१३ अध्वप्रकरणम्

अथ अध्वप्रकरणं त्रयोदशम् ।

वृत्तिः ।

अथोक्तार्थप्रसिद्ध्यर्थमित्यादिना भुवनादिवर्णनम् ।   

प्राक्तनप्रकरणान्तसूचितं सम्बन्धप्रयोजनं प्रस्तौति ।

अथोक्तार्थप्रसिद्ध्यर्थं
भुवनादि विनिर्ममे ।
साधारणाभ्यो योनिभ्यः
कलादिभ्यो महेश्वरः ॥ १ ॥

अथोक्तेति । अशुद्धात्मनां निरतिशयश्रेयःप्रतिबन्धककर्म-  

पाशप्रशमाय तत्तद्भोगसाधनतनुकरणभुवनसिसृक्षातोऽनन्तरम् ।
महेश्वरोऽनन्तेशनाथः । उक्तस्य संसार्यणोर्भोगलक्षणस्यार्थस्य
प्रकर्षेण साकल्येन सिद्ध्यर्थं निष्पादनाय साधारणाभ्यः
कलादिभ्यः प्रकृतिभ्यो भुवनानि रचयाञ्चक्रे रचना चैषां न
प्रागभाववतामुत्पत्तिः । अपि तु सत्कार्यवादप्रकरणोक्तवत् शक्त्यात्मना
व्यक्तिरूपतया स्वकारणादभिव्यक्तिः ॥ १ ॥

दीपिका ।

इदानीं पाशपदार्थशेषभूताध्वप्रकरणमवतारयति । अथेत्यादि
। अस्य पदार्थसम्बन्धः पाशपदार्थतया । प्राकरणिको विद्यापादतयैव ।
पाटलिकः पूर्वपटलान्ते दर्शितः । सौत्रस्सम्बन्धः पाशजालमित्यनेन ।
वाक्यात्मकश्च इति प्रवृत्तः करणैः कार्यरूढैस्सभौवनैः
इत्यादिवाक्यैः । उक्तस्येत्यादि । भोगाधिकरणानि हि भुवनानि
तत्तद्विचित्रभुवनजदेहविषयाणां जनकत्वादित्युक्तम् । एतानि चात्मनां
साधारणाभ्य इत्यादि ॥ १ ॥

तानि कालानलादीनि
कलाप्रान्तानि मण्डलम् ।
संसारमिति तत्वज्ञा
भोगस्थानं प्रचक्षते ॥ २ ॥

वृत्तिः ।

तानि च कालाग्निभुवनादीनि कलाभुवनान्तानि । एतच्च भोगस्थानं   

संसारमण्डलं परमार्थविदः कथयन्ति । प्राक्प्रोक्तं सकलत्वं तेन
१तल्लिङ्गिनः कलादिभ्यो योनिभ्य इति । न तु मायातः ।
तस्याश्श्रीमत्स्वायम्भुवादावकलत्वश्रुतेः ।
सन्निवेशवतीत्वाद्भोग्यत्वाभ्युपगमे च भोग्यस्य सन्निवेशवतो
घटादेरिवानित्यत्वप्रसङ्गभयात् असन्निवेशवतीत्वमभोग्यत्वं
चावश्यमङ्गीकार्यम् । ननु पुंसो माया यद्यभोग्या तर्हि
तत्कार्यव्यतिरेकेणान्यस्य भोग्यस्यासम्भवात् न किञ्चिद्भोग्यमिति अभोक्तैव
पुरुषः प्रसक्तः । सत्यं किन्तु कार्यं तदीयं यत् व्यक्तिरूपतयाऽवस्थितं
तदस्य भोग्यम् । न त्वसौ शक्तिमात्ररूपत्वात्त्वस्या इत्युक्तम् ॥ २ ॥


१। भोगस्थानमितिशेषः ।

दीपिका ।

कलाभुवनान्तानीति । कलामस्तकस्थगहनेशभुवनान्तानि ।   

यदनन्तरमेव वक्ष्यति मायायामपि पठ्यन्ते गहनेशादयोऽधिपा इति ।
कस्य भोगस्थानमित्याकाङ्क्षायामाह । प्राक्प्रोक्तमित्यादि । तल्लिङ्गिन इति ।
सकलत्वलिङ्गिनस्सकलस्येत्यर्थः । नतु मायात इति । मायाभुवनान्यपि न
मायास्थत्वेनाऽभिव्यक्तानि । किन्तु तत्कार्यकलामस्तकस्थानीत्यर्थः ॥ २ ॥

वृत्तिः ।

यद्येवमपि तद्गर्भे तत्तद्भुवनविशेषश्रुतेः भुवनानां च   

सन्निवेशविशिष्टतां विना भुवनत्वायोगात् मायातत्वस्याऽपि
सन्निवेशवत्वं प्रसक्तमित्याह ।

मायायामपि पठ्यन्ते
गहनेशादयोऽधिपाः ।
तत्वशुद्धिश्च दीक्षायां
सर्वं तत्कृतिमस्तके ॥ ३ ॥
नित्यत्वव्यापकत्वादि -
श्रवणादवसीयते ।
दृष्टं पुरादि यद्भोग्यं
मूर्तं पलयधर्मिच ॥ ४ ॥

यद्यपि मायातत्वे मण्डलेश्वरगहनेश्वरादयो रुद्रा   

भुवनाधिवासिनः पठ्यन्ते । यद्वक्ष्यति अनन्तस्त्रिकलो गोप्ता क्षेमीशो
ब्रह्मणः पतिः । ध्रुवतेजोऽधिपौ रुद्रौ गहनेशश्च सर्वराट् ।
मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वरा इति । दीक्षायामपि
तत्वशुद्धिर्मायातत्वस्थत्वेन यद्यपि क्रियापादेऽभिधास्यते । तथाऽपि न
तत्तस्यास्सन्निवेशविशिष्टतामापादयति किन्तु तानि तत्स्थत्वेनोक्तानि भुवनानि
तन्निवासिनश्च मण्डलेशाना इत्येतत्सर्वं तत्कृतेस्तत्कार्यभूतायाः कलाया
मस्तके ज्ञेयम् । शक्तिरूपाया मायायाः प्रथमा व्यक्तिः कला
तन्मूर्धन्येतत्सर्वं स्थितमित्यर्थः । कुत एतत्ज्ञातमित्याह
नित्यत्वव्यापकत्वादीति । यतो नित्यत्वव्यापकत्वं चास्याः
प्रागुपपादितमागमेषु श्रूयते । यदि च भुवनगर्भत्वमस्याः तदा
सन्निवेशवती स्यात् । तथा सति अव्यापिका विनश्वरी च भवेत् । अत्राऽपि हेतुमाह ।
दृष्टं पुरादि यद्भोग्यम् इति यद्यस्मात्कारणाद्दृष्टं दृश्यमानं च
पुरप्राकारादि यद्यत् भोग्यत्वे सति मूर्तं प्रलयधर्मि च दृष्टम् । अस्याश्च
सन्निवेशवन्ति भुवनानि गर्भे स्थितानि । भोग्यत्वञ्च यदि साक्षादङ्गीक्रियते
तदा मूर्तत्वं विनश्वरत्वं च प्रसज्यत इति तत्कार्यस्यैव
१कलादेर्व्यक्तिरूपस्य भुवनयोगित्वे सति न कश्चिद्दोषः ॥ ३ - ४ ॥


१। रूपभुवनेति पाठभेदः ।

दीपिका ।

एतदेव दर्शयितुं मायायामित्यादिसूत्रद्वयस्य शङ्कामाह ।   

यद्येव मपीत्यादि । तत्वशुद्धिरित्युपलक्षणं भुवनशुद्धेः ।
उक्तार्थानेवोपसंहरति अस्याश्चेत्यादि । तेषु च भुवनेषु अधिकारावस्थ एव
शिवः ॥ ३ - ४ ॥

वृत्तिः ।

एष एव च न्यायो महामायाख्यायां शुद्धविद्यायामप्यनुसर्तव्य   

इत्याह ।

शुद्धाध्वन्यपि मायायाः
परस्याः पतयः कृतौ ।
ये तस्यामपि पठ्यन्ते
तेऽपि तत्कृतिमस्तके ॥ ५ ॥

शुद्धेऽध्वनि परस्याः शुद्धविद्यात्मिकाया मायाव्यपदेशः ।   

तथाचोक्तं रौरवे मायोपरि महामाया इति । तत्र कृतौ करणीये स्वे
स्वेऽधिकारे येऽधिकृतास्तेऽपि तत्कार्यमुर्ध्नि श्रीमन्मतङ्गाद्युक्तक्रमेण
स्थिताः अवगन्तव्याः ॥ ५ ॥

दीपिका ।

इन्धिकादिभुवनानामप्येतेष्वन्तर्भाव इत्याह । एष एव च न्याय इत्यादि   

। शुद्धविद्यात्मिकायाः । महामायायाः । नतु तत्कार्यभूतायाः ।
यदुक्तं परा वागीश्वरी विद्या माया विद्याऽपरा स्मृता । इति । पूर्वश्च
१कृतिशब्दोऽधिकारीत्याह । तत्रेत्यादि । तेषु च भुवनेष्वधिकारावस्थ एव
शिवस्तदुपाधिभेदेन तत्तत्सञ्ज्ञया भुवनेश्वरत्वेनोच्यते । भुवनानां तु
बिन्द्ववस्थात्मकः पारमार्थिकभेद इति वक्ष्यति ।
मतङ्गादावप्युक्तमित्याह श्रीमन्मतङ्गाद्युक्तक्रमेण इति । उक्तञ्च ।
अधिकारी स भोगी च लयी स्यादुपचारत इति । अत्र च येधिकृता
इत्यधिकृतशब्देनेदं ज्ञापयति । सूत्रस्थेन पतिशब्देनाधिकारावस्थानि
भुवनानि लक्ष्यन्त इति तेषामेव सन्नि वेशविशिष्टत्वात् तन्मस्तकस्थितिरुच्यते
यतः । अत एव च शुद्धविद्यादिशुद्धाध्वोपादानभूतायाः
महामायास्सिद्धिर्बोद्धव्या । ततश्च विद्याविद्येश्वरादीनामपि शरीराणि न
मायीयानि मायोत्तीर्णत्वात् कर्मादिरहितत्वाच्च । तद्भुवनानां
तच्छरीरादीनां चोपादानं सा कुण्डलिन्याख्या महामायेति ॥ ५ ॥


१। अधिकारार्थक इत्याहेतिस्थितश्चेत्साधुः ।

वृत्तिः ।

इदानीमधस्तादध्वैदेशवर्तिनो ब्रह्माण्डस्योच्छ्रायविस्तारौ   

तद्गतभुवनप्रमाणं च वक्तुं योजनाप्रमाणं परमाण्वादिक्रमेण
वर्णयति ।

रजो विलोक्यते तिर्यक्
जालाविष्टार्करोचिषाम् ।
तदष्टाष्टगुणस्थाने
तृतीये स्यात्कचाग्रकम् ॥
लिक्षा यूका यवोप्येव -
मङ्गुलं तत्त्रिसङ्गुणैः ।
तैरेव गुणितः पाणि
र्धनुस्तद्वेदलक्षितम् ॥
दण्डो द्वे धनुषी ज्ञेयः
क्रोशस्तद्विसहस्रकः ।
द्विक्रोशमाहुर्गव्यूतिं
द्विगव्यूतिं च योजनम् ॥
कपालमर्बुदं स्थौल्यात्
ब्रह्मणोण्डस्य योजनैः ॥ ६-८� ॥

आदित्यभासां तिर्यग्जालान्तरप्रविष्टानां सतां सूक्ष्मतमं   

यद्रजो दृश्यते तदष्टगुणीकृत्य तत्प्रमाणं पुनरष्टगुणितं कार्यं
यावत्तृतीये स्थाने कचाग्रं नाम प्रमाणं भवति । उक्तं च
श्रीमत्स्वतन्त्रे अष्टानां १परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुस्तदाख्यातः तत्पद्मरज उच्यते ॥ त्रसरेण्वष्टकं देवि वालाग्रं
तद्विधियत इति ॥ तैरष्टभिः कचाग्रैर्लिक्षा तदष्टकेन यूका
ताभिरष्टभिर्यवो ज्ञेयः । एवमिति । यवाष्टकेनाङ्गुलम् ।
तत्त्रिसङ्गुणैस्तैरेव गुणितः पाणिरिति ।
तैरेवेत्यष्टभिस्त्रिगुणितैश्चतुर्विंशत्यङ्गुलैर्गुणितस्तु पाणिः हस्तो भवति ।
वेदशब्दस्य चतुस्सङ्ख्यालक्षकत्वात्तेषां पाणीनां चतुष्केण लक्षितं
धनुस्सञ्ज्ञं प्रमाणं बोद्धव्यम् । धनुर्द्वयेन दण्डः
दण्डसहस्रद्वयेन क्रोशः क्रोशद्वयं गव्यूतिः । तद्द्वयं च योजनम्
एषां योजनानामर्बुदं कोटिविस्तृतं ब्रह्माण्डकपालं ज्ञेयम् ॥ ६ - ८� ॥


१। जालसूर्यमरीचिस्थानां सूक्ष्माणूनामित्यर्थः ।

दीपिका ।

रज इत्यादि सार्धसूत्रत्रयं सम्बन्धयति । इदानीमित्यादि ॥ ६ - ८� ॥  

तस्यान्तः काञ्चनं धाम
कालाग्नेस्तावदेव हि ॥ ९ ॥
यत्रान्तकालतीक्ष्णांशु
कोटितेजास्तथाविधैः ।
रुद्रैरास्ते वृतो देवः
कालग्निरिति विश्रुतः ॥ १० ॥
१सर्वाध्ववर्तिभूतानां
यस्मिन्नुद्वृत्ततेजसि ।
भयमुत्पद्यते शक्त्या
संहर्त्र्या चोदिते प्रभोः ॥ ११ ॥

तस्येति ब्रह्माण्डस्यान्तः कालाग्नेस्सौवर्णगृहं २कोटिः । यत्र गृहे   

कल्पान्तार्ककोटिसमदीप्तिस्तथाविधानेकरुद्रैर्वृतः कालाग्निस्तिष्ठति । यस्मिन्
पारमेश्वर्या संहर्त्र्याख्यया शक्तया क्षयाय प्रेरिते उद्दीपिततेजसि
समस्ताध्ववर्तिनां भूतानां त्रासस्सञ्जायते ॥ ११ ॥

दीपिका ।

तस्येत्यादिनाऽण्डान्तर्गतानि भुवनानि सप्रमाणान्युच्यन्त इत्याह ।
तस्येत्यादि ॥ ११ ॥

तस्य स्वभावतो ज्वालाः
प्रवृत्ता दशकोटयः ।
योजनानां तदर्धेन
धूमस्सान्द्रस्सुदारुणः ॥ १२ ॥

वृत्तिः ।

प्रकृत्या तज्ज्वाला दशकोटिप्रमाणाः धूमः ३पञ्चकोटिस्सान्द्रो   

घनो दारुणः दुस्सहः ।


१। कालाध्ववर्तिभूतानामिति पाठभेदः ।
२। कोटियोजनप्रमाणमित्यर्थः ।
३। पञ्चकोटियोजन इत्यर्थः ।

ततः पुटास्त्रयस्त्रिंशत्
दशलक्षोनकोटिकाः ।
तदन्तराणि द्वात्रिंश
लक्षकाणि दुरात्मनाम् ॥ १३ ॥
स्थानानि यातनाहेतोः
निर्मितान्यध्ववेधसा ॥ १३� ॥

वृत्तिः ।

ततः अनन्तरं नरकविस्ताररूपास्त्रयस्त्रिंशत्पुटाः प्रत्येकं
नवतिलक्षाणि तदन्तराणि द्वात्रिंशत् तेभ्य एकैकं लक्षप्रमाणम् एतानि
पापीयसां यातनार्थं कृतानि अध्ववेधसेति ।
भुवनाध्वस्रष्ट्राऽनन्तेशेनेत्यर्थः ॥ १३� ॥

तानि ते नामभिर्वक्ष्ये
द्विजमुख्य निबोध मे ॥ १४ ॥
रौरवध्वान्तशीतोष्ण
सन्तापाब्जमहाम्बुजाः ।
कालसूत्राष्टमा ह्येते
नरका इति विश्रुताः ॥ १५ ॥

वृत्तिः ।

अथ महानरकाणामष्टानां सञ्ज्ञाः ।  

सूच्यास्यकालखङ्गाख्य
क्षुरधाराम्बरीषकाः ।
तप्ताङ्गारमहादाह
सन्तापाश्चेति हे मुने ॥ १६ ॥
१भवन्त्यष्टौ सुभीभत्सा
महाशब्दपदानुगाः ॥ १६� ॥


१। अष्टो च भीभत्सा इति पाठो विद्यते ।

वृत्तिः ।

सुभीभत्साः । अतिभयानकाः । महाशब्दस्य पदं नरक   

इत्याख्यरूपमनुगतं येषां ते महानरकसञ्ज्ञा इत्यर्थः ।

वृत्तिः ।

अथ नरकराजाष्टकम् ।  

लाक्षाप्रलेपमांसाद
निरुच्छ्वसनसोच्छ्वसाः ॥ १७ ॥
१युग्माद्रिशाल्मलीलोह
प्रदीप्तक्षुत्पिपासकाः ।
कृमीणां निचयश्चेति
राजानः परिकीर्तिताः ॥ १८ ॥


१। युग्मार्द्रेति पाठभेदः ।

अथ लोहस्तम्भेत्यादिना राजराजेश्वराष्टकसञ्ज्ञा उच्यन्ते ।  

लोहस्तम्भोऽथ विण्मूत्र
स्तथा वैतरिणी नदी ।
तामिस्रश्चान्धतामिस्रः
कुम्भीपाकस्सरौरवः ॥ १९ ॥
महापदानुगोऽवीची
राजराजेश्वरास्स्मृताः ॥ १९� ॥

अथैषां पुटानां सान्तरालानां सङ्ख्यामाकलयितुमाह -  

एषां पुटानां नरकै
स्सार्धं योजनसङ्ख्यया ॥ २० ॥
भवन्ति कोटयस्त्रिंशत्
द्वे च लक्षे द्विजोत्तम ॥ २०� ॥

त्रिंशद्योजनकोटयो लक्षद्वयं चेति त्रयस्त्रिंशत्पुटानां   

सान्तरालानां प्रमाणम् ।

ततस्त्रिंशत्सहस्राणि
त्यक्त्वा भूर्नव लाक्षकी ॥ २१ ॥
भवत्ययोमय्यर्धेन
पूर्वेणार्धेन काञ्चनी ॥ २१� ॥

ततोऽनन्तरं त्रिंशत्सहस्राणि योजनानां त्यक्त्वा नवलक्षप्रमाणा   

भूः पूर्वेणार्धेन हेममयी । अपरेण त्वयोमयी ।

योप्यधस्तात्पुटस्तस्य
मृदर्धं चार्धमायसम् ॥ २२ ॥
तत्र द्वात्रिंशतोऽमीषां
निरयाणां पतिस्स्थितः ।
कूश्माण्ड इति विख्यातः
प्रलयार्कानलद्युतिः ॥ २३ ॥
करालवदनः क्रुद्धो
वृत्तकोटरलोचनः ।
टङ्कपाणिस्तथाभूतैः
भूतैर्भूयोभिरावृतः ॥ २४ ॥

अनन्तरोक्ताया नवलाक्षक्या भुवो हैमात्पुटादधस्स्थो योऽयोमयः   

पुटः तस्याप्यर्धं मृत् अर्धं चायसम् । तत्र चामीषां प्रागुक्तानां
नरकाणां द्वात्रिंशत्तस्येशः कूश्माण्डाख्यः
करालवदनत्वादिविशेषणविशिष्टस्तथाविधैर्भूतैः परिवृत आस्ते ।
वृत्तकोटराणि परिवर्तुलगर्भाणि शरावाकारलोचनानि यस्य सः । एवं
टङ्कः प्रागुक्तः परशुः ॥ २४ ॥

दीपिका ।

एवमण्डाधोभित्या सह कालाग्निधूमान्तं सप्तदशकोटयो   

नरकविस्ताररूपा इति अन्तरालरूपा ऊर्ध्वाधःपुटाभ्यां सह
त्रयस्त्रिंशद्भवन्ति । रौरवादयो द्वात्रिंशन्निरयाः प्राधान्येनात्र
दर्शिताः । तेषां चत्वारिंशदधिकशतसङ्ख्यातत्वात् । यदुक्तं
श्रीमत्किरणे चत्वारिंशत्समधिकं शतं तेषां प्रकीर्तितम् ।
द्वात्रिंशत्तत्रराजान इति । तत्र चामीषामित्यादि । अत एव तदीश्वरस्य
कूश्माण्डभूवनान्तर्गतत्वेन भुवनदीक्षायां तच्छुद्ध्यैव तेषां
नरकाणां शुद्धिरिति भावः ॥ २४ ॥

अयोरुक्मपुटादूर्ध्व -
मष्टमीयं वसुन्धरा ।
साहस्राष्षट् परा १मध्या
व्यर्कलक्षत्रिकोटिकी ॥ २५ ॥
वसत्यो नव साहस्राः
परा दश सहस्रकी ।
तदासां सप्तकं सद्भिः
ख्यातं पातालसप्तकम् ॥ २६ ॥


