११ प्रत्ययादिप्रकरणम्

अथ प्रत्ययादिप्रकरणमेकादशम् ।

वृत्तिः ।

इत्थं भावान् विचार्य प्रत्ययान् प्रागुद्दिष्टान् लक्षयितुं   

समनन्तरोपसंहृतप्रकरणशेषभूतं प्रकरणान्तरमाह ।

अथ सिद्ध्यादिवर्गाणां
लेशात्सामान्यलक्षणम् ।
कथ्यते विप्लवो माभूत्
समासोक्तेः प्रभेदशः ॥ १ ॥

भावोक्त्यनन्तरं प्रत्ययसम्बन्धिनां सिद्धितुष्ट्यादिवर्गा-णां   

सङ्क्षेपात्साधारणं लक्षणं कथ्यते । किमर्थमित्याह । विप्लवो
माभूदिति । प्रभेदशः । प्रविभागशः या सङ्क्षेपोक्तिः कृता
तस्यास्सकाशात् विप्लवो मतिसम्मोहो माभूत् । तेष्टौ नव चतुर्गुणाः । सप्त
पञ्चचेत्येतावता सङ्क्षिप्तप्रभेदकथनेन बुद्धिविप्लवो यश्शङ्क्यते स
एवंविधा तुष्टिः इत्थंविधा सिद्धिरित्येवं सामान्यलक्षणे सङ्क्षिप्ते कृते
न भवतीत्येतदर्थमित्यर्थः ॥ १ ॥


१। कलादिप्रकरणे पञ्चविंशश्लोकः ।

दीपिका ।

अथ प्रत्ययादिप्रकरणमेकादशम् ।

इत्थमित्यादि । अनन्तरप्रकरणशेषभूतत्वादेवास्य न पृथक्   

सम्बन्धपञ्चकं वाच्यम् । शेषिसम्बन्धेनैव तत्सिद्धिरिति भावः ।
अथेत्यादि सूत्रं व्याचष्टे । अथेतीत्यादि । ननु प्रत्ययानां
सामान्यलक्षणं पूर्वमेवोक्तं प्रत्ययास्तदुपादाना इति । तत्र हि
सर्वेषां प्रत्ययानां भावजत्वमात्रमुक्तम् । इह तु सिद्ध्यादीनां
वर्गानां प्रत्येकस्वरूपमित्यविरोधः । किमर्थमित्यादि । अयमर्थः । अष्टौ
नवेत्यादिना सङ्क्षेपेण साङ्ख्याश्रितसिद्धपञ्चाशत्प्रत्ययसङ्ख्याया
दर्शितत्वात् सिद्ध्यादीनां स्वरूपलक्षणमपि तदुक्तमेवेति (या मतिस्सह
श्रोतॄणां सामान्यलक्षणं प्रत्येकमुच्यत इति) विशेषलक्षणमस्माभिः
पूर्वप्रकरण एव दर्शितम् ॥ १ ॥

वृत्तिः ।

अथ तदुच्यते ।  

पुम्प्रकृत्यादिविषया
बुद्धिर्या सिद्धिरत्र सा ।
तुष्टिर्नुरकृतार्थस्य
कृतार्थोऽस्मीति या मतिः ॥ २ ॥

पुंस्यात्मनि प्रकृतौ अव्यक्ते आदिग्रहणाद्व्यक्ते च या   

बुद्धिर्विज्ञानं सा सिद्धिरित्युच्यते । या त्वकृतार्थस्य नुः पुंसः
कृतार्थोऽस्मीति बुद्धिः सा तुष्टिः ॥ २ ॥

दीपिका ।

पुम्प्रकृत्येत्यादि सूत्रं व्याचष्टे । पुंसीत्यादि । आदिग्रहणद्व्यक्ते   

चेति । अहङ्कारादिभूतपञ्चकपर्यन्तेषु पूर्वोक्तेषु । तदुक्तं
भोगकारिकायां व्यक्तव्यक्तज्ञसम्बुद्धिस्सिद्धिस्सम्प्रति सिद्ध्यति । इति ।
यात्वित्यादि । तेषु वैराग्यजनितोक्तपदप्राप्तिमात्रेणाकृतार्थतानपगमात् ।
परमुक्तिप्राप्तानामेव कार्तार्थ्यं परमं यतः । अत एवोक्तं प्राक्
वैराग्यात्प्रकृतिलय इति ॥ २ ॥

वृत्तिः ।

अशक्तिः कारकापाये
सदर्थाप्रभविष्णुता ।
किञ्चित्सामान्यतोऽन्यत्र
मतिरन्या विपर्ययः ॥ ३ ॥

