अथ कलादिकार्यप्रकरणं दशमम् ।
वृत्तिः ।
युक्त्यागमाभ्यां ग्रन्थितत्वमुपपाद्य तत्कार्यभूतं
कलादिकमभिधातुं तच्छेषभूतं प्रकरणान्तरमाह । अस्य च
प्राक्तनमेव सम्बन्धपञ्चकं ज्ञेयम् ।
ग्रन्थिजन्यं कलाकाल
विद्यारागनृमातरः ।
गुणधीर्गर्वचित्ताक्ष
मात्राभूतान्यनुक्रमात् ॥ १ ॥
मायातत्वात्प्रथमतः कलाभिधेययोः कलानियत्योः कालस्य
नृशब्देनोक्तस्य पुंसश्च पुम्प्रत्ययहेतोस्तत्वविशेषस्याभिव्यक्तिः ।
कलातत्वात्तु विद्यारागाव्यक्तानां मातृशब्देन प्रकृतिरव्यक्ताख्या
तत्सकाशाद्गुणाः तेभ्यो बुद्धिः तस्या अहङ्कारः
तस्मात्तैजसाद्बुद्धीन्द्रियाणि मनश्च । वैकारिकात् कर्मेन्द्रियाणि
भूतादिसञ्ज्ञकात् मात्रादिशब्देनोद्दिष्टानि तन्मात्राणि तेभ्यो भूतानीति
अस्मादनुक्रमात् एतद्ग्रन्थितत्वतोऽभिव्यङ्यं व्यनक्ति ॥ १ ॥
दीपिका ।
ग्रन्थिजन्यमित्यादिप्रकरणं सम्बन्धयति । युक्त्यागमाभ्यामित्यादि
अस्य चेत्यादि । अस्य पाटलिकस्सम्बन्धः कलादेर्ग्रन्थितस्तथेति पूर्वपटलान्ते
सूचितः । वाक्यात्मकोऽपि प्रावृत्तिशबले कर्ममायाकार्यमित्यादिभिर्वाक्यैः
मायाकार्यत्वादेव । अन्येतु सम्बन्धाः पूर्वपटलोक्ता एव । तत्र
ग्रन्थिजन्यमित्यादिना मायातत्वात्साक्षात्पारम्पर्येण कलादीनां
त्रिंशत्सङ्ख्यानां तत्वानां पुरुषतत्वाख्यस्य पुंस्त्वमलस्योत्पत्तिः
प्रतिज्ञायते इत्याह । मायातत्वादित्यादि । कलाशब्देनात्र तन्त्रेण न्यायेन
कलानियत्योरुपादानमित्याह । कलाभिधेययोरित्यादि । पुरुषस्य च
कलादिरूपभूवनाध्वनो रूपमित्याह । नृशब्देनेत्यादि
पूर्ववत्सत्कार्यवाददृशा जननं चाभिव्यक्तिरूपमित्यभिप्रेत्याह ।
एतद्ग्रन्थितत्वतोऽभिव्यङ्ग्यमित्यादि ॥ १ ॥
वृत्तिः ।
विधत्ते देहसिद्ध्यर्थं
यत्साक्षाद्यत्पदान्तरात् ।
यथा युनक्ति यद्धेतो
स्तादृक् तदधुनोच्यते ॥ २ ॥
अशुद्धाध्वन्यधिकृतोऽनन्तेशनाथः आत्मनां देहादिकॢप्त्यै
ग्रन्थितत्वाद्यत्साक्षादव्यवधानेन कलादिकार्यं व्यनक्ति यच्च
पदान्तरात्स्थानान्तरात् कलादेर्विद्यारागादिकं व्यनक्ति ।
तद्यस्मात्कारणादभिव्यक्तं पदार्थं वा येन प्रकारेण युनक्ति
देहादिसिद्धौ योजयति तत्तादृगिदानीं कथ्यते ॥ २ ॥
दीपिका ।
विधत्त इत्यादिसूत्रेण कर्तृपदमध्याहार्यमित्याह ।
अशुद्धेऽध्वनीत्यादि यदुक्तं किरणे शुद्धेध्वनि शिवः कर्ता
प्रोक्तोऽनन्तोऽसिते प्रभुः । इति देहादिकॢप्त्यै इति ।
कार्यकारणादित्रिंशत्तत्वात्मकसूक्ष्मदेहासिद्ध्यर्थमित्यर्थः । नतु
भुवनजदेहसिद्ध्यर्थमिति व्याख्येयम् । तेषामध्वप्रकरणे
वक्ष्यमाणत्वात् । यद्वक्ष्यति १इत्यातिवाहिकमिदं वपुरस्य जन्तो
चित्सङ्गचिद्गहनगर्भविवर्तिलेशात् । नैतावतालमिति
भौवनतत्वपङ्क्तिमाधारदेहविषयाभ्युदयाय वक्ष्ये ॥ इति ।
यस्मात्कारणादिति । प्रतितत्वमेषां तत्वानामभिव्यक्तौ युक्तिरपि कथ्यते । न
त्वागममात्रमिति भावः नतु यस्मादुपादानकारणादिति व्याख्येयम् । तस्य
यत्साक्षाद्यत्पदान्तरादित्यनेनोक्तत्वात् ॥ २ ॥
१। इन्द्रियप्रकरणेऽन्तिमः श्लोकः ।
वृत्तिः ।
कर्तृशक्तिरणोर्नित्या
विभ्वी चेश्वरशक्तिवत् ।
तमश्छन्नतयाऽर्थेषु
नाभाति निरनुग्रहा ॥ ३ ॥
तदनुग्राहकं तत्वं
कलाख्यं तैजसं हरः ।
मायां विक्षोभ्य कुरुते
प्रवृत्त्यङ्ग परं हि तत् ॥ ४ ॥
अणोरात्मनश्शिवशक्तिवद्यद्यपि नित्या व्यापिका च कर्तृशक्तिः । मुक्तौ
तथाविधत्वश्रवणात् । तथाऽपि अनादिमलावृतत्वात् करणीयेष्वर्थेषु न
निरनुग्रहा सा भाति । तस्यानुग्राहकं समर्थकं कलाख्यं तत्वं हरति
भोगभुक्त्यर्थमधोवर्तिनोऽणूनिति हरः अनन्तेशः । मायां विक्षोभ्य
प्रसवाभिमुखां कृत्वा कुरुते अभिव्यनक्तीत्यर्थः । यस्मात्कलाख्यं
तत्वं परं प्रवृत्त्यङ्गमात्मनः कर्तृस्वरूपसमर्थनं तेनैव
व्यापृतत्वात् । नह्यसौ तेनानुत्तेजितकर्तृभावः प्रवर्तितुं शक्यस्स्यात् ।
तैजसत्वं चास्यास्स्हजमलतिरस्करणेनाणोरेकदेशेन प्रकाशनहेतुत्वात् ॥ ४ ॥
दीपिका ।
तत्र तावत्कलातत्वं साधयितुं कर्तृशक्तिरित्यादिसूत्रद्वयं
व्याचष्टे । अणोरित्यादि । ननु कर्ममलनिरुद्धापि पुंशक्तिः
महाप्रलयावसाने शिवशक्त्या प्रबोधमेष्यति । तत्किं कलाख्येन तत्वेनात
आह । तस्यानुग्राहकमित्यादि । शक्तिर्हि तत्वान्तराधिष्ठानेनैव भोगदायिका ।
नच साक्षात् । तथा सति बुद्ध्यादीनामनुत्पादप्रसङ्गात् । ततश्चायमर्थः
सिद्धे मलेऽनेनावृतत्वात्पुंसः प्रलयकेवलावस्थायामिव
सुखदुःखवेदनं न भवतीत्यवश्यं तदावरणनिवर्तकेन केनापि
भवितव्यमिति कलातत्वसिद्धिः । मायां विक्षोभ्येत्यादि । स्वेन चोष्मणा
प्रकटीकृतस्य बीजस्योच्छूनतेव मायाकर्मविपाकसंयोगात्कला समुत्पन्ना
। यथा च तण्डुलतुषादिसंयोगादङ्कुरो जायते ।
तथामायापुरुषकर्मनिमित्तभोग्यभोक्तृसम्बन्धादचेतना कलोत्पद्यत इति ।
वृत्तिः ।
एतदेवाह ।
तेन प्रदीपकल्पेन
१तदाचिन्नचितेरणोः ।
प्रकाशयत्येकदेशं
विदार्य तिमिरं घनम् ॥ ५ ॥
स एष प्रागुक्तो महेश्वरस्तदा तस्मिन्
मायाप्रसवाभिमुख्यकालेऽतिमलिनचिच्छक्तेरात्मनः तेन तैजसेन
कलाख्येन तत्वेन किञ्चित्प्रकाशकारित्वात् दीपप्रायेण
निबिडं तमो निर्भिद्यैकदेशं प्रकटयति । मलावच्छिन्ना कर्तृतां
समुपोद्बलयतीति यावत् ॥ ५ ॥
१। तदा स्वच्छचितेरणोरिति पाठभेदः ।
दीपिका ।
मलावच्छिन्नां कर्तृतामिति । ननु मलविदारणेन ज्ञत्वमपि
प्रकाशते । सत्यम् । अभिव्यक्तस्वरूपमपि तत् ज्ञत्वं वक्ष्यमाणं
विद्याख्यं करणं विना स्पष्टं न प्रकाशत इत्यविरोधः ॥ ५ ॥
वृत्तिः ।
कलाशब्देनोद्देशसूत्रे नियतिरपि लाघवादुपक्षिप्ता । तयोश्च
कलानियत्योरन्वर्थकलाशब्दाभिधेयतां वक्तुमाह ।
कल इत्येष यो धातु
स्सङ्ख्याने प्रेरणे च सः ।
प्रोत्सारणं प्रेरणं सा
कुर्वती तमसः कला ॥ ६ ॥
कल इत्येष सङ्ख्यानार्थवृत्तिरेको धातुः कल क्षेप इति
प्रोत्सारणार्थवृत्तिरन्यो धातुः । तत्रैकदेशे तमसो मलस्य क्षेपणं
प्रोत्सारणं कुर्वाणायाः कलायाः क्षेपार्थवृत्ति प्रकृतिभूतः । द्वितीयस्तु
सङ्ख्यानार्थवृत्तिः कलनादियत्तया नियमनात्कलाशब्दापरपर्यायाश्च
१नियतेः ।
१। प्रकृतिभूत इतिशेषः ।
वृत्तिः ।
इदानीमात्मनः कलायाश्च कर्तृकारकतामभिधातुमाह ।
इत्येतदुभयं विप्र
सम्भूयानन्यवत्स्थितम् ।
भोगक्रियाविधौ जन्तो -
र्निजगुः कर्तृकारकम् ॥ ७ ॥
जन्तोरनासादितभोगस्याणोर्यो भोगक्रियाविधिः तस्मिन् निष्पाद्ये इत्यनेन
प्रागुक्तेन प्रकारेण एतदात्मकलाख्यं कर्तृकारकं निजगुरुपदिदिशुः
