतम्
अचिद्रुपमपि वस्तु ध्यायेत् ॥ ३२� ॥

यतश्चैवमतः -  

सिद्धये धारणादीनां
वृत्तीनामनिलस्य च ।
सगर्भं कुम्भकं विद्वान्
आतिष्ठेदविखिन्नधीः ॥ ३३� ॥

धारणादीनां योगाङ्गानां प्राणादिवृत्तीनां च प्रागुक्तानां   

प्रणयनाद्यर्थानां सिद्ध्यर्थं सगर्भं कुम्भकाभ्यासम्
अनुद्विग्नबुद्धिस्सन्नातिष्ठेत् आचरेत् ॥ ३३� ॥

अयमर्कगुणं कालं
कृतचित्तव्यवस्थितिः ।
प्राप्नोति धारणाशब्दं
धारणासिद्धिदानतः ॥ ३४� ॥

अयं सगर्भः कुम्भकः द्वादशगुणं कालं चित्तवृत्तिनिरोधेन   

कृतस्सन् धारणाव्यपदेशं लभते । कुत इत्याह धारणासिद्धिदानतः
धारणासम्बन्धिनीं सिद्धिं तथाऽभ्यस्यमानो ददाति ॥ ३४� ॥

स्थित्यर्थो धारणाशब्दः
स्थानार्थोप्युपचारतः ॥ ३५ ॥
स्थानं प्राथमिकस्येमा -
न्यवन्यादीनि नेतरत् ॥ ३५� ॥

प्राथमिकस्य प्रथमाभ्यासवृत्तस्याऽऽरुक्षोः पृथिव्यादीनि तत्वानि
अभ्यासस्य स्थानं नत्वन्यदप्रत्यक्षमहदहङ्कारादितत्व-
जातमुपलभ्यमानपृथ्व्यादितत्वाभ्यासपूर्वस्तु तत्तदभ्यासस्सुगम एवेति
सर्वयोगशास्त्रेषूपदेशक्रमः ॥ ३५ ॥

अथैषामेव रूपाकृतिप्रयोजनलाञ्छनान्यभिधत्ते -  

तानि हेमहिमज्योतिः
कृष्णस्वछानि रूपतः ।
वेद्यर्धमण्डलत्र्यश्र
वृत्तपद्माकृतीनि तु ॥ ३६� ॥
स्थैर्याप्यायनविप्लोष
प्रेरणाशून्यताप्तये ।
भवन्ति वज्रकज्वाला
बिन्दुशून्यान्वितानि तु ॥ ३७� ॥

तानि पृथिव्यादीनि पञ्चतत्वानि यथासङ्ख्यं रूपतः पीतसितो-  

ज्वलकृष्णस्वच्छानि संस्थानाच्चतुरश्रार्धेन्दुत्रिकोणपरिवर्तुल-
पद्माकाराणि क्रमाच्च वज्रेण वारिजेन ज्वालया बिन्दुना शून्येन च
लाञ्छितानि स्थैर्याद्यर्थं भवन्ति । तत्साधकानि सम्पद्यन्त इत्यर्थः ॥ ३७ ॥

तानि च -

बाधकान्यनुवर्तीनि
मध्यस्थान्यवगत्य च ।
योगी व्यस्तसमस्तानि
बिभृयादिष्टसिद्धये ॥ ३८� ॥

पृथिव्यादीन्येव मित्रामित्रमध्यस्थत्वेन व्यस्तसमस्तानि बुद्ध्वा तेषु   

कार्येष्विष्टसिद्ध्यर्थं योगी धारयेत् ॥ ३८� ॥

अथ धारणरूपतत्फलजिज्ञासया मुनिः प्रश्नयति ।  

क्व देशे धारणारूपं
चिन्तनीयं विपश्चिता ।
किञ्च व्यस्तसमस्तानां
फलं ब्रूहि सुरेश्वर ॥ ३९� ॥

धारणासु यदेतद्रूपं हेमहिमज्योतिःकृष्णस्वच्छत्वादिनोप-  

दिष्टं तत् कस्मिंस्थाने तद्विदा चिन्त्यम् । आसां च धारणानां
व्यस्तसमस्तानां फलं सुराधिनाथास्मभ्यमादिशेति प्रश्नार्थः ॥ ३९� ॥