कारकाणामन्तःकरणबहिःकरणानामपाये विनाशे सति   

विद्यमानेऽप्यर्थेऽप्रभवनशीलत्वमशक्तिः अन्धबधिरादेरिव
रूपशब्दादौ । किञ्चित्साधारण्यादन्यस्मिन्नन्यादृशी बुद्धिर्विपर्ययः ।
मरुमरीचिकास्विव जलावगतिः ॥ ३ ॥

दीपिका ।

अशक्तिरित्यादिसूत्रेणाशक्तिविपर्ययावुच्येते इत्याह । कारकाणामित्यादि ।   

अन्तःकरणबहिःकरणानामित्युपलक्षणं शरिरस्यापीति । यदुक्तं मतङ्गे
कार्यं न वशमायातीति । अत एवाणिमादीनामपि शरीरेन्द्रियजन्यत्वात्
तेषामभावोऽप्यशक्तिरि-त्युक्तम् । यदुक्तं तत्रैव १त्रितयं
कार्यतस्सिद्धमैश्वर्यमणिमादिकम् । प्राप्त्यादयो पुणाः पञ्च योगिनां
कारणात्मजाः इति । तथा नाणिमा लघिमावापीत्यादि ॥ ३ ॥


१। बुद्धिपटले ११४ - तमश्लोकः ।

वृत्तिः

प्रकाशकतया सिद्धि -
र्व्यक्तादेस्सत्वभावजा ।
प्रकाशार्थवृत्तत्वात्
रजोंशप्रभवाऽपि च ॥ ४ ॥
तुष्टिर्मिथ्यास्वरूपत्वात्
तमोगुणनिबन्धना ।
सुखरूपतया ब्रह्मन्
सात्विक्यप्यवसीयते ॥ ५ ॥
अशक्तिरप्रवृत्तत्वात्
तामसी दुःखभावतः ।
राजस्यपि गुणो दृष्टः
कार्ये कारणसंश्रयः ॥ ६ ॥
विपर्ययस्तमोयोनि -
र्मिथ्यारूपतया स च ।
सामान्यमात्रकाभासात्
सत्वमेति विनिश्चितः ॥ ७ ॥

सैषा सिद्धिर्व्यक्तादिप्रकाशकत्वात् सात्विकी सत्वस्य   

प्रकाशस्वरूपत्वात् । किञ्च प्रकाशार्थप्रवृत्ततया हेतुभूतया
रजोंशप्रभवाप्यसौ सिद्धिर्ज्ञेया । न ह्यमिश्रा गुणजनका इत्युक्तम् ।
अकृतार्थस्य कृतार्थोऽस्मीति बुद्धिस्तुष्टिः योक्ता सेयं
मिथ्यारूपत्वात्तमोगुणलक्षणा सुखरूपतया सात्विक्यप्यवसीयते ।
अप्रवृत्तिरूपाऽशक्तिरुक्ता । अतश्चासौ तामसी । दुःखहेतुत्वाच्च राजस्यपि
विज्ञेया । यो हि कार्येऽशक्त्याख्ये दुःखरूपः प्रभविष्णुतारूपो वा
गुणोऽति सोऽवश्यं कारणाश्रयः रजस्तमोलक्षणकारणजनित इत्यर्थः ।
विपर्ययस्य मिथ्यारूपत्वात् तमः प्रभवत्वम् । स च
१विपर्ययस्साधारण्यमात्रप्रकाशनात् प्रकाशरूपसत्वात्मकोऽपि
विनिश्चितः ॥ ४ = ५ = ६ = ७ ॥


१। प्राधान्यादिति पाठभेदः ।

दीपिका ।

प्रकाशकतयेत्यादिना सिद्ध्यादीनां सत्वादिगुणादनन्यस्व-मित्याह ।   

सैषेत्यादिना । सिद्धेर्ज्ञानभेदेनोक्तत्वात् ज्ञानस्य च सात्विकत्वात् कथं
रजोंशप्रभवत्वमत आह । नहीत्यादि । एकैकश्रुतिरेतेषां
वृत्त्याधिक्यनिबन्धना । इत्युक्तत्वात् । ज्ञानस्य च सात्विकत्वं यतो नामिश्रं
परिणमत इति । एवं तुष्ट्यादिष्वपि बोद्धव्यम् ॥ ४ = ५ = ६ = ७ ॥

वृत्तिः ।

उपसंहरन्नाह ।  

इति बुद्धिप्रकाशोऽयं
भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोध -
व्यक्तिभूमितया पशोः ॥ ८ ॥

इत्येवं प्रतिपादितो भावप्रत्ययलक्षणो बुद्धिप्रकाशः   

पशोस्संसार्यणोर्बोधव्यक्त्याश्रयत्वात् बोधसञ्ज्ञयोच्यते ॥ ८ ॥

दीपिका ।

इत्यादिसूत्रं व्याचष्टे । इत्येवमित्यादि । बोधव्यक्त्याश्रयत्वादिति ।   

धर्मादयोऽपि भावाः संसारावस्थायां भोग्यत्वेनात्मनो
ज्ञानव्यक्तिहेतवो भवन्ति । यदुक्तं भोगोऽस्य वेदना
पुंस्सुखदुःखादिलक्षणा इति ।