गुरवः । तर्हि भोक्तृतया कर्तृत्वेनात्मोक्तः । तस्य
कर्तृशक्तेरुपोद्बलनकर्तृत्वात् कारकं हेतुः कर्त्री कला ।
प्रयोक्त्र्यादिमहीप्रान्तमित्यादिना तस्या एव प्रयोक्त्री शब्देन
वक्ष्यमाणत्वात् । कथं चैतत् द्वयं स्थितमित्याशङ्क्याह ।
सम्भूयानन्यवदिति । एकीभूयालक्षितव्यतिरेकमिति यावत् । उक्तं च
बृहस्पतिपादैः जन्तोर्विभात्यतिश्लेषात् साद्वितीयेव चेतना इति ।
विप्रेत्यामन्त्रणेन वक्ता श्रोतारं मुनिमवहितं करोति ॥ ७ ॥
दीपिका ।
कलेत्यादि नन्वचेतनत्वात्कलायाः कर्तृत्वस्य च चेतनधर्मत्वात् कथं
कर्तृकारकत्वम् । अत आह तर्हीत्यादि । कारकं प्रयोजकं प्रयोजकत्वं
चास्यास्तिरोधानशक्त्यधिष्ठानेनेत्यविरोधः ॥ ७ ॥
वृत्तिः ।
विद्यातत्वस्य व्यापारं वक्तुमाह ।
एवं व्यक्तक्रियाशक्ति -
र्दिदृक्षुर्गोचरं दृशः ।
भजत्यनुग्रहापेक्षां
स्वयं द्रष्टुमशक्नुवन् ॥ ८ ॥
तदर्थं क्षोभयित्वेशः
कलामेव जनिक्षमाम् ।
तत्वं विद्याख्यमसृज -
त्करणं परमात्मनः ॥ ९ ॥
उक्तेन प्रकारेण व्यक्ता क्रियाशक्तिर्यस्य स तथा विधोणुर्गोचरं
प्रतिबिम्बितविषयं बुद्ध्याख्यं द्रष्टुमिच्छुर्दृशो
ज्ञानस्यानुग्रहापेक्षां भजते । ज्ञानशक्त्यनुग्रहमपेक्षत इति
तात्पर्यम् । स्वयं द्रष्टुमशक्नुवन्निति विशेषणभावेन हेतूपन्यासः
स्वयं बोद्धुमसमर्थत्वादित्यर्थः । तदर्थमनन्तेशः कलां
तत्वाविर्भावनसहां प्रक्षोभ्य जन्यजननाभिमुखीं कृत्वाऽऽत्मनः
परं प्रकृष्टं करणं विद्याख्यं सृष्टवान् । परत्वं चास्य साक्षात्
साध्यस्यैवोपकारकत्वात् । तदुत्तेजितज्ञानशक्तेः अन्तःकरणबहिःकरणयोग
इति तेषामपरत्वम् ॥ ९ ॥
दीपिका ।
एवमित्यादि सूत्रद्वयमवतारयति । विद्यातत्वस्येत्यादि । तदेतद्व्याचष्टे
उक्तेनेत्यादि । व्यक्ता क्रियाशक्तिरिति । समर्थितेत्यर्थः । नन्वस्मिन् बोधे
सामान्यविशेषशास्त्रदृष्टानि बुद्ध्यादीन्येव करणानि सन्ति ।
तत्कुतस्तद्व्यतिरिक्ता विद्या साध्यते अत आह । परं प्रकृष्टमित्यादि ।
अयमभिप्रायः । रथेन पथा दीपिकया
यातीत्यादाविवात्रानेककरणसाध्येऽपि फले विद्यैव परं करणम् ।
यतस्तयैव भोग्यं जानातीति ॥ ९ ॥
वृत्तिः ।
यदुत ।
तेन प्रकाशरूपेण
ज्ञानशक्तिप्ररोचिना ।
सर्वकारकनिष्पाद्य -
मवैति विषयं परम् ॥ १० ॥
तेन विद्याख्येन तत्वेन प्रकाशकत्वात् ज्ञानशक्त्यभिव्यञ्जकेन
सर्वैर्बुद्धीन्द्रियैः कर्मेन्द्रियैश्च यथास्वं निर्वर्त्यं परं
कर्तृविषयात्कार्यात्मकविषयादन्यत् ज्ञेयाख्यम् । यद्वापरमित्यव्यवहितं
विषयं प्रतिबिम्बितबाह्यविषयत्वेन सन्निकृष्टं बुद्धितत्वमवैति जानाति ।
विद्याख्येन करणे किल प्रतिबिम्बितस्रक्चन्दनादिबाह्यविषया भोग्यरूपा
बुद्धिर्गृह्यते । यदाह खेटकनन्दनः १बुद्धिर्विषयाकारा सुखादिरूपा
समासतो भोग्याः । तथा २रविवत्प्रकाशरूपो यदि नाम महान् तथाऽपि
कर्मत्वात् । करणान्तरसापेक्षश्शक्तो ग्राहयितुमात्मानम् । इति ॥ १० ॥
१। तत्वसङ्ग्रहे १३ - तमश्लोकः ।
२। तत्रैव समनन्तरश्लोकः ।
दीपिका ।
तेनेत्यादि सूत्रं व्याचष्टे तेन विद्याख्येनेत्यादि । ननु
बुद्ध्यादिभिरेव भोगान् प्रतिपद्यत इत्युक्तम् । तदयुक्तमित्याह
ज्ञानशक्त्यभिव्यञ्जके नेत्यादि बुद्धेरक्षार्थबोधे तेषां च
बुद्ध्यर्थबोधे व्यभिचारादिदभेवाऽऽसन्न कारणमिति भावः । अत एवाह
यद्वेत्यादि । अयमर्थः अध्यवसायस्मृतिप्रतिभेतिप्रत्ययभेद-भिन्ना
बुद्धिरपि यया वेद्यते सा विद्या तच्च परं करणं ततः प्रकृतिजन्या
बुद्धिस्तथा स्वात्मानमेव ग्राह्यतापन्नं करणत्वेन ग्राहयितुं न
क्षमा ग्राह्यत्वेन बहिरङ्गत्वात् इति । किञ्च भोग्यं वस्तु चित्ताधिष्ठितं
बुद्धीन्द्रियबृन्दं विद्याया विषयत्वेनोपस्थापयति
तच्चाहङ्कारवृत्त्यात्मना परामर्शपूर्विकया बुद्ध्याऽध्यवसितं पुरुषो
गृह्णति । यदाहुः बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते यत इति । अतश्च
बुद्ध्यादीनां सन्निहितसाध्यविषयोपस्थापकत्वेनोपयोगः । नतु
संविज्जनकत्वेन । तत्र प्रस्थापितविषयं बुद्ध्यहङ्कारेन्द्रिय-
वृत्तिभेदैर्यया विवेचयति सा विद्येति विद्यासिद्धिः । यथा च विद्यायाः
प्रयोजकत्वं तथोत्तरप्रकरणे प्रश्नपूर्वकं विस्तरेण साधयिष्यति
व्यञ्जकान्तरसद्भाव इत्यादिनेति ॥ १० ॥
रागतत्वाभिव्यक्त्यर्थमाह ।
तदभिव्यक्तचिच्छक्ति -
र्दृष्टार्थोऽप्यपिपासितः ।
नैति तज्जनकं रागं
तस्मादेवासृजत्प्रभुः ॥ ११ ॥
तेन विद्याख्येन तत्वेनाभिव्यक्तज्ञानशक्तित्वात् दृष्टार्थोऽप्यणुः
अपिपासितः असञ्जाताभिलाषस्सन् नैति न भोग्याहरणाय गच्छति ।
अतस्तस्याभिलाषस्य जनकं रागम् । तत एव
कलातत्वात्प्रभवनशीलोऽनन्तेशनाथस्ससर्ज ॥ ११ ॥
दीपिका ॥
तदभिव्यक्तेत्यादिसूत्रं व्याचष्टे तेनेत्यादि । अभिव्यक्तज्ञान-
शक्तित्वादिति । समर्थितज्ञानशक्तित्वात् । तत एव कलातत्वादिति । यदुक्तं रौरवे
कलातत्वाद्रागविद्ये द्वे तत्वे सम्बभूवतुः । अव्यक्तं चेति ।
ततश्चायमर्थः । इह हि सकलावस्थायां सो यो भोग्यार्थविषयाभि-लाषो
लक्ष्यते नासौ ज्ञत्वकर्तृत्ववत् स्वभावः । मुक्त्यवस्थायाम-दर्शनात् ।
नापि १बुद्ध्यादिभिः । तेषां स्वकार्यैरेव सिद्धेः । कार्यान्तरहेतुत्वे
प्रमाणाभावाच्च । ततो येनोपपद्यते सराग इति रागतत्वसिद्धिः । यद्येवं
प्रागुक्तो मायायां मोहकस्वभावो रागोऽस्तु किमन्येन तत्रोच्यते । न
२मायायास्साक्षान्मोहकत्वम् ।
कार्यद्वारेणैवेत्यदोषः । स तु समलस्यैव रञ्जकः । न तु निर्मलस्य
विद्येश्वरादेः । ननु रागादीनां वासनात्मतैव भवद्भिस्साङ्ख्यै-रिव
बुद्धिधर्मत्वमिष्यते । नैयायिकादिवत्पुरुषवासनाऽन्यानभ्यु-पगमादिति
तस्याऽपि ३सामग्र्यनुपपत्तेः वासनात्मनैव रञ्जकत्वं भविष्यतीति न
तद्व्यतिरिक्तरागसिद्धिः । सत्यं वासनात्मैव बुद्धौ धर्मादिवत् रागो वर्तत
इति वक्ष्यामः । स तु बुद्धिधर्मत्वादेव तद्वृत्तिलक्षणप्रत्ययान्तरवत्
वासनायोगेन परिपाकवशात् स्थूलेन प्रत्ययात्मनैकीभूतः
४पुरुषस्योपकाराय सम्पद्यते । ततश्च प्रत्ययात्मको रागो ग्राहकगतस्य
रागस्य कार्येणोपबृंहितो भोगहेतुः । न केवलः । वीतरागाभावप्रसङ्गात् ।
न च वासनात्मकः । बुद्धेस्सर्वदाऽनन्तवासनायोगेन पुंसो
युगपद्विरुद्धानन्तप्रतिपत्ति-वैषम्यप्रसङ्गादिति व्यतिरिक्तरागतत्वसिद्धिः ।
ननु कर्मैव रञ्जकं भविष्यति तन्न । तस्य फलजनन एव चरितार्थत्वात् ।
अनेकतत्वपरिकल्पना-भावप्रसङ्गाच्च । इमं च ग्राहकगतं
रागमुत्तरप्रकरणे साधयिष्यति रागो न गौण इत्यादिना । एतानि च