१। साष्टादशलक्षद्विकोटिकीत्यपि विशदः पाठभेदः ।

काञ्चनमायसं च यत्पुटद्वयमुक्तं ततोऽनन्तरम् इयं   

वसुन्धरा भूमिरष्टमी यस्यां वयमास्थिताः ।
एतद्व्यतिरिक्ताश्चान्याष्षट् भूमयस्सहस्रप्रमाणाः अस्यास्तासां च
षण्णां या मध्ये भवा मध्या सप्तमी भूमिः । सा
विगतद्वादशलक्षकोटित्रयप्रमाणा द्वे कोट्यावष्टाशीतिश्च
लक्षाणीत्यर्थः । एतस्य भूम्यष्टकस्यान्तराले । वसत्यः । आस्पदानि ।
एकैकं नवसाहस्रप्रमाणानि । परेति । ऊर्ध्व वर्तिनी या
वसतिर्वक्ष्यमाणसहस्रयोजनप्रमाणकाञ्चनास्पदहाटकेशाना-
धिष्ठानभूता सा दशसहस्रा । आसां च वसतीनां सप्तकं
तत्सप्तपातालमिति विद्वद्भिरुक्तम् ॥ २६ ॥

दीपिका ।

अयोरुक्मेत्यादि व्याचष्टे । काञ्चनेत्यादि । अयमर्थः ।   

आद्यायास्सहस्रप्रमाणाया भुवस्सप्तम्याश्च
विगतार्कलक्षकोटित्रयप्रमाणाया मध्ये वसतीनां षट्कं प्रत्येकं
नवसहस्रयोजनप्रमाणान्तरायाश्चास्या अष्टम्या
भूमेरधोभागरूपाया हाटकेशाधिष्ठानभूतया
दशसहस्रप्रमाणया वसत्या सह सप्तवसनानि भवन्ति । अस्या
ऊर्ध्वभागः साष्टसहस्रयोजनप्रमाणभूमिपृष्ठमिति । एवं
भूपृष्ठान्नारकान्तं कोटिद्वयमष्टनवतीश्च लक्षयोजनम् ।
नरकाणां तु सान्तरालानां प्रमाणं लक्षद्वयाधिकाः त्रिंशत्कोटयः
पूर्वोक्तधूमान्तास्सप्तदशेत्येवं पञ्चाशत्कोटयो भवन्ति । इदं च
मानं सर्वेषु शास्त्रेषु समानमेव । यत्राप्यवान्तरमानभेदः तत्राऽपि
कुतश्चित् केषां चिदन्तर्भाव इत्यविरोधः ॥ २६ ॥

तन्नामतोऽधिपतितः
उच्यमानं निबोधमे ।
आभासं परतालाख्यं
नितलं च गभस्तिमत् ॥ २७ ॥
महातलं रसाङ्कञ्च
पातालं सप्तकं मुने ॥ २७� ॥

वृत्तिः ।

इत्थं नामत उक्त्वा अधिपतीन् कथयति ।

सप्तस्वेतेषु दैत्येन्द्र
भुजगक्षणदाचराः ॥ २८ ॥
सप्तसप्त समाख्याता
स्तानप्यथ निबोध मे ॥ २८� ॥

एकैकस्मिन् दैत्यन्द्रः नागो राक्षसश्चैतेषु सप्त सप्त   

कथितास्तांश्चोच्यमानान् बुद्ध्यस्व ॥ २८� ॥

दैत्यश्शङ्कुश्रतिः पूर्वे
प्रह्लादश्शिशुपालकः ॥ २९ ॥
कर्कन्दुका हिरण्याक्षो
बृहद्गर्भो बलिस्तथा ॥ २९� ॥

इति सप्तसु दैत्यसप्तकम् ॥ २९� ॥

वृत्तिः ।

नागानाह ।  

काद्रवेयाः कुटिलको
वासुकिः कम्बलस्तथा ॥ ३० ॥
कार्कोटकोऽथ कालाङ्गः
दुर्दर्शस्तक्षकस्तथा ॥ ३०� ॥

कद्रोरपत्यानि । काद्रवेयाः ॥ ३०� ॥

वृत्तिः ।

अथ नागानन्तरोपक्रान्तं रक्षस्सप्तकम् ।

विकटो लोहिताक्षश्च
यमाख्यो विकटाननः ॥ ३१ ॥
करालो भीमनिह्रादः
पिङ्गलश्चेति राक्षसाः ॥ ३१� ॥

वृत्तिः।

अथ हाटकेश्वरभुवनम् -  

तेषामुपरि निश्शेष
पातालाधिपतीश्वरः ॥ ३२ ॥
साहस्रे काञ्चने धाम
मण्डले हाटकस्स्थितः ।
यं स्तुवन्ति प्रियप्राप्त्यै
यता यतिविभूषणैः ॥ ३३ ॥
दैत्ययक्षसुराहीश
ललना ललितैः पदैः ॥ ३३� ॥

तेषां पातालानामूर्ध्वं तदीश्वरो हाटकेशस्स्थितः । यं
भगवन्तं दानवगुह्यकदेवनागाङ्गनास्सुन्दरैस्स्तुतिपदैस्स्तुवन्ति ।
कीदृश्यस्ता इत्याह यताः । प्रयताः । किं भूतैः पदैस्स्तुवन्ति
यतिविभूषणैः । यतिः द्रुतमध्यविलम्बितरूपा परिपाटी सैव भूषणं
येषां स्तुतिपदानां तैः गीत्यनुरक्तैश्चाटुभिराराधयन्तीत्यर्थः ।
किमर्थं प्रियप्राप्त्यै । यतस्ताः कामवशीकृताः ॥ ३३� ॥

दीपिका ।

अथ पातालसप्तकं भुवनदीक्षायां हाटकेश्वरभुवनान्तर्-  

गतमेव शोद्ध्यमिति दर्शयितुं तेषामुपरीत्यादिना तस्य तदीशत्वमुच्यत
इत्याह तेषां पातालानामित्यादि ॥ ३३� ॥

ततः कोटिशतं पृथ्वी
नानाजनसमाश्रया ॥ ३४ ॥
द्वीपशैलसरिद्वारि
निधिमण्डलमिण्डिता ॥ ३४� ॥

वृत्तिः ।

ततोऽनन्तरं विविधजनास्पदा
वक्ष्यमाणद्वीपजलनिधिबृन्दैर्भूषिता भूः ॥ ३४� ॥

दीपिका ।

एवं भूपृष्ठान्तमूर्ध्वमानमुक्त्वाऽस्मिन् प्रदेशे ब्रह्माण्डस्य   

तिर्यद्ध्यानमपि

प्। ३६३) शतकोटियोजनप्रमाणमिति दर्शयितुं ततः कोटिशतमित्यादि व्याचष्टे ।
ततोऽनन्तरमित्यादि । तत एवाण्डकारत्वादण्डमुच्यते । तदुक्तं
सर्वज्ञानोत्तरे - कुक्कुटाण्डसमाकारं ब्रह्माण्डमिदमुच्यते इति ॥ ३४� ॥

वृत्तिः ।

द्वीपानां प्रमाणं सञ्ज्ञां चाह ।

जम्बूशाककुशक्रौञ्च
शाल्मगोमेदपुष्कराः ।
लक्षादिद्विगुणा द्वीपाः
क्षाराद्यब्धिभिरावृताः ॥ ३५� ॥

वक्ष्यमाणवल्लक्षादारभ्योत्तरोत्तरद्विगुणमानकाः   

क्षारक्षीरादिभिः तत्प्रमाणकैस्समुद्रैः परिवृताः जम्ब्वादिद्वीपास्सप्त ॥
३५� ॥

वृत्तिः ।

ततो हिरण्मयी भूमिः
लोकालोकश्च पर्वतः ।
तमः परस्ताद्गर्भोदः
कटाहश्चेति भूतलम् ॥ ३६� ॥

पश्चाद्भूमिः काञ्चनमयी लोकालोकसञ्ज्ञोद्रिः तद्बहिस्तमः ततस्तु   

गर्भोदाख्योऽब्धिः अण्डकटाहश्चेत्येतद्भूतलम् ॥ ३६� ॥

वृत्तिः ।

अथैतद्विभागं विस्तरेण ज्ञातुमिच्छन् मुनिः प्रश्नयति ।  

चित्रशैलसरिद्द्विप
काननोदध्यलङ्कृताम् ।
पृथ्वीं भगवतीं शक्र
श्रोतुमिच्छामि विस्तरात् ॥ ३७� ॥
त्वयि वक्तरि देवेश
सर्वप्रत्यक्षदर्शिनि ।
निष्ठाज्ञप्तिरसाकृष्टं
श्रुतौ धावति मे मनः ॥ ३८� ॥

विविधवननगसरिद्द्विपोपवनार्णवमण्डितं भुवनं विस्तरात्   

श्रोतुमिच्छामि । त्वयि किल सकलप्रत्यक्षदर्शिनि उपदेष्टरि मम
निरवशेषज्ञानौत्सुक्याक्षिप्तं चेतश्श्रवणनिमित्तं धावति ॥ ३८� ॥

वृत्तिः ।

वर्तयिष्य इत्यैन्द्रं वचः ।

वर्तयिष्ये द्विजश्रेष्ठ
प्रस्तुतोक्तिशरीरवत् ।
द्वीपान्नदीर्वनान्तांश्च
शृणुश्वैकाग्रमानसः ॥ ३९� ॥

इतः परमध्वग्रन्थस्सुगमत्वात् क्वचित्प्रदेशे वृत्त्या व्याख्यायते ।   

वर्तयिष्ये । अभिधास्ये । प्रस्तुतोक्तिशरीरक्रमेण ॥ ३९� ॥

जम्बूद्वीपं क्षितेर्नाभिः
तद्वृत्तं लक्षयोजनं
क्षाराब्धिना परिवृतं
परिवृत्तेन तावता ॥ ४०� ॥

तावतेति । लक्षप्रमाणेनेत्यर्थः ।

तस्य मध्ये स्थितश्शैलो
राजराजो हिरण्मयः ।
तिरस्कृतांशुमज्ज्योति -
र्मेरुस्सुरनिषेवितः ॥ ४१� ॥

तन्मध्ये पर्वताधिराजो देवसेवितः काञ्चनमयः प्रतिहतार्ककान्तिः   

मेरुस्स्थितः ॥ ४१� ॥

स षोडशसहस्राणि
क्षितौ विष्टो महीतलात् ।
तदूनमुन्नतो लक्षं
मूले षोडश विस्तृतः ॥ ४२� ॥

स भूमेरन्तष्षोडशयोजनसहस्राणि प्रविष्टः   

महीतलादारभ्योर्ध्वं यावच्चतुरशीतिसहस्रयोजनोन्नतः मूले च
षोडशसहस्रविस्तरः ऊर्ध्वतोऽस्य शरावाकृतिः विस्ताराधिक्येन द्वैगुण्यम्
। उक्तं च श्रीमत्स्वतन्त्रे । षोडशैकसहस्राणि बुध्नभागे प्ररोपितः ।
तान्यस्य मूले विस्तारस्स्या दूर्ध्वं द्विगुणस्तु सः । सशरावाकृतिर्देवि
मेरुर्देवाश्रयोऽद्रिराट् इति ॥ ४२� ॥

त्रिषु पादान्तरेष्वस्य
चतुर्वृद्धेषु पर्वसु ॥ ४३ ॥
नेमयः कटकाकारा
निर्गता दीप्तिमत्तराः ।
एका दशसहस्रान्या
मनुसाहस्रकी परा ॥ ४४ ॥
नेमिर्या मस्तकोपान्ते
लोक्पालसमाश्रया ।
चक्रवाटेति तामाहुः
सर्वरत्नप्रभावतीम् ॥ ४५ ॥

वृत्तिः ।

अस्य मेरोस्स्वोच्छ्रायपादेन पञ्चविंशतिसहस्रात्मकेनान्तरं   

येषां तेषु तथाविधेषूत्तरोत्तरं चतुस्सहस्रविवृद्धेषु पर्वसु
भागसन्धिषु कटकाकारास्सुष्ठु दीप्तास्तिस्रो नेमयः मेखला निर्गताः ।
तदेवैषु त्रिषु स्थानेषु चतुर्वृद्धत्वं दर्शयति एका दशसहस्रेत्यादिना ।
एका आद्या दशसहस्रप्रमाणा । द्वितीया मनुसहस्रप्रमाणा
चतुर्दशसहस्रप्रमाणा । चतुर्वृद्धत्वोक्तेश्च तृतीया
अष्टादशसहस्रविस्तृता । सा नेमिर्या मस्तकसमीपे लोकपालाश्रयभूता
तां चानेकरत्नखचितप्रभाभासुरां चक्रवाटोक्त्या आगमज्ञा आहुः ।
एवं च प्रागुक्तचतुरशीतियोजनसहस्रोच्छ्रायस्य मेरोः पर्वत्रयं
पञ्चसप्ततिसहस्रमानकम् । कटकत्रयं तु नवसहस्रोन्नतम् एकैकस्य
त्रिसहस्रमानकत्वादित्यागमः ॥ ४३ - ४५ ॥

दीपिका ।

त्रिषु पादान्तरेष्वित्यादि व्याचष्टे अस्य मेरोरित्यादि ।   

चतुस्सहस्रविवृद्धेष्विति । तिर्यक्दिशामसौ मानवृद्धिः । उच्छ्रायमानस्य
वक्ष्यमाणत्वात् । अत्र आह । आद्या दशसहस्रप्रमाणा इत्यादि ।
दशसहस्रप्रमाणविस्तारास्तिस्रो नेमयो निर्गता त्यर्थः । आसां च
सान्तरालानां भूपृष्ठात्प्रभृत्युच्छ्रायमानमागमान्तरेषु
ज्ञेयमित्याह । एवं चेत्यादि । पर्वत्रयमिति पर्वशब्देनचात्र
भूपृष्ठाच्चक्रवाटान्तं यदन्तरालत्रयं तदुच्च्यते । कटकत्रयं चेति ।
नेमित्रयमित्यर्थः ॥ ४३ - ४५ ॥

सिद्धगन्धर्वमरुतां
तदधः पर्वसु स्थितिः ।
तस्यामष्टसु शृङ्गेषु
पुर्योष्टौ समवस्थिताः ॥ ४६ ॥
प्राच्यादिष्विन्द्रमुख्यानां
नामतस्तान्निबोध मे ॥ ४६� ॥

चक्रवाटाधस्स्थितेषु उक्तेषु त्रिषु पर्वसु सिद्धादीनामास्पदं या तु   

चक्रवाटाख्योर्ध्वमेखला तस्यामित्यर्थः । अन्यत्स्पष्टम् ॥ ४६ - ४६� ॥

दीपिका ।

अत एव सिद्धेत्यादि सूत्रं व्याचष्टे । चक्रवाटाधस्स्थितेष्वित्यादि ॥ ४६ -   

४६� ॥

नानारत्नप्रभाजाल
मण्डलालङ्कृता हरेः ।
सिद्धसाध्यमरुज्जुष्टा
रुक्मभूरमरावती ॥ ४७� ॥

वृत्तिः ।

विविधरत्नकान्तिकलापपरिवेषभूषिता सिद्धादिसेविता हेमभूतला   

प्राच्यामिन्द्रस्यामरावत्याख्या पुरी ॥ ४७� ॥

रक्तपीतमणिप्राय
हेमप्राकारगोपुरा ।
वह्नेस्तेजोवती वह्नि -
तुल्यभूतनिषेविता ॥ ४८� ॥

वृत्तिः ।

गोपुरं द्वारशाला । वह्नितुल्यैस्तत्सदृशप्रभावद्भिः भूतैस्सेविता   

॥ ४८� ॥

मृत्योस्संयमिनी तुङ्ग -
लोहप्राकारमण्डला ।
कालपाशपितृव्याधि -
प्रेतमारीनिषेविता ॥ ४९� ॥

वृत्तिः ।

कालपाशादिजुष्टाऽत्युन्नता आयसप्राकारसमूहा संयमिनी नाम
दक्षिणस्यां दिशि याम्या पुरी । मारी नाम युगपदनेकलोकक्षयहेतुरुत्पातो
विशिष्टदेवताधिष्ठानः । सा च देवता प्रेतपतिनाऽज्ञप्ता यत्र
क्वचित्कार्यं करोति ॥ ४९� ॥

कृष्णा दैत्यपतेर्मृत्यो -
र्धामवद्दैत्यसेविता ।
नीलरत्नप्रभाजाल
वितानवरभूषणा ॥ ५०� ॥

वृत्तिः ।

वैडूर्येन्द्रनीलप्रभापुञ्जवद्भिर्वितानश्रेष्ठैर्भूषिता   

यमपुरीवदसितवर्णा दैत्यजुष्टा कृष्णाख्या नि ऋतेः पुरी ॥ ५०� ॥

शुद्धवत्यम्बुनाथस्य
स्फटिकोपलनिर्मिता ।
पाण्डराभ्रोपमैर्याद -
स्सेविता भाति धामभिः ॥ ५१� ॥

वृत्तिः ।

शुद्धवती नाम नगरी वरुणस्य नगरी । स्फटिकशिलाविरचिता   

मकरकूर्मादिसेविता श्वेताम्रशुभ्रैर्गृहैः शोभते ॥ ५१� ॥

वायोर्गन्धवती तुङ्ग -
श्वेतपीतध्वजाकुला ।
बलवद्भूतसञ्जुष्टा
सर्वरत्नविनिर्मिता ॥ ५२� ॥

श्वेतैः पीतैश्च ध्वजैर्युक्ता विचित्ररत्नविरचिता समर्थभूतनिषेविता   

वायोः पुरी गन्धवतीनाम ॥ ५२� ॥

महोदया चन्द्रमस -
श्वेता मुक्तादिनिर्मिता ।
द्विजसङ्घस्तुता भाति
गृहैर्हिमगिरिप्रभैः ॥ ५३� ॥

वृत्तिः ।

सोमस्योदीच्यां महोदयाख्या शुक्ला पुरी ।   

मुक्तादिनिर्मितेत्यादिग्रहणात् चन्द्रकान्तदृषद्वा । सा च ब्राह्मणबृन्दस्तुता
। प्रालेयादिद्युतिभिः भवनैश्शोभते ॥ ५३� ॥

ज्वलल्ललाटदृग्दग्ध
१स्मरमृत्युयशोभृतः ।
पुरी यशोवती सर्व -
रत्नजा रुद्रसेविता ॥ ५४� ॥

वृत्तिः ।

ज्वलता तृतीयेनाक्ष्णा दग्धौ कामकालौ येन अत एव   

तथाविधसकलजगद्वैरिविनाशाद्यशोभृत ईशानस्य सर्वरत्नविनिर्मिता
रुद्रैस्सेविता यशोवती नाम पुरी ऐशान्यां दिशि वर्तते ॥ ५४� ॥

इति सर्वर्तुसुखदा -
श्चक्रवाटार्धविस्तृताः ।
पुर्योष्टावनिलोद्धूत
परिजातरजोरुणाः ॥ ५५� ॥
वेधसा निर्मिता लोक -
पालचक्रानुवर्तिनाम् ।
भूतये स्वर्ग इत्येता
गीयन्ते कविभिः क्षितौ ॥ ५६� ॥


१। स्मरस्येशस्यशोभितेति पाठभेदः ।

वृत्तिः ।

सर्वेषाम् ऋतूनां सम्बन्धि सुखदुःखं ददन्तीति सर्वर्तुसुखदाः । तथा
अक्रवाटार्धेन नवसहस्रात्मना विस्तीर्णा लोकपालचक्रानुवर्तिनाम्
इन्द्राद्याराधकानां भूतये अभ्युदयाय स्वर्ग इत्येताः पुर्यः
कविभिर्गीयन्ते । पारिजातस्स्वर्गद्रुमविशेषः तत्कुसुममकरन्दोज्वलत्वेन
मनोरमत्वमासां युक्तम् ॥ ५६� ॥

वृत्तिः ।

अथ ब्रह्मणः पुरी ।  

चतुर्दशसहस्राणि
योजनानां स्वयम्भुवः ।
मध्ये मनोवती नाम
पुरी लोकेशवन्दिता ॥ ५७� ॥
या चकारारुणानुच्चैः
वियन्मार्गान् महाश्रिया ।
सावित्र्या स्पर्धमानेव
स्वर्गकामातिवर्तिनी ॥ ५८� ॥

वृत्तिः ।

महाश्रियेति जेजोलक्ष्म्या । स्वर्गे कामास्स्वर्गकामाः तेषां ततः   

प्रवृत्तिर्निवर्तत इति स्वर्गकामातिवर्तिनीत्वम् । अत एव तेजोतिशययोगात्
ब्रह्मपदावाप्तिहेतुत्वाच्च सावित्र्या स्पर्धमानेव ॥ ५८� ॥

तस्यामुपासते देवा
मुनयश्च महौजसः ।
महायोगीश्वरं सिद्ध्यै
यमाद्यैर्भूतवेधसम् ॥ ५९� ॥

वृत्तिः ।

तस्यामतुल्यबला देवा महर्षयश्च महतां योगिनामपि ध्येयं   

विधातारं सिध्यर्थं यमनियमादिभिरुपासते सेवन्ते ।
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।
शौचसन्तोषार्जवस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ५९� ॥