अर प्रतिवचनम् -  

हृदि चेतसि विक्षिप्ते
धारयेत्क्षितिमर्थवित् ।
जलं पिपासितः कण्ठे
मन्देग्नौ जठरेऽनलम् ॥ ४०� ॥
प्राणादिवृत्तिसिद्ध्यर्थं
हृत्कण्ठादिषु मारुतम् ।
विषाद्यभिभवे व्योम
तेषु यत्रोपयोगवत् ॥ ४१� ॥

चेतसो यदा विक्षिप्तता स्यात् तदा प्रयोजनज्ञो योगी हृत्प्रदेशे   

पार्थिवीं धारणां स्थैर्यकारणत्वेनोक्तां धारयेत् । दुर्वारया तृषा तु
यदा बाधितस्स्यात् तदा वारुणीं धारणां कण्ठे बिभृयात् ।
आप्यायनार्थं तस्याः प्रोक्तत्वात् । जाठरस्याग्नेर्मान्द्ये सति
तत्सन्धुक्षणार्थं जठरे प्रागुक्ताम् आग्नेयीं बध्नीयात् ।
प्राणादिवृत्तीनां प्रागभिहितानां प्रणयनाद्यानां सिद्ध्यर्थं
स्वाधीनत्वे सति तत्तत्फलसम्पादकत्वाय पूर्वोक्तेष्वेव हृत्कण्ठादिषु
स्थानेषु वायवीं धारयेत् । विषोन्मादव्याध्याद्यभिभूयमानस्तु तेष्वेव
हृदयादिषु मध्यात् अन्यतमे स्थाने व्योमधारणां बध्नीयात् । यत्र वा
विषाद्युपघातवत्यङ्गे तथा धारणाद्युपयोगवत् सप्रयोजनं तस्मिन्
धारयेत् ॥ ४१ ॥

इदानीं परस्परमेषां पृथिव्यादीनां मध्यस्थारातिमित्रत्वं
विवेचयन् सर्वसाधारणत्वमाकाशस्य तावत्प्रथममभिधात्तुमाह ।

खं समस्तेषु भूतेषु
वायुवारी शिखिक्षिती ।
वार्यग्नी भूमिपवनौ
वारिक्ष्मे चाऽनलानिलौ ॥ ४२ ॥
मध्यस्थारातिमित्राणि
चतुष्के युग्मयुग्मशः ।
परिज्ञायेति मतिमान्
योजयेदिष्टसिद्धये ॥ ४३ ॥

आकाशस्तावद्व्यापकत्वात् अन्तर्वर्तित्वेन सर्वेषामवकाशदायि-त्वेन च   

मित्रमेषां ज्ञेयम् । वायुवारीशिखिक्षितीत्यादेश्चतुष्कत्रया-देकैकस्मिन्
चतुष्के यथाक्रमं (युग्मयुग्मश इति । द्वयं द्वयं
क्रमान्मध्यस्थारातिमित्राणि एतानि बोद्धव्यानि । तथाहि वायुवारी
शिखिक्षितीत्याद्ये चतुष्के जलपवनयोः क्षित्यग्न्योश्च परस्परं न मित्रत्वं
व शत्रुभावः इति मध्यस्थत्वमेषां बोद्धव्यम् । वार्यग्नी
भूमिपवनाविति अत्राऽपि मध्यमचतुष्के बाध्यबाधकभावेन
परस्परमेषाञ्चतुर्णाम् अवस्थितेः अरातित्वं शत्रुता । वारिक्ष्मे -
चानलानिलावित्यत्र तु तृतीयेऽस्मिन् चतुष्के भूजलयोर्वाय्वग्न्योश्चान्यो-
न्यपोषकत्वान्मित्रत्वमित्येवं परिज्ञाय बुध्वा प्राज्ञो योगी तथातथा
साधकत्वेन वा यथावसरमिष्टसिद्ध्यर्थे एतान् प्रयुञ्जीत ॥ ४२ - ४३ ॥

अथ विद्यापादान्तर्गतप्रत्ययादिविचारप्रकरणे प्राणादिवायूनां   

स्वरूपोक्तौ स्थानं यद्यस्य धारणे । जयः फलं वाच्यशेषं पत्या
स्कन्धे समीरितम् इति यदुक्तं ततः प्राणादिवृत्तीनां स्थानं साधारणं
फलं च ज्ञातुं मुनिः प्रश्नयति ।

कानि प्राणादिवृत्तीनां
स्थानान्यस्मिन् शरीरके ।
जितासु तासु किं वा स्यात्
इति ब्रूहि सुरोत्तम ॥ ४४ ॥