कलाविद्यारागादीनि तत्वानि
महामायापुरुषविवेकशिवादिवस्त्ववबोधराजसदनादिषु कारकत्वेन
शुद्धाध्वन्यपि सन्तीत्युक्तं मतङ्गादौ । वक्ष्यति चाध्वप्रकरणे एवं
तत्वानि भावाश्च भुवनानि वपूंषि च । शुद्धाशुद्धाध्वनोर्विप्र
व्याख्यातानि समासतः इति ॥ ११ ॥
१। जन्यत इति शेषः ।
२। अपित्विति शेषः ।
३। ग्राह्यानुपपत्तेरिति पाठभेदः ।
४। व्यापारायेति पाठभेदः ।
स तेन रञ्जितो भोग्यं
मलीमसमपि स्पृहन् ।
आदत्ते न च भुञ्जानो
विरागमधिगच्छति ॥ १२ ॥
तेन रागेण रञ्जितो जनिताभिष्वङ्गस्सोणुर्मलिनितमपि
मायेयभोग्यमभिलषन्नुपाहरति । न चैवमुपभुञ्जानो विरज्यते ।
चुरादीनामणिजन्तत्वात् । स्पृहन्नित्यदुष्टम् ॥ १२ ॥
वृत्तिः ।
कालतत्वनिरूपणायाह ।
इति प्रवृत्तः करणैः
कार्यारूढैस्सभौवनैः ।
भोगभूमिषु ना भुङ्क्ते
भोगान् कालानुवर्तिनः ॥ १३ ॥
इत्येवमुक्तयारीत्या कलोत्तेजितकर्तृत्वस्सन् प्रवृत्तो भोगोद्युक्तः ना
पुरुषः कालेनानुवर्तिनस्तासु तासु भोगभूमिषु सुखदुःखादिरूपान्
भोगान् भुङ्क्ते । केन भुङ्क्ते इत्याह सभौवनैः भुवनजदेहसहितैः
करणैर्बुद्धीन्द्रियैः कर्मेन्द्रियैः त्रिविधेनान्तःकरणेन ।
मलिनत्वात्क्रियाज्ञानशक्त्योः कर्मेन्द्रियबुद्धीन्द्रियाणामपेक्षा ।
कीदृशैः करणैरित्याह कार्यारूढैरिति । अविभुत्वतो निराश्रयाणामेषा
चेष्टाद्ययोगात् भूततन्मात्रात्मककार्याश्रयैस्सद्भिः । उक्तं च
खेटकनन्दनेन १एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविभुत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते इति ॥ १३ ॥
१। तत्वसङ्ग्रहे ४ - तमश्लोकः ।
दीपिका ।
इति प्रवृत्त इत्यादिसूत्रमवतारयति । कालतत्वेत्यादि मायोत्पन्नस्य
कालस्य कथमत्र स्वरूपनिर्णयः अत आह इत्येवमित्यादि अयमर्थः आत्मा हि
कालानवच्छिन्नोऽपि प्रागुक्तरागादिकञ्चुकत्रयजनितभोग-संवेदन एव
कालेनकल्प्यते । अतस्समस्तमायाकार्यव्यापकोऽत्रैव कालः
उपाधियोगवशाद्दीक्षायां शोध्यत्वेनोक्तः । पुरुषस्येवाव्यक्तादूर्ध्वम् ।
अयं च न्यायो नियत्या अपि वेदितव्यः । यद्वक्ष्यत्यध्वप्रकरणे
सर्वेन्द्रियस्सर्वतनुस्सर्वान्तः करणाश्रयः । पुरुषे नियतौ यन्ता काले
कलनशक्तिमान् । इति । श्रीमत्स्वायम्भुवादावुत्पत्तिस्थान एवास्य शुद्धिरुक्ता
। किमतस्तत्रवास्तु । नत्विहान्यश्रुतेः । नच क्रियाभेदस्तन्त्रविरोधस्य हेतुः ।
अपितु १तद्भेदस्यैव । यदुक्तं क्रियादिभेदभेदेन तन्त्रभेदो यतस्स्मृतः ।
तस्मात्तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रत इति । पुरुषतत्वे ईश्वरस्य
शक्त्यधिष्ठितेनैव कालेन कल्प्यते । यतोऽचेतनस्य चेतनाधिष्ठितस्य
व्यापारयोगः प्रोक्त एवेति ॥ १३ ॥
१। तन्त्रभेदस्यैवेत्यर्थः ।
वृत्तिः ।
अथ कोसौ कालो नाम कुत उत्पन्नः किं वा करोतीत्यत्रोच्यते ।
त्रुट्यादिप्रत्ययस्यार्थः
कालो मायासमुद्भवः ।
कलयन्नासमुत्थाना -
न्नियत्या नियतं पशुम् ॥ १४ ॥
त्रुटिलवनिमेषमुहूर्तादेः प्रत्ययस्य ज्ञानस्यार्थो निमित्तं यस्स
कालः । स मुहूर्तमास्ते प्रहरं भ्राम्यतीत्यादि प्रतीतिरजस्रं परिवर्तिनो
यस्माद्भवति । स मायात उत्पन्नः । पशुत्वेन मलेन युक्तमात्मानं कलयन्
काल इत्युच्यते । यदाहुः जलयन्त्रभ्रमावेगसदृशीभिः प्रवृत्तिभिः । स कालः
कलयंस्तावत्कालाख्यां लभते ततः । इति । कीदृशं पशुं कलयन् इत्याह ।
आसमुत्थानान्नियत्या नियतं पशुम् इति नियतेस्समुत्थानं
स्वकारणादभिव्यक्तिः । तत आरभ्य यावत्संहारमसौ पशुं कर्मजनिते
सुखदुःखोपभोगे नियच्छति । न चायं कालस्य व्यापारः । तस्य कलनमात्र
एव चरितार्थत्वात् ॥ १४ ॥
दीपिका ।
त्रुट्यादीति सूत्रं सम्बन्धयति अथ कोसावित्यादि । अयमभिप्रायः ।
योऽयं कालस्त्वया प्रोक्तस्स यदि नैयायिकादिभिरिव सर्वगतो नित्यश्चेष्यते ।
यदाहुः नित्यमेकं विभु द्रव्यं परिमाणं १क्रियावताम् ।
व्यापारव्यतिरेकेण कालमेवं प्रचक्षत । इति । तदयुक्तम् । ग्रन्थिजन्यं
कलाकालेत्यादिना मायातत्वादुपादानादनन्तरं २प्रेरयतीति तन्नोपपद्यते ।
३नित्यत्वाद्व्यापकत्वाच्च शिवतत्वं यावदवस्थितेः । अथ ज्योतिश्शास्त्रदृष्ट्या
क्रियाविशेषात्मक एवाभ्युपगम्यते आदित्यग्रहतारादिपरिस्पन्दमथाऽपरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो बिदुः ॥ इति ।
यद्येवममूर्तिमानसर्वगतः । कर्मविशेषत्वात् । पाकादिवत् । (अतस्सर्वगतं
परिमाणद्रव्यं हि मूर्तिरित्युच्यते परैः) । अतश्च ४तस्य व्यापकत्वात् पुनरपि
मायातत्वादधः सर्वप्रेरकत्वं ५नोपपद्यते । अथ वेदान्तिसौगतदृशा
व्यवहारनिर्बन्धन एव कालः । न पारमार्थिक इत्युच्यते । यदाहुः
केचिद्बुद्ध्यनुसन्धानपूर्वकत्वं प्रचक्षते । ज्ञानानुगतशक्तिर्वा
बाह्येनासत्यतस्स्थितः । कालात्मानमनाश्रित्य व्यवहारो न शक्यते इति ।
तथाऽपि विभुरेव यावद्व्यवहारस्योक्तत्वादिति पूर्वपक्षोक्तो दोषः । अत्र
हेतुश्च द्विचन्द्रादिवदविद्यारूपत्वेनासत्यत्वादिति प्रेरकत्वानुपपत्तिरेव ।
ननु साङ्ख्यैः प्रकृतेः परिणत्यात्मकोऽसावित्युच्यते यदाहुः परिणामः
पृथक्भावो व्यवस्थाक्रमतस्सदा । भूतैष्यद्वर्तमानात्मा कालरूपो
विभाव्यत इति । तदाप्यनवस्थितः कालः । परिणतेः
क्रियात्वेनावस्थानासम्भवादिति मायातत्वादधोऽध्वनि
प्रेरकत्वानुपपत्तिरेव । किञ्चानवस्थारूपत्वादचेतनत्वाच्च न
बुद्धिपुरुषेश्वराणामिव सत्वप्रेरकपुद्गलप्रेरकत्वमुपपद्यते । किञ्च
युक्तितोऽपि मायातत्वादूर्ध्वं कालो गम्यते । तत्राऽपि सृष्टिसंहारयोगात् न
तथाऽव्यवस्थितत्वादिति । ६रागादिभावे च महाप्रलयेऽपि भवेत् । अन्यथा
तथाविधनियमानुपपत्तिः । अथ प्रलये सर्वथा मायातत्वादधोऽवस्थानेन
कालस्य प्रेरकत्वानुपपत्तिरिति सर्वमेतद्दूरीकृत्य तत्परिहाराय
त्रुट्यादिसूत्रं व्याचष्टे । त्रुटिलवेत्यादि । कलयन्निति ।
चिरक्षिप्रादिप्रत्ययोपाधिद्वारेण प्रक्षिपन्नित्यर्थः । यदाहुः कालो धिया
विभज्यते इति । इदं चात्राऽऽकूतम् । साङ्ख्याभ्युपगतस्तावत्कालो न युक्तः ।
यतो भोक्तुर्भोगाधिकरणत्वेन
स्थितायास्तनोर्वृद्धितरुणाद्यवस्थयाऽनुमीयते परिणतिव्यतिरिक्तः कालः ।
यदाहुः आषोडशाद्भवेद्बालः तरुणस्तु ततस्स्मृतः । आसप्ततेः परो
वृद्धः इति । तथाहि । यदि परिणतिमात्रनिमित्तं वृद्धत्वं स्यात् तदा तस्य
सर्वत्र सर्वदाचैकरूपत्वात् परिणतिविशेषनिमित्तत्वे तु स विशेषः कुतोऽस्या इति
वक्तव्यम् । नाहेतुकं नित्यं सत्वमसत्वं वा । अहेतोरित्युक्तं यतः । नाऽपि
