अथ द्वादशम् इन्द्रियादिप्रकरणम् ।
वृत्तिः ।
इदानीमहङ्कारस्य त्रैरूप्यं तत्कार्याणि तद्विचारश्च प्रस्तूयन्त इति
प्रकरणान्तरारम्भः । प्राग्वत्सम्बन्धपञ्चकमत्राप्यनुसन्धेयम् ।
अथ शेषार्थसिद्ध्यर्थं
स्कन्धानस्यात एव सः ।
त्रीन्निश्चकर्ष सत्वादि
भूयिष्ठानीशशक्तिगः ॥ १ ॥
अथानन्तरं शेषभूतस्यार्थस्य तन्मात्रेन्द्रियादेस्सिद्ध्यर्थम्
अस्याहङ्कारस्य । अत एवेति । अहङ्कारादेव स भगवान् अनन्तरप्रकर-णान्ते
पतिशबेनोक्तो यः स माया गर्भाधिकारिणामनतादीनामी-शानां
शक्तिगः तदभिव्यक्तशक्तिः सत्वरजस्तमोबहुलान् त्रीन् स्कन्धान् पर्वाणि
निश्चकर्ष कृष्टवान् । अविभिन्नमहङ्कारमाविर्भाव्य त्रिधा
व्यभजदित्यर्थः ॥ १ ॥
दीपिका ।
अथ द्वादशमिन्द्रियादिप्रकरणम् ।
अथेत्यादिप्रकरणमवतारयति इदानीमित्यादि । प्राग्वदित्यादि । तत्र
पाटलिकस्सम्बन्धः पूर्वपटलान्तेः दर्शितः । वाक्यात्मकोऽपि
गुणधीगर्वचित्ताक्षमात्राभूतान्यनुक्रमात् इत्यादिवाक्यैः । १अन्ये तु
पाशपदार्था रम्भ एव प्रोक्ता इति स इति पदं प्रकृतपरामर्शीत्याह ।
भगवानित्यादि । ननु शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः
इत्युक्तम् अत आह । स मायागर्भाधिकारिणामित्यादि । निश्चकर्षशब्दोऽत्र
विभागवाचीत्याह । अविभिन्नम् इत्यादि ॥ १ ॥
१। अन्ये तु सम्बन्धा इत्यर्थः । इन्द्रियादीनामपि पाशत्वात्
पाशप्रकर्णारम्भ एवोक्ता इत्यर्थः ।
वृत्तिः ।
तदेव त्रैविध्यमाह ।
तैजसो वैकृतो योऽन्यो
भूतादिरिति स स्मृतः ।
तेभ्यस्समात्रका देवा
मात्रेभ्यो भूतपञ्चकम् ॥ २ ॥
तैजसवैकारिकभूतादिकसञ्ज्ञकेभ्यस्तेभ्योऽहङ्काररकन्धेभ्यो
देवा बुद्धीन्द्रियकर्मेन्द्रियाख्याः समात्रकाः
तन्मात्रासहितास्तन्मात्रेभ्यश्च भूतपञ्चकमभिव्यक्तमिति शेषः ॥ २ ॥
दीपिका ।
तदेवेत्यादि सत्वादिधर्मोऽहङ्कारस्य (१दधान) दघ्न इव सारात्
सारभूततया विभिन्नकार्यजनकस्वभावस्तैजसादिभेदभिन्न इत्यर्थः । एते
च तैजसादयः सत्वरजस्तमोबाहुल्यात् भिन्ना इत्यनन्तरमेव वक्ष्यति ।
कार्यस्य त्रैविध्यादप्यहङ्कारस्त्रिविधस्सिद्ध इति तेभ्यः इत्यादिनोच्यत इत्याह
। तैजस इत्यादि २देवव्यवहारहेतुत्वात् देवशब्देनेन्द्रियाणि उच्यन्त इत्याह । देवा
इत्यादि ॥ २ ॥
१। मातृकाद्वयेपि दधान इत्येववर्तते दघ्न इति स्थातव्यन्ति ।
२। ज्ञानरूपव्यवहार इत्यर्थः ।
वृत्तिः ।
अथ कुतः किमभिव्यक्तमित्याह ।
श्रोत्रं त्वक् चक्षुषी जिह्वा
नासा च मनसा सह ।
प्रकाशान्वयतस्सत्वा -
स्तैजसश्च स सात्विकः ॥ ३ ॥
श्रोत्रादिबुद्धीन्द्रियपञ्चकस्य मनसश्च यत्प्रबोधकत्वात्
प्रकाशान्वयोऽस्ति अतस्सात्विका एते देवाः । सच सात्विक एव
तत्प्रकृतिरहङ्कारस्कन्धः तैजसो नाम ज्ञेयः ॥ ३ ॥
दीपिका ।
श्रोत्रमित्यादिना तदेव विभागेन १प्रपञ्चयतीत्याशङ्कापूर्व-
कमाह । अथेत्यादि । स च सात्विक इत्यादि । ततश्च
बुद्धीन्द्रियात्मककार्यद्वारेणाऽऽत्मनो ज्ञानशक्तिरुन्मील्यते ॥ ३ ॥
१। सूत्रकृदिति शेषः ।
वृत्तिः ।
वाणी पाणी भगः पायुः
पादौ चेति रजोभवाः ।
कर्मान्वयाद्रजो भूयान्
गणो वैकारिकोऽत्र यः ॥ ४ ॥
वाक्पादपाणिपायूपस्थाः पञ्च राजसा देवाः । तेषां
कर्मान्वयात् कर्मेन्द्रियत्वात् रजोबहुलो वैकारिकाख्योऽहङ्कारस्कन्धः
प्रकृतिभूतः ॥ ४ ॥
दीपिका ।
तेषामित्यादि । कर्मेन्द्रियद्वारेण वैकारिकेणापि क्रियाशक्तिरुन्मीरुयते ॥ ४ ॥
वृत्तिः ।
शब्दस्स्पर्शश्च रूपञ्च
रसो गन्धश्च पञ्चमः ॥
गुणाऽविशिष्टास्तन्मात्रा
स्तन्मात्रपदयोजिताः ॥ ५ ॥
शब्दस्पर्शरूपरसगन्धा अविशिष्टगुणा अनभिव्यक्तविशेषत्वेन
तावन्मात्रपदे भूतप्रकृतिरूपे योजितास्तन्मात्राशब्देन ज्ञेयाः ।