वृत्तिः ।

अथाऽत्र मुनिस्साङ्ख्यच्छायया प्रश्नयति ।  

बुद्धिर्बोधनिमित्तं चेत्
विद्या तद्व्यतिरिच्यते ।
रागोऽपि सत्यवैराग्ये
कलायोनिः करोति किम् ॥ ९ ॥

उक्तया नीत्या बोधानिमित्तत्वं बुद्धेर्यदुच्यते तद्विद्याया   

आनर्थक्यं तस्या अपि बोधहेतुत्वेनाभ्युपगमात् । यदि च
सामान्यव्यापारत्वेऽपि तदभ्युपगमः तदानवस्था ।
किञ्चावैराग्यलक्षणे बुद्धिधर्मे रागरूपे सत्यपि कलाजान्मारागः किं
करोति । न किञ्चिदप्यस्य कार्यमवराग्येणैवातिशयवतात्प्र्योजनस्य सम्पत्तेः
॥ ९ ॥

दीपिका ।

अत्र बोधप्रसङ्गात् भावप्रत्ययप्रसङ्गाच्च   

प्रागुक्तयोर्विद्यारागयोरानर्थक्यमाशङ्कमानो मुनिर्बुद्धिरित्यादिना
चोदयतीत्याह । अथात्रेत्यादि ॥

वृत्तिः ।

अथैतत्प्रतिक्षेपः ।  

व्यञ्जकान्तरसद्भावे
व्यञ्जकं यद्यपार्थकम् ।
मनोदेवार्थसद्भावे
सति धीरप्यनर्थिका ॥ १० ॥

बोधव्यञ्जकं विद्याख्यं तत्वं
बुद्ध्यात्मकव्यञ्जकान्तरसद्भावे सति यद्यनर्थकं तर्हि भवतोऽपि
कापिलस्य मन इन्द्रियलक्षणार्थसद्भावे बुद्धिरप्यनर्थिता । तथाहि
रूपादिग्राहकचक्षुरादिकरणावधारितमनसि व्यञ्जके सति
व्यञ्जकान्तरेण बुद्ध्याख्येन किं प्रयोजनम् । मनोऽधिष्ठितैरिन्द्रियैरेव
तत्तत्कार्यसिद्धिर्यतः ॥ १० ॥

दीपिका ।

व्यञ्जकान्तरेत्यादिना विद्यानर्थक्यं परिहरतीत्याह । अथैतदित्यादि ।   

बोधव्यञ्जकमिति । रूपग्रहणादावालोकेन्द्रियसन्निधानादीनामनेकेषां
व्यञ्जकानां सार्थकत्वं दृष्टमिति भावः ॥ १० ॥

अथैवं ब्रुवते केचित्
करणत्वविवक्षया ।
सोऽपि देवैर्मनष्षष्ठैः
पक्षोऽनैकान्तिकस्स्मृतः ॥ ११ ॥

अथ प्रोक्तबुद्बुद्देरप्यार्थक्यप्रसङ्गतया व्यञ्जकान्तरसद्-भावे   

व्यञ्जकस्यानर्थक्यं प्रसज्यत इत्येवं न पर्यनुयुज्यते । किं तु
करणत्वविवक्षया एवं केचिद्ब्रुवते चोद्यं कुर्वन्ति । यदुत बुद्ध्याख्ये
करणे सत्यपि किं विद्याभिधानेन करणेन । यथोक्तम् । १सा विद्या तत्परं
करणम् इति । इहाप्युक्तम् २तत्वं विद्याख्यमसृजत्-करणं परमात्मनः इति ।
सोऽप्ययं पक्षो मनष्षष्ठैः बुद्धीन्द्रियैरनैकान्तिकः । तथाहि
बुद्धीन्द्रियपञ्चकस्य स्वस्वविषय-ग्रहण क्रियायां करणस्य
सतष्षष्ठेन मनसा करणानन्तरेण अङ्गीक्रियमाणेनानैकान्तिकीकृतमेतत्
यत्करणान्तरसद्भावे करणा-नर्थक्यमिति प्रत्युत करणान्तरापेक्षस्य
करणस्य कासुचित्क्रियासूप-लम्भात् । उक्तं श्रीमत्पराख्ये करणं
करणापेक्षमाजाविभकरास्-त्रवत् । इति । यथा चैषां श्रोत्रादीनां
पञ्चानां मनष्षष्ठत्वं करणत्वे सामान्येप्यात्मवादिभिरिष्टः तथा
बुद्धौसत्यामपि तद्ग्राहिका विद्या सेत्स्यतीति न कश्चिद्दोषः ॥ ११ ॥