प्राणापानादिवृत्तीनां प्रणयनापनयनाद्यानां कानि स्थानानि   

येषु तज्जयः कार्यः । तासु च प्राणादिवृत्तिषु जितास्वस्मिन् शरीरे किं
फलिष्यतीति भगवन्निन्द्राऽस्माकमाचक्ष्वेति प्रश्नार्थः ।
व्यापकस्याप्यात्मनः तत्कृतमव्यापकत्वं कुत्सितत्वं वा द्योतयितुं
कप्रत्ययः ॥ ४४ ॥

अत्रोत्तरम् ।  

तस्य हृत्कण्ठनाभ्यङ्ग
पृष्ठदेशेषु धारणात् ।
जयः प्रणयनादीनां
वृत्तीनां योगिनो भवेत् ॥ ४५ ॥

तस्य प्रागुक्तस्य प्राणादिरूपतया स्थितस्य वायोः हृदादिपृष्ठान्तेषु   

पञ्चसु स्थानेषु रोधात्प्रणयनादीनां प्राणादिवृत्तीनां जयो भवति
योगिनः ॥ ४५ ॥

जितप्रणयनो धत्ते
स्वेच्छया देहमात्मनः ।
जितापनयनोऽश्नाति
शकृदादिजहाति न ॥ ४६ ॥
विजितोन्नयनोऽभ्येति
वाग्वशित्वादिकान् गुणान् ।
समानवृत्तिविजयात्
भवेत्त्यक्तजरो वशी ॥ ४७ ॥
वपुर्विहारवशिता
भवेद्विनमने जिते ।
पङ्काम्बुकण्टकासङ्गो
वीर्यमक्षयमद्भुतम् ॥ ४८ ॥

जिता प्रणयनाख्या प्राणवृत्तिर्येन स एवंविधो योगी यावद्रुचि   

स्वेच्छया स्वदेहं धारयति । वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यत इति
प्रणयनस्य जीवनरूपत्वेनोक्तत्वात् । जितात्वपनयनाख्यापानवृत्तिर्येन
सतादृग्विधो योगी अश्नन्नपि निर्मलदेहो भवति । अपानजयाद्धि
विण्मूत्रादिमलभावेन नास्य पानाशनादि परिणमति । अपि तु
रसधातुभावेनैव । अन्तश्शकृदादिमलोझित एवैष सम्पद्यते । सर्वदेहिनां
हि रसमलधातुभावेनान्नपानपरिणतिर्भवति । विजिता
चोन्नयनाख्योदानवृत्तिर्येन असौ कवित्ववक्तृत्वरूपवाक्स्वातन्त्र्यप्रभृतीन्
गुणान् प्राप्नोति । येन तु समानवृत्तिर्विजिता स सर्वदा जरावर्जितस्सर्वसहः
सर्वस्वदेहो भवति । विनमनाख्यव्यानवृत्तिव्यापारे कृतजयः स्वेच्छया
वपुषि विहरति । ब्रह्मरन्ध्रेण श्रवणच्छिद्रादिना वा
मरुत्प्रेषणाकर्षणादौ शक्तस्स्यादित्यर्थः । तथा
कर्दमजलकण्टकाद्युपविष्टोपि तैरसम्पर्काश्रयरूपः अविनश्वरं चास्य
बलं सञ्जायते ॥ ४८ ॥

एवमानुषङ्गिकप्रश्नप्रतिवचनादनन्तरं प्रकृतमभिधीयते ।  

धारणाद्वादश ध्यानं
दिव्यालोकप्रवृत्तिदम् ।
समाधिरणिमादीना
द्वादशैतानि कारणम् ॥ ४९ ॥

द्वादशभिः सगर्भैः कुम्भकैः धारणा पूर्वमुक्ता । ताश्च   

द्वादश ध्यानं ज्ञेयम् । तच्च दिव्यामलौकिकीमालोकप्रवृत्तिं
प्रकाशाविर्भूतिं ददातीति दिव्यालोकप्रवृत्तिदमिति तदभ्यासस्य फलमुक्तम्
। एतानि च द्वादश ध्यानानि समाधिरित्युच्यते ।
सत्वणिमादिदिव्यसिद्धिकारणम् ।
अन्यस्तैवंविधसमाधेरणिमाद्याविर्भावस्स्यात् ॥ ४९ ॥