तावत्यश्च मात्रास्तन्मात्रा इति स्त्रीलिङ्गोऽयमिहतन्मात्राशब्दः ।
गुणाऽविशिष्टत्वं चैतासामित्थम् । यथा पृथिव्यां
खटखटादिरूपश्शब्दः स्पर्शश्चाशीतोष्णः रूपमप्यनेकविधं
षड्विधश्च रसः गन्धश्च सुरभ्य सुरभिरूपोऽस्ति । नैवं
तत्कारणभूतपृथिवीतन्मात्रावस्थिता विशेषा उपलभ्यन्ते । अपि
त्वविशिष्टगुणपञ्चकमात्रं पृथिवीतन्मात्रमेवं मन्यते ॥ ५ ॥
दीपिका ।
शब्द इत्यादिसूत्रं व्याचष्टे । शब्दस्पर्शेत्यादि । प्रोक्तानाम-
पीन्द्रियाणाम् अविभुत्वात्तेषामाधारत्वेनैतानि शब्दादीनि तन्मात्राणि
आकाशादीनि च भूतानि स्थितानि इत्युक्तम् । १एतत्कार्यं दशधा
करणैराविश्य कार्यते चेष्टाम् । अविभुत्वात्करणानि तु कार्यमधिष्ठाय
चेष्टन्त ॥ इत्यादि । ननु भूतान्येवोभयवादिसिद्धा-नीन्द्रियाधाराणि भवन्तु
किमन्तर्गतेन तनमात्रपञ्चकेन तत्राह । अनभिव्यक्ताविशेषत्वेनेत्यादि ।
स्थूलसूक्ष्मरूपत्वेन तानीन्द्रिया-धाराणि स्थितानीत्यर्थः तदुक्तं
मतङ्गे तन्मात्राणीह घटवन्म-हाभूतानि लेपवत् । इति । किञ्च पृथिव्यादीनि
भूतानि पञ वक्ष्यमा-णानि अस्मदादिबाह्येन्द्रियपरिच्छेद्यगुणत्वात्
घटादिवत्कार्याणि । अतस्तेषां कारणेन भवितव्यम् । यानि च कारणानि तानि
तन्मात्राणीति ॥ ५ ॥
१। अष्टप्रकरणे तत्वसङ्ग्रहे चतुर्थश्लोकः ।
वृत्तिः ।
एताश्च तन्मात्राः ।
प्रकाशकर्मकृद्वर्ग
वैलक्षण्यात्तमोभवाः ।
प्रकाश्यत्वाच्च भूतादि
रहङ्कारेषु तामसः ॥ ६ ॥
प्रकाशकृत्सात्विको बुद्धीन्द्रियमनोलक्षणो यो वर्गः यश्च
कर्मकृद्राजसत्वाद्व्यापारप्रवृत्तः कर्मेन्द्रियवर्गस्ताभ्यां
वर्गाभ्यां वैलक्षण्यं वैसादृश्यं यस्मादेतासां
तन्मात्राणामतस्तमोभवा एताः । प्रकाश्यत्वाच्चेति एषु
चाहङ्कारस्कन्धेषु मध्याद्योऽयं भूतादिरहङ्कारस्कन्धः स
यस्मात्प्रकाश्यः तत्कार्यस्य तन्मात्रात्मनो मनोबुद्धिभ्यां
बुद्धीन्द्रियैश्च योगिभिरुपलभ्यत्वात् ततोऽयं तामसो ज्ञेयः । उक्तं च
साङ्ख्यैः भूतादेस्तन्मात्रास्स तामस इति ॥ ६ ॥
दीपिका ।
प्रकाशेत्यादिसूत्रं व्याचष्टे । प्रकाशकृदित्यादि । ततश्च
तामसेनाहङ्कारेण पूर्वोक्तेन्द्रियशक्तीनामपाटवं जन्यत इत्युक्तं
श्रीमन्मतङ्गादौ । यथा पादपादीनाम् इन्द्रियापाटवं दृश्यते ।
नन्वचेतनास्तरव इति केचित्सौगताः । तदयुक्तम् । मेषादिवत् कृत्स्नत्वगपहरणे
मरणदर्शनात् ऋतुभावयुक्तत्वाच । यतः कामिनीपरिष्वङ्गण्डूषादिना
कुरवकवकुलादीनां पुष्पोद्गमो दृश्यते । यदाहुः कुरवक
कुचाघातक्रीडासुखेन वियुज्यसे वकुलाविटपिन् स्मर्तव्यं ते
मुखासवसेचनम् । चरणघटनाशून्यो यस्मादशोक सशोकता
निजपुरपरित्यागे यस्य द्विषां जगदुस्त्रियः ॥ प्रकाश्यत्वादित्यादि व्याचष्टे ।
एषु चेत्यादि । अत एव योगिप्रत्यक्षेणापि तन्मात्रासिद्धिरिति ॥ ६ ॥
वृत्तिः ।
अथ मनसो व्यापार उच्यते ।
देवप्रवर्तकं शीघ्रचारि
सङ्कल्पधर्मि च ।
मनश्शब्दादिविषय
ग्राहकाश्श्रवणादयः ॥ ७ ॥
देवनाद्ध्योतनाद्वा देवा इन्द्रियाणि तेषां प्रवर्तकमुद्योजकम् ।
आशु सञ्चरणशीलं सङ्कल्पगुणं च मनो बोद्धव्यम् । श्रोत्रादयस्तु
देवा यथास्वं शब्दादिविषयग्राहकाः ॥ ७ ॥
दीपिका ।
देवप्रवर्तकमित्यत्र देवशब्दार्थमाह । देवनात् द्योतनाद्वेत्यादि ।
विषयप्रकाशनात् । तेषामित्यादि । तच्च मनस्सङ्कल्पेनाऽऽन्तरेण
बाह्येन्द्रियाधिष्ठानेन च द्विधाकारीत्युक्तं श्रीमन्मतङ्गे
१द्विधाधिकारि तच्चित्तं भोतुर्भोगोपपादकम् । बहिः करणभावेन स्वोचितेन
यतस्सदा । इन्द्रियाणां तु सामर्थ्यं सङ्कप्लेननात्मवर्तिना ।
करोत्यन्तस्स्थितिं भूयस्तेनान्तःकरणं मन इति । आशुसञ्चरणशीलमिति ।