१। अष्टप्रकरणेतत्वसङ्ग्रहे द्वादशश्लोकः ।
२। कलादिपकरणे नवमश्लोकः ।

दीपिका ।

सोऽप्ययं पक्ष इत्यादि । रथेन पथा दीपिकया यातीत्यादिवत् ॥ ११ ॥
एवं च पक्षद्वयेनाशाङ्कितं चोद्यं समर्थ्य
पक्षान्तरेणाप्याशङ्कमानस्तद्दूषणायाह ।

अथैकविनियोगित्वे
सत्येकमतिरिच्यते ।
श्रोत्रदृक्पाणिपादादि
ततो भिन्नार्थमस्तु नुः ॥ १२ ॥

नन्वेकस्मिन्विषये विनियोगोऽस्ति यस्य स पदार्थ एकः । अन्यः
एकविनियोगित्वे सति अतिरिच्यते अधिकीभवति । ध्वान्तध्वंसक्षममण्या-
लोकसम्भव इव दीपः । ततश्च सुखदुःखमोहात्मकपुम्भोगसाध-नत्वं
बुद्धेरेव पर्याप्तम् । अतस्तदर्थमिष्यमाणायाः पुनरपि विद्यायाः
आनर्थक्यमित्याशङ्क्यैतन्निरासः । श्रोत्रदृक्पाणिपादा-दीत्यादि ।
श्रोत्रदृक्पादपाण्यादीनि तत इति एवमभ्युपगमात् एकविनियोगित्वे सति
एकस्यातिरेकत्वाङ्गीकरणे सतीत्यर्थः । नुरिति पशुत्वयोगिनो भोक्तुः पुंसः ।
यदुक्तं प्राक् भोग भूमिषु नाभुङ्के भोगान् कालानुवर्तिन इति । तस्य नुः
पुंसः श्रोत्रदृगादि पाणिपादादि च भवत्पक्षे भिन्नार्थमस्तु एकविषयं
माभूत् । ननु केनोक्तं श्रोत्रदृगदेरेकविषयत्वम् । नहि श्रोत्रग्राह्यमर्थं
दृक् गृह्णाति । पाणिकार्यं वा पादः करोति । पृथगर्थत्वेनैषां प्रातिस्वि-
कस्वरूपत्वात् । सत्यं किन्तु भोगैकसाधनत्वविवक्षयैवमुक्तम् । तथाहि
भोक्तुः पुंस आदौ आम्रादिसौरभानुभवतस्तदन्वेषणो-द्यमः
ततश्चाम्रास्सन्तीति श्रवणात् तत्र प्रवर्तनम् । दृशा तद्दर्शनं
रसनेनचास्वादनम् इत्येकविनियोगित्वमिन्द्रियाणामनु भूयमानमपि
भवत्पक्षे न युक्तमभ्युपगन्तुम् आनर्थक्यभयात् । ततश्च भिन्नार्थमेव
श्रोत्रदृगादि पाणिपादादि च युष्मद्दृशा भवतु
पुम्भोगकार्यहेतुत्वेनाभिन्नविषयमपि भिन्नं १फलमस्त्वित्यर्थः ।
२नचैवम् ॥ १२ ॥


१। अनुभवत्वित्यर्थः इति पाठभेदः ।
२। अस्तीति शेषः ।

वृत्तिः ।

इत्थं तृतीयमपि पराशङ्काप्रकारं परिहृत्य   

पराभिमतमेकविनियोगित्वं विद्याबुद्ध्योर्निराकर्तुमाह ।

न चैकविनियोगित्वं
विद्याबुद्ध्योः कथं च न ।
विनियोगान्तरद्वारा
न दुष्टाऽनेकसाध्यता ॥ १३ ॥

न च विद्याया बुद्धेश्चैकार्थविनियोगित्वं भिन्नविषयत्वात्   

विनियोगान्तरं च तद्वारं मुखं यस्यास्सा मुखान्तरेणान्येन विनियोगेन
प्रवृत्ताऽनेकसाध्यता न दुष्टा । यथा
इन्धनोदकदर्व्याद्यनेकसाधनसाध्यायाः पाकत्क्रियायाः
पृथक्प्रयोजनत्वे सति भिन्नकारकाभ्युपगमेन न किञ्चिदपकृष्यते ॥ १३ ॥

दीपिका ।

ननु एकस्मिन्नपि आमोदादौ विषये दर्शनश्रवणादिविनियोगेन   

भिन्नेन्द्रियाणामानर्थक्यम् । विद्याबुद्ध्योस्तु विनियोगभेदो दृश्यते अत आह ।
इत्थमित्यादि ॥ १३ ॥