प्राणायामं विनाप्येवं
वश्यात्मा चेतसि स्थितः ।
समभ्यस्यन्नवाप्नोति
गुणानुक्ताननन्तरम् ॥ ५० ॥

एवमनेन प्रकारेणाऽऽत्मनि नित्ययुक्ततया वश्यात्मा योगी विनापि   

प्राणायामेन क्वचिदपि देशे कृतिनिरोधायां चित्तवृत्तौ स्थित एव तदभ्यस्यन्
स आनन्तर्येणैतान् गुणान् अणिमादीन् लभते ॥ ५० ॥

किञ्च -  

यद्यद्वस्तु यथोद्दिष्ट
क्रमयोगात्प्रपद्यते ।
तत्र तत्रास्य चिद्व्यक्तिः
तद्व्याप्तिविषया भवेत् ॥ ५१ ॥
इति बाह्ये स्थिते सर्व -
माकलय्येव चक्षुषा ।
सर्वान् पदार्थान् सन्त्यज्य
शिवतत्त्वं समभ्यसेत् ॥ ५२ ॥

यथोक्तक्रमाभ्यासात् यद्यत्पृथिव्यादिशिवान्ततत्वं प्रतिपद्यते   

धारणादिना स्वात्मीकरोति तत्रतत्रास्य योगिनः तद्व्याप्तिविषया
स्वसंविद्व्यक्तिर्भवति । तथाहि आदौ पृथिव्यादितत्वानां
शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलैः
सप्तभिश्शक्तिमद्भिरेतावतीभिरवैतच्छक्तिभिस्स्वरूपेण पृथिव्यादीनां
सहैकैकस्य पञ्चदशप्रकारतया जाग्रदादिपिण्डस्थादिरूपतया च यावती
व्याप्तिः यथोक्तं - श्रीमच्चिच्छक्तिभेदेन धरातत्वं विभिद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दश पञ्च च ।
शिवादिसकलात्मानश्शक्तिमन्तः प्रकीर्तिताः । तच्छक्तयश्च विज्ञेयाः
तद्वदेव विचक्षणैः । एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् ।
पृथक्भेदैरिमैर्भिन्नमित्यादि । तदेवं तद्व्याप्तिकस्य योगिनः
संवित्तावतीत्येवं श्रीमत्कामिकतन्त्रे श्रुतम् । यद्बाह्यं तस्मिं स्थिते
सर्वं वस्तु स्वदृग्गोचरतां प्राप्तं बुध्वा शिवव्यतिरिक्तान् सर्वानेव तान्
पदार्थान् सर्वाध्वपर्यन्तवर्तिशिवपदप्राप्तिहेतुत्वात्
विद्याप्रभृतींस्त्यक्त्वा शिवतत्वमभ्यस्येत् तदेकनिष्ठस्स्यात् । हेयान्
पदार्थान् सन्त्यज्येति पाठे स्पष्ट एवार्थः ॥ ५२ ॥

शिवगर्भान् समातिष्ठन्
प्राणायामादिकानपि ।
जहाति जन्तुर्यः प्राणान्
स शिवत्वं प्रपद्यते ॥ ५३ ॥

आस्तां तावद्व्याप्तिविषया विद्व्यक्तिर्वक्ष्यमाणैकान्तविधिं विनाऽपि
परमेश्वरध्यानजपगर्भान् प्राणायामान् कुर्वन्यो जन्तुः प्राणान् त्यजति
स शिवतामेति अपवृज्यत इत्यर्थः ॥ ५३ ॥

अथाऽत्र मुनिः -  

रूपं परं महेशस्य
ध्यातुं शक्यं न जातुचित् ।
वैचित्र्यात्कल्पितं भ्रान्त्यै
तत्रास्था चेतसः कथम् ॥ ५४ ॥

निष्कलस्वरूपस्य तावत् भगवतस्स्वरूपं निराकारत्वे सति नीरूपत्वात्   

ध्यातुं न शक्यम् । यदाहुः आकारवांस्त्वं नियमादुपास्यः न
वस्त्वनाकारमुपैति बुद्धिः । अथास्य परमार्थतो रूपासम्भवेऽपि
ध्यायिनां चित्तवृत्तिनिबन्धनाकारविशेषकल्पना तस्यैतत्कल्पितं रूपं
श्वेतपीतरक्तादिवैचित्र्यात् भ्रान्त्यै स्यात् । कथं तत्र चेतस आस्था स्थितिः
कल्पितत्वेनासत्यरूपविषये स्वभावचञ्चलस्य चेतसः कथं नियमनमिति
प्रश्नः ॥ ५४ ॥