एतच्चानन्तरमेवोपपादयिष्यति । सङ्कल्पगुणं चेति
सङ्कल्पोऽवधानमेकाग्रता । तस्य न गुद्धिर्हेतुः अहङ्कारो वा ।
क्रियारूपत्वेनाप्रत्ययरूपत्वात् ग्राह्यग्राहकप्रत्यययो २स्तौ हेतू इत्युक्तम् ।
ततोऽन्यदेवेदं क्रियात्मकमवधानं नामेति यस्तस्य हेतुस्तन्मन इति । एतच्च
तत्वान्तरेत्यादिनाऽनन्तरमेव वक्ष्यति । अथ कथमेव
बुद्धीन्द्रियमनेकविषयं बुद्ध्यादिवन्नेष्यते । अत आह । श्रोत्रादयस्त्वित्यादि
अयमर्थः । ३यद्येकमिन्द्रियं स्यात् चक्षुषैव शब्दादयोऽपि गृयेरन् ।
श्रोत्रादिना च रूपादयो न गृह्यन्ते । तेन नैकम् । अपि तु बहूनीति ॥ ७ ॥
१। अहङ्कारपटले अशीतितमं पद्यम् ।
२। बुद्ध्यहङ्कारादित्यर्थः ।
३। अनेकविषयमेकं यदि बुद्धीन्द्रियं स्यादित्यर्थः ।
वचनादानसंह्लाद
विसर्गविहृतिक्रियाः ।
वागादीनां पदान्यत्वं
पदे सत्यप्यतद्गुणाः ॥ ८ ॥
वचनं भाषणमादानं ग्रहणम् आह्लाद आनन्दः
विसर्गोमलवियोगः विहृतिस्सञ्चारः एताः क्रियाः क्रमेण वागादीनां
ज्ञेयाः । काकाक्षिन्यायेन वागादीनामिति योज्यम् । ततश्च । वागादीनां
पदान्यत्वम् इति । यत्तस्याऽऽश्रभूतं स्थानं ततोऽन्यदेवेन्द्रियं न हि
कर्णशुष्कुल्यादेरेव श्रवणादित्वम् । अपि तु तत्स्थानस्थाया इन्द्रियशक्तेः ।
कुत इत्याह । पदे सत्यपीति पदे सत्यप्यतद्गुणास्तच्छक्तिविरहिणि जना दृश्यन्ते ।
नैचैषां तानि स्थानानि न सन्ति ॥ ८ ॥
दीपिका ।
एवं क्रियाभेदात्कर्मेन्द्रियभेदो वचनेत्यादिनोच्यत इत्याह । वचनं
भाषणमित्यादि । अनेन च कर्मेन्द्रियाणि ये नेच्छन्ति नैयायिकादयस्ते
प्रतिक्षिप्ताः । नाकरणा कृतिर्जन्यते यतः । नन्वेवं भ्रूलतोत्कम्पादीनां
दन्तच्छदनादीनाम् । नच पञ्चत्वमिति । तत्सत्यं यदि मुख्यतया
शरीरैकदेशवृत्तीन्द्रियाणि अभ्युपगम्येरन् त्वगिन्द्रियवत्
सर्वशरीरव्यापकत्वेन तेषां कर्मेन्द्रियाणामिष्टत्वात् हस्तस्यैव
व्यापारः भ्रूक्षेपादिः । विरचेकाद्यात्मकश्च पाट्वादेरिवेति नानन्तता ।
सर्वशरीरव्यापकत्वेन च तस्मिन्नधिष्ठाने विशेषाभिव्यक्तेः
तन्नामानीन्द्रियाणीति व्यपदेशोऽप्युपपद्यत एव । एतदेवाह । ततश्च इत्यादि ॥
८ ॥
वृत्तिः ।
अथ मनस उत्पत्तौ युक्तिमाह ।
आत्मेन्द्रियार्थनैकृष्ट्ये
सर्वदेवाप्रवृत्तितः ।
प्रवृत्तिकारकास्तित्वं
युक्तितोऽप्यवसीयते ॥ ९ ॥
आत्मनो भोक्तुरिन्द्रियैर्भोगसाधनैरर्थैश्च
शब्दादिभिर्भोग्यैस्सन्निकर्षे सत्यपि सर्वेषां देवानाम् इन्द्रियाणां
यस्मान्न प्रवृत्तिः अपितु कस्यचिदेवाऽऽतो यत्तदिन्द्रियं प्रवृत्तं तस्य
प्रवृत्तौ कारकमस्तीति युक्तितोऽनुमानादवसीयते । यदाहुः युगपत्
ज्ञानानुत्पत्तिर्मनसो लिङ्गम् इति । सर्वदैवेति पाठे इन्द्रियार्थसन्निकर्षे
सत्यपि कदाचिदेवेन्द्रियाणि अर्थ्ग्रहे प्रवर्तन्ते । न सर्वदा । ततो नूनमेषां
प्रवर्तकं किमप्यस्ति । यद्विना न प्रवर्तन्ते इति व्याख्येयम् । अपिस्समुच्चये । न
परमागमः मनस्सत्तावेदको । यावद्युक्तिरपीत्यर्थः ॥ ९ ॥
दीपिका ।
इदानीं पूर्वोक्तेन सङ्कल्पाख्येन धर्मेण मनस्सिद्धिता
आत्मेत्यादिना प्रपञ्च्यत इत्याह । अथ मनस इत्यादि ॥ ९ ॥
वृत्तिः ।
एवं च सति ।
तत्वान्तरोक्तवृत्तिभ्यो
वैलक्षण्याद्विलक्षणः ।
सङ्कल्पो बीजमभ्येति
मनस्तत्पारिशेष्यतः ॥ १० ॥
तत्वान्तराणां कलारागविद्यादीनामुक्ता या वृत्तयो व्यापाराः
ताभ्यास्तावद्वैलक्षण्यं सङ्कल्पाख्यस्य कर्मणोऽस्ति । विलक्षणश्चायं
सङ्कल्पो बीजमुद्भवहेतुं गमयति ज्ञापयति पारिशेष्याच्च
मनस्तद्विज्ञेयम् ॥ १० ॥
दीपिका ।
तत्वान्तरेत्यादि व्याचष्टे । तत्वान्तराणामिति । एतच्च १पूर्वमेव
दर्शितमिति ॥ १० ॥
१। सप्तमश्लोकदीपिकायाम् ।