वृत्तिः ।

अथ किं तत् भिन्नविषयत्वं विद्याबुद्ध्योरित्याह ।  

विद्या व्यक्ताणुचिच्छक्ति -
र्नुन्नाक्षेशाक्षगोचरान् ।
स्वीकृत्य पुम्प्रयुक्तस्य
करणस्येति कर्मताम् ॥ १४ ॥
मतिस्तेनेतरा रागो
न गौणस्तद्विधर्मतः ।
तच्च भोग्यत्वमेतद्वा
वीतरागस्ततो हतः ॥ १५ ॥

विद्या तावद्व्यक्ताणुचिच्छक्तिः । व्यक्ता उद्दीपिता   

अणोश्चिच्छक्तिर्ययेत्येतावदेवास्याः करणीयम् । नुन्नं प्रेरितम् अवधानेन
नियोजितम् अक्षेशं मनो येषां तानि तथाविधानि यान्यक्षाणि इन्द्रियाणि
तद्गोचरान् तद्विषयान् स्वीकृत्य । पुम्प्रयुक्तस्येति । पुंसा प्रकर्षेण युक्तस्य
साक्षात्स्वात्मन्येवोपकारकत्वेन स्थितस्यास्यैव विद्याख्यस्य करणस्य
बुद्धिर्यतः कर्मतामेति ग्राह्यत्वमागच्छति तेनेतरा विद्यातो दूरं भिन्ना ।
तदियता विद्यावैयर्थ्यं निराकृत्याथ द्वितीयचोद्यस्य निरासः । रागो न
गौणस्तद्विधर्मतः इति । रागो न बुद्धिगुणादवैराग्याज्जातः । कुत इत्याह ।
तद्विधर्मतः । तस्मादागमोक्ताद्रागाद्गौणस्य वैधर्म्यं यतो
लुप्तभावप्रत्ययो विधर्मशब्दः किं तद्वैधर्म्यमित्याह । तच्च
भोग्यत्वमिति । अवैराग्यलक्षणो बुद्धिधर्म स्रक्चन्दन्वनितादिर्वा विषयः
एवं बहिष्ठो यः परेषां रागत्वेनेष्टः तस्यैतदेव वैधर्म्यं
यद्भोग्यत्वम् । भोगाबिष्वङ्गहेतुना च रागेण भोजकेन च भाव्यम् । न च
भोग्यस्य भोगहेतोश्चाभेदः । एतद्वा भोग्यत्वं रागस्याङ्गीक्रियते । तर्हि
वीतरागस्ततो हत इति । तत इत्येवमभ्युपगमाद्वीतरागाभावदोषः प्रसज्यते ।
भोक्तृगतरागानभ्युपगमे
बहिष्ठवराङ्गनादिभोग्यविशेषरूपरागोपगमे च सति
सरागवीतरागसन्निकर्षस्थस्त्र्यादौ भोग्यविषये सर्वेषां सरागता
प्राप्नोति । नहि कश्चिदत्रवीतरागो भवेत् । वस्तुतो वीतरागाणामपि
भोग्यविशेषसन्निधिमात्रादेव सरागताया इष्टत्वात् । उक्तं च
सद्योज्योतिपादैः १भोग्यविशेषे रागे नहि कश्चिद्वितरागस्स्यात् इति ।
तस्माद्भोक्तृगत एव रागोपगमः । न भोग्यविशेषरूपरसुमादिः
अवैराग्यक्षणबुद्धिधर्मात्मको वा ॥ १५ ॥


१। अष्टप्रकरणे तत्वसङ्ग्रहे दशमश्लोकः ।

दीपिका ।

विद्येत्यादिसूत्रं व्याचष्टे । विद्यातावदिति । व्यक्ताणुचिच्छक्तिरिति ।   

समर्थितभोक्तृज्ञानशक्तिः विद्यायाः विना तस्य बुद्धिदर्शने सामर्थ्यं
न सम्भवतीत्युक्तम् । एतच्च पूर्वोक्तमेवेति । राग इत्यादिना रागवैयर्थ्यं
निराकरोतीत्याह तदियतेत्यादि । अवैराग्यलक्षणो बुद्धिधर्म इति च
वासनारूपो न कार्यकर इत्युक्तम् । प्रत्ययरूपोऽपि भोग्यत्वात्
नाभिलाषहेतुरित्यनन्तरमेववक्ष्यति । ननु गुणत्रयविषय
एवाभिलाषहेतुरस्तु किमन्ये नेत्यत आह । स्रक्चन्दनवनितेत्यादि एतदपि
पूर्वप्रकरण एव साधितमिति । (१भोग्यत्वं सम्पादयति विषयानात्मनश्च) ॥
१५ ॥


१। कुण्डलान्तर्गतं वाक्यं चिन्त्यम् ।

वृत्तिः ।

अतश्च ।  

रागोऽर्थेष्वभिलाषो यो
न सोऽस्ति विषयद्वये ।
कर्मास्तु व्यापकं कल्प्यं
कल्पितेऽपीतरत्र यत् ॥ १६ ॥