अथात्र समाधिः -  

पार्थिवाप्ये विचित्राङ्के
न ध्येये धारणे तदा ।
तथाप्याभासतस्सिद्धाः
श्रूयन्ते योगिनस्तयोः ॥ ५५ ॥

सत्यम् अरूपस्य भगवतस्स्वरूपम् उक्तेन क्रमेण ध्यातुमशक्यं   

तत्र तु निरालम्बनोपदेशक्रमेण तत्स्वरूपावाप्तिर्भविष्यति । यत्तु -
वैचित्र्यात्कल्पितं भ्रान्त्यै इत्युक्तं न तावद्युक्तम् आगमोपदिष्टस्य
ध्यानस्य परमार्थत्वेन वैकल्पिकत्वानुपपत्तेः ।
तदुपदिष्टतत्तद्विविधविध्यनुष्ठानस्य वैकल्पिकत्वाभ्युपगमे सति
दीक्षादेरप्यसत्यत्वात् आनर्थक्यमिति कृतमागमेन किञ्च वैचित्र्यात् ध्येयं
प्रति ध्यानमशक्यमिति यदुच्यते तदास्तां तावत् ।
परमेश्वराकृतिचिन्तनमयेऽप्येते सुस्पष्टपार्थिववारुणाख्ये द्वे धारणे
सकलसामान्ययोगशास्त्रप्रसिद्धे । ते अपि विचित्ररूपवज्राङ्कितत्वात्
सितसलिलोत्पललाञ्च्छितत्वाच्च न ध्येये ध्यातुं न शक्ये । न
चैवमत्राभ्युपगमो युक्तः यतस्तयोः पार्थिवाप्ययोः धारणयोस्तथातथा
रूपवैचित्र्ये सत्यपि साभ्यासानां योगिनाम् अनेकास्सिद्धयश्श्रूयन्ते
तथैवमागमोपदिष्टस्य
धारणाफलस्यानेकसास्त्राभ्यासयोगिलब्धस्याऽपि येयं प्रतीतिः तस्यां
सत्यामपि ॥ ५५ ॥

भोगविप्लुतचित्तस्य
कथं स्याच्चित्तसंस्थितिः ।
नाधिकृत्याधिरक्ताणून्
प्राहेदं साधनं हरः ॥ ५६ ॥

अथोच्यते जन्मसहस्राङ्गीकृतविविधभोगाभ्यासविक्षिप्तचेतसां   

कथमतिचञ्चलस्य चेतसः संस्थितिः
सम्यङ्निरुद्धसकलवृत्तित्वेनावस्थानं स्यात् । यथोक्तं
श्रीमद्भगवद्गीतायां - चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्
। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् । तथा - अपि
चण्डानलोद्धूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धुं विषयेभ्यो
न चेतस इति । नैतद्युक्त । यतो नेदं योगाख्यं साधनमविरक्तान्
जन्तूनधिकृत्य परमेश्वर आदिदेश अपि तु
प्रचुरवैराग्यनिर्झरनिर्धूतभवभोगस्पृहाकलङ्काः तेप्येवं
सुचिरसञ्जातनिस्सारसंसारभोगविजुगुप्साः परमत्रेति । न चाभ्यासवतां
किमपि दुष्प्रापं दृष्टेऽपि सम्भवति ॥ ५६ ॥

अतश्च -  

शक्यते विषयं कर्तुं
जगदप्यखिलं शनैः ।
किमु चित्रं वपुर्दान्तैः
वैराग्याभ्यासशालिभिः ॥ ५७ ॥

वैराग्येण नैस्पृह्येणाभ्यासेन च पुनः पुनस्तदासेवनात्मकेन   

शलन्ते शोभन्त इति वैराग्याभ्यासशालिनः दान्ताश्चोपशमयुक्ताः
एवंविधैर्योगिभिश्शनैश्शनैः निखिलमपि जगत् धारणाव्याप्तिक्रमेण
गोचरीकर्तुं शक्यते । किम्पुनर्ध्येयं चित्रं पारमेश्वरं वपुरिति ॥ ५७ ॥