तदीशभागे तस्याद्रे -
श्शृङ्गमादित्यसन्निभम् ।
यत्तज्ज्योतिष्कमित्याहुः
सदा पशुपतेः प्रियम् ॥ ६०� ॥

वृत्तिः ।

तस्यां ब्रह्मपुर्याम् ईशानदिग्गतं मेरोश्शृङ्गमतिदीप्तं   

परमेश्वरस्येष्टं ज्योतिष्काख्यम् ॥ ६० ॥

दीपिका ।

परमेश्वरस्येति । श्रीकण्ठनाथस्यानन्तशिष्यस्य   

सत्यलोकोर्ध्वस्थितस्य यदुक्तं मतङ्गे - पूर्वोत्तरे तु दिग्भागे
ज्योतिष्मच्छिस्वरं महत् । तत्राहं मुनिशार्दूल लोकानुग्रहकारणात् ।
कृताधिवास इति । अत्र च मेरुमूर्ध्नि विष्णोरपि स्थानमागमान्तरेषु श्रूयते ।
यदुक्तं किरणे मेरुमध्ये सुपर्वतमित्युपक्रम्य त्रिभिश्शृङ्गैस्समायुक्तो
रौप्यकाञ्चनरत्नजैः । कृष्णस्य राजतं शृङ्गं सौवर्णं ब्रह्मणो
मतम् रत्नजं शाङ्करं स्थानं तदधोऽमरवासिनः इति ।
श्रीमत्पराख्येऽपि तन्मूर्ध्नि गणशृङ्गस्था केशाश्चैश्वर्यगर्विता इति ॥
६०� ॥

तस्य सानुषु हैमेषु
रत्नचित्रेषु संस्थिताः ।
स्कन्दनन्दिमहाकाल
गणेशादिगणावराः ॥ ६१ ॥
शासितुर्देवदेवंस्य
स्थानं त्रिपुरविद्विषः ।
रुद्रायुतगणैर्जुष्टं
ब्रह्माद्यैश्च सुरोत्तमैः ॥ ६२� ॥

वृत्तिः ।

तस्य ज्योतिष्कस्य समभूभागेषु प्रकृस्टानां   

सदाशिवतत्वादधोवक्ष्यमाणत्वादवराः स्कन्दनन्दीशादयो गणेश्वराः
। शासितुः ब्रह्मेन्द्रादीनां विनेतुः साक्षाद्भगवतस्स्थानम् ।
अनेकसङ्ख्यैरुद्रैर्ब्रह्माद्यैश्च देवैस्सेवितम् ॥ ६१� - ६२� ॥

इति मेरुरधोऽस्यान्ये
दिक्षु ये भूधरास्स्थिताः ।
तच्छिष्टानि नवद्वीप -
वर्षाण्यस्मिन्निबोध मे ॥ ६३� ॥

वृत्तिः ।

इत्थं मेरुरुक्तः अस्याधोवक्ष्यमाणविष्कम्भशैलाश्चत्वारः   

प्राच्यादिदिक्षु ये स्थितास्तद्वर्जितानि द्वीपवर्षाणि नवास्मिन्
जम्बूद्वीपेऽवधारय ॥ ६३ ॥

वृत्तिः ।

तत्र विभागाद्रींस्तावदाह ।  

निषधो हेमकूटश्च
हिमवांश्चाचलोत्तमः
मेरोर्दक्षिणतो नील -
श्श्वेतशृङ्गीति वामतः ॥ ६४� ॥
सहस्रद्वयविष्कम्भा
दशोत्सेधा नवान्तराः ।
प्रागायतास्सुपर्वाणः
सागराहितकोटयः ॥ ६५� ॥

वृत्तिः ।

मेरोर्दक्षिणदिग्भागे निषधहेमकूटहिमवन्तः । उत्तरे   

नीलश्वेतशृङ्गवदाख्या विभागाचलाः । एते द्वियोजनसहस्रविष्कम्भा
दशहस्रोत्सेधा नवसहस्रव्यवधानाः
प्राक्पश्चिमदिग्भागवर्तिक्षारोदलग्नपर्यन्ताः । सुपर्वाण इति । सुष्ठु
शोभनानि पर्वाणि वक्ष्यमाणानि अन्तरस्थानि वर्षाणि येषाम् ॥ ६४� - ६५� ॥

तदर्धेनात्तविष्कम्भौ
माल्यवद्गन्धमादनौ ।
याम्योत्तरौ प्राक्प्रतीच्यौ
मेरुतस्तावदन्तरौ ॥ ६६� ॥

वृत्तिः ।

निषधादिशैलमानार्धेन गृहीतविस्तारौ । सहस्रविस्ताराविति यावत् ।   

दक्षिणोत्तरायतौ । मेरुतः प्राच्यां प्रतीच्यां च माल्यवद्गन्धमादनौ ।
तावदन्तराविति यावदेव चतुर्दिक्स्थितनिषधादिशैलवर्षावृतशिष्टं
चतुस्त्रिंशत्सहस्रायाममन्तरं
दक्षिणोत्तरदिशोस्तावत्प्रमाणमेवानयोर्मध्यमित्यर्थः ॥ ६६� ॥

वृत्तिः ।

तदेव विभागाचलैः परिच्छेत्तुमाह ।  

पश्चान्माल्यवतः प्राच्यां
गन्दमादनशैलतः
इलावृतं नीलगिरे -
र्याम्यतो निषधादुदक् ॥ ६७� ॥

वृत्तिः ।

माल्यवतोऽद्रेः पश्चिमदिग्भागे गन्धमादनाद्रेः प्राक्   

नीलगिरेर्दक्षिणतः निषधादुत्तरे चेलावृतं वर्षं
जम्बूद्द्वीपमध्यस्थम् ॥ ६७� ॥

दीपिका ।

तदेव विभागाचलैरित्यादि । निषधादिचतुर्दिग्गतविभागाद्रिचतुष्टयं   

मेरोश्चान्तरालमिति यावत् ॥ ६७� ॥

भद्राश्वं माल्यवत्प्राच्यां
वर्षं भद्रजनाकुलम् ।
सुकेतनं केतुमालं
प्रतीच्यां गन्धमादनात् ॥ ६८� ॥

वृत्तिः ।

माल्यवतः प्राक् भद्राश्वं वर्षम् । गन्धमादनात्प्रत्यक्   

शोभनगृहं केतुमालं नाम ॥ ६८� ॥

निषधाद्धरिवर्षं यत्
याम्यतो हेमकूटतः ।
नाम्ना किम्पुरुषं ख्यातं
भारतं हिमवद्गिरेः ॥ ६९� ॥
रम्यकाख्यमुदग् नीलात्
हिरण्यं श्वेतपर्वतात् ।
यदुत्तरं शृङ्गवतः ।
कुरुवर्षं तदुच्यते ॥ ७०� ॥

वृत्तिः ।

निषधहेमकूटहिमाद्रिभ्यो दक्षिणभागस्थानि   

हरिकिम्पुरुषभारताख्यानि वर्षाणि । एवं नीलश्वेतशृङ्गवद्भ्य उत्तरे
रम्यकहिरण्यवत्कुरुवर्षाणि ॥ ७०� ॥

विष्कम्भशैलाश्चत्वारो
मेरोस्स्थैर्याय वेधसा ।
लक्षार्धोन्नतयः कॢप्ताः
तेषां पूर्वेण मन्दरः ॥ ७१� ॥
श्वेतो हारिद्रचूर्णाभो
याम्यतो गन्धमादनः ।
प्रतीच्यां विपुलो नीलः
सुपार्श्वस्सौम्यतोऽरुणः ॥ ७२� ॥
सहस्रयोजनोच्छ्राया -
स्तेषु कल्पद्रुमास्स्थिताः ।
कदम्बजम्ब्वावश्वत्थ -
न्यग्रोधौचोत्तरान्तिकाः ॥ ७३� ॥

वृत्तिः ।

मेरोर्दार्ढ्यार्थंश्वेतपीतनीलारुणवर्णाः प्राच्यादिदिक्षु   

मन्दरगन्धमादनविपुलसुपार्श्वाख्या विष्कम्भाः
पञ्चाशत्सहस्रोच्छ्रायास्सृष्टाः । येषु योजनसहस्रोन्नतयः
कदम्बजम्ब्वादयश्च कल्पपादपास्स्थिताः ॥ ७१� -७२� - ७३� ॥

जम्बूफलरसोद्भूता
मेरुं पर्येत्य निम्नगा ।
विवेश मूलमेवास्य
कनकीकृत्य तां महीम् ॥ ७४� ॥
तां पीत्वा पक्षिसर्पाखु
मृगशाखामृगादयः ।
बभूवुः काञ्चना ये च
सत्वास्तस्यां कृतप्लवाः ॥ ७५� ॥

वृत्तिः ।

पर्येत्य प्रदक्षिणीकृत्य । अस्येति मेरोः । शाखामृगा वानरा   

आदिग्रहणेन गजाश्वादयः ॥ ७४� - ७५� ॥

द्वीपकेतुरभूज्जम्बूः
कल्पशाखिषु सत्स्वपि ।
प्रभावातिशयात्ख्यातं
जम्बूद्वीपमिदं ततः ॥ ७६� ॥

वृत्तिः ।

द्वीपानां केतुः ध्वजः द्वीपकेतुः ॥ ७६� ॥  

वृत्तिः ।

अथ विष्कम्भशैलानां सरांसि उपवनानि चोच्यन्ते ॥ तत्र -  

प्राच्यां विष्कम्भशैलस्य
मूले चैत्ररथं वनम् ।
सरोऽरुणोदकं नाम
तत्र हेमाब्जमण्डितम् ॥ ७७� ॥

स्पष्टम् ।  

याम्याद्रिमूले गन्धर्व -
सुरसिद्धाप्सरोवृतम् ।
नन्दनं मानसं तत्र
सरो मानसतस्करम् ॥ ७८� ॥

वृत्तिः ।

दक्षिणे विष्कम्भशैलमूले नन्दनाख्यमुपवनं सरश्चात्र   

मनोहारि मानसं नाम ॥ ७८� ॥

वैम्राजं वैपुले मूले
सितोदश्च ह्रदोत्तमः ।
देवैर्निषेव्यते च्छन्नः
कमलैरंशुमत्प्रभैः ॥ ७९� ॥

वृत्तिः ।

विपुलाख्यस्याद्रेर्मूले वभ्राजाख्यं वनम् । सितोदकं सरः ।   

यदर्ककान्तिभिरब्जैर्मण्डितं सुरैरासेव्यते ॥

सौपार्श्वे धृतिमन्नाम
काननं भद्रको ह्रदः ।
सौगन्धिकाम्बुजच्छन्नः
सेव्यते पितृभिस्सदा ॥ ८०� ॥

वृत्तिः ।

सुपार्श्वस्य मूले धृतिमन्नाम काननम् । भद्रकाख्यं सरः ॥ ८०�   

वृत्तिः ।

साम्प्रतमिलावृतादिद्वीपनिवासिनो जनस्याऽऽहारायुः   

कान्त्यादिवर्णनम् -

त्रयोदशसहस्रायु -
र्जम्बूफलरसाशनः ।
मेर्वालोकोपलब्धार्थो
जनस्सुत्विगिलावृते ॥ ८१� ॥

मेर्वालोकेन तदीयेन प्रकाशेनाधिगतपदार्थः सुत्विगिति । कान्तच्छविः   

॥ ८१� ॥

वर्षायुतायुर्नीलाब्ज -
द्युतिः पनससारभुक् ।
केतुमाले जनो दिव्य -
देहबन्धस्सुखी बली ॥ ८२� ॥

वर्षाणामयुतं दशसहस्राण्यायुर्यस्य सः । तथा पनसाख्यानि   

फलानि तेषां सारो निष्यन्दस्तं भुङ्क्त इति पनससारभुक् ॥ ८२� ॥

चन्द्रबिम्बद्युतिर्नीला -
ब्जाशनो भद्रवाजिनि ।
दशवर्षसहस्रायु -
र्दुःखशोकभयोझितः ॥ ८३� ॥

भद्रवाजिनीति भद्राश्वे वर्षे ।  

त्रिंशदब्दसहस्रायुः
कामवृक्षफलाशनः ।
युग्मप्रसूतिः कुरुषु
श्यामापुष्पद्युतिर्जनः ॥ ८४� ॥

वृत्तिः ।

कामादिच्छातो वृक्षफलानि अशनं यस्य । यथेष्टानि वृक्षफलानि   

निर्माय भुङ्क्ते इत्यर्थः । कुरुष्विति कुरुवर्षे । युग्मप्रसूतिः युगपत्
कन्याकुमारौ स्तः । श्यामा प्रियङ्गुः तत्पुष्पद्युतिः गौरप्रायकान्तिः ॥
८४� ॥

वृत्तिः ।

अथात्रैव वर्षे सन्निकर्षस्थौ चन्द्रद्वीपभद्राकरद्वीपावुच्येते ॥  

भूतवेदसहस्रौ द्वा -
वेकदिक्सन्धिलक्षितौ ।
सोमवाय्वाशयौ सिद्ध -
मुनिचारणसेवितौ ॥ ८५� ॥
चन्द्रभद्राकरौ द्वीपौ
चन्द्ररक्ताब्जरुग्जनौ ।
ऐलावृतं च भोजनम् ॥ ८६� ॥
अन्तर्भावः कुरुष्वब्धौ
सान्निध्यात्कीर्तितौ ततः ।

कुरुवर्षोपान्तवर्तिनि क्षाराब्धौ पञ्चचत्वारिंशद्योजनसह-स्राणि   

आवृत्य स्थितौ एकेन दिक्सन्धिना लक्षितौ दृश्यमानौ उत्तरवायव्यदिग्गतौ
सिद्धादिजुष्टौ चन्द्रभद्राकरौ द्वीपौ ज्ञेयौ । तत्र चन्द्रद्वीपे
चन्द्रद्युतिर्जनः । भद्राकरद्वीपे च रक्ताब्जरुचिः तद्वासिनां
चेलावृतोक्तमायुः अशनं च फलमूलानि । अब्धौ
यद्भूतवेदसहस्रसङ्ख्यं स्थान तस्मिंस्थिताविति व्यधिकरणे सप्तमी ।
सान्निध्यात् सामीप्यात् ॥ ८७� ॥

दीपिका ।

कुरुवर्षानन्तरं प्रसङ्गादुपद्वीपद्वयमुच्यत इत्याह   

अथात्रैवेत्यादि ॥

अध्यर्धानि सहस्राणि
द्वादशायुर्हिरण्मति ।
जनस्येन्दुत्विषो नित्य -
मश्नतो लैकुचं फलम् ॥ ८८ ॥

हिरण्यवत्सञ्ज्ञे वर्षे लिकुचफलाशिनश्चन्द्रकान्तेर्जनस्य   

सार्धद्वादशसहस्राण्यायुः ॥ ८८ ॥

नीलनीरजरम्यस्य
रम्यके द्वादश स्थितिः ।
जनस्याब्दसहस्राणि
न्यग्रोधफलमश्नतः ॥ ८९ ॥

रम्यकाख्ये वर्षे नीलाब्जद्युतेर्जनस्य वटफलाशिनो   

द्वादशसहस्राणि स्थितिः ॥ ८९ ॥

राजतद्युतिरिक्ष्वाद -
स्तावदायुर्हरौजनः ।
रौक्मः किम्पुरुषे प्लक्ष -
भोजनोब्दायुतस्थितिः ॥ ९० ॥

हरिवर्षे रजतप्रभः प्रागुक्तायुरिक्षुमेवान्नत्वेन समन्तादत्तीति   

इक्ष्वादः तदेकभोजनो जनः । किम्पुरुषवर्षे तु हेमाभः
प्लक्षफलाश्यब्दायुतजीवी च ॥ ९० ॥

इति किम्पुरुषादीनि
वर्षाण्युक्तानि यानि ते ।
न तेष्ववस्थाभेदोस्ति
विवर्तिषु कृतादिषु ॥ ९१ ॥
युगानुरूपप्रज्ञायु -
स्तेजोबलधनप्रजः ।
कृष्टाकृष्टाशनो दुःख -
त्रयार्तो भारते जनः ॥ ९२ ॥
गुण एको यदुद्युक्तो
नेष्टं किं किं न साधयेत् ।
सर्वासां फलभूमीनां
कर्मभूः कारणं यतः ॥ ९३ ॥

इत्थमुक्तेषु किम्पुरुषादिवर्षेषु युगपरिवर्तनेऽपि नावस्थाभेदोऽस्ति ।   

अस्मिंस्तु भारते वर्षे जनः कृतादियुगानुसारीणि
बुद्धिजीवितकान्तिवीर्यार्थापत्यानि यस्य स तथाविधः । एतानि बुद्ध्यादीनि
कृतादिषु युगेषु जनस्य यथायथं ह्रासवन्तीत्यर्थः ।
अध्यात्मिकाऽऽधिदैविकाऽऽधिभौतिकदुःखत्रयार्तः
कृष्टजाताकृष्टजातभोजीचात्र जनः । एकस्त्वयं गुणः यत्कृतोद्यमः
किम्पुनर्न साधयेत् । सर्वमेव १साधयितुमलमिति यावत् । कुत इत्याह
सर्वासामिति । यस्मात् फलभूमीनामियं कर्मभूमिः कारणम् । यदुक्तं
कर्मभूमिरियं ब्रह्मन् फलभूमिरितः परा । इह यत्क्रियते कर्म
तत्परत्रोपभुज्यते । सर्वासामित्यतिशयोक्तिरन्यत्रासम्भवात् ॥ ९३ ॥


१। तुम् ईशयतीति यावदिति पाठभेदः ।

दीपिका ।

सर्वासां फलभूमीनाम् इत्याशङ्काकरणपूर्वं व्याचष्टे । कुत   

इत्याहेत्यादि । तासु फलबाहुल्यादस्यां च कर्मबाहुल्यादेवमुक्तं
यतोऽत्रापि कर्मफलमेव भुज्यते । तासु च नहुपययातेरिवेन्द्रादीनां
सुकृतदुष्कृते श्रूयेते । ततः कर्मभूमिरियमित्याद्यपि ज्ञापकं युक्तमेव
॥ ९३ ॥

नवाब्धिस्रोतसि द्वीपा -
नवचात्रार्धकस्थले ।
इन्द्रद्वीपप्रभृतयो
नामतस्तान्निबोध मे ॥ ९४ ॥

अत्र भारते वर्षे नवभिराब्धिस्रोतोभिर्युक्तेऽर्धं कं येषां तानि   

अर्घकानि जलावृतार्धानि स्थलानि यत्र तस्मिंस्तादृशि । यथोक्तं
श्रीमत्किरणे जलं पञ्च स्थलं पञ्चेति एवं विधे भारते वर्षे
इन्द्रद्वीपादिद्वीपनवकं नामतोऽभिधीयमानमवधारय ॥ ९४ ॥

वृत्तिः ।

अथ तदाह ।  

इन्द्रद्वीपः कशेरुश्च
ताम्रवर्णो गभस्तिमान् ।
नागद्वीपश्चान्द्रमसो
गान्धर्वो वारुणस्तथा ॥
कुमारिकाख्यो नवमो
नानापर्वतनिम्नगाः ।
नानाजातिजनाकीर्णा
भारताख्ये प्रकीर्तिताः ॥ ९६ ॥

एते नव द्वीपा विविधजातिजनपदसङ्कुलाः भारतनाम्नि वर्षे   

कथिताः । द्वीपशब्दो १वाधिपाठात् पुंस्यपि ज्ञेयः ॥ ९६ ॥


१। वेकल्पिकतया नपुंसकपाठादित्यर्थः ।

दीपिका ।

इन्द्रद्वीपादीनां तदन्तरालाब्धिस्रोतसां च नवानां   

प्रमाणमुक्तं श्रीमत्स्वतन्त्रे । एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम् ।
शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा । इति । एवं च नवसहस्रस्य
भारतस्य सङ्ख्याविभागसिद्धिः । इन्द्रद्वीपादीनां च
दक्षिणसमुद्रात्प्रभृतिस्थितेरे (षकुमारिकाख्यद्वीप) इति ॥ ९६ ॥

आग्नीध्रो नाम नृपतिः
जम्बूनाथो मनोः कुले ।
तज्जातनृपसञ्ज्ञाभिः
कथ्यन्ते भारतादयः ॥ ९७ ॥

मनुवंश्यस्याऽऽग्नीध्रनाम्नो जम्बूद्विपाधिपतेर्भरतादयो नव   

पुत्रा आसन् । तत्प्रसाधितानि जन्बूद्वीपखण्डानि नव भारतादिसञ्ज्ञाभिः
प्रसिद्धानि ॥ १७ ॥

अथाब्धिसप्तकान्तरितद्वीपसप्तकमुच्यते ।  

क्षारक्षीरदधिस्नेह -
रसमद्यामृतोदकैः ।
लक्षादिद्विगुणा द्वीपा
जम्बूद्वीपादयो वृताः ॥ ९८ ॥

जम्बूद्वीपादिद्वीपसप्तकं क्षारक्षीराद्यब्धिसप्तकेन   

लक्षादिद्विगुणप्रमाणेनान्तरितं ज्ञेयम् । जम्बूद्वीपाख्यायाः कारणं
१द्वीपकेतुरभूज्जम्बूरित्यादिना पूर्वमुक्तम् ॥