उक्तवद्भोक्तृगतो रागः योऽर्थेषु स्रगादिषु अभिलाष   

इत्यभिलाषहेतुरेवाभिलाषशब्देनोक्तः । करणे कार्यस्याभेदोपचारात्
आयुर्घृतमितिवत् । स च रागाख्योर्थेष्वभिलाषहेतुर्विषयद्वये एकस्मिन् बाह्ये
सृक्चन्दनादौ वीतरागाभावप्रसङ्गतया नास्तीत्यभ्युपगन्तव्यः ।
द्वितीयस्मिंस्तु अवैराग्यलक्षणे बुद्धिधर्मे
भोग्यरूपत्वादभिलाषहेतुत्वं नास्ति । यस्मादभिलाषहेतुना रागेण जन्यते
असौ बुद्धिगतस्पृहात्मकः क्रियारूपो भोग्यत्वसम्पादक इत्यलम् । ननु
कर्मैव सुखदुःखादिरूपं भोग्यमभिलाषहेतुत्वेन भविष्यति इत्याह ।
कर्मास्तु व्यापकं कल्प्यम् इति । प्रागुक्तेऽस्मिन् विषयद्वये
सरागवीतरागात्मकव्यवस्थापकत्वेन व्यापकं कर्मास्तु यत्तदितरत्रेति
रागे परिकल्पितेऽपि कल्प्यं किलावश्यमभ्युपगन्तव्यम् । तद्धेतोरपि
कर्मैष्टव्यम् । तदेव तद्वस्तुवैचित्र्यात् सरागवीतरागताकारणत्वेनास्त्विति
पूर्वः पक्षः ॥ १६ ॥

वृत्तिः ।

सिद्धान्तस्तु  

कर्मणः केवलस्योक्तं
नियतावेव दूषणम् ।
दोषस्सहानवस्थानो
नासाम्याद्वेषरागयोः ॥ १७ ॥

केवलस्य कर्मणो नियतिसिद्धावेव दूषणं दर्शितम् । तथाचोक्तम् ।   

१भोगोऽर्थस्सर्वतत्वानांसोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततस्सर्वमपार्थकम् । अथ देहादिसापेक्षं
तत्पुमर्थप्रसाधकम् । ततो नियतिसापेक्षमस्तुकर्मनियामकमिति ।
तस्मात्तनुकरणभोगादिवैचित्र्यमात्र एव चरितार्थत्वात् कार्यान्तरे
प्रमाणाभावाच्च न कर्मणो रागकार्यसम्पादकत्वम् । अपितूक्तप्रयोजनः
कलाजन्यो रागस्सिद्धः । न च रागवत् द्वेषस्याऽपि तत्वान्तरत्वम् ।
द्वेषादीनां रागजनितप्रवृत्तिविशेषात्मकत्वात् कस्मिंश्चिदभिलषणीये
वस्तुनि किल व्याहन्यमानेऽस्य द्वेषादयस्सञ्जायन्ते । नन्वितरेतरोपमर्देन
रागद्वेषयोर्यतोऽवस्थितिः । तस्मादेकस्मिन् पुंसि सहानवस्थानदोषः
प्राप्नोतीत्याह । दोषस्सहानवस्थानो इति । कस्तावदयं सहानवस्थानदोषः ।
यद्येककालतया तदेतन्न दूषणम् । अपिति भूषणमेव । नहि यदैव यत्र
वस्तुनि रागस्तदानीमेव तत्र द्वेषः अथ यस्मिन्नेव भोक्तरि रागस्तत्र द्वेषः
इत्येतन्नोपपन्नं तदप्ययुक्तम् । न ह्यनयोराश्रये विरोधः किन्तु विषये
२अतुल्यकालत्वेन रागद्वेषयोः क्रमिकतयैकस्मिन्नाश्रये विषये व्यापृतौ न
कश्चिद्दोषः । भवद्भिरुद्भावितस्य सहानवस्थानस्येष्टत्वात् ॥ १७ ॥


१। कलादिप्रकरणे षोडशश्श्लोकः ।
२। अतुल्यवलत्वेनेति पाठभेदः ।

दीपिका ।

दोष इत्यादि सूत्रखण्डं व्याख्यातुं पीठिकां रचयति । नचेत्यादि ।   

द्वेषस्य रागजन्यत्वे रागिण्येव पुंसि द्वेषो भवति । ततश्च
सहानवस्थानदोष इत्याह । नन्वित्यादि । अस्यैवोत्तरतया दोष इत्यादि व्याचष्टे ।
कस्तावदिति ॥ १७ ॥