ज्ञानं तदक्षयोगात्तत्
क्रमयोगितया क्रमात् ।
तथाप्याभाति युगपत्
नाशुसञ्चरणादृते ॥ ११ ॥
तस्य मनसोऽक्षैर्योगात् ज्ञानमुत्पद्यते । तच्च क्रमयोगितया क्रमिकं
यथा रूपानुभवकाले न स्पर्शानुभवः रसाद्यनुभवो वा । यद्यपि
स्वादुसुरभ्यभिजातमर्मरशब्दवदभिरूपं चन्द्रार्-
चिश्शष्कुल्यादिकमास्वाद्यमानं युगपत्पञ्च ज्ञानोत्पादहेतुः ।
तथाप्युत्पलपत्रशतव्यक्तिभेदवदलक्ष्यसूक्ष्मक्रमाणि क्रमिकाण्येव तानि
रसादिज्ञानानि । एतच्च शीघ्रसञ्चारितां विना युगपन्मनसः
पञ्चज्ञानोत्पादनादिकं नाभाति न प्रकाशते ॥ ११ ॥
दीपिका ।
इदानीं शीघ्रचारित्वं च पूर्वोक्तं साधयितुं ज्ञानमित्यादि
व्याचष्टे । तस्य मनस इत्यादि । अतश्चाविभुत्वात् प्रत्यात्मनियततया-
ऽनेकत्वाच्च कार्यत्वमनेनापि मनसस्सिद्धमिति ॥ ११ ॥
वृत्तिः ।
भौतिकेन्द्रियवाद्यभिप्रायेणाऽऽहङ्कारिकत्वमिन्द्रियाणा-
क्षेप्तुमाह ।
नियतार्थतयाऽक्षाणि
नानायोनीनि कस्यचित् ।
गन्धादिव्यञ्जकत्वाच्च
तदाधारात्मकान्यपि ॥ १२ ॥
शब्दैकग्राहकं श्रोत्रं स्पर्शैकग्राहिका च त्वक् इति । अन्यान्यपि
नियतार्थतया हेतुभूतया कस्यचिद्वादिनः प्रत्यक्षाणीन्द्रियाणि
भिन्नकारणानि । आहङ्कारिकत्वे हि नैषां नियतार्थत्वं स्यात् ।
गन्धादिव्यञ्जकत्वाच्च हेतोस्तेषां गन्धादीनामाधाराः आश्रयाः
पृथिव्यादयस्तदाधारात्मकानि । दृष्टं हि पार्थिवमेव द्रव्यं
गन्धव्यञ्जकं घ्राणं च गन्धस्य ग्राहकम् । तस्मात्पार्थिवं घ्राणम्
। आप्यं रसनम् । तैजसं चक्षुरित्येवमन्यत् ॥ १२ ॥
दीपिका ।
नियतार्थतयेत्यादिना मुनिर्वैशेषिकादिच्छायया चोदयतीत्याह ।
शब्दैकग्राहकमिति । कस्यचिद्वादिन इति । वैशेषिकादेः ॥ १२ ॥
वृत्तिः ।
तत्किं युक्तं नवा इत्याह ।
तथास्तु यदि नादत्ते
सगुणं कारणान्तरम् ।
त्वगिन्द्रियमयुक्तार्थ
ग्राहि युक्तपराङ्मुखम् ॥ १३ ॥
तेजोवारि महीद्रव्यं
दृगादत्ते सरूपकम् ।
ततस्त्रिद्रव्यजा सा स्यात्
न परेणेष्यते तथा ॥ १४ ॥
एकैकमिन्द्रियं स्वकारणादन्यत् कारणान्तरं गुण सहितं यदि
नादत्ते न गृह्णाति तत् तथास्तु । अयमर्थः यदीन्द्रियं
स्वकारणसमानजातीयद्रव्यं तद्गुणं च गृह्णीयात् तदानीं
विषयनियमः प्रकृतिनियमगमक इष्यते । यावता द्रव्यान्तराणि
तद्गुणांश्च गृह्णाति तस्मादनियतार्थतया न
तत्प्रकृतिगमकत्वमक्षाणामुपपन्नम् । अथ किं
पगे नो। ३२६ अन्द् ३२७ मिस्सिन्ग्
तददृष्टावरुद्धं वा
तदप्यन्यत्र किङ्कृतम् ।
प्राप्तं गृह्णाति नातोद्ये
शब्दं केनाऽपि दस्युना ॥ १७ ॥
नियतविषयत्वेप्यक्षाणामिदं तावद्भवान् पृष्टो व्याचष्टाम् । यदि
सर्वः कायरन्ध्रविशिष्टो नभोभागश्शब्दवर्गस्येत्यनेकविधस्य शब्दस्य
द्योतकः तन्नासारन्ध्रादिच्छिद्रान्तरं तथाविधत्वादुच्यताम् । केन
तद्ग्रहणं निवार्यते । अथात्रादृष्टं पुरुषार्थप्रदं कर्माख्यमस्ति ।
येन श्रोत्रनभोभाग एव शब्दवर्गावभासकः न नासारन्ध्रादिरिति
नियमः तर्हि तदपीति तथाऽपि । अन्यत्रेति । अन्यस्मिन् पक्षेऽपि
तथात्वाभ्युपगमस्य का क्षतिः । तत्र हि किङ्कृतं को बाधको जातः
आहङ्कारिकत्वे सत्यपि अदृष्टावरुद्धत्वस्य को दोष इत्यर्थः । अन्यथा हि
आतोद्ये तन्त्रीवंशमुरजादिवाद्ये प्राप्तमपि
आस्यनासारन्ध्रसन्निकर्षस्थमपि शब्दं तदास्यरन्ध्रं घ्राणच्छिद्रं
वा किं केनाऽपि दस्युना दुराचारेण शब्दत्वाच्छब्दं न गृह्णातीति काक्वा
व्याख्येयम् । एतच्च प्रोक्तवद्युक्त्युपपन्नम् ॥ १६ = १७ ॥
दीपिका ।
एतच्च कायरन्ध्रेन्यादिना दर्शयतीत्याह नियतविषयत्वेपीति । अन्यथेति ।
भौतिकत्वपक्षे । नासारन्ध्रमप्युपलक्षणमित्याह । आस्यरन्ध्रमित्यादि ।
शब्दमपि हेतुगर्भविशेषणमित्याह शब्दत्वादिति । एतच्चेत्यादि ।