१। अस्मिन् प्रकरणे षट्सप्ततितमश्लोकः ।

इदानीं शाकादिद्विपानां स्वसञ्ज्ञयाऽन्वर्थतां वक्ति ।

शाके शाकद्रुमस्तुङ्गः
शाकसञ्ज्ञानिबन्धनः ।
कशोऽभूत्काञ्चनः कौशे
स्वयम्भुवि यियक्षति ॥ ९९ ॥

शाकद्वीपे शाकाख्यो वृक्ष उन्नतः शाकाख्याया हेतुः । ब्रह्मणि   

यष्टुमिच्छति हैमकुशोत्पत्तिः कौशद्वीपे कुशसञ्ज्ञाकारणम् ॥ ९९ ॥

क्रौञ्चे क्रौञ्चो हतो दैत्यः
क्रौञ्चाद्रौ हेमकन्दरे ।
स्कन्देन यद्ध्वा सुचिरं
चित्रमायी सुमायिना ॥ १०० ॥
स शैलस्तस्य दैत्यस्य
ख्यातश्च्छिद्रेण कर्मणा ।
केतुतामगमत्तस्य
नाम्ना क्रौञ्चं तदुच्यते ॥ १०१ ॥

क्रौञ्चे द्वीपे काञ्चनकन्दरे क्रौञ्चाद्रौ युध्यमानः
क्रौञ्चाख्यो दैत्यः कार्तिकेयेन हत इति
क्रौञ्चाद्र्युपलक्षितत्वाङ्क्रौञ्चद्वीपसञ्ज्ञा ॥ १०१ ॥

शाल्मले शाल्मलिर्वृक्षो
हैमस्साहस्रिकोऽर्कभाः ।
प्रियोऽमराणां तत्केतु -
स्स तदाख्यानिबन्धनम् ॥ १०२ ॥

सहस्रयोजनोन्नतस्सूर्यद्युतिश्शाल्मलिर्वृक्षः शाल्मलिद्वीपे । तस्या   

आख्याया निबन्धनं स्थानम् ॥ १०२ ॥

गोमेदे गोपतिर्नाम
राजाभूद्गोसवोद्यतः ।
याज्योऽभूद्वह्निकल्पाना
मौतथ्यानां मनोः कुले ॥ १०३ ॥
स तेषु हरियज्ञाय
प्रवृत्तेषु भृगून् गुरून् ।
वव्रे तं गौतमः कोपात्
अशपत्सोगमत्क्षयम् ॥ १०४ ॥
यज्ञवाटेऽस्य ता गावो
दग्धाः कोपाग्निना मुनेः ।
तन्मेदसा मही च्छन्ना
गोमेदस्स ततोऽभवत् ॥ १०५ ॥

गोसवाख्ययज्ञकृद्गोपतिसञ्जा राज्ञो - मनुवंश्यः   

उतथ्यवंश्यानामग्निवत्तेजस्विनामौतथ्यानां याज्योऽभूत् । तेषु
चौतथ्येषु इन्द्रयज्ञार्थं गतेषु स भृगून् गुरुत्वे वृणीत ।
क्रोधाद्गौतमोऽशपत् । स क्षयं ययौ तस्य यज्ञवाटगता गावो
गौतमक्रोधाग्निना दग्धाः । तन्मेदश्च्छन्नभूतलत्वात् गोमेदसञ्ज्ञो
दीपः ॥ १०५ ॥

नदी पुष्करिणी नाम्
हेमपुष्करमण्डिता ।
तया स पुष्करद्वीपः
ख्यापितस्सुरसेवितः ॥ १०६ ॥

वृत्तिः ।

हेमाब्जया पुष्करिण्याख्यया नद्योपलक्षितो देवजुष्टः पुष्करद्वीपः   

॥ १०६ ॥

यथा किम्पुरुषाद्येषु
कृतावस्थस्सदा जनः ।
शाक्तद्वीपादिषु तथा
क्षीरादिकृतभोजनः ॥ १०७ ॥
हिमेन्दुहिमनीलाब्ज
सस्यकस्फटिकद्युतिः ।
दशवर्षसहस्रायु -
र्नष्टदुःखैककण्टकः ॥ १०८ ॥

किम्पुरुषादिषु वर्षेषु यद्वत्त्रेतादियुगेष्वपि कृतयुगावस्थो जनः   

तथा शाकादिद्वीपेषु क्षिराद्याहारो यथाक्रमं
तुहिनचन्द्रादिकान्तिर्दशवर्षसहस्रजीवी दुःखाख्यमहाशोकनिर्मुक्तो
ज्ञेयः ॥ १०७ - १०८ ॥

सप्तमादुदधेरर्वाक्
द्वे कोटी सत्त्रिकं दलम् ।
पञ्चाशच्च सहस्राणि
कर्णाद्धेमाद्रिगर्भतः ॥ १०९ ॥

सप्तमादुद्रधेरर्वागिति । मेर्वाभिमुख्येन तस्यैव   

मेरोर्गर्भतस्तन्मध्यभागादारभ्य । कर्णादिति । विष्कम्भ
शैलानामन्तरालभागादिलावृतवर्षजनितकोणक्रमात् । कोटिद्वयं त्रिकेन
सहतं दलं कोट्यर्धं त्रिपञ्चाशल्लक्षाणि । सहस्रं पञ्चाशच्च
प्रमाणम् ॥ १०९ ॥

दीपिका ।

अर्धकस्थलमित्यस्य व्याख्यातमर्थमुपसंहरति ।   

त्रिपञ्चाशल्लक्षाणीति । एतच्च द्विकोट्यादिप्रमाणजम्बूद्वीपावृतस्य
क्षाराब्धेरस्यार्धलक्षप्रमाणत्वात् ततः परं षण्णां
द्वीपानामुत्तरोत्तरं लक्षादिद्विगुणत्वात् क्षीराद्यब्धिषट्कस्य तावत्
प्रमाणमर्थात्सिद्धम् ॥ १०९ ॥

ततो हिरण्मयी भूमि -
र्नानारत्नद्रुमाचला ।
क्रिडार्थं वेधसा सृष्टा
देवानां दशकोटिकी ॥ ११० ॥

विविधानि रत्नानि द्रुमा अद्रयश्च यस्यास्सा । सुराणां विहरणाय   

हेममयी योजनकोटिदशकप्रमाणा भूः धात्रा निर्मिता ॥ ११० ॥

लोकालोको बहिस्तस्या
लोकालोकनियामकः ।
योजनायुतविष्कम्भ -
स्तुङ्गशृङ्गपरिच्छदः ॥ १११ ॥

अन्तस्स्थितं लोकं बहिस्स्थितं चालोकं नियमयतीति लोकालोकनियामकः
। तद्बाह्ये लोकाभाव इत्यर्थः । योजनायुतविष्कम्भ इति ।
दशसहस्रविस्तारोऽत्युच्छ्रितशृङ्गपरीवारः ॥ १११ ॥

यस्य शृगेषु तीक्ष्णांशो -
र्भासश्चन्द्रातपोपमाः ।
न तापयन्ति वैकृष्ट्या -
द्धामान्याशाभृतां मुने ॥ ११२ ॥

लोकांलोकस्याद्रेरत्युन्नतत्वात् शिखरस्थितानि लोकपालविहरणगृहाणि   

अर्कभाभिर्विप्रकृष्टत्वात् ज्योत्स्नावदालोकमात्रहेतुर्भिर्न तप्यन्ते ॥ ११२ ॥

तमः परस्तान्निबिडं
लक्षाण्येकोनविंशतिः ।
चत्वारिंशत्सहस्राणि
पञ्चत्रिंशच्च कोटयः ॥ ११३ ॥
सप्तविंशतिलक्षाणि
कोटिश्चैका समुद्रराट् ।
हैमं कटाहकं कोटि-
र्गर्भादिति समन्ततः ॥ ११४ ॥

लोकालोकस्य बहिर्घनमन्धकारं पञ्चत्रिंशत्कोट्या   

एकोनविंशतिलक्षाणि सहस्रचत्वारिंशता सह । तद्बाह्ये तु
गर्भोदाख्योऽब्धिराजो योजनकोट्या सप्तविंशत्यालक्षैर्विस्तीर्णः तस्याऽपि
बहिः कोटिप्रमाणं काञ्चनं कटाहमिति कोटिशतप्रविभागः ॥ ११४ ॥

दीपिका ।

कोटिशतप्रविभाग इति अण्डभित्त्या सह   

हेमभूमिपर्यन्तास्सप्तचत्वारिंशत्कोटय षट्चत्वारिंशल्लक्षाणि सहस्रं
पञ्चाशच्च प्रमाणम् । तदन्तस्सप्तमाब्धेर्मेरुमध्यान्तं कोटिद्वयं
त्रिपञ्चाशल्लक्षाणि सहस्रपञ्चाशच्चेत्येवमेकस्मिन् पार्श्वे
पञ्चाशत्कोटयो योजनानां परस्मिन्नपि तथेति शतकोटिविस्तीर्णं
ब्रह्माण्डमिति ॥ ११४ ॥

वृत्तिः ।

एवं भूलोकस्य विस्तारप्रमाणमुक्त्वा   

भुवर्लोकादिलोकषट्कस्योच्छ्रायमानमाह ।

तिथिलक्षो भुवर्लोको
ध्रुवप्रान्तो महीतलात् ।
तदूनकोटिस्स्वर्लोकः
स्वर्गिवर्यसमाश्रयः ॥ ११५ ॥
महो द्विकोटिर्यत्रास्ते
मरीच्यादिमुनिव्रजः ।
जनोष्टकोट्यवच्छिन्नः
१पितृजह्नुजनाश्रयः ॥ ११६ ॥
तपोर्ककोटिर्यत्राऽऽस्ते
महायोगी सनन्दनः ।
ऋभुस्सनत्कुमारश्च
सनकश्च महातपाः ॥ ११७ ॥
ततस्सत्यधियस्स्थानं
सत्यलोकस्स्वयम्भुवः ।
कामातिशयसम्पन्नः
कोटयो नव सप्त च ॥ ११८ ॥
सावित्री मूर्तिमत्यास्ते
यत्र वेदाश्च सानुगाः ॥ ११९ ॥


१। समाश्रय इति पाठभेदः ।

वृत्तिः ।

महीतलाद्भूपृष्ठादारभ्य ध्रुवप्रान्त इति ।   

ज्योतिश्चक्रालम्बनभूतध्रुवपर्यन्तः पञ्चदशलक्षोच्छ्रायो भुवर्लोकः ।
पञ्चाशीतिलक्षोच्छ्रायस्तु स्वर्गिवर्याणां स्वर्वासिमुख्यानामास्पदं
स्वर्लोकः । महोलोको मरीच्यादिमुनिबृन्दस्थानं द्विकोटिः ।
जनोलोकस्त्वष्टकोटिपरिच्छिन्नः पितॄणां जह्नु?प्रभृतीनां मुनिजनानां
निवासः । तपोलोको द्वादशकोट्युच्छ्रायः । सनन्दन
ऋभुसनत्कुमारसनकाद्याश्रयः । ततोऽनन्तरं सत्यैकबुद्धित्वात्
प्राप्तकल्पाधिपत्यस्य ब्रह्मणस्स्थानं सकलैश्वर्यसम्पत्तिमान्
षोडशकोट्युच्छ्रितस्सत्यलोकः । यस्मिन् मूर्तिमती सावित्री
वेदोपवेदाश्चाऽऽसते ॥ ११९ ॥

दीपिका ।
तिथिलक्ष इत्यादिना पूर्वोक्तशेषभूतं भूपृष्ठात्
प्रभृत्युच्छ्रायमाह । एवमित्यादि ॥ ११९ ॥

ततश्चतस्रष्षट्चेति
मधुत्रिपुरविद्विषोः ।
स्थाने ज्योतिष्मती चित्रे
कोटिरण्डकटाहकः ॥ १२० ॥
शतकोटिप्रविस्तीर्ण
इति ब्रह्माण्डगोलकः ।
भूयसा तुल्य एवायं
सर्वस्स्रोतस्सु मानतः ॥ १२१ ॥

तदुपरि चतस्रः कोटयो मधुविद्विषो विष्णोः कान्तिमत् स्थानम् ।
त्रिपुरविद्विषश्च शम्भोस्तादृग्विधष्षट्कोट्युच्छ्रायः ।
अण्डकटाहकश्चैककोटिः । इत्थं भूर्लोकादधो
यथापञ्चाशद्योजनकोटयः । तथा तदूर्ध्वं पञ्चाशदेवेति
ब्रह्माण्डपिण्डश्शतकोटिविस्तारोच्छ्रायः । अयं च
सर्वेषूर्ध्वपूर्वदक्षिणपश्चिमोत्तरेषु स्रोतस्सु प्रायेण तुल्यमानाकृतिः ॥
१२१ ॥

तस्य प्राचीं दिशं शक्रः
पात्यग्निः पूर्वदक्षिणाम् ।
दक्षिणां भूतसंहर्ता
राक्षसो दक्षिणापराम् ॥ १२२ ॥
पश्चिमां वरुणो देवो
नभस्वान् पश्चिमोत्तराम् ।
उदीचीं सोमयक्षेशा -
वीशः प्रागुत्तरां दिशम् । १२३ ॥
ऊर्ध्वं ब्रह्म हरिरधः
सर्वार्थावहितास्सदा ॥ १२३� ॥

तस्य ब्रह्मण्डस्य प्राच्यादिदिक्पालकाः इन्द्रादयः । उदीच्यां
सोमवैश्रवणौ । ऊर्ध्वं ब्रह्मा पालकस्स्थितः । अधस्तु विष्णुः । एते च
नित्यं सर्वात्मना सावधानास्स्थिताः ॥ १२३� ॥

एषामपि नियन्तारो
रुद्रा दश दश स्थिताः ।
भूतिमन्तोप्यमी येषां
नोत्क्रामन्ति भयात्पदम् ॥ १२४� ॥
नानारूपैर्महावीर्यै
स्तरुणार्कसमप्रभैः ।
वृता नानायुधधरैः
नामभिस्तान्निबोध मे ॥ १२५� ॥

एषां लोकपालानां रुद्रा अधिष्ठातारः प्रतिदिशं दशदश   

स्थिताः । यद्भीत्या महैश्वर्ययुक्ता अप्येते स्वं स्वं स्थानं पालकत्वेन
नोझन्ति । एते
चानेकाकारैर्विविधायुधधरैरतिबलैर्बालार्ककान्तिभिरनुचरैर्वृताः ॥
१२५� ॥
दीपिका ।

एषामपीत्यादिसूत्रं व्याचष्टे । एषां लोकपालानामित्यादि । अत एव   

तदधिष्ठातृत्वाद्वक्ष्यमाणमण्डपपूजादौ इन्द्रादिद्वारेण शतरुद्रा
एवपूज्या इति भावः । नहि पारमेश्वरे शास्त्रे पशवः पाशाश्चेज्यन्ते ॥
१२५� ॥

वृत्तिः

अथैषां नामान्याह -  

बुध्नवज्रशरीराज
कपालिशप्रमर्दनाः ।
विभूतिरव्ययश्शास्ता
पिनाकी त्रिदशाधिपः ॥ १२६� ॥

एते शक्रस्य नियन्तारः ॥ १२६ ॥

अथाग्नेः ।  

भस्मक्षयान्तकहर -
ज्वलनाग्निहुताशनाः ।
पिङ्गलः खादको बभ्रु -
र्दहनश्चाग्निदिग्गताः ॥ १२७� ॥
विधातृधातृकर्तारो
याम्यमृत्युवियोजकाः ।
धर्माधर्मेशसंयोक्तृ
हराश्च यमनायकाः ॥ १२८� ॥

नि-ऋ-ऋत्यधिपतीनाह ।

नि-ऋ-ऋतिर्मारणो हन्ता
क्रूराक्षो धूम्रलोहितौ ।
ऊर्ध्वलिङ्गविरूपाक्ष
दंष्ट्रिभीमाः पलादपाः ॥ १२९� ॥

पलं मांसमत्तीति पलादः पिशिताशनो राक्षसः नि-ऋ-ऋतिः तं   

पान्तीति पलादपाः ॥ १२९� ॥

अथ वरुणेशानाह ।  

बलातिबलपाशाङ्क
श्वेतभद्रजलान्तकाः ।
महाबलमहाबाहु
सुनादाब्दरवाः कपाः ॥ १३०� ॥

अब्दरवो मेघनादः । कं जलं पान्ति रक्षन्तीति कपाः ।  

अथ वाय्वधिपा उच्यन्ते -  

लघुशीघ्रमरुद्वेग
सूक्ष्मतीक्ष्णक्षयान्तकाः ।
कपर्द्यब्देशपञ्चान्त
पञ्चचूडाश्च वायुपाः ॥ १३१� ॥
निधीशरूपवद्धन्य
सौम्यलक्ष्मीजटाधराः ।
प्रकामश्रीरत्नधर -
प्रसादाश्चेन्दुयक्षपाः ॥ १३२� ॥

इन्दुयक्षपा इति इन्दुयक्षयोरुत्तरदिक्पालत्वेन पूर्वमुक्तयोरेते पतयः ।  

१विद्येशसर्ववित्ज्ञानि
वेदविज्ज्येष्ठवेदगाः ।
विद्याविधातृभूतेश
बलिप्रियसुखाधिपाः ॥ १३३� ॥

वृत्तिः ।

ईशानदिक्स्थाने इमे विद्येशादयो नियन्तारः ॥  

अथोपरिष्टादुच्यन्ते ।


१। सर्वविद्येशसर्वज्ञज्ञानिज्येष्ठेशवेदगा । बलिप्रियसुरेशानभूतेशा
दर्शनायकाः ॥ इति पाठभेदः ।

शम्भुर्विभुर्गुणाध्यक्ष -
१स्त्र्यक्षश्च त्रिदशेश्वरः ।
विचक्षणनभोलिप्सु -
संविवाहाश्च मूर्धनि ॥ १३४� ॥

शम्भ्वादयो दशरुद्राः मूर्धनीति ब्रह्मणोऽधिष्ठातृत्वे स्थिताः ।   

वाहशब्दस्सम्पूर्वो विपूर्वश्च रुद्रयोस्संवाहविवाहयोर्वाचकः ॥ १३४� ॥

ब्रह्माण्डादधोवर्तिनो रुद्रान् कथयितुमाह ।

२क्रोधनोऽनिलभुग्भोगी
ग्रसनोदुम्बरेश्वरः ।
विषो विषधरोऽनन्तो
वज्रो दंष्ट्री च विष्णुपाः ॥ १३५� ॥
ततोम्भः प्रमुखा भोग-
भूमयस्तासु संस्थिताः ।
पञ्चाष्टकानि योक्तॄणां
क्षेत्रावाप्तफलश्रियः ॥ १३६� ॥

अनन्तरं ब्रह्माण्डस्योपरिष्टात् यथायथं
जलाद्याभोगभूमयस्तासुचाष्टकाः अष्टपरिमाणाः पञ्च गणा
रुद्राणां स्थिताः । कीदृशा इत्याह नियोक्तॄणां क्षेत्रावाप्तफलश्रियः ।
क्षेत्रात्तदध्यासितात् स्थानादवाप्ता या फलश्रीस्तस्या नियोक्तॄणां
सम्पादकानाम् । तत्तदध्यासितक्षेत्रफलसम्पत्तिस्तत्प्रसादादेव
फलतीत्यर्थः ॥ १३६� ॥


१। त्र्यक्षश्चण्डामरस्स्तुता इति पाथः ।
२। बुध्नवज्रेति श्लोकादारभ्य क्रोध नोऽनिलेतिश्लोकपर्यन्तेषु पद्येषु
बहवः पाठभेदास्सन्ति अर्थवै परीत्याभावाप्तात्र घटिता ।

दीपिका ।

ततोम्भःप्रमुखा इत्यादिव्याचष्टे अनन्तरमित्यादि । अमीषां   

चाप्तत्वादीनां प्रमाणमिह नोक्तम् । श्रीमन्मतङ्गादितो ज्ञातव्यम् ।
यदुक्तं तत्र १तस्माद्दशगुणं तोयं तोयादग्निस्ततोऽनिलः ।
अनिलाच्चाप्यथाकाशं शास्त्रेऽस्मिन् पारमेश्वरे । आकाशाच्चाप्यहङ्कारः
तस्माच्च परतो महान् । महतः परतो ज्ञेयं गुणानां त्रितयं मुने ।
गुणत्रयात्प्रधानाख्यं तत्वं दशगुणोत्तरम् । शतोत्तरगुणानि
स्युश्शेषाण्युक्तानि शासने । मायान्तानि तु तत्वानि तेभ्योह्यूर्ध्वं
सहस्रधा । यावत्सादाशिवं तत्वं तत्परं लक्षधास्थितम् । चतुष्कं
शान्तिपर्यन्तं ततोऽमेयः परश्शिवः इति । तत्तदध्यासितक्षेत्रफलसम्पत्तिरिति
। ततद्भुवनेश्वराराधनतस्तत्तद्भुवनप्राप्तिरित्यर्थः ॥