वृत्तिः ।

तथाहि ।  

सर्वस्य सर्वदा सर्वा -
प्रवृत्तिस्सुखबुद्धिजा ।
प्रवृत्तस्य सुखं दुःखं
मोहो वाप्युपजायते ॥ १८ ॥
प्रवृत्त्यनन्तरं द्वेषो
रागस्तत्पूर्वकालजः ।
द्वेषान्ते स पुनर्येन
वीर्यवद्योगकारणम् ॥ १९ ॥

सर्वस्य व्यवर्हतुं सर्वा व्यवहृतिस्सुखबुद्धिसम्भवा प्रवृत्तस्य
चास्य सुखं वा दुःखं वा मोहो वा जायते । भोजनादि प्रवृत्त्यनन्तरं च
तत्रैव द्वेषः । तत्पूर्वकालजस्तु रागः । पुनश्चद्वेषान्ते कस्मिंश्चित्काले
तदभिलापः । यस्माद्यदेव वीर्यवत् बलीयः तदेव योगस्याभिष्वङ्गजनितस्य
संश्लेषस्य कारणं यत एवं तस्माद्रागस्य द्वेषात् बलीयस्त्वात्
सहानवस्थानदोषो न दोषः ॥ १९ ॥

दीपिका ।

यदेव वीर्यवदित्यादि । रागात्मकः ॥ १९ ॥  

वृत्तिः ।

इत्थं प्रासङ्गिकं रागतत्वोत्पत्तिमुक्त्वा अहङ्कारतत्वव्यापारमाह ।  

अथ व्यक्तान्तराद्बुद्धेः
गर्वोऽभूत्करणं चितः ।
व्यापाराद्यस्य चेष्टन्ते
शरीराः पञ्च वायवः ॥ २० ॥

अव्यक्ताद्व्यक्तं गुणतत्वं व्यक्तान्तरं तत्कार्यं   

बुद्धिस्तस्यास्सकाशादहङ्कारः चितः आत्मनः संरम्भवृत्त्यन्तः
करणमुपपद्यते । यद्व्यापाराच्छरीरान्तश्चराः प्राणाः पञ्च
वायवश्चेष्टन्ते । स्वं स्वं व्यापारं विदधति ॥ १० ॥

वृत्तिः ।

के त इत्याह ।  

प्राणापानादयस्ते तु
भिन्ना वृत्तेर्न वस्तुतः ।
वृत्तिं लेशान्निगदतो
भरद्वाज निबोध मे ॥ २१ ॥

प्राणापानादयो ये पञ्च वायवः ते वृत्तेर्व्यापारभेदाद्भिन्नाः ।   

न त्वेषां वास्तवो भेदः । वायुरूपत्वाविशेषात् । अथैषामेव
व्यापारभेदं वक्ति वृत्तिं लेशादिति ॥ २१ ॥

वृत्तिः ।

तत्र का प्राणस्य वृत्तिरित्याह ।  

वृत्तिः प्रणयनं नाम
यत्तज्जिवनमुच्यते ।
यत्तदूहं मतिः पुसां
भ्रमत्यन्धेव मार्गति ॥ २२ ॥
तत्कुर्वन्नुच्यते प्राणः
प्राणो वा प्राणयोगतः ।
चित्यातिवाहिके शक्तौ
प्राणशब्दः कलासु च ॥ २३ ॥

प्रकर्षेण नयनं प्रणयनं कोष्ठस्थस्य वायोर्बाह्ये
द्वादशान्तं १यावत्प्रयाणं सैषा प्राणस्य वृत्तिर्व्यापारः एतच्च
व्यापारतो निर्वचनं पलतस्सूच्यते । यत्तज्जिवनं नाम सा प्राणस्यैव वृत्तिः
। अयमाशयः प्रणयनात्प्राण इति निरुक्तदृशा व्यापारेण प्राणशब्दो
लक्षितः प्रकर्षेणाननं प्राणनं जीवनं ततोऽपि प्राण इत्युच्यते इति
फलविषयस्य निर्वचनं फलतस्तूच्यते यतः । पुरुषाणामूहं
मार्गयमाणाऽन्धेव मतिर्भ्रमति स प्राणास्यैव व्यापारः । ऊहो
विमर्शात्मकस्तर्कः । तत्रास्या धियः प्राणेनैव प्रेरणं क्रियते
प्राणरथाधिरूढाहि सा संविद्विमृशति । प्राणो वा बलम् । तद्योगात्प्राण
उच्यते यस्माच्चिति चैतन्ये आतिवाहिके कलादिक्षित्यन्ते तत्वशरीरे शक्तौ च
बलात्मिकायां कलासु च सोमसूर्याद्यात्मिकासु प्राणशब्दो ज्ञेयः ॥ २३ ॥