स्वसन्तानमात्रात् । तस्य सर्वदैव भावात् । नाप्यन्नपानादेश्शीतोष्णादेर्वा
। तस्याऽपि सर्वदैव भावेनाविशेषात् । नापि कर्मतोऽवस्थानक्रमात् ।
नियमेन सर्वदाभावात् । कर्मनिमित्तजात्यायुर्भोगवद्विशेषात् यस्तस्य हेतुः
स काल इति । तदिदमुक्तम् । चिराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ! सा
शक्तिः प्रतिबध्नाति जायते च विरोधिनी इति ॥ एवं चिरक्षिप्रादिप्रत्ययलिङ्गत्वं
कालसंसिद्धये परापरादिव्यवस्थितयोः
युववृद्धयोर्देशकालपरत्वापरत्वव्यतिरेकेण परस्मिन्नपि यून्य
परप्रत्ययः । अपरस्मिंश्च वृद्धे परप्रत्ययः । कालविशेषप्रतीतिविवक्षया
। न च तस्मादेव निमित्ताद्व्यतिकरो युक्त इति यन्निमित्ते परत्वापरत्वे स काल इति ।
एवं तु न प्रकृतिपरिणत्यात्मासौ । नाप्यादित्यादिपरिस्पन्दात्मकः तद्वदेव
न कल्पत इति साङ्ख्यज्योतिषवेदान्तविदभ्युपगतकालप्रतिक्षेपः । अस्तु तर्हि
नैयायिकाद्यभ्युपगत एवात्र क्रियाव्यतिरिक्तः कालः । सत्यम् । न तु नित्यो
व्यापको वा तस्य विविधत्वेनानेकत्वात् । अचेतनत्वाच्च । एकरूपत्वे हि कालस्य
सर्वदा पदार्थानामेककालता स्यात् । दृश्यन्ते च केचिद्वर्तमानाः
केचिदतीताः भाविनश्च केचिद्भावाः । ततः कालस्यानेकत्वम् । यदाहुः ।
तमः प्रकाशवत्तस्य त्रयोध्वानो व्यवस्थिताः । क्रमात्तेषु च भावानां
क्रमात्तदुपजायते । इति । ननु तदुपाधेः क्रियाया अतीतादिरूपत्वात्
तस्यातीतादिभेदो न पारमार्थिक इति नैयायिकादयः तदयुक्तम् ।
तस्याऽतीतादिभावाभावादतीतादिकालयोगादेव ह्यतीतादिभेदस्तस्याः ।
अन्यथा सैव कालस्स्यादिति कुतः क्रियाव्यतिरिक्तकालसिद्धिः । तस्मादुपाधेः
स्वतोऽतीतादिभेदासम्भवादुपाधिमतः
कालस्यातीतादिभेदेनानेकरूपत्वं दिगात्मनो भुवनस्येवाभ्युपगन्तव्यं
तदुक्तम् । विशिष्टकालसम्बन्धाल्लवकाष्ठासु शक्तिषु । क्रिया हि व्यज्यते
भिन्ना वर्तमानादिभेदत इति । अत एवेतिहासाद्युक्तस्य कालस्य
वर्तमानताद्यभ्युपगम्यते । यदाहुः इदं युगसहस्रस्य
भविष्यदभवद्दिनम् । तदेवाद्यत्वमायातमिति लोके विरम्यते । कालोयमागत
इति । काल एव त्रिप्रकारः । पूर्वापरदिगवस्थितानेकप्रकारात्मभुवनवत् । अत
एव न दिशस्तत्त्वत्वं सन्निवेशव्यतिरेकेण सिद्धम् । कालस्य तु क्रियाव्यतिरेकेण
समस्तकालनियतिव्यापकतया सिद्धं तत्वत्वमिति । शुद्धाध्वनि च कलादिवत्
शुद्धरूपोऽपि कालस्सम्भवत्येव । ननु कालस्याऽनित्यत्वान्महाप्रलयावधि
नियमासम्भव इत्युक्तम् । तन्न । तत्रेश्वरशक्तेरेव नियामकत्वादिति
सर्वमनवद्यम् । नन्वेवं तर्हि ईश्वरशक्तिरेव कालोऽस्तु । किमन्येन ।
यदवसितं भगवन्नारायणोक्तितो व्यासमुनिना कालोऽस्मि
लोकक्षयकृत्प्रवृद्ध इति । तत्र वदामः । यद्येवमीश्वरशक्तिरेव सर्वं
विधास्यतीति किं पृथिव्यादिभिरपि तत्वैः । दृश्यन्ते च तानि ।
ततोऽनुग्रहव्यतिरेकेणान्यत्स्थित्यादि कर्म भगवान् पशूनां
तत्वान्तरव्यवधानेनैव करोतीति प्रतीतेः । एतदपि तदेकदेशत्वात्
प्रेरणात्मकं कालमाश्रित्य करोति न केवलया शक्त्यापीति कालस्सिद्धः ॥
इत्थं कालस्वरूपमुक्त्वा नियतेस्स्वरूपमाशङ्कापूर्वकमाह
कीदृशमित्यादि । स्वकारणादभिव्यक्ति रिति । मायात्मकात् नियमश्चासौ
सकलस्यैव नियामिका । नतु विज्ञाना कलप्रलयाकलयोः । नापि
मायाकर्मणाम् । तदभावेऽपि तेषां नियमदर्शनात् । नापि कलादेः । स्वतः
कारणशक्त्यैव नियमितत्वादित्याह । पशुं कर्मजनिते इत्यादि । काल एव
पशुं नियमयति । किं नियत्येत्यत आह । न चायमित्यादि । अयमभिप्रायः
नियतिर्हि यदि न भवेत् । अन्योपार्जितान्यपि कर्माणि अन्ये भुञ्जीरन् ।
राजनियमाभावे कृष्यादिफलानीव दस्यव इति
७कर्मानुष्ठानशास्त्राणामनारम्भ एव स्यात् । ८आरब्धं च । ततो यस्य
पुंसः स्वानुष्ठितकर्मानुसारेण यान्युचितानि फलानि शरीराणि च तेषु
नियमकारिणा केनापि तत्वेन भवितव्यम् । यच्च तत्वं सा नियतिरिति ॥ १४ ॥
१। जन्यमात्रस्य कालोपाधित्वात् क्रियावतां परिमाणमित्यर्थः ।
२। प्रेरयतीति यत्तत्रोपपद्यत इत्यर्थः ।
३। अनित्यत्वाव्यापकवाच्चेति पाठभेदः ।
४। तस्याव्यापकत्वादिति पाठभेदः ।
५। मुपपद्यत इति पाठभेदः ।
६। रागाद्यभावे इति पाठभेदः ।
७। शास्त्रमनारब्धमेवेति पाठभेदः ।
८। शास्त्रमितिशेषः ।
वृत्तिः ।
अत्र पराशङ्का ।
ससाधनस्य भोगस्य
कर्मतन्त्रतया जगुः ।
केचिन्नियामकं कर्म
यदन्यदतिरिच्यते ॥ १५ ॥
अवश्यं तावद्भोगस्तत्साधनानि च भोक्तुः कर्माधीनानि ।
तदपेक्षां विना भोगवैचित्र्यस्यानुपपत्तेरित्युक्तम् । तन्नियामकत्वं च
तस्यैव भविष्यति । ततश्च यदन्यन्नियत्याख्यं तत्वं कल्प्यते तदतिरिच्यते ।
निष्प्रयोजनत्वात्तदधिकीभवति । तथाचोक्तम् । यस्माच्च येन च यथा च
यदाच यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा
च तदाच तच्च तावच्च तत्र च विधातृवशादुपैति ॥ १५ ॥
वृत्तिः ।
अत्र परिहारः ।
भोगोर्थस्सर्वतत्वानां
सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि
ततस्सर्वमपार्थकम् ॥ १६ ॥
माभून्नियतितत्वम् । तदन्यदपि भोगसाधनानि तत्वानि
कर्मनिबन्धनान्येव । तेषां चावश्यं कर्मापेक्षित्वात् कर्मैव केवलं
भोगसाधनमस्तु यद्विनान्यान्यकिञ्चित्कारीणि । तथा च सति
शरीरेन्द्रियविषयादेस्सर्वस्याऽऽनर्थक्यम् ॥ १६ ॥
दीपिका ।
भोगार्थ इत्यादिसूत्रं व्याचष्टे । माभूदित्यादि । अयमभिप्रायः ।
कर्मणः फलजनन एव सामर्थ्यात् न १तन्नियमेऽपि । तथाहि । न
कर्मवासनैव कर्तृनियमसम्बन्धं विदधाति । कर्मवासनात्मकत्वात् ।
कृष्यादिकर्मवासनावत् । ततः कर्मफलकर्तृसम्बन्धस्य
तत्तत्कर्मव्यतिरिक्तेनान्येन नियामकेन भवितव्यम् ।
कर्मफलकर्तृसम्बन्धत्वात् ।
कृष्यादिकर्मफलकर्तृसम्बन्धनियामकदृष्टनृपतिवत् । यच्च नियामकं
तन्नियतिरिति नियतिसिद्धिः । कर्मसाम्यविषयश्चास्य व्यापारः
कर्मविचारप्रकरणे प्रोक्त एवेति ॥ १६ ॥
१। सामर्थ्यमिति शेषः ।
वृत्तिः ।
अथ देहादिसापेक्षं
तत्पुमर्थप्रसाधकम् ।
ततो नियति सापेक्ष
मस्तु कर्म नियामकम् ॥ १७ ॥
ननु देहादिसव्यपेक्षं कर्म पुरुषार्थसाधनसमर्थं न केवलम् ।
नह्येकं जनकं किं तर्हि सामग्र्येव कार्यजनिकेत्यत्रोच्यते । ततो
नियतिसापेक्षमिति । एवं तर्हि यथा देहेन्द्रियादिभिस्स्वव्यापारप्र-वृत्तैस्सह
कर्म पुरुषार्थसाधनक्षमम् एवं स्वकार्यनिष्पादक-
नियतितत्वसापेक्षं तन्नियामकमस्त्विति न कश्चिद्दोषः ॥ १७ ॥
वृत्तिः ।