१। प्रमाणपटले चत्वारिंशश्श्लोकः ।

वृत्तिः ।

अतस्तेषां नामान्याह -  

भारभूत्याषाढडिण्डि -
लाकुल्यमरपुष्कराः ।
प्रभासनैमिशौ चेति
गुह्याष्टकमिदं जले ॥ १३७� ॥

एतदम्भस्तत्वतस्स्थितं गुह्याष्टकम् । १३७� ॥

दीपिका ।

एतानि च भारभूत्यादिपञ्चाष्टकस्थानानि भारतवर्षेऽपि   

तत्तद्भुवनप्राप्तिनिमित्तं तत्तन्नाम्ना स्थितानि ज्ञेयानि । यदुक्तं मतङ्गे =
तत्प्राप्त्या भारते पुण्ये मानुषाणां हिताशया । निमित्तानि पुरा धात्रा
येषु सन्निहितो हर इति ॥ १६७� ॥

श्रीशैलजल्पकेदार -
भैरवाम्रातकेश्वराः ।
हरिश्चन्द्रमहाकाल -
मध्यास्सातिपदारुचौ ॥ १३८� ॥

सतिपदा इति । सह अतिपदेनैते वर्तन्ते अति गुह्याष्टकमेतदिति यावत् ।   

रुचाविति । तेजस्तत्वे व्यवस्थिता इत्यर्थः ॥ १३८� ॥

महेन्द्रभीमविमल -
कुरुक्षेत्रगयाखलाः ।
सनापदोत्तरास्साट्ट -
हासास्सनखलाः खगे ॥ १३९� ॥

सनापदोत्तरा इति । सह नापदेन वर्तत इति सनापदः उत्तरोऽन्त्यः
खलशब्देनोक्तो रुद्रो येषान्ते महेन्द्राद्यास्सनाखला इत्यर्थः । खगे
नभस्वति वायुतत्वे । १गुह्याद्गुह्याष्टकमेतत् ॥ १३९� ॥


१। गुह्यतरमित्यर्थः ।

दीपिका ।

वायुतत्वस्थञ्चाष्टकं गुह्याद्गुह्यतराष्टकम् ॥ १३९� ॥  

स्थाणुस्वर्णाक्षगोकर्ण -
भद्रकर्णमहालयाः ।
वस्त्रापदाविमुक्ताह्व -
रुद्रकोट्यः खमण्डले ॥ १४०� ॥
पवित्राष्टकमित्याहुः ॥

खमण्डल इति । आकाशतत्वे एतत्पवित्राष्टकमिति वदन्ति ॥ १४०� ॥  

गर्वमात्रेन्द्रियोदरे ।
स्थाण्वष्टकं द्विजश्रेष्ठ
नामतः कथयामि ते ॥ १४१� ॥

गर्वमात्रेन्द्रियोदर इति । अहङ्कारतन्मात्रेन्द्रियतत्वान्तर इत्यर्थः ।
वक्ष्यमाणमाकोटादिस्थाण्वष्टकं स्थितम् ॥ १४१� ॥

दीपिका ।

अथ गर्व इत्यादि व्याचष्टे । अथ गर्व इत्यादि । ननु तन्मात्रेष्वथ ये   

रुद्रा योगैश्वर्यगुणान्विताः इत्यादिना श्रीमन्मतङ्गे तन्मात्रेष्वपि
विश्वेदेवानां भुवनानि पठ्यन्ते ।
तत्कथमहङ्कारादितन्मात्रान्ततत्वमध्येऽष्टकमेव स्थितमित्युक्तम् । अत
एव तान्यपि भुवनदीक्षायामत्रेतदष्टकान्तर्गान्येव शोद्ध्यानीति
ज्ञापयितुमित्यविरोधः ॥ १४१� ॥

वृत्तिः ।

तेषां नामान्याह ।  

माकोटमण्डलेशान -
द्विरण्डच्छगलण्डकाः ।
स्थलस्थूलेश्वरौ शङ्कु -
कर्णकालाञ्जनावपि ॥ १४२� ॥

वृत्तिः ।

अथ बुद्धितत्वस्थं भुवनाष्टकमाह ।  

सूक्ष्मामरपुराण्यष्टौ
बुद्धौ पैशाचमादितः ।
राक्षसं याक्षगान्धर्वं
माहेन्द्रं च महर्धिमत् ॥ १४३� ॥
सौम्यं प्राजेश्वरं ब्राह्मं
दीप्तं परमया श्रिया ॥ १४४ ॥

बुद्धितत्त्वे सूक्ष्मभुवनाष्टकम् । तेषु पैशाचमादित इति । आदौ   

पैशाचं ततो राक्षसादिब्राह्मान्तम् । दीप्तं परमया श्रियेति । महर्धिमतो
माहेन्द्रादप्यतिशायि अधिककान्ति ॥ १४४ ॥

दीपिका ।

बुद्धितत्वे सूक्ष्मभुवनाष्टकमिति । सूक्ष्ममेतद्देवयोन्-यष्टकं   

स्थूलानां देवयोनीनामण्डमध्यस्थत्वात् । यदाहुस्साङ्ख्याः
अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा भवति ।
मानुष्यश्चैकविधस्समासतो भौतिकस्सर्गः । इति ॥ १४४ ॥

वृत्तिः ।

अथ गुणतत्वयोगिनां भुवनाष्टकमाह ।  

गौणे योगीशधामानि
त्वकृतं कृतभैरवम् ।
ब्राह्मवैष्णवकौमार -
मौमं श्रीकण्ठमन्तिमम् ॥ १४५ ॥
वीरभद्रस्य रुचिम -
द्धामयोगिवरस्तुतम् ।
स्वपदाधोऽधिकारस्थ
सर्वरुद्राधिकश्रियः ॥ १४६ ॥

स्वस्मात्पदादधोऽधिकारस्थेभ्योह्यधिका   

श्रीर्यस्यसाक्षात्परमेश्वरानुगृहीतत्वात् तस्य वीरभद्रस्य
योगिभिरभिष्टुतं भास्वरं भुवनम् । अत्रैव चैते रुद्रा गुणतत्वमूर्धनि
स्थिताः ॥ १४६ ॥

दीपिका ।

कृतभैरवमिति । कृतं च भैरवं चेति यावत् । वीरभद्रस्येत्यादि   

व्याचष्टे स्वस्मात्पदादित्यादि । अत एव भारभूत्यादयो भुवनेश्वरा
अनन्तनियुक्ता एव । किञ्चामी गुणतत्ववासिनश्श्रीकण्ठस्याऽपि प्रेर्या
इत्युक्तम् । श्रीकण्ठानुमितास्सर्वे चामोघा बलशालिनः । इति । तस्याऽपि
१शिवनियुक्तत्वाच्च । तस्माद्गुणतत्वादूर्ध्वं प्रधानस्याधोभागे
वीरभद्रस्य भुवनं गुणतत्वान्तमध्यमप्रलयकालेप्यवस्था-नार्थम्
उक्तम् । यद्वक्ष्यति । तदा रुद्रशतं वीरश्रीकण्ठौ च प्रधानपाः ।
शक्त्याक्रम्य जगत्सूक्ष्मं सूक्ष्मदेहांश्च चिद्वतः । प्रकृतिस्थाशयान्
कालं तत्स्वापान्तमुपासते इति । अत एव मतङ्गे श्रीकण्ठस्य
प्रधानाद्यभुवनमुक्तम् । एतत्स्थितिकाले तु शतरुद्राणामिव
वीरभद्रस्याऽपि अण्डोर्ध्वमेव । अधिकारोऽप्यस्य तदवधिरेव । न तु
श्रीकण्ठस्येव गुणतत्वावधिरिति बोद्धव्यम् । यदुक्तं रौरवे
शतरुद्रादयः ख्याता वीरभद्रपुरस्सराः । श्रीकण्ठाधिष्ठितास्सन्त इति ।
अन्यत्राप्युक्तम् अण्डस्याधारकाह्येव वीरभद्रपुरस्सरा इति । ततश्च
तत्स्थान एव तद्भुवनं शोद्ध्यम् गुणतत्व इव श्रीकण्ठभुवनमिति गुरवः
। वामदेवादयस्तु त्रयोदशरुद्रा वीरभद्रस्याधो गुणमूर्धन्येव स्थिता
इत्याह । अत्रैव चेत्यादि ॥ १४६ ॥


१। अनन्तनियुक्ता एवेति पूर्वेणान्वयः ।

के त इत्याह -  

वामदेवभवानन्त
भीमोमापत्यजेश्वराः ।
सर्वेशानेश्वरावेक -
वीरैकशिवसञ्ज्ञिताः ॥ १४७ ॥
उग्रः प्रचण्डदृक् चेशः
गुणानां मूर्ध्नि संस्थिताः ।
तपसा गुरुणोपास्य
क्रोधादीन् गुरुतां गताः ॥ १४८ ॥
स्वाधिकारविधौ तीक्ष्णा
रुद्रास्सर्वार्थदृक्क्रियाः ॥ १४८� ॥

ऊर्ध्वस्थान् क्रोधेशादीन् महता तपसाऽऽराध्य   

गुरुतामनुग्रहकृत्त्वं प्राप्ताः । निजेऽधिकारविधौ तीक्ष्णाः रुद्राः
कुशलाः सर्वार्थज्ञानक्रियायोगिनश्चैते ॥ १४८� ॥

दीपिका ।

सर्वार्थज्ञानक्रियायोगिन इति स्वावधिकविषयमेव ॥ १४८� ॥

तेभ्यो दशगुणश्रीकान्
प्रधानाधिपतीन् शृणु ।
क्रोधेशचण्डसंवर्त -
ज्योतिः पिङ्गलशूरगाः ॥
पञ्चान्तकैकवीरौ च
शिखेद इति ते स्मृताः ॥ १५० ॥

वामदेवादिभ्यः प्रागुक्तेभ्यो दशगुणा श्रीर्येषां ते । इमे   

क्रोधेशादयः प्रधानाधिपाः ॥ १५० ॥

दीपिका ।

तेभ्य इत्यादि व्याचष्टे वामदेवादिभ्य इत्यादि । चण्डसंवर्तक   

इत्येकस्यैव नाम । एते च क्रोधेशादयोऽष्टौ शिवनियुक्ता एवेत्युक्तम् ॥

सर्वेन्द्रियस्सर्वतनु -
स्सर्वान्तःकरणाश्रयः ।
पुरुषे नियतौ यन्ता
कले कलनशक्तिमान् ॥ १५१ ॥

वृत्तिः ।

पुरुषतत्ववर्तिनि भुवने सर्वेन्द्रियत्वादिविशेषणविशिष्टो   

रुद्रोऽधिष्ठाता । यदुक्तं प्राक्पुंस्तत्वनिरूपणावसरे १भौवने
रुद्रसंश्रयमिति । एवं नियतौ नियन्तृसञ्ज्ञः काले च कलनशक्तिमान्
स्थितः ॥ १५१ ॥


१। कलादिप्रकरणेऽष्टादशश्लोकः ।

दीपिका ।

पुरुषतत्वर्तिनीत्यादि । एतच्च भुवनं प्रधानमूर्ध्नि   

रागादिभुवनाधोभाग एवावस्थितं पुरुषस्य भुवनाधारत्वायोगात्
इत्युक्तम् । एतदेव ज्ञापयति यदुक्तमित्यादि ॥ १५१ ॥

भुवनेशमहादेव
वामदेवभवोद्भवाः ।
एकपिङ्गेक्षणेशाना -
ङ्गुष्ठमात्राश्च भास्वराः ॥ १५२ ॥
परमेशोपमा राग -
विद्यागर्भे कलापदे ।
महापुरचतुष्षष्टि -
मण्डले मण्डलाधिपाः ॥ १५३ ॥

रागविद्येगर्भे प्रागुक्तरीत्या यस्मिंस्तस्मिन्
कलाभुवनेऽष्टाष्टक्रमेण श्रीमन्मतङ्गाद्युक्तेन क्रमेण
महापुरचतुष्षष्टिमण्डलं यत्स्थितं तत्रामीभुवनेशादयो
मण्डलाधिपतयः परमेश्वरोपमशक्तिमत्वात् सुकान्तयस्स्थिताः । कथं
पुनश्चतुष्षष्टिमण्डलं स्थितमिह नोक्तम् । श्रीमन्मतङ्गादिनोक्तं
ज्ञेयम् ॥ १५३ ॥

दीपिका ।

तस्मिन् कलाभुवन इति भुवनशब्देनात्र स्थानमुच्यते ।   

रागादिकलान्ताध्वनीत्यर्थः । तत्रामी भुवनेशादय इति । अत
एवैतच्छुद्ध्यैव दीक्षायां तेषामपि शुद्धिरिति भावः ।
परमेश्वरोपमशक्तिमत्वात् सुकान्तय इति । अतश्च क्रोधेशादय एतेऽपि
मण्डलिनः शिवानुगृहीता एव । नतु गहनेशादिवत् अनन्तनियुक्ता इति । कथं
पुनः गहनेशादयो मण्डलाधिपतीश्वरा इत्यनन्तरमेव वक्ष्यति ।
ऊर्ध्वस्थभुवनवासित्वमात्रेण तेषां प्रेरकत्वमुक्तमित्यविरोधः ॥ १५३ ॥

वृत्तिः ।

अथ तेषामप्यधिपतीनाह -

अनन्तस्त्रिकलो गोप्ता
क्षेमीशो ब्रह्मणः पतिः ।
ध्रुवतेजोऽधिपौ रुद्रौ
गहनेशश्च विश्वराट् ॥ १५४ ॥
मायाधिकारिणो रुद्रा
मण्डलाधिपतीश्वराः ।
संसारचक्रकारूढ -
भूतग्रामविवर्तकाः ॥ १५५ ॥
एतावत्येव घोरेयं
सर्वभूतभवाऽवनिः ।
सीदन्त्यज्ञानिनो यस्यां
पङ्के गाव इवाबलाः ॥ १५६ ॥

अमी मायाधिकारिणोऽनन्तेशादयोऽष्टौ रुद्रास्संसार   

एवाजस्रभ्रमाच्चक्रम् तदारूढस्य भूतग्रामस्य विवर्तकास्सांसारिकाः
। इयत्येव चैषा घोराऽशिवा सर्वभूतानां भूमिः । यस्यामविद्वांसः
कर्दमनिमग्नाशक्तबलीवर्दवदवसादं यान्ति ॥ १५६ ॥

दीपिका ।

इयानेव मायीयो शुद्धाध्वा इत्याह इयत्येवेत्यादि ॥ १५६ ॥
अथ विद्याभुवनस्था विद्याराज्ञ्य उच्यन्ते ।

भृगुणी ब्रह्मवेताली
स्थाणुमत्यम्बिका परा ।
रूपिणी नन्दिनी ज्वाला -
स्सप्तस्सप्तार्बुदेश्वराः ॥ १५७ ॥
विद्याराज्ञ्यस्तु कथिता
विद्यायां रुद्रसंस्तुताः ॥ १५७� ॥

एतास्सप्तविद्याराज्ञ्योऽनन्तरोक्तमण्डलाधिपतिरुद्राभिष्टुता-  

स्सप्तानां मन्त्रकोटीनामीश्वर्यः ॥ १५७� ॥

दीपिका ।

भृगुणीत्यादिना शुद्धाध्वभुवनान्युच्यन्त इत्याह अथेत्यादि ।

तासामुपरि दीप्तश्री -
र्देवो विद्याधिपस्स्थितः ।
मन्त्रेशेशचिदाविष्ट -
रुद्रव्यूहाष्टकानुगः ॥ १५८� ॥
उच्छुष्माश्चाबराश्चण्डा
महावीर्याः पदद्रुहः ।
रुद्रा गणास्सदिक्पालाः
शास्त्राणि पतयस्स्थिताः ॥
ते चानन्तप्रभृतयो
गदिता एव नामतः ।
स्वरूपतश्च ते विप्र
पूर्वं प्रश्नानुषङ्गतः ॥ १६० ॥

भृगुणीप्रभृतीनां विद्याराज्ञीनामूर्ध्वं विद्याधिपाख्यो रुद्रो   

दीप्तश्रीः निरतिशयज्ञानक्रियासम्पद्युक्तः स्थितः । कीदृगित्याह मन्त्रेशेति
मन्त्रेशानामनन्तादीनां प्रेरकत्वेनेश ईश्वरभट्टारकः
तच्चिदाविष्टास्तदुत्तेजितदृक्क्रिया ये रुदाः तेषां यद्व्यूहाष्टकं
तदनुगं यस्य स व्यूहाष्टकानुगः । तत्र ये रुद्रास्स्थितास्ते ईश्वरप्रेर्या
इत्यर्थः । उक्तञ्च । ईश्वरोऽधस्थविद्यानां पतीन् स प्रेरयत्यणून् । तेन
प्रेरितमात्रास्ते कुर्वतेऽधस्तनं जगदिति । उच्छुष्मादयश्च रुद्राः
गणाश्चात्र देवीस्कन्दचण्डेशवृषप्रभृतयः दिगीश्वराश्चेन्द्रादयः ।
शास्त्राणि च निश्वासकारिकादीनि । पतयश्चानन्तादयस्स्थिताः । ते
चानन्तादयो नाम्ना स्वरूपेण च प्रश्नानुक्रमेण पूर्वमुक्ताः ॥ १६०� ॥

दीपिका ।

तासामुपरीत्यादि व्याचष्टे । भृगुणीप्रभृतीनामित्यादि । अत्र तु   

रुद्रव्यूहाष्टकं विद्याधिपभुवनान्तर्गतमेव शोद्ध्यम् ।
उच्छुष्मादयस्तु अनन्तादिविद्येश्वरभुवनान्तर्गताश्शोध्या इति गुरवः । अत
एवाह मन्त्रेशानामित्यादि । अनन्तादीनां मध्यादीश्वर-भट्टारकोऽनन्त
एव प्रेरकः । अन्ये तु तदधस्स्थितास्सर्वे तस्य प्रेर्या इत्युक्तं पूर्वमेव ।
गणाश्चात्रेत्यादि । एते च गणेश्वरादयः क्रियाकाण्डे गणेशादिषु
पूज्यत्वेन वक्ष्यमाणाः । शास्त्राणिचेति । शास्त्राणि च दर्शनात्मतां
गतानीत्यर्थः । पतयश्चानन्तादय-स्स्थिता इति । एतेषां च
महामायाध्वन्येवोपसंहृतस्वकार्यविद्या-धिपतिभुवनोर्ध्ववर्तित्वात्
अनन्तस्य चेश्वरशब्दवाच्यत्वादीश्वरतत्वस्थितमेतद्भुव-नाष्टकं
ज्ञेयम् । यद्वक्ष्यति ईशानतीत्य शान्तान्तं तत्वं सादाशिवं स्मृतम् इति ।
श्रीमत्पराख्येऽपि अनन्ताख्यस्तथेश्वर इति ॥ १६०� ॥

सदाशिवे पवित्राग -
सकलादिपरिच्छदः ।
देवस्सदाशिवो बिन्दौ
निवृत्यादिकलेश्वराः ॥ १६१� ॥
नादेध्वनि पतिश्शक्तौ
सर्वशक्तिमतां वरः ।
योनिर्विश्वस्य वागीशाः
पतयः परतश्शिवः ॥ १६२� ॥

सदाशिवभुवने पवित्राणि सद्योजातादीनि ब्रह्माणि । अङ्गानि च । सदा   

१शिवज्वालिन्यादयः सकलनिष्कलादयोष्टौ रुद्राः परिच्छेदाः परिवारा यस्य
स एवं विधस्सदाशिवनाथस्स्थितः । बैन्दवे तु स्थानेनिवृत्ति
प्रतिष्ठाविद्याशान्त्याख्यकलाधिपतिचतुष्कम् ।
नादभुवनेध्वनिपतिर्नादेश्वरस्स्थितः । यथोक्तं नादाधिकारोक्तौ
श्रीमत्स्वतन्त्रे सुषुम्नेशस्स्थितस्तत्र चन्द्रकोट्युर्बुदप्रभः ।
दशबाहुस्त्रिणेत्रश्च श्वेतपद्मासने स्थितः । शशाङ्कशेखरश्श्रीमान्
पञ्चवक्त्रो महातनुः इति । शक्ताविति । शाक्तसंश्रये सकलशक्तिमतां
वरिष्ठः परमेश्वरस्स्थितः । अत्रैव च योनिर्विश्वस्येत्यादि ।
नादबिन्द्वादिक्रमेण सकलजगदुत्पत्तिहेतुः कुण्डलिन्याख्या शक्तिस्स्थिता ।
यथोक्तं श्रीमत्स्वतन्त्रे । तत्र कुण्डलिनी शक्तिर्मायाकर्मानुसारिणी ।
नादबिद्वादिकं कार्यं तस्या इति जगत्स्थितिः । इति । वागीशाः पतयः इति ।
अस्मिन्नेव स्थाने भुवनेश्वरत्वेन स्थिताः । यथोक्तं तत्रैव ।
भुवनाधिपतीनां च हेतुस्तद्वासिनां प्रिये इति । परतश्शिव इति ।
सकलकारणातीतं निष्कलं परशिवस्वरूपं ज्ञेयम् । तथाहि
श्रीमत्स्वतन्त्र एवोक्तं - तदतीतं वरारोहे परं तत्वं निरामयम् इति ॥ १६२�


१। दय इति पाठभेदः ।

दीपिका ।

सदाशिवे इत्यादि व्याचष्टे सदाशिवभुवन इत्यादि । ब्रह्माङ्गानां   

सकलनिष्कलादिशक्तिपक्ष एवान्तर्भावः । यदुक्तं कालोत्तरवृत्तौ तत्र
भवता रामकण्ठेन शिवभेदाष्टकप्रकरणे । सकलं निष्कलं शून्यं
कलाढ्यं खमलं कृतम् । क्षपणक्षममन्तस्थं कण्ठोष्ठं
चाष्टमं स्मृतम् । इत्यादिना
प्रासादभेदमष्टधाप्रतिपाद्योपसंहारसूत्रव्याख्याने । ते मन्त्रा
विद्येश्वराधिष्ठातृशक्तिभेदस्य प्रतिपादकत्वात्तद्भेदा एव
ब्रह्माङ्गादिवत् आख्याता इति । यद्येवं कथमष्टौ रुद्रा इति । अष्टधा
रुद्रस्य शिवस्य धर्मत्वेनोपचारादित्यविरोधः । ध्वनिपत्यादिभेदस्तु
सदाशिवावस्थाभेदवत् शिवस्यैव
तद्भुवनाधिष्ठानोपाधिवशादुपचारेणोच्यते । यद्वक्ष्यति । ईशानतीत्य
शान्तान्तं तत्वं सादाशिवं स्मृतम् । भुवनान्यपि नादादिकला नान्यः
पतिश्शिवात् इति । अत एव शिवस्य
शाक्तशरीरत्वात्परिवारत्वमप्येषामधिष्ठेयत्वेनोपचारादुक्तं
तत्तद्भुवननिवासिनस्तु तत्तदभुवनेश्वरावस्थोपासनाद्दीक्षया वा
तत्परियोजितानां संस्कार्यात्मनां पारमार्थिक एव भेदो
बैन्दवशरीरयोगश्च । ननु शक्तिशिवतत्वयोरपि शास्त्रान्तरेषु
श्रवणात्कथमीशानतीत्य शान्तान्तं तत्वं सादाशिवं स्मृतमिति
वक्ष्यमाणवचनोपपत्तिरत आह । वैन्दवेत्वित्यादि युक्तं परिग्रहशक्तेस्तु
महामायाख्याया नादबिन्द्वादिभेदेन परिणामः पारमार्थिक एवेति तत्र
निवृत्त्यादिबिन्दुकलाचतुष्टयं शिवस्य भोगस्थानात्मकं शक्तितत्वमुच्यत
इति । यदुक्तं श्रीमन्मतङ्गे चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् ।
तस्मिन् भोगस्समुद्दिष्टः पत्युर्विश्वस्य सर्वदा इति । ध्वनिपत्युपलक्षितानि
वक्ष्यमाणानि इन्धिकादिभुवनानि शिवतत्वान्तर्गतानीत्याह नादभुवन इति ।
नादश्चात्रमहामायाशक्तेर्भुवनात्मकः प्रथमः प्रसरः ।
उपसंहृतकार्यायास्तु महामायाया निष्कलश्शिवस्सर्वदाऽधिष्ठानत्वेन
स्थित इत्याह शक्तावितीत्यादि । अस्या एव च शब्दोत्पत्तिहेतुरवस्थाविशेषः
शास्त्रान्तरे कुण्डलिन्याख्ययोक्तोत्र शिवतत्व एवान्तर्भूत इत्याह अत्रैव
चेत्यादि । (अत्र च विश्वशब्देननान्यतरात्मक इति) वागीशाः पतय इत्यपि
नादबिन्द्वादिक्रमेण शब्दोत्पादकस्य शिवस्यैवोपचारेण कार्यभेदादुच्यते
। एते च नादबिन्द्वादिभुवनेश्वरसमानधर्मत्वाच्छास्त्रान्तरेषु
भुवनेश्वरशब्देनोच्यन्त इत्याह । अस्मिन्नेवेत्यादि । ततश्चाचेतनत्वेन
महामायाश्शिवाधिष्ठानं विना शब्दादिकार्योत्पादकत्वाभावात्
शब्दब्रह्मवादिनः प्रतिक्षिप्ताः । शब्दानां च कार्यत्वं सिद्धमिति
वक्ष्यामः क्रियापादारम्भे शक्तेर्नादो भवेद्बिन्दुरक्षरं मातृका ततः
इति । १परतश्शिव इत्यनेन च सर्वशक्तिमतां परत्वेन पूर्वमुक्तस्य
परमशिवस्य पारमार्थिकं स्थानम् एवंरूपाया माहामायायाः परत
एवेत्युच्यत इत्याह सकलकारणातीतमित्यादि ॥ १६२� ॥


१। मूलप्रतीकम् ।

वृत्तिः ।

अथैतदाक्षेप्तुं मुनिः प्रश्नयति ।  

सदाशिवशिवान्ताध्व -
कल्पिताणुवपुस्स्थितिः ।
सर्वातिशयविश्राम -
स्तदूर्ध्वं पतयः कथम् ॥ १६३� ॥

सदाशिवतत्वादूर्ध्वं शिवनाथान्तं यावद्योऽध्वा तत्राणूनां   

निवृत्यादिकलेश्वराणां ध्वनिपतिप्रभृतीनां च वपुस्स्थितिर्दिव्यदेहयोगः
कल्पितः । तत्र च सदाशिव तत्वे सर्वातिशयविश्रामः नहि ततोऽन्यत्
निष्कलशिवतत्वादृतेऽतिशायि किमप्यस्ति । एवं च कथं तदूर्ध्वं पतय
उक्ताः ॥ १६३ ॥

दीपिका ।

अत्र च सङ्क्षेपोक्त्या सन्दिहानो मुनिश्चोदयतीत्याह अथैतदित्यादि ।

वृत्तिः ।

अत्र सिद्धान्तस्तु ।  

ईशानतीत्यशान्तान्तं
तत्वं सादाशिवं स्मृतम् ।
भुवनान्यपि नादादि -
कला नान्यः पतिश्शिवात् ॥ १६४ ॥

वृत्तिः ।

अनन्तेशादिविद्येश्वरोपलक्षितमीश्वरतत्वमतिक्रम्य निष्कलतत्वान्तं   

सदाशिवतत्वं ज्ञेयम् अत्र च नादबिन्द्वादिकला एव भुवनत्वेन बोद्धव्याः
। शिवभट्टारक एव चात्र सर्वतत्वाधिपतिः । नान्यः कश्चित् । ततश्च
तदूर्ध्वं पतयः कथमित्यस्य चोद्यस्य नावकाशः ॥ १६४� ॥

दीपिका ।

सिद्धान्तसूत्रं व्याचष्टे अनन्तेशादित्यादि अत एवाऽस्मिंश्च शास्त्रे   

तत्वदीक्षायां सदाशिवशक्तिशिवतत्वानाम् एकेनैव प्रयोगेण
शुद्धिर्बोद्धव्य अत्रचेत्यादि । एतच्च पूर्वमेवदर्शितमिति ॥ १६४� ॥

वृत्तिः ।

यद्येवं नादेध्वनिपतिश्शक्तौ सर्वशक्तिमतां वर इति भिन्नत्वं   

पतीनां यदुक्तं तत्कथमित्याह ।

किन्तु यः पतिभेदोऽस्मिन्
स शास्त्रे शक्तिभेदवत् ।
कृत्यभेदोपचारेण
तद्भेदस्थानभेदजः ॥ १६५� ॥

शिवभट्टारकादन्यो नात्राधिपतिः किन्तु निवृत्त्यादि कलेश्वराणां   

योऽस्मिन् शास्त्रे भेदः स यथैकस्या एव शक्तेः कृत्यभेदोपचारेण
वामादिभेदभिन्नत्वम् एवं स्थानभेदहेतुकः कृत्यभेदकृतश्च ज्ञेयः ॥
१६५� ॥

तमेव कार्यभेदं दर्शयितुं   

बिन्दुभुवनस्थनिवृत्त्यादिकलेश्वरचतुष्टयस्य साधारणं तावद्रूपमाह

करोत्युन्मीलनं याभि -
श्शक्तिभिर्नरतेजसः ।
ता निवृत्त्यादिसञ्ज्ञानां
भुवनानामधीश्वराः ॥ १६६� ॥

वृत्तिः ।

आणवस्य सर्वज्ञत्वसर्वकर्तृत्वात्मनस्तेजसो याभिश्शक्तिभिः   

प्रकाशनं देवः कुरुते ताश्शक्तय एव निवृत्तिप्रतिष्ठादिसञ्ज्ञानां
भुवनानामीश्वरत्वेनोक्ताः इत्येतत्समानमासां स्वरूपम् ॥ १६६� ॥

वृत्तिः ।

अथासाधारणत्वं चाह ।  

निवर्तयति भूतानि
यया साऽस्य निवर्तका ।
निवृत्तिरिति तत्स्थानं
तत्रेशोऽपि निवृत्तिमान् ॥ १६७� ॥

यया शक्त्या चतुर्दशविधं भूतसर्गं निवर्तयति ।   

संसारवैतृष्ण्यजननेन कैवल्याभिमुखं सम्पादयति सा
भगवच्छक्तिर्भवनिवर्तनव्यापारकारिणी । तच्च तदधिष्ठेयं स्थानं
निवृत्तिसञ्ज्ञं तदधिपतिश्च परमेश्वरो निवृत्तिमानित्यतोऽसौ
स्थानभेदात्कृत्यभेदाच्च भाक्त उक्तो भेदः । एवं प्रतिष्ठादीनामपि
ज्ञेयम् ॥ १६७� ॥

दीपिका ।

निवर्तयतीत्यादिसूत्रं व्याचष्टे ययेत्यादि । चतुर्दशविधं   

भूतसर्गमित्युपलक्षणं बद्धानाम् अस्मिंश्च स्थाने केवलं
सद्योजातमूर्ततयाऽभिध्येयः तत्पदप्राप्तिकामैर्भगवान् इति गुरवः ।
एवं प्रतिष्ठाविद्याशान्तिभुवनेष्वपि क्रमात्केवलं
वामदेवाघोरतत्पुरुषाकारो ध्येय इति तत्तद्भुवनवासिनां
तत्तद्भुवनेश्वरावस्थोपासकानां बैन्दवशरीरयोगो वास्तव एवेत्युक्तम् ।
यद्वक्ष्यत्यनन्तरमेव येऽपि तत्पदमापन्नाः शैवसाधनयोगतः । ते
तत्स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् इति ॥ १६७� ॥

वृत्तिः ।

तथाहि   

निवृत्तस्य गतिर्भूयो
यया प्रच्यावलक्षणा ।
निषिध्यते प्रतिष्ठा सा
स्थानं तद्वांश्च तत्पतिः ॥ १६८� ॥

अनुध्यानानुगृहीतस्योन्मुखस्याणोः पुनरधोऽध्वनि   

संसारलक्षणा गतिर्यया निषिध्यते सा गतिनिवृत्तिहेतुत्वात् प्रतिष्ठाख्या
शैवी शक्तिः । स्थानं च तत्प्रतिष्ठाभुवनम् । तदीश्वरश्च
प्रतिष्ठाधिपतिसञ्ज्ञो विज्ञेयः ॥ १६८� ॥

त्यक्त्वाप्तगम्यविषयं
यया ज्ञानं ददात्यणोः ।
सा विद्या स्थानमप्यस्या
विद्येशश्च तदीश्वरः ॥ १६९� ॥

आप्तविषयं शब्दविषयं गम्यविषयं चानुमेयं ज्ञानं
त्यक्त्वा पारिशेष्यात्साक्षात्कृताशेषपदार्थजातं यया
शक्त्याणोरात्मनः परमेश्वरोऽभिव्यनक्ति सा शक्तिः विद्याख्या तच्च
भुवनं विद्याख्यं तदीश्वरश्च विद्याधिपाख्यया बोद्धव्यः ॥

सर्वदुःखप्रशमनं
ययाऽस्य कुरुते हरः ।
सा शान्तिस्तत्पदं चेति
तत्कुर्वन् सोऽपि शक्तिमान् ।

वृत्तिः ।

निखिलदुःखप्रशमनं यया शक्त्यास्याऽऽत्मनः शिवनाथः करोति   

सा शान्तिश्शक्तिः तच्च स्थानं शान्त्याख्यं तच्च कुर्वन् सोऽपीश्वरः
शान्तिमानुच्यते ॥ १७०� ॥

इत्थं बिन्दुकलाचतुष्कमुक्त्वा नादकलोक्त्यर्थमाह ।  

ऊर्ध्वाधोविषयालोको
महान् यश्च महत्तरः ।
महत्तमश्च क्रियते
चितो याभिर्विमुच्यतः ॥ १७१� ॥
ता इन्धिकाद्यास्तत्स्थानं
तद्वानीशस्तिसृष्वपि ॥ १७२ ॥

विमोचनं विमुक्तिर्बन्धापगमः । विमुचमिच्छत्यात्मन इति रूपम् ।   

एवं च विमुच्यतो मोक्षैषिणः पुंस ऊर्ध्वाधोविषयः आलोकः प्रकाशो
महानिन्धिकया विधीयते स एव च दीपिकाख्यया महत्तरस्सम्पाद्यते
रोचिकया त्वसावेव महत्तमः क्रियते तानिचैतासां
स्थानानीन्धिकादिसञ्ज्ञानि । तिसृष्वप्येतासु कलास्वधिपतिः
तद्वानिन्धिकाद्युपलक्षितो वेदितव्यः ॥ १७१� - १७२ ॥

दीपिका ।

ऊर्ध्वाध इत्यादि व्याचष्टे विमोचनमित्यादि । एतानि   

चेन्धिकादिभुवनान्युपलक्षणं शास्त्रान्तरोक्तस्य
शान्त्यतीतभुवनस्यानाश्रितादिभुवनानां चेत्यवगन्तव्यम् । यत्र तु
शान्त्यतीतभुवनमेकमेव श्रूयते तत्राप्येषामन्तर्भावो ज्ञेयः । एतानि च
शिवतत्वभुवनानि महामायायाश्शक्तिरूपत्वेन
भुवनाधारकत्वासम्भवात् तत्कार्यशान्तिमस्तकस्थानीत्युक्तम् ॥

वृत्तिः ।

अथ मोचिकायाश्चोर्ध्वगायाश्चोक्तवद्व्यापारमाह ।  

सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
प्रमार्ष्टि तद्यया साऽष्य
मोचिका तत्पदं च तत् ॥ १७३ ॥
मोचकस्तत्क्रियाकृच्च
ययेशानं करोति तम् ।
सोर्ध्वगा तत्पदं चेति
तदीशश्चोर्ध्वगापतिः ॥ १७४ ॥

विद्येशाद्यधिकारभाजां सर्वज्ञत्वादिगुणयोगेऽपि   

मलांशावशेषतः प्रेर्यत्वं यदस्ति तद्यया शक्त्याऽऽत्मनो निवर्तयति
साऽस्य भगवतो मोचिकाख्या शक्तिः तस्याश्च यत्स्थानं तत्कृत्यकारी च
परमेश्वरः तदेतत्सर्वं मोचिकाख्यया व्यपदेश्यम् । ययाअ
कृतानुग्रहमीशानं सम्पादयति सा ऊर्ध्वगाख्या शक्तिस्तच्च स्थानम्
ऊर्ध्वगाख्यं तदधिष्ठाता चेश्वर ऊर्ध्वगाधिपतिरित्युक्तः ॥ १७३ - १७४ ॥

येऽपि तत्पदमापन्नाः
शैवसाधनयोगतः ।
ते तत्स्थित्यन्तमानन्दं
प्राप्य यान्ति परं पदम् ॥ १७५ ॥
नच सृष्ट्यादि कुर्वन्ति
स्वार्थनिष्ठा हि ते यतः ॥ १७५� ॥

तत्तद्विधोपदेशरूपेण ज्ञानाख्येन वक्ष्यमाणानेकविध-  

भुवनयोजनात्मकेन दीक्षाख्येन शैवेन पारमेश्वरेण साधनेनोपायेन
युक्तत्वात् येऽणवस्तत्पदभाजः तत्स्थितिपर्यन्तं निरतिशयानन्दात्मकं
भोगं प्राप्य परमं पदं यान्ति शिवसमानास्सम्म्पद्यन्ते । नच
परमेश्वरवत् सृष्टिस्थित्यादिकृत्यं विदधति । यतस्स्वार्थे परे
निर्वाणावाप्तिलक्षणे निष्ठा विश्रान्तिर्येषां ते एवं विधाः । ततः परं
प्राप्यस्य वस्तुनोऽन्यस्यासम्भवात् प्रेर्यतापगमाच्च सृष्टिस्थित्यादिकृत्यं
न ते कुर्वन्तीति यावत् ॥ १७५ - १७५� ॥

वृत्तिः ।

उपसंहरन्नाह ।  

इति सादाशिवं तत्वं
व्याख्यातं लेशतस्तव ॥ १७६ ॥

लेशतस्त्वल्पया तवेति प्रष्टुर्भरद्वाजमुनेः ॥ १७६ ॥  

वृत्तिः ।

ईशानतीत्य शान्तान्तं तत्वं सादाशिवं स्मृतम् इत्युक्त्वा तच्छक्तितत्वमपि
तदन्तर्भूतमेवेति वक्तुमतिदिशति ।


१। सङ्क्षेपत स्तवेति पाठः ।

शक्तावप्येवमित्येष
सकलः कृत्ययोगतः ।
कृत्यं तदादिविषयं
निष्कलोऽन्यत्र सर्वदा ॥ १७७ ॥

शक्तिरप्येवं व्यापिकैव ज्ञेया । इति एवमुक्तया रीत्या एषः   

सदाशिवनाथः कृत्ययोगतः स्थित्यादिव्यापारवशात् सकलः सह कलाभिः
ब्रह्मपञ्चकसम्बन्धिनीभिरष्टत्रिंशत्सङ्ख्याभिस्तारा-
सुतारातरणीत्यादिभिरारब्धमूर्तिः । यथोक्तं प्राक् । तद्वपुः
पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकम् । तच्च तदादिविषयमिति ।
तदादिर्विषयो यस्य प्रथमस्तदिच्छयैव पञ्चकृत्यनिष्पत्तिरित्यर्थः । अन्यत्रेति ।
स्थित्याद्यप्रवृत्तौ तदुपरमे वा सर्वकालं निष्कल एव परमेश्वरः
कार्यार्थं कलाकल्पितमूर्तित्वात् ॥ १७७ ॥

दीपिका ।

इति सादाशिवं तत्वमित्यादिना शिवस्य साक्षात्   

सदाशिवादिभुवनाधिष्ठातृत्वमुपसंहृत्य शक्तावप्येवमित्यनेन
तच्छक्तेरपि तत्तद्भुवनाधिष्ठानत्वमुपसंहरतीत्याह ।
तच्छक्तितत्वमपीत्यादि । अत्र निष्कलशक्तिरेव शक्तितत्वमुच्यते । न तु
पूर्वोक्तमहामायाकार्यात्मकमिति । एष सदाशिवनाथ इत्यादि
सदाशिवभुवने प्रवृत्तत्वात् सकल इत्युच्यते । निवृत्त्यादिभुवनेषु
कार्योद्युक्तत्वात् सकलानिष्कल इति । परतत्वप्रवृत्तत्वात् निष्कल इति । यदुक्तं
शक्तोद्युक्तौ प्रवृत्तश्च कर्ता त्रिविध इति । कृत्यं तदादिविषयमित्यादि ।
तच्छब्देनार्थवशात् महामायाकार्यं शक्तितत्वमुच्यते ॥ १७७ ॥

भूमिप्राधानिकग्रन्थि
विद्याबिन्दुकलादिषु ।
गुणकारा दशाद्यास्स्युः
नादकोटेरधोमुने ॥ १७८ ॥