१। प्रापणमिति पाठभेदः ।

दीपिका ।

(करोतीत्येव अत्र एव शब्दोऽवधारणत्वा) जीवनमपि   

प्राणकार्यमित्याह । फलतस्सूच्यत इत्यादि । प्राणे हि सति शरीरं
जीवतीत्युच्यते । व्यापारान्तरमाह । पुरुषाणामित्यादि । अन्यथानिर्वचनमाह
। प्राणो वा इत्यादि ॥ २२ ॥


१। कुण्डलीकृतमेतद्वाक्यं चिन्त्यम् ।

वृत्तिः ।

अपानस्य वृत्तिमाह ।  

तथापनयनं भुक्त
पीतविण्मूत्ररेतसाम् ।
कुर्वन्नपानशब्देन
गीयते तत्वदर्शिभिः ॥ २४ ॥

अपनयनम् अधः प्रापणं भुक्तपीतविण्मूत्ररेतसां यत्करोति   

अतस्तत्वज्ञैरपानाख्ययोक्तः ॥ २४ ॥

वृत्तिः ।

अथ समानव्यानयोर्व्यापारोक्तिः ।  

समन्ततोऽन्नपानस्य
समत्वेन समर्पणम् ।
कुर्वन् समान इत्युक्तो
व्यानो विनमनात्तनोः ॥ २५ ॥

अन्नपानस्य सर्वत्र साम्येन नियमनात् समानस्य समानत्वम् । देहस्य   

विनमनात् व्यानस्य व्यानता ॥ २५ ॥

दीपिका ।

देहस्य विनमनादित्यादि एतच्चोपलक्षणं व्याधिप्रकोपादेः । यदुक्तं
श्रीमत्कालोत्तरे, व्यानो विनमयत्यङ्गं व्यानो व्याधिप्रकोपनम् ।
प्रीतेर्विनाशकरणो व्यापनाद्व्यान उच्यते । इति ॥ २५ ॥

वृत्तिः ।

उदानस्य वृत्तिरुच्यते ।  

विवक्षायत्नपूर्वेण
कोष्ठव्योमगुणध्वनेः ।
वागिन्द्रियसहायेन
क्रियते येन वर्णता ॥ २६ ॥
स उदानश्शरीरेऽस्मिन्
स्थानं यद्यस्य धारणे ।
जयः फलं वाच्यशेषं
पत्या स्कन्धान्तरेरितम् ॥ २७ ॥

वक्तुमिच्छा विवक्षा यत्नस्संरम्भः तौ पूर्वौ यस्य सः एवं   

कोष्ठस्य व्योम्न आन्तरस्यऽऽकाशस्य गुणरूपो यश्शब्दस्तस्य येन
वागिन्द्रियसचिवेन विवक्षायत्नपूर्वेण विभज्य वैचित्र्यं क्रियते सोऽस्मिन् देहे
उदानशब्दो ज्ञेयः । यस्य च वायोः प्राणादेः यत्स्थानं धारणे सति
जयश्च तज्जयात्फलं तदेतद्वक्तव्यं शेषभूतं भगवता
प्रकरणान्तरेण योगपादाख्येनोद्दिष्टम् ॥ २६ = २७ ॥

इति भट्टविद्याकण्ठात्मजश्रीभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ प्रत्ययप्रकरणमेकादशं समाप्तम् ।

दीपिका ।

विवक्षेत्यादिव्याचष्टे । वक्तुमिच्छेत्यादि । यदाहुः आकाशवायु-  

प्रभवश्शरीरात् समुच्चरन् वक्त्रमुपैतो नादः । स्थानान्तरेषु
प्रविभज्यमानोवर्णत्वमागच्छति यस्स शब्दः इति । एतच्चोपलक्षणं
स्पन्दादेः यदुक्तं श्रीमत्कालोत्तरे स्पन्दयत्यधरं वक्त्र गात्रं
प्रकोपतः उद्वेजयति मर्माणि उदानो नाम मारुतः । इति । ते भेदाः
प्राधान्यादत्र प्रदशिताः । अरधानानामपि नागादीनां सम्भवात् ।
तदुक्तं तत्रैव । उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्थितः । कृकरस्तु
क्षुधे चैव देवदत्तो विजृम्णे । धनञ्जयस्स्थितः पोषे मृतस्याऽपि न मुञ्चति
इति । यस्य च वायोरित्यादि । स्थानधारणादीनां योगाङ्गत्वात्तत्रैव तानि
द्रष्टव्यानीति । अतश्च योपादशेषभूत एवात्र प्रसङ्गात्
वायुभेदस्तद्वृत्तिभेदश्च दर्शितः । यदुक्तं यस्य येन हि सम्बन्धो
दूरस्थस्याऽपि तस्य स इति । स्कन्धशब्दोऽनन्तरप्र-करणे वक्ष्यमाणानाम्
अहङ्कारस्कन्धानामपेक्षयाऽर्थतश्च ज्ञेयः इति ।

इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
प्रत्ययादिविचारप्रकरणं समाप्तम् ।