पुंस्तत्वं तत एवाभूत्
पुम्प्रत्ययनिबन्धनम् ।
आपूरकं प्रधानादे -
र्भौवने रुद्रसंश्रयम् ॥ १८ ॥
संहारसमये यदनन्तनाथेन विश्रामितं तत्तस्मादेव
मायातत्वात्पुंस्तत्वमाविरभूदित्यर्थः । पुम्प्रत्ययनिबन्धनमिति
पुम्प्रतीतेर्हेतुः । अनेन मायागर्भस्थेभ्योऽधिकारिरुद्राणुभ्यस्तत्तद्-
भुवननिवासिभ्यश्च वैलक्षण्यमुक्तम् । तेषां पुम्प्रत्ययायोगात् । तच्च
पुंस्तत्वं प्रधानादेस्तत्वब्रातस्यापूरकं पुरुषार्थत्वेन कार्यसहितस्य
प्रधानस्येष्टत्वात् । एवं छात्रहेतुकत्वादध्ययनस्य च्छात्रा अध्यापका
इत्यादिवत् आपूरकशब्दो ज्ञेयः । भौवने चाध्वनि तत्पुंस्तत्वं
रुद्रसंश्रयम् । तथाचोक्तं श्रीमत्स्वतन्त्रे अतः पुरुषतत्वे तु भुवनानि
निबोध मे । दिव्यास्ता सलिलौघैः इत्यादि । पुंरागसम्पुटितं
चैतत्पुरुषतत्वं रुद्राणामाश्रयत्वेनेष्टम् । यथोक्तं किरणे
वामदेवोऽथ भीमश्चाप्युग्रश्च भवसञ्ज्ञितः । सर्वेशानैकवीरौ च
प्रचण्डश्चेश्वरः पुमान् । उमाभर्ता ह्यजोऽनन्त एकश्चैकशिवस्ततः ।
रागतत्वे स्थिता एते रुद्रास्तीब्रबलोत्कटाः । अत्रैव पुरुषो ज्ञेयः
प्रधानग्रहपालक इति ॥ १८ ॥
दीपिका ।
नियतितत्वादनन्तरं पशुपदार्थे नित्यव्यापकतया साधितस्य
१नृतत्वतया नामनिर्देश इति पुंस्तत्वमित्यादिनोच्यत इत्याह । संहार इत्यादि
एतदुक्तं भवति । दीक्षादौ संस्कार्यो वक्ष्यमाणात् प्रकृतितत्वात्
श्रीकण्ठभुवनाच्चोद्धृत्य पुंस्तत्वे योजनीयः पुंस्त्वमलविच्छेदायेति ।
यतः पुंस्तत्वं कलादिनियत्यन्तेन तत्वपञ्चकेन संयुक्तमेव दीक्षादौ
पुंस्तत्वनिर्देशं याति । अतोऽस्यामवस्थायामत्र योजनादि कर्तव्यम् ।
ततस्सकलस्यैव तत्वम् । न विज्ञानप्रलयाकलयोरिति । अत एवाह । तच्च
पुंस्तत्वमित्यादि । अयमर्थः । कलादिपञ्चतत्वोपबृंहितोऽणुः
प्रकृतिगोचरप्राप्याभिलाषमोहेन प्राकृतेनानात्मना विपर्ययेण युक्त एव
पुंस्तत्वनिर्देशमायाति । नच तस्य तदानीं प्रधानाद्भेदः प्रकाशते
यदाह भगवान् । पतञ्जलिः अनित्याशुचिदुःखानात्मसु
नित्यशुचिसुखात्मप्रतिपत्तिरविद्या इति । ततस्तदेवात्र संयोजितः ।
तस्माद्दुःखानात्मादिषु पुंस्तत्वं दीक्षया शोध्यत इति । न च
२तत्वत्वात्तत्वान्तरवत् स्वस्मिंस्थाने स्थितम् । किन्तु कर्मानुसारेण
प्रतिभुवनं चरत्येव पुंस्तत्वम् । यद्येवं पुंस्तत्वस्य सर्वत्र सञ्चरतो
व्यापकत्वात् पृथिवीतत्व एव शोद्ध्यत्वप्रसङ्गः । तत्र । प्रकृतिविषयस्य
मोहस्य स्थूलत्वात् कलादिविषयजानतसूक्ष्ममोहव्यावर्तनायात्र
व्याप्तिरुक्तेत्यविरोधः । तदुक्तं श्रीमन्मतङ्गे । ३न च तत्वं मुनिव्याघ्र
द्वितीयं पुरुषाह्वयम् । कञ्चुकत्रितयव्याप्तं कालेन कलितं शनैः ॥
नियत्यालिङ्गितं याति पुम्भावेनात्मवर्तिना । इति । तथा ४तज्जेष्वेवोपभोगेषु
पञ्चतत्वोपबृंहित इति । पुंस्तत्वस्य चापरिणामित्वेनोक्तत्वात् न तत्र
भुवनविभाग इत्याह । भौवने चेत्यादि भुवनदीक्षायां
सर्वेन्द्रियाख्यरुद्रोपस्थानेन तत्पुंस्त्वमलं शोद्ध्यमिति भावः । अत एव
यत्र भुवनानि श्रूयन्ते तत्र तत्र रुद्रा एव शोध्या इति दर्श्ययितुं
५श्रीमत्स्वतन्त्रपठितो भुवनक्रमः प्रोक्तः । कुत्र पुनस्तेषामवस्थितिरित्याह
। पुंरागसम्पुटं चेत्यादि । तच्च श्रीमत्स्वतन्त्रादिपठितानामेव
बोद्धव्यम् । अत्र प्रधानभुवनादनन्तरमेव तत्तद्भुवनं शोद्ध्यं
रागभुवनस्य कालभुवनोर्ध्वं वक्ष्यमाणत्वात् । क्रियादिभेदेन तत्र
भुवनाभ्युपगमाच्च ॥ १८ ॥
१। पशुपदार्थो नित्यव्यापकतया साधितस्स्यात्ततश्च नियामकनिर्देश इतीति
पाठभेदः ।
२। तत्वात्तत्वान्तरवदिति मातृकयोर्वर्तते । = पुंस्तत्वपटले १�
३। तमौ श्लौकौ ।
४। तत्रैव चतुर्थश्लोकः ।
५। स्वतन्त्रागमपठित इत्यर्थः ।
ततः प्राधानिकं तत्वं
कलातत्वादजीजनत् ।
सप्तग्रन्थिनिदानस्य
यत्तद्गौणस्य कारणम् ॥ १९ ॥
ततो मायातः पुंस्तत्वप्रसवादनन्तरं कलातत्वादव्यक्तं
तत्वमुदपद्यत । कीदृगित्याह । सप्तग्रन्थिनिदानस्येति । यत्प्रधानं
महदहङ्कारयोस्तन्मात्रपञ्चकस्येत्येवं सप्तानां ग्रन्थीनां
कार्ययोनीनामुद्भवे हेतोर्गौणस्य तत्वस्य कारणम् । यथाहि
काञ्चनरत्नादेरुत्तरकालभाविन्यः करिपुरुषतुरङ्गादिक्रियारूपाः
कटककुण्डलाद्याभरणात्मिका वा अर्थक्रियाश्शक्तिरूपतया स्थिताः ।
एवं शक्त्यात्मनास्थितस्वस्वकार्य जनकतन्मात्रादिग्रन्थिसप्तक-कारणस्य
गुणतत्वस्याव्यक्तादुद्भवः ॥ १९ ॥
दीपिका ।
अथ प्रकृतितत्वं साधयितुं तत इत्यादि सूत्रं व्याचष्टे । ततो मायात
इत्यादि । पुंस्तत्वप्रसवादिति । १साक्षात्कार्यकलातत्वादित्यर्थः ।
यत्प्रधानमित्यादि अस्य गुणादिपृथिव्यन्तस्य तत्वभुवनात्मनो जगतो
जन्मकारणं यत् तत्प्रधानमिति । ननु सत्वादिवृत्तय एवाव्यक्तमिति
साङ्ख्याः । तदयुक्तम् । तेषामचैतन्ये सत्यनेकत्वात्
घटादीनामिवावश्यमविभागावस्थात्मना कारणेन भवितव्यमिति
यत्तत्कारणं तत्सत्वादिव्यतिरिक्तं प्रधानमिति । अत एव ये
सत्वनित्यत्वमिच्छन्ति ते प्रतिक्षिप्ताः । प्रधानस्याऽपि
प्रतिपुरुषनियतत्वेनानेकत्वाच्च कार्यत्वसिद्धेः । ततश्च तत्तत्वप्राप्तानां
तेषां न परमोक्ष इत्युक्तं पूर्वमेव । प्रोक्तं च श्रीमन्मतङ्गे ।
२अस्मात्परं नास्त्यपरं येषां भावः प्रतिष्ठितः । न ते मुक्ता
मुनिव्याघ्र ३पुनरायान्त्यधोगतिम् ॥ इति ॥ १९ ॥
१। मायाकार्येत्यर्थः ।
२। प्रधानतत्वपटले सप्तमश्लोकः ।
३। अधोमुखा इति पाठभेदः ।
वृत्तिः ।
ततो बुद्ध्याद्युपादानं
गौणं सत्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः
प्रसिद्धा एव भूयसा ॥ २० ॥
तत इति । तस्मात्प्राधानिकात्तत्वात् वक्ष्यमाणभावप्रत्ययसहि-ताया
बुद्धेरुद्भवहेतुः १गौणं तत्वं सत्वरजस्तमोरूपमजीजनदिति पूर्वेण
सम्बन्धः । तेषां च सत्वादीनां प्रकाशप्रवृत्तिनियमात्-मिकास्तिस्रो
वृत्तयो बाहुल्येन प्रथिता इतीह नोक्ताः ॥ २० ॥
१। तमिति शषः ।
दीपिका ।
ततश्च कारणरूपादविभागात्मनः प्रकृतितत्वाद्भिन्नमेव
कार्यरूपं गुणतत्वमिति वक्तुं ततो बुद्ध्यादीत्यादिसूत्रं व्याचष्टे । तत
इत्यादि तेषां च गुणानां सद्वृत्तं यथास्वं बुद्ध्यादिपृथिव्यन्तेषु
व्यक्तं ज्ञायत इति कृत्वा बुद्ध्यादीत्यादिना कार्यद्वारेण गुणतत्वं
विशेषितमित्याह । वक्ष्यमाणेत्यादि । ततश्च बुद्धेरुद्भवहेतुरिति
साक्षात्कारणमुक्तम् । अन्येषां च परम्पराकारणमित्यर्थः ।
बुद्ध्याद्युपादानमित्यादिशब्देन सर्वेषां गृहीतत्वात् ।
१सप्तग्रन्थीत्याद्यनन्तरसूत्रे सूचितत्वाच्च । उक्तं च श्रीमन्मतङ्गे ।