आहङ्कारिकत्वमिन्द्रियाणामित्यर्थः । ततश्च बुद्धीन्द्रियाणि कर्मेन्द्रियाणि
चाऽऽहङ्कारिकाणि सिद्धानीति ॥ १६ = १७ ॥
वृत्तिः ।
यत्राऽपि च युक्तिर्गमिका न सम्भवति तत्र ।
युक्त्यगम्येऽपि सद्वाक्यात्
प्रतीतिरनुपद्रवा ।
मितार्थादमितार्थस्य
ज्यायस्त्वमिति सूरयः ॥ १८ ॥
असम्भवद्युक्तिकेऽपि वस्तुनि सदागमोक्तेः प्रतीतिरवगमो निर्बाधः ।
कुत इत्याह । मितार्थादिति । यस्माल्लिङ्गसाऽपेक्षत्वेन परिमितार्थादनुमानात् ।
सर्वदर्शिज्ञानस्याऽऽगमरूपस्यापरि-मितार्थत्वेन
ज्यायस्त्वमित्यागमविदः ॥ १८ ॥
दीपिका ।
एतच्चाऽऽगमेनापि सिद्धमित्यभिप्रायेण शैवागमस्य
प्रामाण्यमनिवार्यमित्याह । यत्राऽपि चेत्यादि । तत्र च बुद्धीन्द्रियाणि मनः
प्रेरितानि स्वस्थानादेव प्रवर्तन्ते कर्मेन्द्रियाणि तु स्वस्थाने
क्रियामुत्पादयन्तीत्युक्तं श्रीमन्मतङ्गे १विकृष्टं बुद्धिदेवानां
सन्निकृष्टं क्रियात्मनाम् इति ॥ १८ ॥
१। अहङ्कारपटले पञ्चनवतितमश्लोकः ।
वृत्तिः ।
मात्राभ्यो भूतपञ्चकमिति यदुपक्रान्तं तद्विशेषयितुमाह ।
व्योमप्रभञ्जनाग्न्यम्बु -
भूमयो भूतपञ्चकम् ।
शब्दाद्येकोत्तरगुण -
मवकाशादिवृत्तिमत् ॥ १९ ॥
धूननज्वलनप्लाव
खरत्वावेदिनो गुणाः ।
शब्दा वाय्वादिषु व्योम्नि
सवर्णप्रतिशब्दगाः ॥ २० ॥
आकाशो वायुर्वह्निजलं पृथिवी भूतपञ्चकम् । एतच्च
शब्दाद्येकोत्तरगुणम् । शब्दादय एकोत्तरगुणा यस्य तदेवं तेन
शब्दैकगुणकमाकाशं शब्दस्पर्शगुणो वायुः
शब्दस्पर्शरूपगुणोऽग्निः शब्दस्पर्शरूपरसगुणं जलं
शब्दादिपञ्चगुणा पृथिवीति वक्ष्यमाणावकाशादिवृत्तियुक्तं चैतत्ज्ञेयम्
। य एते वाय्वादिषु गुणाश्शब्दादयस्ते धूननज्वलनाद्यावेदिनः ।
यतश्शकशकशब्दो वायौ कम्पनावेदकः । धकधकशब्दोऽग्नौ ज्वलनं
सूचयति एवं चलचलशब्दोऽम्भसि वहनम् । खडखडशब्दश्च पृथिव्यां
खरत्वं कथयति । एते च शब्दा एतेषां परस्पराहतिवशात् उत्पन्नाः ।
व्योम्न्याकाशे सवर्णं समानाक्षरं प्रतिशब्दं गायन्तीति
सवर्णप्रतिशब्दगा भवन्तीति शेषः । तदुक्तं भोगकारिकासु
१शब्दस्तद्द्रव्यजनितः पृथक्भूतचतुष्टये । प्रतिशब्दकसङ्घातो
नभस्येवोदितो बुधैः । इति ॥ १९ = २० ॥
१। एकादशश्लोकः ।
दीपिका ।
अथ भूतानि दर्शयितुं व्योमेत्यादिसूत्रद्वयं व्याचष्टे ।
शब्दैकगुणकमाकाशमित्यादि । ननु १वैशेषिकैर्न स्पर्शवत्
विशेषगुणश्शब्दोऽस्मदादिप्रत्यक्षत्वे सति आकारणगुणपूर्वकत्वात्
अयावद्दृव्यभावित्वात् सुखादिवदिति शब्दस्य वाय्यादिविशेषगुणत्वं
निषिद्धमेव । तदयुक्तम् । सिद्धसाधनत्वात् । यतो नास्माभरपि स्पर्शवतां
विशेषगुणश्शब्द इष्यते । अपि तु भूततन्मात्रवर्तित्वेन सामान्यगुण एव ।
अतस्स्पर्शवतां गुणा न भवन्तीत्येतावदेव साध्यते । तत्राऽपि यदि
प्रतिश्रुक्शब्दो धर्मः तथाऽपि सिद्धसाधनता ।
एतस्याऽऽकाशगुणत्वेनोक्तत्वात् स्पर्शवद्गुणत्वं सिद्धमेव यतः
सुखदुःखविशेषगुणवत्साधितस्तत्राऽपि प्रत्यक्षविरोधः । ततः प्रत्यक्षेण
स्पर्शवतां पृथिव्यादीनां धर्माः प्रतीयन्ते । एतदेवाह ।
यतश्शकशकादिशब्दो वाय्यादावित्यादि । प्रतिशब्दस्याऽऽकाश एवाऽऽश्रय
इत्यर्थः ॥ १९ = २० ॥
१। वैशेषिकोक्तेति पाठो वर्तते ।
वृत्तिः ।
अवकाशादिवृत्तिमदिति भूतपञ्चकस्य सामान्यं
यद्विशेषणमुक्तं तद्विभज्य वक्तुमाह ।
व्यूहोऽवकाशदानं च
पक्तिसङ्ग्रहधारणाः ।
वायुव्योमहुताशाम्बु
धरणीनां च वृत्तयः ॥ २१ ॥
व्यूहो विरचनं वायोर्वृत्तिः अवकाशस्याऽऽस्पदस्य दानं व्योम्नो
व्यापारः । पक्तिः पाकस्तेजसः । सङ्ग्रहोऽवष्टम्भोऽम्भसाम् । धारणं
धृतिर्धरण्याः ॥ २१ ॥
दीपिका ।
व्यूहेत्यादिसूत्रं व्याचष्टे । व्यूहो विरचनम् इत्यादि ।