इत्येवं सालम्बनयोगमुपदिश्य प्रकृष्टमनालम्बनमुपदेष्टुं   

भूमिकां विरचयति -

केयं वा रूपकेयत्ता
सर्वाधिष्ठानयोगिनः ।
सर्वदा सर्वभूतानां
सर्वाकारोपकारिणः ॥ ५८ ॥
स्थानरूपप्रमाणानि
परिकल्प्य स्वचेतसा ।
यत्रोपरमते चित्तं
तत्तद्ध्येयं पुनः पुनः ॥ ५९ ॥

यद्वा सर्वाधिष्ठानयोगिनः परमेश्वरस्येयमेव श्वेतादि-वर्णा   

दशभुजा पञ्चवक्त्राद्याकृतिर्ध्यातव्येति कोऽयमेवंविधं रूपं प्रति
नियमः न कश्चिदित्यर्थः । विततवैभवविजृभवतः
परिमितस्थानोपासनमसमीचीनमेव किल भगवतः । अतश्च बहिरन्तर्-
वाऽविचलितचेतसा स्थानरूपप्रमाणाकृत्यादि परिकल्प्य यत्र यत्र
भावशरीरे भूतशरीरे वा चित्तमुपशाम्यति तत्र तत्र भूयोभूयः
प्रयत्नवता गुरूपदेशसमधिगतयुक्तिना ध्यातव्यम् । उक्तञ्च पारमेश्वरे
नेन्द्रियाणि न च प्राणो न मनो धिषणेषणा । नाहमस्मि न चान्योऽस्मि
चित्तस्य प्रलयस्ततः । चित्तक्षयः परावाप्तिरिति सत्यं गणाम्बिके । इति ॥ ५८ - ५९ ॥

अथास्यैव फलमाह -  

तेनास्य चेतसस्स्थैर्यं
सविशेषगुणं शनैः ।
उन्मील्य योगसंस्कारं
हतविघ्नस्य जायते ॥ ६० ॥

तत्राऽऽस्था चेतसः कथमिति यत् प्राक् पर्यनुयुङ्त । तदर्थमिदम् ।   

तेनामुना प्रागुक्तेन योगेनास्य योगिनो निर्विघ्नस्य
सतश्चेतसस्स्थैर्यमचाञ्चल्यं पररूपविश्रान्तेरतिविलक्षणं जायते ।
कीदृशं तत्स्थैर्यमित्याह सविशेषगुणं सविशेषास्सातिशया गुणाः
प्रागुक्ता अणिमादयो यत्र । तत्तथा । किं कृत्वैतत्तूत्पाद्यत इत्याह
शनैर्योगसंस्कारं तत्स्वरूपं प्रकाश्य तद्वासनाधिष्ठितत्वात्
तद्व्यवहारावस्थितस्यास्थ निर्विघ्नस्य सतस्तत्रैव चित्तस्थैर्यं जायत
इत्यर्थः ॥

एवमातिष्ठतस्सम्यक्
विनैवाऽऽकारकल्पनाम् ।
अकिञ्चिच्चित्तकस्याऽस्य
रूपमुन्मीलति स्वकम् ॥ ६१ ॥
सर्वार्थदृक्क्रियारूप -
मानन्दमयमव्ययम् ।
यत्प्राप्य न पुनर्दुःख
योगमेत्यशिवावहम् ॥ ६२ ॥

एवमेनं प्रागुक्तं योगविधिं सम्यक्   

शुद्धाभ्यासाद्यतिशयवशेनाऽऽकारकल्पनां विनाप्यनुतिष्ठतो
योगिनोऽकिञ्चिच्चित्तकस्य किञ्चिदप्यचिन्तयतः चित्तक्षयात्स्वात्मन्येव
निस्तरङ्गमहोदधिप्रशान्तेऽवस्थितस्य स्वकं निजरूपमुन्मीलति विकसति
अपरिमितं सम्पद्यते प्रसरन्निरावरणनिजस्वरूपो भवतीत्यर्थः । कीदृक्
स्वकं रूपन्मुन्मीलतीत्याह सर्वार्थदृक्क्रियारूपमित्यादि सर्वार्था
सर्वविषया दृक् ज्ञानं क्रिया च व्यापाररूपा ते एव रूपं यस्य यतः ।
ज्ञानक्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे इति
यच्छिवरूपमागमेषूपदिष्टम् अनुरूपमाह्लादसुन्दरमव्ययं
चाविनश्वरम् अस्य योगिनो एवमभ्यस्यतोऽभिव्यज्यते यत्प्राप्ते
जन्ममरणाद्यशिवमश्रेय आवहतीत्यशिवावहं संसारलक्षणं
दुःखयोगं नैति न प्राप्नोति । उक्तं च श्रीमदवधूतगुरुणा । यथा नीता
रसेन्द्रेण घातवश्शात-कुम्भताम् । पुनरावृत्तये न स्युः
तद्वत्तन्मतचोदिताः । इति ॥ ६२ ॥