२व्यक्तीभूतेषु सर्वेषु गुणतत्वं स्वकं स्वकम् । विस्पष्टं शक्यते वक्तुं
नान्यथा मुनिसत्तम इति ॥
सङ्ख्यैरप्युक्तं प्रकृतेर्महांस्ततोहङ्कारस्तस्माद्गुणश्च षोडशकः ।
तस्मात् षोडशकात् पञ्चभ्यः पच्चभूतानि इति ।
प्रकाशप्रवृत्तिनियमात्मिकास्तिस्र इति प्रधान्यादुक्तम् अन्यासामपि
गुनव्र्त्तिनाम् स्थैर्यवैर्यादीनां सम्भवात् । तदुक्तम् मतङ्गे ३स्थैर्यं
धैर्यं ४तथा दाक्ष्यं मार्दवं लघुता तथा । सन्तोष आर्जवं शौचं
व्यवसायस्तथा स्मृति । सौहित्यं परता क्षान्तिः दया दानं वृणा सदा ।
औत्सुक्यञ्चेति सत्वस्य वृत्तयस्समुदाहृताः ॥ क्रौर्यं शौर्यं
महोत्साहस्साभिमानस्सकल्कता । दार्ढ्यं च निर्दयत्वं च भेदो
दम्भश्च ५वृत्तयः । रजसः प्रतिपत्तव्यं तन्त्रेऽस्मिन् पारमेश्वरे ।
अरतिर्मन्दता दैन्यं पैशुन्यं गुरुता सदा । निद्राधिक्यं मदालस्यं
निरोधो मुग्धता च या । तमसो वृत्तयः ख्याता विभिन्नास्सर्वजन्तुषु इति ॥ २० ॥
१। अनन्तरसूत्रेवहितपूर्वसूत्रे इत्यर्थः ।
२। गुणपटले १६ - तमश्लोकः ।
३। गुणपटले सप्तदशश्लोकः ।
४। घृतिर्दाक्ष्यमिति पाठभेदे धैर्यधृत्योर्भेदश्चिन्त्यः ।
५। दम्भोरजोगुणा इति पाठभेदः ।
वृत्तिः ।
त्रयो गुणास्तथाप्येकं
तत्वं तदवियोगतः ।
एकैकश्रुतिरेतेषा
वृत्त्याधिक्यनिबन्धना ॥ २१ ॥
गुणानां त्रित्वेऽपि परस्परावियोगात् गुणतत्वमेकं ज्ञेयम् । ननु ये
चैव सात्विका भावा राजसा ये च तामसाः । इत्यादौ भिन्नमेषां
सत्वादीनां कार्यं श्रूयते । नत्ववियोगादेकमेतत्तत्वमित्याह ।
एकैकश्रुतिरित्यादि । येषां गुणानाम् इदं सात्विकमिदं राजसमिदं
तामसमित्यादिका एकैकश्रुतिः वृत्त्याधिक्यहेतुकी अधिकवृत्तिसत्वं यस्य स
सात्विकः पदार्थः । एवं राजसतामसावपि ज्ञेयौ ॥ २१ ॥
दीपिका ।
त्रयेत्यादिसूत्रं व्याचष्टे । त्रित्वेपीत्यादि । यदुकं १तत्रैव
२विसाम्याश्च यथा तेषां गुणानां युगपत्स्थिताः । प्रवृत्तिर्नेष्यते यस्मात्
व्यस्तानां कारणोदिते । शास्त्रेऽस्मिन् मुनिशार्दूल तथाप्युत्कृष्टदर्शनात् ।
व्यस्तास्सम्परिगीयन्त इति ॥ २१ ॥
१। मतङ्ग एवेत्यर्थः ।
२। विमिश्राश्चेति पाठभेदः ।
वृत्तिः ।
इत्थं च ।
न तदस्ति जगत्यस्मिन्
वस्तु किञ्चिदचेतनम् ।
यन्न व्याप्तं गुणैर्यस्मिन्
नैको वाऽमिश्रको गुणः ॥ २२ ॥
न तदस्तीति । अस्मिन् जगति तादृगचेतनं वस्तु न किञ्चिदप्यस्ति यन्न
व्याप्तं गुणैः यत्र वाऽमिश्रकोऽन्यासम्प्रक्तो एक एव १सत्वादिगुणः ।
उन्मग्ननिमग्नादिवृत्तिसत्वादिगुणत्रयान्वितं सर्वं जगदिति तात्पर्यम् ॥ २२ ॥
१। तद्वस्त्वपि नेत्यन्वयः ।
दीपिका ।
न तदस्तीत्यादि । न चात्र चेतनानां सात्विकादित्वमुच्यते इत्याह अस्मिन्
जगतीत्यादि । यस्मिन्नित्यादिना चेतनानां सूक्ष्मदेह युक्तानां
गुणसम्पर्कः प्रोच्यत इत्याह । यत्र चेत्यादि ॥ २२ ॥
वृत्तिः ।
एवं गुणतत्वमुक्त्वा बुद्धितत्वं वक्तुमाह ।
बुद्धितत्वं ततो नाना -
भावप्रत्ययलक्षणम् ।
परं तदात्मनो भोग्यं
वक्ष्यमाणार्थसंस्कृतम् ॥ २३ ॥
वक्ष्यमाणलक्षणा धर्मादयो भावास्तज्जाश्च विपर्यया
अशक्त्यादयः प्रत्ययास्त एव लिङ्गं सत्तागमकं यस्य
तदभिधास्यमानैर्विषयैस्संस्कृतमुपरक्तं बुद्धितत्वं परं
प्रकृष्टमव्यवहितमात्मनो भोग्यम् । विषयाणां भोग्यत्वेऽपि
तत्प्रतिबिम्बितत्वेनासन्निकृष्टत्वात् अपकृष्टत्वं यतः । उक्तं च
तत्रभवत्सद्योज्योतिपादैः १बुद्धिर्विषयाकारा सुखादिरूपा समासतो
भोग्या इति ॥ २३ ॥
१। अष्टप्रकरणे तत्वसङ्ग्रहे तृतियश्लोकः ।
दीपिका ।
बुद्धितत्वामित्यादिसूत्रं व्याचष्टे । वक्ष्यमाणलक्षणेत्यादि ।
तज्जाश्चेत्यादि । धर्मादय एव कार्यद्वारेण भोग्यदाशामापन्नाः
प्रत्यया इत्यर्थः । त एव लिङ्गमिति । अयमभिप्रायः । धर्माद्यात्मकानि
ज्योतिष्टोमादीनि कर्माण्यनुष्ठीयमानानि समनन्तरमेव स्वर्गादिफलं न
जनयन्ति । आमुष्मिकफलत्वात्स्वयं च ऋत्विग्यजमानव्यापाररूपत्वेन
नष्टान्येवावभासन्त इत्यतो न फलं कर्मानुवर्तत इति शक्यते वक्तुम् ।
प्रत्यक्षविरोधात् । ततस्तैः प्रत्यात्मनियतोऽपूर्वाख्यसंस्कारः
फलश्रुत्यन्यथानुपपत्त्या क्रियत इत्यभ्युपगतं परैरपि । स च नात्मनि
सम्भवति । अविकारित्वात् । कर्मणां च
कृष्यादीनामात्मसंस्कारत्वादृष्टेरित्युक्तमपितु जड एवेति यत्र तानि
संस्कारं कुर्वन्ति सा धर्माद्यष्टगुणा बुद्धिरिति । एवं
ज्ञानादिसंस्कारेऽपि वाच्यः । तद्बलादेव
स्वप्नस्कृतिप्रतिभादावसत्यप्यर्थे उल्लेखो दृश्यते यतः ।
तदभिधास्यमानौरित्यादि । अत एवाध्यवसायलिङ्गा बुद्धिस्सिद्धा ।
द्विविधोऽह्यवबोधः । अध्यवसायात्मकोऽनध्यवसायरूपश्च । यदाहुः
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजमिति । ततः परं
पुनर्वस्तुधर्मैर्जात्यादिभिर्यथा । बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन
सम्मता इति । तयोरनध्यवसायात्मकस्सर्वद ग्राहकरूपेणैवावभासमान
आत्मस्वभाव एवेत्युक्तम् । यस्त्वध्यवसायरूपस्स
१उत्पन्नत्वोपपत्त्याऽनित्यत्वेनावभासमानो न पुंसः स्वभावः ।
नित्यस्यानित्यस्वभावत्वायोगात् । अनयाऽपि न तेषामध्यवसेयता सम्भवति
ननु गुणैरेव भगवान् बुद्ध्यादिकार्यं विदधातु । किं बुद्ध्यादिभिः ।
यद्येवमीश्वरशक्तिरेव सर्वं करोतीति किं गुणादिभिरपि । अथ
गुणादिव्यवधानेनैव कार्यं करोतीत्युच्यते । यद्येवं
बुद्ध्याद्यधिष्ठानेन तत्तदध्यवसायादिकार्यं करोतीति न कोऽपि विरोधः
॥ २३ ॥
१। उत्पन्नोपस्थितेनावभासमानेन इति पाठभेदः ।
भावा बुद्धिगुणा धर्म -
ज्ञानवैराग्यभूतयः ।
सात्विका व्यत्ययेनैते
रागमुत्सृज्य तामसाः ॥ २४ ॥
वृत्तिः ।
भावाश्चत्वारः । धर्मज्ञानवैराग्यैश्वर्याख्या बुद्धिगुणा
भावसञ्ज्ञया विज्ञेयाः । भावयन्ति आत्मनो लिङ्गं तेन भावाः इति
स्मृताः । एते च सात्विका बोद्धव्याः । व्यत्ययेन विपर्ययेणैते
रागमुसृज्यावैराग्यविवर्जितास्तामसाः अधर्माज्ञानानैश्वर्यरूपाः ।
अवैराग्यलक्षणस्तु भावो राजसः ॥ २४ ॥
दीपिका ।
भावा इत्यादिना धर्मादयो भावाः प्रोच्यन्त इत्याह । भावाश्चत्वार
इत्यादि भावशब्दार्थमाह भावयन्त्यात्मनो लिङ्गमिति । बुद्धौ
वासनात्वेन स्थिता धर्मादयोऽष्टौ भावा इत्यर्थः । एते चेत्यादि ।
सात्विकशुद्धा मतिः प्रवृत्ता यस्य पुंसः तस्य धर्मादयश्चत्वारो भावा
भवन्तीति भावः । एवं राजसतामसानामपि ज्ञेयम् ॥ २४ ॥
वृत्तिः ।
प्रत्ययान् व्याचष्टे ।