व्यूहोऽवयवघटनम् । इदं चोपलक्षणं कम्पादेः । यदाहुः
स्पर्शशब्दधृतिकम्पलिङ्गो वायुः इति । अवकाशस्येत्यादि अवकाशात्मना
कार्येणाऽऽकाशोऽनुमीयत इति भावः । ननु कैश्चिज्जैमिनीयैः अवकाशस्य
प्रत्यक्षत्वात् तत्प्रत्यक्षमित्यभ्युपगतम् । यदाह मण्डनः (भगवतो
विवेके) कथं गम्येत वचसो नियता परदेशता । पततोह्यक्षनिर्वृत्तो विभागो
देशसङ्गमः । इति । तदयुक्तम् । मूर्तद्रव्याभावात्मकात्
अवकाशात्तदाकाशं १प्रत्यक्षसिद्धं स्यात् । अरूपत्वाच्च
ततोऽन्यथासिद्धाद्धेतोः आकाशस्य प्रत्यक्षत्वासिद्धिः । किमिदं तर्हीहेति
दृश्यते । आलोकाख्यतेजोद्रव्यमेव सकलव्यापीति । ततश्शकुनसंयोगविभागौ
प्रत्यक्षसिद्धाविति । कथं तर्हि आकाशस्यावकाशमिति प्रतीतिः ।
मूर्तद्रव्याभावात्मकमिति मूर्तद्रव्याभावात्मकावकाशावच्छेदेन
शब्दस्याऽऽश्रयतया २सिद्धम् । ततो भ्रान्त्या तद्रूपेण प्रतिपत्तिर्न
परमार्थतः । तथाहि शब्दो हि गुणत्वादाश्रयमपेक्षते । यथा चित्ररूपं
पटकुड्यादि । न चावकाशः मूर्तद्रव्याभावात्मकत्वात् आश्रयो
भवितुमर्हति । ततस्तु आकाशविशिष्टस्य शब्दस्य सिद्धत्वादाकाशं
शब्दगुणकं ततः प्रतीयत इति । यद्येवं प्रत्यक्षत्वाच्चाकाशं नित्यमेव
स्यात् । तन्न । पृथिव्याद्यपेक्षया सूक्ष्मस्येवोक्तत्वात् तन्मात्राकार्यत्वेन
तदपेक्षया स्थूलत्वात् । असर्वगतत्वाच्च । यदाहुः असर्वगतद्रव्यपरिमाणा
मूर्तिरिति । ततो मूर्तत्वादसाधारणरूपस्य प्रत्यात्मनियतत्वेनानेकत्वाच्च
तदनित्यं सिद्धमेव । साधारणरूपस्याऽपि भुवनाधारत्वेन
वक्ष्यमाणत्वात् । भुवनानां सन्निवेशविशिष्टानां विनाशोनुपपत्तेः ।
यद्वक्ष्यति दृष्टं पुरादि यद्भोग्यं मूर्तं प्रलयधर्मि चेति पाकस्तेजस
इति । एतच्चोपलक्षणं प्रकाशादेः । ततश्चाग्नेर्भौमाऽऽकरजादिर्भेदः
भौमस्य चाऽऽहवनीयादिभेदश्च श्रीमन्मतङ्गादेरवधेयः ॥ २१ ॥
१। कथं स्यादित्यर्थः ।
२। आकाशमिति शेषः ।
वृत्तिः ।
अत्र मुनिर्वैशेषिकच्छायया प्रश्नयति ।
शब्दः खगुण एवेति
तदन्यत्रोपब्धितः ।
ब्रूवते भगवन् केचि -
त्सर्वभूतगुणः कथम् ॥ २२ ॥
हे भगवन् यतो भेर्यादेरुत्पद्यते । तदन्यत्रोपलम्भात् । खगुण इति ।
आकाशगुण एव शब्द उपपद्यते । आश्रयादन्यत्रोपलब्धेः । न
स्पर्शवद्विशेषगुण इत्यर्थः । अथश्च कथमयं सर्वभूतगुण उच्यते ॥ २२
॥
दीपिका ।
पुनरपि शब्दस्य पञ्चभूतगुणत्वं शब्दः खगुण इत्यादिना
आक्षिपतीत्याह अत्र मुनिरित्यादि । तदन्यत्रोपलम्भादिति । श्रवणाकाशादौ ॥ २२
॥
वृत्तिः ।
अत्रोच्यते ।
क्वान्यत्र श्रवणाकाशे
कथमन्यत्र तद्गुणः ।
परेष्टादाश्रयात्तत्र
निर्णेतानुभवो नृणाम् ॥ २३ ॥
आश्रयादन्यत्रोपब्धित इति यदुक्तं तत्क्वान्यत्र यदि श्रवणाकाश
इत्यभिमतं तत्तद्गुणश्चान्यत्र चेति कथम् । अयमाशयः ।
तदित्याकाशपरामर्शः । तद्गुणस्सन् श्रोत्राकाशे उपलभ्यमानः
कथमन्यत्रेत्युच्यते । अथ परेष्टादाश्रयादित्यभिमतं न तद्युक्तम् । अत्र
ह्यनुभवः पुंसां सम्बन्धी निश्चायकः । शब्दाश्रय एव शब्द
उपलभ्यते । तथाहि इह मुरजे शब्दः इह वीणायां शब्दः इति प्रतीतिः ॥ २३ ॥
दीपिका ।
परिहारसूत्रं व्याचष्टे आश्रयादित्यादि ॥ २३ ॥
वृत्तिः ।
कदाचित्कर्णमूलेऽपि
संविदित्यथ मन्यसे ।
श्रोत्रवृत्तिवदस्याऽपि
परिणामोऽस्तु का क्षतिः ॥ २४ ॥
अथ मन्यसे कदाचित्कर्णमूलेऽपि संविद्भवतीति । किञ्चातः ।
किमेतावताऽऽकाशैकगुणत्वं शब्दस्य सिद्ध्यति ।
श्रोत्रवृत्तिवद्वीचितरङ्गवृत्त्याऽस्यापीति शब्दस्य परिणामाच्छोत्रनिकटेऽपि
कदाचिदुपलम्भोऽस्तु । नचैतावता काचित्क्षतिः । नच प्रत्यक्षागमव्याहता
हेतवोऽर्थं गमयन्ति । हेत्वाभासत्वात् । यथा सेव्यं नरशिरः कपालं