भूमिश्च पृथिवी प्राधानिकं च प्रकृतितत्वं ग्रन्थिश्च माया तेषु   

भूमिप्रधानग्रन्थितत्वेषु विद्यायां च शुद्धविद्यायां
बिन्दुनादकलानवके चेत्येवमत्र गुणकाराः । गुणबन्धनस्थानानि स्युः
सन्ति इत्यर्थः । तत्र पार्थिव प्राकृतमायीयतत्वत्रये गुणात्मिकाः
सत्वरजस्तमोबहुलाः काराः पाशास्सन्ति । सत्वादिगुणत्रयमत्र पाशतया
स्थितमित्यर्थः । सत्वस्य रजस्तमोपेक्षया प्रकाशत्वेनोत्कर्षे सत्यपि
रजस्तमोभ्यामत्यन्तविश्लेषासम्भवात् पाशत्वसिद्धेः । तथाचोक्तं
सिद्धगुरुणा । सत्वगुणावच्छिन्नो भविनां भोगो मलोऽशुचिर्बन्धः ।
पतिभावानलदाह्यः पुंसां चेतोगुणप्रभवः । इति । विद्यायां
बिन्दुनादकलानवके च गुणानां सर्वज्ञतातृप्त्यनादिबोधादीनां या
निरतिशयस्य महत्तमस्याऽऽलोकस्य कर्त्री मध्यमी कला रोचिकाख्या
तदधोवर्ति च नादकलाद्वयं बिन्दुकलाचतुष्कं च शुद्धविद्या अव्यक्तं
पृथिवी च काराः प्रतिबन्धकत्वेन स्थिताः । अत एवाऽऽह
दशाद्यास्स्युर्नादकोटेरध इति । नादस्य या कोटिः ऊर्ध्वगाख्यायाः
कलायाः पर्यन्तः तदधो दशैताः प्रोक्तवन्नादबिन्दुकलानवकं
शुद्धविद्यातत्वं चेत्येतद्दशकं
निरतिशयसर्वज्ञत्वतृप्त्यादिपारमेश्वरगुणप्रतिबन्धकस्थानत्वात् आद्या
इति मुख्याः काराः बन्धनभुवः अन्ये तु भूमिः प्राधानिको
ग्रन्थिरित्यसमस्तपाठाभिप्रायेणैवं व्याचक्षते । यदुत गुणानां
सत्वरजस्तमसामशुद्धानं प्रधानिकस्तावत्पाशग्रन्थिरिव
ग्रन्थिभूमिरिति मुख्यव्याप्तिस्थानम् । विद्यायां बिन्दुनादकलानवके
चित्येवं दशस्वाद्येषु स्थानेषु । अन्ये तु शुद्धास्ते सत्वादयः
तत्तद्भुवनं निर्वृत्त्य तत्तत्कृत्योपयोगिनस्सम्भवन्ति ।
तदुक्तमागमान्तरेपार्थिवप्राकृताण्डाभ्यामूर्ध्वमण्डद्वये-ऽपरे ।
शुद्धास्सत्वादयस्सन्ति बिन्दुनादकलासु च इति ॥ अत्र च शुद्धत्वादेव
कारत्वमनुपपन्नमिति न चोद्यम् । पर कैवल्यप्रतिबन्धहेतुत्वेन
तथाविधानामपि तेषा पाशत्वानपगमात् उक्तं च । समनान्तं वरारोहे
पाशजालमनन्तकम् इति ॥ १७८ ॥

दीपिका ।

इत्थं भुवनदीक्षोपयोगिनं भुवनाध्वानमुपसंहृत्य
वक्ष्यमाणकलादीक्षायां निवृत्त्यादिकलापञ्चकान्तर्भावेन
तच्छुद्धाशुद्धमयं समस्तमपि शोद्ध्यमिति दर्शयितुं
भूमिप्राधानिकेत्यादिना तासां व्याप्तिस्थानानि प्रदर्श्यन्त इत्याह ।
भूमिश्चेत्यादि । त्र भूमिः पृथ्वीतत्वं निवृत्तिकलान्तर्भावेन शोद्ध्यम् ।
प्राधानिकं चैतद्व्यतिरिक्तमप्तत्वादिप्रकृतितत्वपर्यन्तं
प्रतिष्ठाकलान्तर्भावेन । ग्रन्थ्युपलक्षितं पुरुषादिमायान्ततत्वजातं
विद्याकलान्तर्भावेन । विद्योपलक्षितं चशुद्धविद्येश्वरसदाशिवाख्यं
तत्त्वत्रयं शान्तिकलान्तर्भावेन । बिन्दुनादकलानवकमपि
शान्त्यतीतान्तर्भावेनेति । अथ कथमेषां गुणबन्धनस्थानत्वम् अत आह ।
तत्रेत्यादि । ततश्च क्ष्मादेर्देहद्वारेण मायान्तं यावत्सत्वादि सम्भवति ।
विद्यायां बिन्दुनादकलानवके चेत्यादि च शब्दात्पूर्वोक्तेषु
सर्वज्ञत्वादीनां गुणानां बन्धनस्थानत्वमिति शेषः । अत एवात्र
षष्ठीसमासो गुणकारशब्दो वेदितव्यः । पूर्वतः कर्मधारय इति
प्रदर्शितं ननु रोचिकयैव सर्वज्ञत्वादीनां प्रकाशितत्वात् कथं
तदादिषु स्थानेषु एषां बन्ध अत आह या निरतिशयस्येत्यादि । येद्येवं
कथं बिन्दुनादकलानवके चेत्युक्तम् । उच्यते रोचिकादिस्थानेषु
सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः । प्रमार्ष्टि तद्यथा
इत्यादिनाप्रेर्यतालक्षणमलांशावशेषस्य प्रतिपादितत्वात्
तिरोधानशक्तिशुद्धिपर्यन्तं परमैश्वर्यात्मकस्य गुणस्य
प्रतिबन्धोऽस्तीत्युक्तं वक्ष्यामश्च दीक्षाप्रकरणे ततश्च
विद्यादितत्वत्रयोपलक्षणतया बिन्दुनादकलानवके च
मलरूपसत्वादिगुणबलादेषामाद्यत्वं दशाद्या इत्यादिनोच्यते इत्याह । अत
एवाऽऽहेत्यादि । अन्ये त्वित्यादिव्याख्यानं पूर्वापरासम्बन्धादयुक्तं
वक्ष्यमाणकलादीक्षोपयोगिव्याप्तिप्रदर्शनेन । व्यापकत्वं च द्वयं
वाऽऽगमान्तरेषु शुद्धास्सत्वादयस्सन्तीत्युक्तं तत्तु यदुक्तमेव ।
शुद्धाध्वन्यपि सूक्ष्मकलादीनां वक्ष्यमाणत्वादिति ॥ १७८ ॥

वृत्तिः ।

इदानीं प्रागुक्तानां गहनेशादीनां कियदास्पदमिति   

प्राग्यन्नोक्तं तद्वक्तुमाह ।

ऊर्ध्वं कलाया विद्याध -
श्श्रूयन्ते गहनाधिपाः ।
तदन्तरालमेताव -
दिति धीजाऽत्र लक्षणा ॥ १७९ ॥

विद्याशब्देनात्र माया ग्राह्या । तदुक्तम् । श्रीमत्पौष्करे माया   

विद्या परा स्मृता इति । अस्या अधः कलायाश्चोर्ध्वे
गहनेशादयोरुद्राश्शास्त्रेषु श्रूयन्ते । तत्र
तयोर्मायाकलयोरेतावत्प्रमाणं तदन्तरालमिति बुद्धिजैवात्र
लक्षणामानं तत्परिच्छिनत्ति । नत्वत्र प्रमाणं परमुच्यते ।
मायातत्वस्यानन्तत्वश्रुतेः । तथाचोक्तं तत्रभगवद्भिः बृहस्पतिपादैः
अपि सर्वसिद्धवाचः क्षीयेरन् दीर्घकालमुद्गीर्णाः ।
मायायामानन्त्यान्नोच्येत स्रोतसां सङ्ख्या इति ॥

दीपिका ।

ऊर्ध्वमित्यादि सूत्रमवतारयति इदानीमित्यादि । नन्वेतत्सूत्र   

मत्रासम्बद्धम् । अत एव अनन्तस्त्रिकल इत्यादिना पूर्वोक्तेनैकवाक्यतया
व्याख्येयम् । कथं पुनस्तत्रैव न पठ्यते छन्दोवत्सूत्राणि इति न्यायात् ।
एवं हि पठितमभ्युदयाय भवतीति । बुद्धिजैवात्र लक्षणा इति । तल्लक्षणा
दृष्टिर्ज्ञानमूह इत्यर्थः ॥ १७९ ॥

वृत्तिः ।

उपसंहर्तुमाह ।  

द्वयोरप्यध्वनोरेवं
क्रमप्रसवयोगिनोः ।
विलयः प्रतिलोम्येन
शक्तितत्वद्वयावधिः ॥ १८० ॥

एवमित्युक्तेन प्रकारेण क्रमिको यः प्रसवस्सर्गः तद्योगिनोः द्वयोरपि   

शुद्धाशुद्धयोरध्वनोस्सर्गविपर्ययेण संहारक्रमेण विलयः । यत एव
यस्य प्रसवस्तस्यैव तत्रान्तर्भाव इत्यर्थः । शक्तितत्वद्वयावधिरिति ।
शुद्धस्य तावत्पराशक्त्यन्तः । अशुद्धस्य मायाशक्त्यन्तः ॥ १८० ॥

दीपिका ।

उपसंहर्तुमाहेत्युपलक्षणं (प्रलये॥॥॥॥॥॥॥॥।) प्रलयश्चात्र   

द्विविधः । असाधारणसर्गविषयः साधारणसर्गविषयश्च तत्र
प्रथमश्शरीरविलयात्मको द्विविधः । तत्र हि जात्यायुर्भोगप्रदस्य कर्मणः
कस्य चित्परिक्षयात् स्थूलशरीरविषयो भवति । विज्ञानयोगसन्यासैर्भोगाद्वा
कर्मणः क्षयात् इति सर्वस्य कर्मणः क्षयात् सूक्ष्मदेहविषयस्स्थितिकालेऽपि
भवति । महाप्रलयकाले तु सर्वेषामिति स एवाऽसाधारणस्य तत्वमार्गस्य
विलयः । द्वितीयस्तु भूरादिलोकानामुपसंहारादिति स एवाऽत्र विलयः
प्रातिलोम्येनेत्यादिनोच्यते । यदुक्तं मतङ्गे कालो नाम मनुष्याणां
द्विविधः प्रलयात्मकः । उपभोगक्षयादेकस्स च देहान्तदर्शनात् ।
लक्ष्यतेऽन्योपसंहारो लोकत्रयपरिक्षयात् इति ॥ परशक्त्यन्त इति
कुण्डलिनीशक्त्यन्तः ॥ १८० ॥

वृत्तिः ।

अत्यर्थसङ्क्षेपेण सूचितं संहारक्रमं विशेषेण जिज्ञासुर्मुनिः   

प्रश्नयति ।

व्यस्तस्याथ समस्तस्य
विलयस्स कथं कियान् ।
तत्वमार्गस्य भगवन्
ब्रूहि सर्वार्थदर्श्यसि ॥ १८१ ॥

यतस्सर्वागमार्थदर्शित्वं त्वयि भगवन् ततोहास्माकमादिश कथं   

केन क्रमेण कियत्कालीनश्च व्यस्तस्य प्राधानिकादेस्समस्तस्य
शक्तितत्वान्तस्य तत्वाध्वनो विलयस्संहार इति प्रश्नार्थः ॥ १८१ ॥

दीपिका ।

व्यस्तस्येत्यादिप्रश्नसूत्रं व्याचष्टे । यत इत्यादि । व्यस्तस्य   

प्राधानिकादेरिति । क्षित्यादिगुणतत्वान्तप्राधानिकस्य जगतः । आदिशब्दात्
त्रैलोक्यस्य कदाचिल्लय इत्यर्थः ॥ १८१ ॥

वृत्तिः ।

अथात्रोत्तरम् ।

महास्वापे समस्तस्य
व्यस्तस्याऽवान्तरो लयः
सर्गोऽप्येवं स्थितेः कालः
कथ्यमानोऽवधार्यताम् ॥ १८२ ॥

अनवरतमनन्तपुरुषोपभोगसाधनतनुकरणभुवनादिजननापचित-  

शक्तेर्मायातत्वस्य पुनस्तत्कार्यनिर्वर्तनक्षमविवित्रशक्त्युन्त्तेजनार्थं
भविनां भवभ्रमणखिन्नानां विश्रान्त्यै व्यस्तस्य
प्राधानिकादेरध्वनो विलयः
स्वेच्छापरिगृहीतसदाशिवादिसकलरूपोपसंहृतिलक्षणे महास्वापे
समस्तस्याप्यध्वनः प्रतिसञ्चारः । यथा यादृशश्चासौ तथाग्रे
स्पष्टयिष्यति । सर्गोऽप्येवमिति व्यस्तसमस्तत्वेन । तथाहि
परापरविद्येश्वराद्यनेकाधिकारिकृतत्वेन व्यस्तः ।
परमेश्वरेच्छाप्रेरितानन्तादिरूपतया तु समस्तः । तदित्थं व्यस्तस्य
समस्तस्यचाध्वनः कदा विलय इति यत्प्रश्नितं तदियता प्रत्युक्तम् इदानीं
कियानिति कियत्कालीनस्सविलय इति प्रश्नस्योत्तरं स्थितेः काल इत्यादिना
स्थितिपूर्वकत्वात् विलयस्य स्थितेस्तावत् कालोऽभिधीयमानः श्रुयताम् ॥ १८२ ॥

दीपिका ।

सिद्धान्तसूत्रं व्याचष्टेऽनवरतमित्यादि   

मायातत्वस्येत्युपलक्षणं प्रकृत्याद्युत्तेजनार्थमेव मध्यमप्रलयो यतः
व्यस्तस्येत्यादि । प्राधानिकादेरध्वनो विलयः प्रथममिति शेषः ।
त्रैलोक्यप्रलयस्तु प्रथित इत्यनन्तर सूत्रे व्यक्तीभविष्यति । तथाहीत्यादि ।
मध्यमप्रलयावसाने गुणादितत्वसृष्टेरनन्तकर्तृकत्वात् भुवनसृष्टेः
श्रीकण्ठकर्तृत्वाच्छरीरादिसृष्टेर्ब्रह्मादिकर्तृकत्वादनेकाधिकारि-निर्वर्त्यो
व्यस्तस्सर्गः महालयान्ते परमेश्वरेच्छया प्रेरितानन्तद्वारेण च समस्त इति
॥ १८२ ॥

वृत्तिः ।

कोऽसावित्याह ।  

चतुर्युगसहस्रान्तम्
अहर्हेमाण्डजन्मनः ।
निशा तावत्यहोरात्र
मानेनाब्दपरार्धके ॥ १८३ ॥
विलयो व्युत्क्रमेणैष
प्रकृत्यादि निवार्यते ॥ १८३� ॥

कृतादियुगचतुष्टयसहस्रान्तमानकं कनकाण्डजस्य   

ब्रह्मणस्सम्बन्धि दिनम् । तावत्येव च रात्रिः । अनेनाहोरात्रमानेन
षष्ट्यधिकशतत्रयसङ्ख्यातेऽब्दे एकदशशतसहस्रादिगणनया
सहस्रादिगणनया परार्धसङ्ख्या यदाऽब्दानामुत्पद्यते तदा व्यस्तस्य
प्राधानिकस्याध्वनो विलयः । एष च व्युत्क्रमेणेति सृष्टिक्रमवैपरीत्येन
पश्चाद्व्यस्तस्याध्वनस्सर्गः भूतसंहारस्तु पूर्वमिति वैपरीत्यं तदा च
प्रकृत्यादि प्राधानादि यत्सर्गस्योपादानकारणं तन्निवार्यते ।
तत्तदधिकृतैरुपसंहृतव्यापारः क्रियते ॥ १८३� ॥

दीपिका ।

चतुर्युगेत्यादि सूत्रं व्याचष्टे कृतादीत्यादि । एषां च युगानामिह   

मानं नोक्तम् । संहितान्तरादेरवगन्तव्यम् । यदुक्तं मतङ्गे । १त्रुटिर्नाम
कला सूक्ष्मा लवस्तद्द्विगुणस्स्मृतः । लवद्वयं निमेषस्तु काष्ठा
पञ्चदशात्मिका । त्रिंशत्काष्ठात्मिकावाहाः वाहास्त्रिंशत्प्रपीडितः ।
मुहूर्तसञ्ज्ञो लोकेऽस्मिन् तैस्त्रिंशद्भिश्च सुव्रत । अहोरात्रं समाख्यातं
तन्त्रेस्मिन् पारमेश्वरे । पक्षोऽहोरा-त्रवर्गेण ज्ञेयः पञ्चदशात्मना ।
पक्षद्वयस्स्मृतो मासो द्वौ मासावृतुरुच्यते । ऋतूनां त्रितयेन स्यात् अयनं
मुनिसत्तम । अयनद्वितयेनापि वत्सरः परिभाष्यते । सौरो मनुष्यजातीनां
तेषां षष्ट्यधिकैश्शतैः । त्रिभिर्दिवौकसामब्दः कथितस्तन्त्रदर्शनात् ।
चत्वार्यब्द सहस्रणि वैबुधानि कृतं युगम् । सन्ध्यागतानि तावन्ति
सन्ध्यांशस्तावदेव हि । एकैकह्रासतोऽन्यानि त्रेताद्यानि युगानि तु ।
सन्ध्यासन्ध्यांशयुक्तानि कल्पनिष्ठान्यतः परम् । सर्वमेतत्समा-
ख्यातम् अब्दानां तु चतुर्युगम् । सहस्राणि दश द्वेच ततो मन्वन्तरं परम्
। चतुर्युगैकसप्तत्या विज्ञेयं गणितार्थिभिः इति ब्रह्मणस्सं-बन्धिदिनमिति ।
त्रैलोक्यस्थितिः तावत्येव च रात्रिरिति तस्यैव प्रलयकालः । यदुक्तं तत्रैव
स्वव्यापारनियुक्तानामिन्द्राणामायुरुच्यते । एकैकस्य भवेदायुः
युगानामेकसप्ततिः । तैश्चतुर्दशभिश्शाक्रैर्दिनं कमलजन्मनः ।
लोकत्रयस्थितिरियं समासेन तवोदिता । तथा चैतावती रात्रिर्यस्यां लोकत्रयं
मुने । क्षयं याति तमः प्राप्ते तदवस्थम-हर्मुखे । ब्रह्माप्युत्थाय
शयनादाविष्टः करणात्मना । रुद्रशक्तिबलाद्भूयो निर्भिणोति जगत्तथा इति ।
मध्यमप्रलयावधि क्षित्यादिगुणान्तस्य काल प्रमाणमाह । अनेनेत्यादि
इदमेवच मानं तत्प्रलयकालस्यापीति । तदेतत्कनकाण्डजस्य ब्रह्मणः
परमायुः श्रीकण्ठस्य चाहोरात्रमिति शास्त्रान्तरेपूच्यते ॥ १८३� ॥


१। प्रलयपटले पञ्चदशश्लोकमारभ्य ।

वृत्तिः ।

अथ कथं ते तदधिकृतास्तदानीमासत इत्याह -  

तदा रुद्रशतं वीर-
श्रीकण्ठौ च प्रधानपाः ।
शक्त्याक्रम्य जगत्सूक्ष्मं
सूक्ष्मदेहांश्च चिद्वतः ॥ १८४� ॥
प्रकृतिस्थाशयान् कालं
तत्स्वापान्तमुपासते ॥ १८५ ॥

तस्मिंश्च काले शतरुद्राः श्रीकण्ठवीरभद्रौ च   

क्रोधेशचण्डसंवर्तादयश्च प्रधानाधिकृताः प्रकृतिस्वापावसानं
यावत् स्वाधिष्ठेयं जगत्तदानीं शक्तिरूपतयावस्थानात्
सूक्ष्मम्प्रकृतिस्थितकर्माशयान् क्षित्यादिकलान्ततत्वारब्धसूक्ष्मदेहान्
चिद्वतश्चाणून् स्वशक्त्याधिष्ठाय तिष्ठन्ति ॥

तदनन्तरम् ।

शिवेष्टमन्त्रभृन्नुन्न -
मण्डलाधिपतीरिताः ।
काले जगत्समुत्पाद्य
स्वाधिकारं प्रकुर्वते ॥ १८६ ॥

पुनरवान्तरसर्गप्रारम्भे परमेश्वरेच्छाचोदितानन्तादि-  

विद्येश्वरप्रेरितैर्मण्डलाधिपतिसञ्ज्ञितैरधिकारिरुद्रैः प्रवर्तितास्ते तस्मिन्
काले जगन्निर्माय यथास्वमधिकारं विदधति ॥ १८६ ॥

वृत्तिः ।

अत्र प्रकृतिस्थाशयत्वश्रुतेर्मुनिस्सन्दिहानः प्रश्नयति ।  

कर्म धर्मादिकं तच्च
गुणत्वेन मतौ स्थितम् ।
गुणिनो न गुणोऽपैति
प्रकृतावुच्यते कथम् ॥ १८७ ॥

धर्माधर्मरूपं यत्कर्म तद्बुद्धेर्गुणत्वेन स्थितमित्युक्तं   

भावा बुद्धिगुणा धर्मज्ञानवैराग्यभूतय इत्यादिना । नहि
गुणिनस्सकाशाद्गुणस्यापगमो दृष्टः । नहि पटाच्छौक्ल्यं
शर्करादेर्माधुर्यं वा पृथक्कर्तुं शक्यम् । ततश्च
प्रकृतिस्थाशयत्वश्रुतिः कथमिति प्रश्नार्थः ॥ १८७ ॥

दीपिका ।

तत्र प्रसङ्गान्मुनेः प्रश्न इत्याह । अत्रेत्यादि ॥ १८७ ॥  

वृत्तिः ।

सिद्धान्तस्तु ।  

सत्यं बुद्धिगुणः कर्म
नापैति गुणिनो गुणः ।
देहाक्षफलभूमीनां
तात्स्थ्यात्तत्रोपचर्यते ॥ १८८ ॥