प्रत्ययास्तदुपादाना -
स्तेष्टौ नव चतुर्गुणाः ।
सप्त पञ्च च विख्याता -
स्सिद्ध्याद्या वर्गशो मुने ॥ २५ ॥
ते धर्मादय उपादानमुत्पत्तिहेतुर्येषां ते संसार्यणोः
प्रत्यायनात् प्रत्यया इष्टाः । कियन्त इत्याह । अष्टौ नवेत्यादि । अष्टविधा
सिद्धिः । नवविधा तुष्टिर्वक्ष्यमाणलक्षणा । उक्तं च साङ्ख्यैः
ऊहश्शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानं च
सिद्धयोऽष्टाविति । तथा आध्यात्मिकाश्चतस्रः
प्रकृत्युपादानकालभाग्याख्याः । बाह्यविषयोपरमात् पञ्च नव
तुष्टयाऽभिहिता इति । चतुर्गुणास्सप्त अष्टाविंशतिसङ्ख्या भवन्ति ।
तावत्सङ्ख्याता अशक्तिः । कर्मेन्द्रियबुद्धीन्द्रियमनसां विघाता एकादश
। १बाधिर्यमान्ध्यमघ्रात्वं मूकता जडता च या ।
उन्मादकाण्डकौण्यानि क्लैब्योदावर्तपङ्गुता इति । बुद्धिवधाश्च
प्रागुक्तानां तुष्टिसिद्धीनां विपर्ययाः सप्तदशेत्यष्टाविंशतिः । तथा
चाह कापिलाः । एकादशेन्द्रियवधास्सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदशवधा बुद्धेः विपर्ययास्तुष्टिसिद्धीनाम् इति । पञ्चच विख्याता इति
विपर्ययभेदास्तमोमोहमहामोहतामिस्रान्धतामिस्राख्या एते पञ्च ।
सिद्धयोऽष्टौ तुष्टयो नव अशक्तयोऽष्टाविंशतिरित्येवं वर्गशः क्रमेण
पञ्चाशत्प्रत्ययाः ॥ २५ ॥
१। बाधियै श्रोत्रस्य । आन्ध्यं चक्षुषः । अघ्रात्वं नासायः । मूकता
वाचः । जडता जिह्वायाः । उन्मादो मनसः काण्डस्त्वचः । पाणेः कुणित्वम् ।
उपस्थस्य क्लैत्र्यम् । पायोर्गुदावर्तः । पादस्य पङ्गुतेति विवेकः ।
छन्दोनुरोधात्क्रमोऽविवक्षितः ।
दीपिका ।
प्रत्यया इत्यादि व्याचष्टे ते धर्मादय इत्यादि ते धर्मादय एव
प्रकर्षावस्थां प्राप्ताः स्थूलेन रूपेण भोग्यदशां प्रतिपन्नाः
प्रत्यया इत्यर्थः । तदेवाह संसार्यणोरित्यादि । यदुक्तं १प्रत्याययन्ति
क्षेत्रज्ञं प्रत्ययास्तेनते स्मृताः इति । धर्मश्चात्र यमनियमभेदात्
द्विधा भिद्यते । चित्तसंयमो हि यमः । नियमस्त्विन्द्रियसंयमः । उक्तं च
मतङ्गे २धर्मश्च द्विविधः प्रोक्तो यमश्च नियमोऽपरः । अहिंसा
सत्यमस्तेयं ब्रह्मचर्यमकल्कता । यमोऽयं पञ्चधा प्रोक्तो
नियमश्चाप्यथोच्यते । अक्रोधो गुरुशुश्रूषा शौचं सन्तोष एव च आर्जवं
चेति नियम इति । गुरुशुश्रूषाचात्रोपलक्षणम् अन्येषां नित्यनैमित्तिकानां
कर्मणाम् । यत्ते लक्षणे तत्रैवोक्ते । ३दानोपवास-तीर्थानि कीर्तितावसयादयः ।
तत्र कीर्तितं स्वाध्यायस्याध्ययनम् आवसथस्त्वाहिताग्निः इति । अष्टविधा
सिद्धिरित्यादिना ते च सिद्ध्यादयः पञ्चाशत्प्रत्ययाः साङ्ख्यसिद्धा एवात्र
दर्शिताः । नतु सिद्धान्त-सिद्धाः श्रीमन्मतङ्गादावन्यथैव तल्लक्षणस्य
तत्सङ्ख्यायाश्-चाभिधानात् । अत एव सूत्रकारेणा मिहितार्थः
साङ्ख्यमतादौ प्रसिद्ध इत्यर्थः वृत्तिकारेणाऽपि तदपेक्षयैवोक्त उक्तं च
साङ्ख्यैरित्यादि । के पुनस्सिद्धान्तसिद्धाः प्रत्ययाः अत्रोच्यन्ते । तत्र धर्मो
यमनियमभेदात् दशधा भिद्यते इत्युक्तम् । ज्ञानमेव च प्रकर्षावस्थां
प्राप्तं सिद्धिरित्युच्यते तत्र गुरुपदेशानपेक्षणात् स्वबुद्ध्यूहादेव
यत्ज्ञानमुत्पद्यते सैका सिद्धिः । यदाहुः साक्षात्कृतधर्माणो ऋषयो
बभूवुः । ते परेभ्योऽसाक्षात्कृतधर्मेभ्य उपदेशेन मन्त्रान् सम्प्राहुरिति
तथा स्वयं शास्त्रा लोकनात्
गुरुपदेशादाद्ध्यात्मिकादिदुःखत्रयोपघातात् कल्पनम् ।
मित्रप्राप्तिदानादिना भावितात्मनां चेत्येवं कारणभेदादष्टधा
भिद्यते । यदुक्तं पराख्ये ज्ञानं चाभ्यसतो नित्यं निजबुद्ध्या
यदूहितम् इत्यादि । इहाऽपि वक्ष्यति । लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको
गुणः इति । एताश्च दानादीनामुपलक्षणतया ज्ञेया इति । उक्तं च साङ्ख्यैः
ऊहश्शब्दोऽध्ययनं दुःख विघातत्रयं सुहृत्प्राप्तिः । दानं च
सिद्धयोष्टाविति । एतानि च ज्ञानानि परमात्माव्यक्तगुणबुद्ध्यहङ्कारमन
इन्द्रिय ४तन्मात्रभूतचैतनिकानां वेदान्तादिचार्वाकान्तानां
तत्तत्पदप्राप्तिहेतुतया ज्ञेयानीति मतङ्गादौ दर्शितम् । इहापि वक्ष्यति
५पुम्प्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा । इति । ततश्च तत्तत्ज्ञानरूपा
सिद्धिर्दर्शनभेदाद्दशधा भिद्यमाना पुर्वोक्तकारणभेदात्
प्रत्येकमष्टधा भिद्यते । एवमशीतिसङ्ख्या भवति ।
साङ्ख्यैरेतास्वज्ञानव्यतिरिक्तास्तुष्टयः कथिताः । यदुक्तम्
आध्यात्मिकाश्वतस्रः प्रकृत्युपादाकालभाग्याख्याः ।
बाह्यविषयोपरमात् पञ्चनव तुष्टयोऽभिहिताः इति । तेषां
त्रिंशत्तत्वावधिमुखमुक्त्यपेक्षया तेषामिव साङ्ख्यानामपि सा
तुष्टिरेव यतः । यदाहुः (लोकोन्मूलसम्प्राप्तो)र्धेन तुष्टः पादेन तुष्टः इति
। इहाऽपि वक्ष्यति तुष्टिर्नुरकृतार्थस्य कृतार्थोऽस्मीति या मतिः । इति । ६अतस्त्व
कृतावधि साध्यस्य साधनादसौ सिद्धिरुच्यते । तदितरत्राऽपि समानमिति
सर्वाण्येतानि सिद्धिभेदत्वेनोक्तानि इत्यविरोधः । काः पुनरत्र तुष्टयः ।
अस्यैव भूततन्मात्रादिज्ञानयुक्तस्य वैराग्यादिहेतुभेदेन तुष्टिभेदो
भवति । यदुक्तं श्रीमत्पराख्ये तस्मादेकतमात्ज्ञानाद्वैराग्यमुपजायते
इति । इह हि
व्याख्यादियुक्तप्राणिदर्शनेनाऽऽध्यात्मिकाविदैविकाधिभौतिकदुखत्रययो
गेन, धनार्जनादिना रोदनादेस्त्वङ्गनादितः स्वस्माद्रागतो बुद्ध्यादेः
प्रतिग्रहाच्च दशभिः वैराग्यनिमित्तैः क्रमेण
जुगुप्साऽऽध्यात्मिक्याधिभौति क्याधिदैविकी निस्वा प्ररोदिका विडम्बिका
कामोद्भविका क्षीबका वखानसी चेति दश तुष्टयो वैराग्यभेदात् भिन्ना
भवन्ति । एतत्प्राप्त्याऽऽत्मा तुष्ट एव भवति यतः । यदाहुः यस्त्वात्मरतिरेव
स्यादात्मतृप्तश्च मानवः । स मुक्तस्सर्वपापेभ्यो याति ब्रह्मसनातनम् । इति
। साच दशविधा तुष्टिः पूर्वोक्त दर्शनभेदेन
भूततःमात्रादिज्ञानयुक्तस्य प्रत्येकं भवतीति शतसङ्ख्या भवति ।
तथैश्वर्यमप्यणिमादिभेदेनाष्टविधम् । तत्पुनः
पिशाचादिपितामहान्तानां देवयोनीनां भूलोकस्य जलभूमिभेदेन
द्विविधत्वात् तदादिष्विष्टासु स्थानेषु क्रमेणाष्टाष्टवृद्ध्या
चतुष्षष्टिर्भवति । एवं धर्माणां प्रागुक्तयमनियमानां विपर्ययेषु
अधर्मेषु दशसु पुंसो बुद्धि प्रवर्तत इति अधर्मो ७दशधाभिद्यते ।
अज्ञानमपि तमो मोहमहामोहतामिस्रान्धतामिस्रं चेति पञ्चविधमेव ।
तत्र तमसा पुंसः प्रागुक्तास्सिद्धयो न प्रवर्तन्ते ।
वैराग्यात्तुष्टिरिवावैराग्यात्प्रागुक्तदर्शनभिनात् दशैवाऽतुष्टयः ।
जुगुप्सादीनां तुष्टिहेतुत्वात् न तद्भेदाद्भेद इति ।