शुचित्वात् । जाड्यजनकोऽग्निरनुष्णत्वादित्यादौ ॥ २४ ॥
दीपिका ।
कदाचिदित्यादिपूर्वपक्षशङ्कां व्याचष्टे । अथेत्यादि
परिहारत्वेनोत्तरार्थं व्याचष्टे । किञ्चात इत्यादि ।
ततश्चाऽऽश्रयादन्यत्रोपलब्धेः इत्ययं हेतुः प्रत्यक्षागमबाधितत्वेन
कालात्ययापदिष्टत्वात् अयुक्त त्याह । नचेत्यादि ॥ २४ ॥
वृत्तिः ।
तदाह ।
आगमाध्यक्षविहत
हेतवो नार्थसाधकाः ।
कालात्ययापदिष्टत्वात्
इति न्यायविदो विदुः ॥ २५ ॥
आगमेन इति पञ्चसु शब्दोऽयम् इत्यादिना । प्रत्यक्षेण
स्पर्शद्विशेषगुणत्वानुभवात्मकेन येषां बाधस्सम्भवति ते हेतवः
कालात्ययापदिष्टत्वात् नार्थसाधका भवन्तीति न्यायविदो मन्यन्ते ॥ २५ ॥
वृत्तिः ।
यदि वाऽश्रयादन्यत्रोपलब्धेराकाशगुणत्वं शब्दस्योच्यते ।
तदानीम् ।
इत्यपि स्थितमेवायं
गन्धोऽप्यस्तु नभोगुणः ॥ २५� ॥
इदमपि प्रसज्यत इत्यर्थः । किं तदित्याह अयङ्गन्ध इति । येन
केतकीपुष्पादेर्वैकृष्येप्युपलभ्यते । आश्रयादन्यत्रोपलब्धेः अयं
गन्धोऽप्याकाशगुण इत्यवश्यमवस्थितम् । यतः
केतकीचम्पककुसुमादेरतिविप्रकृष्टत्वेऽपि अनुभूयते गन्धः । अस्य च
प्रत्यक्षेणाऽऽगमेन वा यथा बाधस्तथा
प्रागुक्तस्याऽऽश्रयादन्यत्रोपलब्धेरित्यस्य हेतोर्हेत्ववरत्वमिति तात्पर्यम् ॥
२५� ॥
दीपिका ।
दूषणान्तरमपि इत्यादिसूत्रखण्डेनाऽऽक्षिपतीत्याह । यदिवेत्यादि ।
अयमित्यादिना तदेव दृश्यत इत्याह । आश्रयादन्यत्रेत्यादि अत एव चास्य हेतोः
प्रत्यक्षबाधा सिद्धेत्याह । अस्य चेत्यादि ॥ २५� ॥
वृत्तिः ।
उपसंहरन् भूतचतुष्टयगुणविशेषानाह ।
इति पञ्चसु शब्दोऽयं
स्पर्शो भूतचतुष्टये ।
अशीतोष्णौ महीवाय्वोः
शीतोष्णौ वारितेजसोः ॥ २६� ॥
भास्वदग्नौ जले शुक्लं
क्षितौ शुक्लाद्यनेकधा ।
रूपं त्रिषु रसोम्भस्सु
मधुरष्षड्विधः क्षितौ ॥ २७� ॥
गन्धः क्षितावसुरभिः
सुरभिश्च मतो बुधैः ॥ २८ ॥
इत्यनया उक्तया युक्त्या पञ्चसु भुतेष्वयं शब्दः
एष्वेवाऽऽकाशवर्जितेषु स्पर्शः तत्र मह्यां वायौ चाशीतोष्णः अम्भसि
शीत एव तेजस्युष्ण एव । रूपं त्रिष्विति । पृथिव्यप्तेजस्स्वेव । तत्राग्नौ
भास्वरं प्रदीप्तं जले शुक्लं क्षितौ शुक्लाद्यनेकविधम् । रसः
क्षित्यम्भसोः । तत्राप्यम्भसि मधुरः । क्षितौ
कट्वम्ललवणतिक्तकटुकषायाः । गन्धः पृथिव्यां सुरभ्यसुरभिरूपो
विद्वद्भिरिष्टः ॥ २६ = २८ ॥
दीपिका ।
भूतानां शब्दाद्येकोत्तरगुणत्वं प्रपञ्चयतीत्याह । इत्यनयेत्यादि ॥ २८ ॥
वृत्तिः ।
अथ यथैषां भूतानां शरीरसन्निविष्टत्वं तथोच्यते ।
देहेऽस्थिमांसकेशत्वक्
नखदन्तेषु चावनिः ।
मूत्ररक्तकफस्वेद
शुक्लादौ वारि संस्थितम् ॥ २९ ॥
हृदि पक्तौ दृशोः पित्ते
तेजस्तद्धर्मदर्शनात् ।
प्राणादिवृत्तिभेदेन
नभस्वानुक्त एव ते ॥ ३० ॥
गर्ववृत्त्यनुषङ्गेण
खं समस्तासु नाडिषु ॥ ३० ॥
अस्थिमांसादौ पृथिवी भौतिके शरीरेऽवस्थिता । मूत्ररक्तादौ जलम् ।
हृत्प्रदेशे पक्तौ पाकक्रियायामन्नपानेन्धनमौदर्यं तेजः । दृशोः पित्ते
च तत्स्थितम् । तद्धर्मदर्शनादित्येकैकस्मिन् योज्यम् । तत्र हृदि
तद्धर्मस्योष्णस्य पक्तौ तद्धर्मस्य पाकस्य दृशोः प्रकाशस्य पित्ते च
सन्तापौज्वल्यादेरुपलम्भात् तैजसं निविष्टम् । प्राणापानादिवृत्तिभेदेन
वायुर्यथाऽवस्थानावस्थितः तथाच तवोक्त एवेति वक्ता श्रोतारं
भरद्वाजं मुनिं स्मारयति । यदुक्तं प्राक् १वृत्तिः प्रणयनं नाम
यत्तज्जीवनमुच्यते । इति । सर्वासु च नाडीष्वाकाशं
गर्ववृत्त्यनुषङ्गेणेत्यहङ्कारव्यापारानुषङ्गात्स्थितम् ॥ २९ = ३० = ३०� ॥
१। प्रत्ययप्रकरणेद्वाविंशतितमःश्लोकः ।
दीपिका ।
अथ बाह्यशरीरभूतानामस्थ्यादीनां स्थितिः देहेत्यादिनोच्यते