अत्र स्वरूपप्रशंसापूर्वकम् अतिरहस्यतया सर्वान्   

प्रत्यप्रकाश्यत्वमभिधातुमाह ।

एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ।
साक्षादालोचनं शम्भो -
रत्युत्पादनमुत्तमम् ॥ ६३ ॥
नाल्पकालोषितायैतत्
देयं नातिप्रमादिने ।
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥ ६४ ॥

यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूहनीयं
निरतिशयनिश्रेयसावाप्तिहेतुत्वात् अत एव च सिद्धैरमरैश्चाभिष्टुतम् ।
साक्षात्परमेश्वरतेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेततन्नाल्पकालोषिताय । अनतिचिरोपसन्नत्वात्
अविज्ञातनिरतिशयश्रद्धाक्तियोगाय शिष्याय नातिप्रमादिने सप्रमादाय
नचाप्रज्ञाय ज्ञानयोगयोरपिरक्षितुमशक्यत्वात् नाप्यतपसे नियमरहिताय
न च यः परमेश्वरार्चनं करोति एतयोरप्रमादित्वाजडत्वे सत्यपि तपोविरहात्
भक्त्ययोगतश्चानधिकृतत्वम् ॥ ६४ ॥

तदेवम् अस्याऽपि योगविधेः भुक्तिमुक्तिलक्षणं फलमवगन्तव्यम्   

इत्येतदुपसंहाराय परस्तादभिधास्यमानचर्यापादोपक्षेपायचायं
श्लोकः ।

अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वाऽपास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥ ६५ ॥

अस्य निरालम्बनस्य योगस्याभ्यासः पुनः पुनः सेवनं तस्माद्दिव्या   

अलौकिक्यः चतुष्षष्टिगुणा अणिमादिसिद्धयः येषां ते दिव्यसिद्धयः
अंशुजालाः शक्तिप्रसराः तैरोरुचानः वितततेजःपुञ्जत्वाद्देदीप्यमानस्सन्
अभिप्रेतान् लोकान् यथेच्छं विहृत्येति तेषु स्वर्गादिलोकेषु विहरणं
क्रीडालक्षणं निर्वर्त्यापगतानि बाह्यविषयैकग्रहणप्रवणानि
अन्तरात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिस्स्वातन्त्र्येण गच्छन्तीति
आस्रवशब्दवाच्यनीन्द्रियाणि यस्मात्तमपास्रवं परिहृतबहिर्वृत्तित्वेन
सर्वदान्तर्मुखसमग्रेन्द्रियग्रामं दिव्यमपि देहं यथाभिमते
कस्मिंश्चिदपि काले हित्वा सन्त्यज्य स्वस्वरूपे एवाऽऽस्ते निर्वृतो भवतीत्यर्थः
। कीदृशस्सन्नित्याह आश्चर्यचर्याधिवास इति आश्चर्यप्रधाना सा
आश्चर्यचर्या अत्यद्भुतत्वात्प्रमेयं स्थित्यादिपञ्चविधकृत्य कर्तृत्वं
तस्या अधिवास उपाश्रयः परमेश्वरवदिच्छामात्रसम्पाद्ये पञ्चविधे
स्थित्यादिव्यापरे शक्तोऽपि स्वात्मन्येवाऽऽस्ते ।
करणीयस्याभावादित्येतद्विवेचितप्रायं विद्यापाद एवेति ॥

सङ्क्षिप्तोक्तिस्स्फुरति विततं स्फारयन्ती प्रमेयं
पौर्वापर्यक्रमविमृशनात्पौनरुक्त्यं न किञ्चित् ।
नातिव्याप्तिः प्रकृतकथनान्नैवचाव्याप्तिरित्थं
योगस्साङ्गो जयति गदितश्श्रीमृगेन्द्रागमेऽस्मिन् ॥

इति श्रीभट्टविद्याकण्ठात्मजश्रीभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ योगपादस्समाप्तः ।

॥ शुभम् ॥