ऐश्वर्यादिनाऽणिमादिशक्तिरिवाऽनैश्वर्यादणिमाद्यभावाष्टकम् ।
शरीराशक्तिरिन्द्रियाशक्तिर्दशधामनोऽहङ्काराशक्तिरेवेति
एकविंशतिसङ्ख्याभवन्ति । बुद्ध्यशक्तेरसिद्ध्यतुष्टिरूपाया
अज्ञ्नानावैराग्यभेदत्वेनोक्तत्वात् इति साङ्ख्योक्तस्यापवादमेव ।
एकादशेन्द्रियवधास्सहबुद्धिवधैरशक्तिरुद्दिष्टा इति । एवमेते धर्मादयः
शतत्रयसङ्ख्या भवन्ति । उक्तं च भगवता रामकण्ठेन ।
धर्मोदशभिर्भेदैः ज्ञानमशीत्या शतेन वराग्यम् । ऐश्वर्यं
चतुष्षष्ट्या दशभिरधर्मः तदर्थतोऽज्ञानम् । दशभिरवैराग्यं
चानैश्वर्यं भिन्नमेकविंशत्या । भावप्रत्ययभेदः
सङ्क्षेपोक्तश्शतत्रयेणायम् । इति । ननु के पुनरत्र तमोमोहादयः । उच्यन्ते ।
अत्र तमोनामाऽनात्मन्यात्मभावादिना दशविधसिद्ध्यहेतुत्वात्
दशविधः । मोहोऽणिमाद्यप्रतिपत्तिहेतुरष्टविधः ।
दृष्टानुश्रवणानर्हभूतेषु यश्शब्दादिविषयेषु परत्वावबोधः स
दशविधो महामोहः । एतेषां दशानां शब्दादीनाम् अणिमादीनां
चाष्टानां यथा सधानानुष्ठानेऽपि अप्राप्तिं पश्यतः प्राप्तानां
वानाशात् यस्सन्तापस्स तामिस्रोऽष्टादशविधः । एवं
प्रागुक्तेष्वष्टादशसु बलवताऽन्येन योगिना संहारे सति
यद्दुःखमुत्पद्यते सोऽष्टादशविधोऽन्धतामिस्र इति । एवमवान्तरभेदादेते
विपर्ययाश्चतुष्षष्टिभेदा भवन्ति । तच्च ८तमश्शक्तिबलावेशादित्यादिना
श्रीमन्मतङ्ग एवोक्तमिति ॥ २५ ॥
१। पौष्करे पुंस्तत्वपटले १८ तमश्लोकः ।
२। बुद्धिपटले २९ = ३१ = तमौ श्लोकौ ।
३। तत्रैव ४७ - तमश्लोकः ।
४। नचान्यत्स्वतन्त्रं साङ्ख्यणतं जलानामित्यपि
पुस्तकान्तरेऽधिकतया पाठोऽस्ति ।
५। प्रत्ययादिप्रकरेणे द्वितीयश्लोकः ।
६। अकृतमित्यनेन तत्सञ्ज्ञकं गुणतत्वभुवनं कथ्यते ।
७। तेच हिंसा चौर्य मिथ्याकथनं गुर्वेगनाभिगमन
अपकारप्रतिकृतिः क्रोधनित्यलोप अशौच अतोषः अनार्जवाः ।
८। बुद्धिपटले १७५ तमश्लोकः ।
वृत्तिः ।
येचैवं सङ्ख्यातः प्रतिपादिताः ।
भावास्सप्रत्ययास्तेषां
लेशाल्लक्षणमुच्यते ॥ २५� ॥
दीपिका ।
भावास्सप्रत्यया इत्यादि व्याचष्टे । येचैवमित्यादि ॥ २५� ॥
वृत्तिः ।
किं तदित्याह ।
सांसिद्धिकाः वैनयिकाः
प्राकृताश्च भवन्त्यणोः ॥ २६ ॥
एते भावास्सांसिद्धिकादिभेदात् त्रिविधास्संसारिणो भवन्ति ॥ २६ ॥
दीपिका ।
भावलक्षणमाशङ्कापूर्वमाह । किं तदित्यादि एते च भावा
ब्रह्मादीनां सांसिद्धिका बोद्धव्याः ॥ २६ ॥
वृत्तिः ।
अथ तेषां सांसिद्धिकादीनां स्वरूपमभिधत्ते ।
विशिष्टधर्मसंस्कार-
समुद्दीपितचेतसाम् ।
गुणस्सांसिद्धिको भाति
देहापायेऽपि पूर्ववत् ॥ २७ ॥
विशिष्टेनेष्टापूर्तादिधर्मसंस्कारेण सम्यगुद्दीपितं प्ररोचितं
चेतो येषां तेषाम् न परं देहसंयोगे यावद्देहापायेऽपि प्राग्वद्यो
गुणः प्रकाशते स सांसिद्धिको नाम बोद्धव्यः ॥ २७ ॥
वृत्तिः ।
लोकधीगुरुशास्त्रेभ्यो
भाति वैनयिको गुणः ।
समार्जितो वैनयिको
मनो वाक्तनुचेष्टया ॥ २८ ॥
यस्तु यथावस्थितलोकबुद्धेर्गुरुतश्शास्त्राद्वा समार्जितस्स वैनयिको
भाति प्रकाशते । समार्जित इति । यो मनोवाक्तनुचेष्टया
शुद्धव्यापारेणार्जितस्स वैनयिको बोद्धव्यः ॥ २४ ॥
दीपिका ।
लोकधीत्यादि व्याचष्टे । यस्त्वित्यादि । यथावस्थितलोकबुद्धेरिति लोकात् ।
कल्याणमित्रादेश्च सुबुद्धेरित्यर्थः । एते च प्रागुक्तानां
दानादीनामप्युपलक्षणत्वेन ज्ञेयाः । समार्जित इत्यादिनाऽस्यैव
प्रकारान्तरेण त्रैविध्यमुच्यते इत्याह । य इत्यादि ॥ २८ ॥
प्राकृतो देहसंयोगे
व्यक्तस्स्वप्नादिबोधवत् ॥ २८� ॥
यः पुनस्स्वप्नमदमूर्च्छाप्रबुद्धस्य यथा
प्रस्तुतसंस्काररूपदेहसंयोग एव व्यज्यते । न देहापायेऽपि स प्राकृतो
नाम गुणो विज्ञेयः ॥ २८� ॥
वृत्तिः ।
अथैतेभ्यस्सांसिद्धिकादिभ्यो धर्मेभ्यः फलविशेषान् वक्तुमाह ।
स्वर्गो मुक्तिः प्राकृतत्वाविघातौ
योनिक्रान्तिर्निरयप्राप्तिबन्धौ ।
रूपेष्वर्था वैनयप्राकृतेषु
सम्पद्यन्ते संविघातः क्रमेण ॥ २९� ॥
तत्र तावत् वैनयिकेषु प्राकृतेषु च रूपेषु क्रमेणार्थास्सम्-पद्यन्ते
१स्थितिमुपयान्ति । केत इत्याह । स्वर्ग इति । धर्मात् स्वर्गः । ज्ञानान्मुक्तिः ।
वैराग्यात्प्रकृतिलयः । ऐश्वर्यादविघातः । यथेष्टसिद्धिरित्यर्थः ।
अधर्मात्तिर्यगादियोनिप्राप्तिः अज्ञानान्निरयावाप्तिः । अवैराग्याद्बन्धः ।
अनिश्वर्याद्विघातः ॥ २९� ॥
स्वर्ग इत्यादिसूत्रं सम्बन्धयति । अथेत्यादि । रूपेष्विति । धर्मा-दिषु
भावेष्वित्यर्थः । ज्ञानान्मुक्तिरिति पूर्वोक्तदर्शनस्थानां तत्तत्ज्ञानात्
तत्तत्वावधि मुक्तिरित्यर्थः । यदुक्तं बुद्धितत्वे स्थिता बौद्धा इत्यादि । न तु
परामुक्तिः । तस्या दीक्षया विनाऽसम्भवादित्-युक्तं वक्ष्यामश्च ।
अनैश्वर्याद्विघात इति । प्रागुक्ताऽशक्तिः ॥ २९� ॥
वृत्तिः ।
अथ सांसिद्धिकेषूच्यते ।
वश्याक्रान्तिस्तत्परिज्ञानयोगो
भोगानिच्छा विघ्नसङ्घव्यपायः ।
१भोगासक्तिर्न्यक्कृतिर्देहबुद्धि -
र्विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ ३० ॥
वृत्तिः ।
धर्मादिषु सांसिद्धिकेषु सत्सु इदमिदं सम्पद्यत इति
पूर्वेणान्वयः । किं किमित्याह वश्याक्रान्तिरिति वश्या
क्रान्तिस्सांसिद्धिकाद्धर्मात् । तत्परिज्ञानयोगस्तादृग्विधात्ज्ञानात् ।
भोगेष्वनभिलाषो वैराग्यात् । विघ्नसमूहापगमः ऐश्वर्यात् ।
भेगेष्वासक्तिस्सांसिद्धिकादधर्मात् । न्यक्कृतिः न्यक्कारः
तथाविधादज्ञान्तात् । देहबुद्धिरवैराग्यात् । कार्येषु विघ्नोऽनैश्वर्यात् ।
१। देहलब्धिरिति पाठभेदः ।
इति भट्टविद्याकण्ठात्मजश्रीभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ कलादिकार्यनिरूपणप्रकरणं समाप्तम् ।
दीपिका ।
वश्याक्रान्तिरिति । वश्यानां स्वतत्वावधीनां लोकानामधिष्-
ठानम् । तत्परिज्ञानयोग इति तद्विषयज्ञानप्राप्तिः । उक्तञ्चैतद्भोग-
कारिकास्वपि अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् । इत्युपक्रम्य
१एषामधोगतिर्बन्धो विघातस्संसृतिः क्रमात् । स्वर्गो मुक्तिः
प्रकृतिभावोऽविघातश्च फलानि च । भवस्थानापराधोऽथ विघ्नो
भोगानतिक्रमः । वश्योर्ध्वस्थितिसद्दृष्टिभृत्वं भोगस्पृहा फलम् ।
स्वचिन्तितेषु चाविघ्नोरूपे सांसिद्धिके फलम् । विनयप्राकृते रूपे
पूर्वोक्तफलसङ्ग्रहः इत्यन्तेनोक्तम् ।
१। २९ तमेपृष्ठे ५७ - तमश्लोकः ।
इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां कलादिकार्येषु
बुद्धितत्वविचारप्रकरणं दशमं समाप्तम् ।