इत्याह । अथ यथैषामित्यादि । अत्र
गर्ववृत्त्यनुषङ्गेणाहङ्कारव्यापारप्रसङ्गेन नभस्वानुक्तः ।
स्वमाकाशं समस्तासु नाडीषु अवकाशदायकत्वेन स्थितमिति व्याख्येयम् ।
कथं पुनराकाशं गर्ववृत्त्यनुषङ्गेणेत्यादि ॥ २९ = ३० = ३०� ॥
वृत्तिः ।
इदानीं कलादिक्षित्यन्ततत्त्वव्रातं सूक्ष्मदेहारम्भकत्वेन
वक्तुमाह ।
प्रयोक्त्र्यादिमहीप्रान्त
मेतदण्वर्थसाधनम् ।
प्रत्यात्मनियतं भोग
भेदतो व्यवसीयते ॥ ३१� ॥
प्रयोजयति क्रियाशक्त्युत्तेजनेन पुमांसमिति प्रयोकी कला तदादि
क्षित्यन्तं चैतत्तत्त्वबृन्दं पुमर्थसाधनमेकैकस्याऽऽत्मनो
नियतमसाधारणं भोगभेदात्प्रतीयते । साधारणत्वे
भोगभेदानुपपत्तेः । ननु भोगभेदे कर्मणो निमित्तत्वमित्युक्तम् । सत्यम् । न
साक्षात् । अपि तु पारम्पर्येण । तथाहि कर्मकृतस्तत्वशरीरभेदः
तद्भेदकृतं च भोगवैचित्र्यमित्यदोषः । सतु भोगभेदः
करितुरगादिभेदभिन्नसूक्ष्मशरीरवैचित्र्यं विना न भवतीत्यत्राऽपि
कर्मण एव हेतुतेति न कश्चिद्दोषः ॥ ३१� ॥
वृत्तिः ।
एतच्च सूक्ष्मशरीरम् ।
सर्वतो युगपद्वृत्ते -
रनुत्पादादसर्वगम् ।
भिन्नजातीयमप्येक
फलं दीपाङ्गवस्तुवत् ॥ ३२� ॥
यद्येतत्सर्वगं विभु स्यात् तत्सर्वत्र यौगपद्येन वृत्त्युत्पादो भवेत् ।
नचैवम् । यावता क्वचिदेकदेश एवैतद्वृत्तैः
कर्मफलोपभोगलक्षणायास्समुत्पादो भिन्नजातीयमनेककलादि
प्रत्युद्भूतमपि चैतद्दीपाङ्गवस्तुवदेकफलं यथा भिन्नकारणजन्यं
तैलपात्रवह्निवर्त्यादिवस्तु तमोनिवृत्तिलक्षणैकार्थसाधकमेवं
तन्मात्रमहदहङ्कारकलाद्युद्भवमप्येतत्कर्मोपभोगफलं ज्ञेयम् ॥
३२� ॥
दीपिका ।
सर्वत इत्यादिनास्यैव विभुत्वं भोगैकसाधनत्वं चोच्यत इत्याह ।
एतच्चेत्यादि ॥ ३२� ॥
वृत्तिः ।
अथ व्याख्यातार्थोपसंहाराय प्रकरणान्तरोपक्रमाय च श्लोकः ।
इत्यातिवाहिकमिदं वपुरस्य जन्तोः
चित्सङ्गचिद्गहनगर्भविवर्तिलेशात् ।
नैतावतालमिति भौवनतत्वपङ्क्ति
माधारदेहविषयाभ्युदयाय वक्ष्ये ॥ ३३� ॥
इत्थम् इदम् अस्य संसारिणो जन्तोः अतिवाहयति अवश्यं भोग्यं
कर्मेत्यातिवाहिकं वपुर्लेशात् सङ्क्षेपादुक्तमिति शेषः । कीदृशं
चित्सङ्गात् चित्संश्लेषवशात् चित् । अचिदपि चैतन्यावियुक्तत्वात्
चिद्रूपमिवेत्यर्थः । गहनं माया तद्गर्भे विवर्तते तच्छीलमिति
गहनगर्भविवर्ति । एतावता च न पर्याप्तमितिकृत्वा भोग्याश्रयभूतां
भौवनतत्वपङ्क्तिं वक्ष्ये । किमर्थमित्याह । आधारदेहविषयाभ्युदयाय
। सूक्ष्मशरीरस्याधारो यो
वैषयिकोभ्युदयस्त्नक्चन्दनाद्युपभोगस्वरूपः तदर्थम् । यद्वा आधारा
आश्रयाः देहास्स्थूलाः तद्भुवनजाः विषयाः अर्थाः इन्द्रियार्थाः
तेषामभ्युदयायोत्पत्तये भौवनतत्वपङ्क्तिं वक्ष्ये ।
यतस्तत्वभुवनसन्ततावाश्रयभूतायां देहवैचित्र्यं भोगवैचित्र्यं च
दीक्षायामवश्यं ज्ञेयं यत्तदग्रे वक्तुमिष्टम् ॥ ३३� ॥
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ इन्द्रियादिप्रकरणं द्वादशं समाप्तम् ।
दीपिका ।
इतीत्यादिना प्रोक्ताया
असाधारणायास्सूक्ष्मदेहारम्भिकायास्तत्वसृष्टेरुपसंहारः क्रियते ।
साधारणं चानन्तरप्रकरणे वक्ष्यमाणभुवनरूपा
तत्वसृष्टिरुपक्षिप्यत इत्याह । इत्थम् इत्यादि । तद्गर्भ इति । मायागर्भे
कलादिक्षित्यन्ते । अत एव सर्वभुवनेषु सूक्ष्मशरीरमेवेति भावः । न
पर्याप्तमिति । भोगवैचित्र्यं तत्साधनानिचेति शेषः । भौतिको देह इति ।
भुवनजशरीरस्योपलक्षणम् । अत एव व्याख्यान्तरमाह यद्वेत्यादि । अस्य
चाध्वप्रकरणस्य दीक्षायामुपयोग इत्याह यत इत्यादि ।
इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायाम्
इन्द्रियादिविचारप्रकरणं द्वादशं समाप्तम् ।