भवत्येव बुद्धिगुणत्वं प्रागुक्तरीत्या धर्माधर्मस्वरूपस्य   

कर्मणः गुणिनश्च सकाशान्नगुणस्य व्यपगमः । तत्र तु प्रकृतौ तत्कर्म
स्थितमित्युपचर्यते । कस्मादुपचारबीजादित्याह देहाक्षफलभूमीनां
तात्स्थ्यात् । यतः प्रकृतिस्था एव भोक्तॄणां शरीरेन्द्रियार्थभोगभूमयः
तस्मात्कर्माऽपि तत्स्थत्वेनोक्तम् । बुद्धिस्थत्वेऽपि कर्माशयस्य
बुद्धेस्तत्स्थत्वात् प्रकृतिस्थाशयत्वमात्मनामुक्तमित्यविरोधः ॥ १८८ ॥

वृत्तिः ।

दृश्यन्ते च   

तात्स्थ्यादेरुपचारबीजादनेकविधाश्शब्दानामौपचारिक्यः प्रवृत्तयः ।
तथाहि ।

आधारे कारणे कार्ये
समीपे चोपकारके ।
धर्माद्यनुकृतौ चेति
लक्षणां सूरयो जगुः ॥ १८९ ॥

मुख्यार्थानुगमानुपपत्तेर्गौणार्थप्रतीतिकारिणीं लक्षणां   

सूरयस्तद्विदो जगुरूचुः । कुत्र कुत्रेत्याह । आधार इत्यादि । तत्र तावदा-धारे
यथा - मञ्चाः क्रोशन्तीति । अत्र हि मञ्चानामधिकरणभूता-
नामचैतन्याद्रोदनलक्षणेन क्रोशनार्थेनाननुगमात् आनर्थक्यात्
तत्स्थानां बालानां सम्बन्धि यत्क्रोशनं तत्तेषु तात्स्थ्यात्मक-
लक्षणयोक्तम् । कारणे तु लक्षणा यथा - शालीन् वृष्टो देव इति । अत्र हि
मुख्यया वृत्त्या शालिवर्षणस्यार्थोऽनन्वित इति लक्षणया कालोचिता-यां
सम्यक् वृष्टौ शालिकारणभूतायां प्रतिबन्धवैकल्ययोर-सम्भवात्
सम्पन्नमेव शालिलक्षणं कार्यमुपचर्यते इति । अथवा आयुर्घृतमिति
आयुष्कारणे घृते आयुषस्तत्कार्यस्योपचारः । एवं कार्येऽपि लक्षणा
सम्भवति यथा - ऊर्णाः प्रावरणाः केचित् । अपरे तूलं वास इति अत्र किल
सूत्रभावं विना कम्लपटादिभावेनापरि-णतयोः ऊर्णातूलयोर्मुख्यया
वृत्त्या प्रावरणमसम्भावितं तत्कार्यस्य कम्बलपटात्मन एव
तदुपपत्तेः । ततश्च कम्बले पटादौ च तयोरूर्णाकार्पासयोरुपचारः कृतः
। समीपार्थलक्षणा यथा - गङ्गायां घोष इति । अत्र हि मुख्यया वृत्त्या
प्रवाहजलरूपं स्रोतः गुणवृत्त्या वा तद्विशेषं यदि किञ्चिद्गङ्गाशब्दः
कथयेत् तदस्याऽसम्भाव्यैव ग्रामाधिकरणता इति सामर्थ्यात्तत्सामीप्यं
लक्षणात्वेन व्यवतिष्ठते । उपकारकेऽपि लक्षणा दृश्यते यथा - भिक्षा
वासयन्ति - कारीषोऽध्यापयतीति । अत्र किल न १भिक्षास्तत्प्रा-वरणं चालं
करेण गृहीत्वा गमननिषेधं कुर्वन्ति । नाऽपि सर्वधाऽस्मात्स्थानात् । न
गन्तव्यमिति प्रणयवचनैरवस्थापयन्ति । अपितु
प्रचुरान्नव्यञ्जनवत्यस्तृप्तिहेतुत्वात् निवसनक्रियायामुपकार-कत्वेन
सम्भाव्यमानाः प्रयोजकत्वेनोपचर्यन्ते । एवं च न कारीषोऽङ्ग
पुत्राऽधीष्वेति ब्रुवन् माणकमध्यापयति । नाऽपि तच्छरीरमनुप्रविश्य
भूतवेतालादिभिरिवैनं पाठयति ॥
शीतापनोदहेतुतयाऽध्ययनविध्युपकारकत्वेन आनुकूल्यं
भजंस्तत्प्रयोजकत्वेनोपचरितः ॥ किञ्च धर्माद्यनुकृतावित्यादिग्र-
हणादाकारानुकृतौ जात्यनुकृतौ वा । तत्र धर्मानुकृतौ यथासिंहो
माणवकः गौर्वाहीकः । इति । अत्र किल लक्षणया सिंहधर्माणां
शौर्यादीनामनुकृत्यर्थं माणवके सामानाधिकरण्येन सिंहशब्दः
प्रवृत्तः । मुख्यया वृत्त्या तस्य सिंहत्वस्याऽसम्भवात् । वाहीकेति । पुंसि
पृष्ठवहनासम्भवात् तिष्ठन्भक्षणगच्छन्मू-
त्रादिबलीवर्दगतधर्मानुकरणाय गोशब्दस्सामानाधिकरण्येनो-
पचरितवृत्तिरेव प्रवृत्तः । मुख्यया वृत्त्या तथाऽनन्वयात् । एवमाकारानु
कृतौ यथा - सूचिभेद्यैस्तमोभिरिति । अत्र हि तमसोऽमूर्तित्वात् सूचिभेद्यत्वं
तमसो मुख्यवृत्त्याऽननुगतम् अतो लक्षणयाऽतिनिबिडत्वं
वक्तुमाकृतिस्सूचिभेद्यत्वेनानुकृता । एवं नाम घनानि तमांसि
यद्वस्त्रादिवत्सूच्यादिना भेदमप्येषां कर्तुं शक्यमित्यर्थः ॥ १८९ ॥


१। वस्त्रमित्यर्थः ।

दीपिका ।

प्रसक्तानुप्रसङ्गेन लक्षणाभेदाः कथ्यन्त इति दर्शयितुम्   

आधारसूत्रमवतारयति । दृश्यन्ते चेत्यादि ॥ १८९ ॥

वृत्तिः ।

तदियता प्रासङ्गिकमुपचारबीजमुदाहृत्य   

प्रकृतमुपसंहारक्रममनुसरन्नाह ।

एवं गुणादिसर्गाणां
परार्धे गुणकारणम् ।
कला लेढि कलां माया
स्वाधिकारपराङ्मुखी ॥ १९० ॥
तन्निवृत्तौ निवर्तन्ते
देवास्तदधिकारिणः ।
सर्गस्थित्यादिको यस्मात्
अधिकारस्तदाश्रयः ॥ १९१ ॥

गुणादिसर्गाणां प्रागुक्तमानेन परार्धसञ्ज्ञके काले व्यतीते   

गुणकारणमव्यक्ताख्यं कला स्वात्मन्युपसंहरति । तामपि कलां
स्वस्मादधिकारात्पराङ्मुखी स्वव्यापारोपसंहारेच्छुः माया
स्वात्मन्येवोपसंहरति । तस्य च मायाधिकारस्य निवृत्तौ तदधिकृतास्सर्वे
निवर्तन्ते । विरतव्यापारा आसते । यस्मात्तेषां
सर्गस्थित्यादिरूपोऽधिकारस्सर्वो मायाश्रयः तद्विरतौ कथं तेषां न
विरामस्स्यात् ॥ १९० -

दीपिका ।

सूत्रद्वयं व्याचष्टे गुणादिसर्गाणामित्यादि । अत्र   

चाव्यक्तकालयोरुपसंहारो रागादीनामपि
स्वकारणोपसंहारस्योपलक्षणत्वेन ज्ञेयः । तस्यचेत्यादि । तत्र
परमन्त्रेश्वरा अधिकारत्यागात् परमुक्तिभाजः । अन्येतु
भुवनेश्वरयोग्यतानुगुणं प्रलयकेवलिनो विज्ञानकेवलिनो मुक्ता वा
भवन्ति ॥ १९० - १९१ ॥

वृत्तिः ।

इत्थमशुद्धेऽध्वनि प्रतिसञ्चर उक्तः । इदानीं शुद्धाध्वनि   

वक्तुमाह ।

एवं मन्त्रेशमुख्येषु
विशत्स्वभिमतं पदम् ।
विद्यामत्ति सदातत्वं
तद्बिन्दुर्बैन्दवं ध्वनिः ॥ १९२ ॥
नादमत्ति पराशक्तिः
शक्तिमीष्टे स्वयं हरः ॥ १९२� ॥

अनेनैव क्रमेण मन्त्रेश्वरप्रधानेषु मन्त्रमहेश्वरेष्वनन्तादिषु   

निर्वर्तिताधिकारित्वात् परकैवल्यप्रेप्सुषु सत्सु विद्यातत्वं सदाशिवतत्वे
समुपसंहृतवैभवं भवति । तच्च बैन्दवे । बैन्दवमपि नादात्मनि ।
नादोऽपि परस्यां शक्तौ तां तु शक्तिं
साक्षात्परमेश्वरस्स्वात्मन्युपसंहृत्य कलाप्रसवां न करोति ॥ १९२ ॥

दीपिका ।

इदानीम्मायोपसंहारकाल एव शुद्धाध्वनोऽपि संहारकाल इति   

दर्शयन् एवमित्यादिसूत्रं व्याचष्टे । अनेनैवेत्यादि । परस्यां-शक्ताविति
महामायात्मिकायामित्युक्तम् । स्वात्मन्युपसंहृत्य कलाप्रसवां न
करोतीति तामधितिष्ठतीति यावत् ॥ १९२ ॥

वृत्तिः ।

एवं च कृते सति परमेश्वरः ।  

भविनां विश्रमायैवं
मायायाश्च परश्शिवः ।
आकलय्य स्वदृक्च्छक्त्या
स्वापं सृष्ट्यै प्रवर्तते ॥ १९३� ॥

निजया ज्ञानशक्त्या भवभ्रमणखिन्नानां भविना   

यथोचितभोगोपयोगितनुकरणभुवनाद्यनेककार्यप्रसवादपचित-शक्तेश्च
मायाख्यस्योपादानकारणस्य विश्रमाय स्वापमव्यापृतत्वम् । इयता
कालेनैते भविनो विश्राम्यन्ति । उपचितसामर्थ्यं च पुनस्सर्गक्षमं
मायाख्यं कारणं सञ्जायत इत्येवमाकलय्य परमेश्वरस्सृष्ट्यर्थं
प्राग्वत् प्रवर्तते ॥

वृत्तिः ।

यथाचैतान्युक्तानि स्वस्मिन् कारणे विलीयन्ते । एवमन्यदपीत्याह ।  

एवं तत्वानि भावाश्च
भुवनानि वपूंषि च ।
शुद्धाशुद्धाध्वनोर्विप्र
व्याख्यातानि समासतः ॥ १९४� ॥

अनेनैव क्रमेणान्यदपि तत्त्वभावभुवनादि सितासिताध्ववर्ति   

यत्किञ्चित्तत्स्वस्मिन् कारणे प्रलीनं सङ्क्षेपतो व्याख्यातं ज्ञेयम् ॥ १९४� ॥

दीपिका ।

एवं तत्वानीत्यादि व्याचष्टे । अनेनैव क्रमेणेत्यादि । अयमभिप्रायः   

पूर्वोक्ताशुद्धतात्विकशरीरवत् शुद्धमपि सूक्ष्मशरीरं
महामायात्मकं शक्त्यवस्थाविशेषरूपं तावत्तत्त्वात्मकमस्तीति
किन्निमित्तमेतच्छुद्धं सूक्ष्मशरीरं कल्प्यत इति चेत्
दीक्षायामेवोपयोगार्थं तथाऽहि आत्मनो व्यापकत्वात् दीक्षायां
ग्रहणादि नोपपद्यत इति यथा मायीयेऽध्वनि सूक्ष्मदेहद्वारा
प्रतिस्थानं सङ्ग्रहयोजनादि क्रियते । एवं शुद्धाध्वनि
वाक्शक्त्यात्मकसूक्ष्मदेहद्वारेण तत्तत्स्थानेषु संयोजनग्रहणादि
क्रियत इति पूर्वोक्तकालादितत्वसमानाभिधानाच्च तेषां न
तत्त्वतिरेकप्रसङ्गः अत एवात्राऽशुद्धाविति यथा मायीयेध्वनि ॥ १९४� ॥

वृत्तिः ।

अत्र मुनिः प्रश्नयति ।  

विद्यापञ्चाणुदेहश्च
बिन्दुर्नादोऽथ कारणम् ।
पञ्चस्कन्धः परो मार्गः
क्व भावाः प्रत्ययास्स्थिताः ॥ १९५� ॥

शुद्धाशुद्धयोरध्वनोस्तत्वभावभूतभुवनानां   

सङ्क्षेपादेवंविधस्स्वस्मिन् कारणे प्रतिसञ्चर इति
यद्भगवताऽस्माकमादिष्टं तत्र विद्यासदाशिवबिन्दुनादपरशक्तिरूपे
शुद्धेऽध्वनि भावाः प्रत्ययाः क्व स्थिता इति प्रश्नार्थः ।

दीपिका ।

कुत्र कुत्र कानि तत्वानि सूक्ष्मरूपेण स्थितानीति मुनिश्चोदयतीत्याह ।   

अत्रेत्यादि । भावाः प्रत्ययास्स्थिता इति । भावादिकारणा बुद्धिः
तदुपलक्षितानि चान्यानि तत्वानीत्यर्थः ॥ १९५� ॥

वृत्तिः ।

अत्र सिद्धान्तः ।  

नादस्सूक्ष्मः कला काल -
रागयुग्मे सपूरुषे ।
स्थूलः पञ्चकलो नादः
पञ्चतत्वाश्रयो मुने ॥ १९६� ॥
प्रधानादिचतुर्ग्रन्थि
निधिर्बिन्दुश्चतुष्कलः ।
गर्वे मनोमुखा देवाः
बुद्धौ भावादयस्स्थिताः ॥ १९७� ॥
पञ्चमन्त्रतनुर्देव -
स्स्थितस्तन्मात्रपञ्चके ।
सूक्ष्मभूतेषु मन्त्रेशाः
मन्त्रास्स्थूलेषु संस्थिताः ॥ १९८� ॥

इदमत्र तात्पर्यं पञ्चस्कन्धस्याऽस्य शुद्धस्याध्वनो   

व्याप्यत्वेनाऽशुद्धोऽध्वा व्यवस्थितः । तत्र
चोच्यमानवद्विशिष्टव्याप्तेर्बिन्दुतत्वस्यान्तर्गतत्वेन
भावप्रत्ययानामवस्थितेर्न कश्चिद्विरोधः । तथाहि सूक्ष्मः परोनादः
कलेति । १कलाव्याप्यत्वादुपचारतः कलाशब्दसामानाधिकारण्येनोक्तः ।
यथा वा निखिलनादबिन्द्वादिप्रमेयाङ्गीकारेण तत्कारणं
परनादस्वरूपमवस्थितमेवं समस्तासिताध्वक्रोडीकारेण कलास्थितेति
तद्भावेन तस्या उपचारः कृतः । कालयुग्मे नियतिकालात्मके । रागयुग्मे
विद्यारागस्वरूपे सपूरुष इति । पुरुषतत्वसहिते । एतानि पञ्चतत्वान्याश्रयो
यस्य स पञ्चतत्वाश्रयः पञ्चकलस्स्थूलो नादः । अनेनैव च क्रमेण
प्रधानगुणमहदहङ्कारलक्षणं यद्ग्रन्धीनां पाशरूपाणां
प्रकृतीनां चतुष्टयं तन्निधिरिति तद्गर्भः
प्रागुक्तनिवृत्यादिकलाचतुष्टयात्मको बिन्दुर्बोद्धव्यः । एतदन्तर्गते च
गर्वेऽहङ्कारतत्वे मनसा सह करणदशकं बुद्धौ तु धर्मादयो
भावाः तदुपादानाश्च प्रागुक्ताः प्रत्ययास्स्थिताः । इत्थं च
सदाशिवनाथः पृथिव्यादितन्मात्रपञ्चकाधिष्ठातृसद्योजातादि-
पञ्चमन्त्रतनुस्तन्मात्रपञ्चकं स्थितः । सूक्ष्मेषु च
सूक्ष्मदेहारम्भकेषु भूतविशेषेषु मन्त्रेशानां व्याप्तिः मन्त्राणां
स्थूलेषु पृथिव्यादिष्वित्येवं
शुद्धोऽप्यध्वैतत्प्रमेयगर्भीकारेणाऽवस्थित इत्यदोषः ॥ १९७� ॥


१। व्यापकत्वदिति पाठः ।

दीपिका ।

सिद्धान्तसूत्रं व्याचष्टे इदमत्रेत्यादि व्याप्यस्याशुद्धाध्वनो   

यावन्तो भेदास्तावन्तस्सूक्ष्मरूपाश्शुद्धेऽप्यस्मिन् पञ्चस्कन्धात्मके
मार्गे स्थिता इत्यर्थः । तत्र १कानि तत्वानीति दर्शयति तथाहीत्यादि ।
प्रधानगुणमहदहङ्कारलक्षणमित्यादि । एषां च कार्ययोनित्वात्
ग्रन्थिशब्देनोक्त इत्यर्थः ॥ १९८� ॥


१। स्कन्धानीति पाठभेदः ।

वृत्तिः ।

अथ व्याख्यातार्थोपसंहाराय व्याख्येयस्य क्रियापादस्य   

चोपक्षेपाय च श्लोकः ॥

इति । यदणुनिरोधिध्वान्तबीजाद्यदृष्टं
पशुमतसृतदृग्भिः पाशजालं सुभूरि ।
तदुपशमनिमित्तं वक्ष्यमाणक्रियातो
रुचदविहतशक्तिश्शाम्भवी मन्त्रसम्पत् ॥

इति श्रीमन्मृगेन्द्रे विद्यापादस्समाप्तः ।

इत्येवमुक्तेन प्रकारेणाणून् पशून् निरुणद्व्यवश्यमित्यणु-निरोधि
ध्वान्तबीजादि मलकर्ममायामहेश्वररोधशक्त्यात्मक-
मनन्ताण्वावारकत्वेनानेकशक्तियोगात्सुष्ठु भूयानतिशयेन
भूयिष्ठं पशुमतेष्वनीश्वरशास्त्रेषु सृता प्रसृता दृक् ज्ञानं येषां
तैरदृष्टमनवगतं पाशानां सम्बन्धि बन्धनहेतुत्वाज्जालमिव जालं
तस्योपशमनहेतोरभिधास्यमानक्रियादेर्हेतुभूतादेव
दीप्यमानाऽप्रतिहतप्रभावा शिवमन्त्रसमृद्धिः । अयमाशयः ।
वक्ष्यमाणदीक्षाक्रियाक्रमोत्तेजितसहजसामर्थ्यया मन्त्रसमृद्ध्या
दीक्सादिकर्मपाशोपशान्तिनिमित्ततामेत्याभ्युदयाय भवतीति
यस्मादचिन्त्यानुपममहिम्नां मन्त्राणां विषापहारादाविव
मलकर्ममायीयपाशच्छेदनेऽपि सामर्थ्यमव्याहतम् । तथाचाह
गुरुस्सिद्धस्सद्योज्योतिः मन्त्रतत्वकरणीयनिरूपणावसरे १विषवन्निकृन्तति
पशोस्तूर्णं मलकर्मयोनिकार्याणि । आराधितं तु सिद्धीर्यच्छति विविधाश्च
साधकेन्द्रेभ्यः इति ।


१। अष्टप्रकरणे तत्वसङ्ग्रहे पञ्चत्रिंशश्लोकः ।

किमप्यनुपयोगि यद्यदपि किञ्चिदप्रस्तुतं
प्रमेयमधिकृत्य तन्नखलु निष्फलं गर्जितम् ।
अपित्ववसरोचितप्रकृतवस्तुमीमांसना -
न्मृगेन्द्रविवृताविह स्फुरतु तद्विदामादरः ॥

शाङ्करकण्ठश्रीम -
द्विद्याकण्ठादनुग्रहं लब्ध्वा ।
नारायणकण्ठ इमां
तत्पुत्रो व्यरचयद्वृत्तिम् ॥

इति श्रीमद्भट्टविद्याकण्ठात्मजश्रीभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ भुवनाध्वप्रकरणम् ॥

॥ समाप्तम् ॥

विद्यापादस्समाप्तः ।

दीपिका ।

इत्यादिश्लोकं व्याचष्टे इत्येवमित्यादि । तत्र क्रियात इत्यादिना   

क्रियापादस्य सामान्येनोपक्षेपः क्रियते । मन्त्रसम्पदित्यनेन तु तत्राऽपि
प्राधान्येन वक्ष्यमाणस्य मन्त्रोद्धारणस्येति शुभम् ॥

पाषण्डापजयं सकाव्यतिलकं भक्तप्रकाशादिकं  
चक्रे वाक्यपदप्रमाणनिपुणः श्रीजन्यया यस्स्वयम् ।  
सोऽयं विप्रशिखामणिश्श्रुतिनिधिश्श्रीमानघोरश्शिवः  
पादेऽस्मिन्नकरोन्मृगेन्द्रविवृतेर्विद्याभिधे दीपिकाम् ॥  

इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायामध्वप्रकरणं
समाप्तम् ॥

विद्यापादस्समाप्तः ।