०९ मायाप्रकरणम्

अथ मायाप्रकरणं नवमम् ।

अथ सर्वज्ञवाक्येन
प्रतिपन्नस्य लक्षणम् ।
कथ्यते ग्रन्थिपाशस्य
किञ्चिद्युक्त्याऽपि लेशतः ॥ १ ॥

अथ शब्दश्चानन्तर्ये पाशपदार्थपरीक्षाधिकारे   

कर्मपाशविचारानन्तरं ग्रन्थ्यात्मनो मायाख्यस्य पाशस्य
किञ्चित्सङ्क्षिप्तं लक्षणं कथ्यते । अस्य चानन्तरप्रकरणोपसंहारे
मायाशब्दोपक्षेपात् पाटलिकस्सम्बन्धो ज्ञेयः ।
पदार्थादिसम्बन्धचतुष्टयन्तु प्रागुक्तम् । सर्वज्ञवाक्येन प्रतिपन्नस्येति ।
प्रावृतीशबले कर्ममात्येत्यादिनोद्देशसूत्रेण वक्तुमभ्युपगतस्य ।
किञ्चिदिति । नहि सकलं मायालक्षणं सङ्क्षेपेणाप्यभिधातुं शक्यम् ।
तथोक्तं तत्रभवद्भिर्वृहस्पतिपादैः । अपि सर्वसिद्धवाचः क्षीयेरन्
दीर्धकालमुद्गीर्णाः । मायायामानन्त्यान्नोच्येत स्रोतसां सङ्ख्या ॥ इति ।
युक्त्यापि लेशत इति । नागममात्रेण केवलेन । अपि तु युक्तिलेशेनापि
स्तोकादनुमानेनोपपन्नमपि तल्लक्षणमुच्यत इत्यर्थः ।

दीपिका ।

अथ मायालक्षणप्रकरणं नवमम् ।

अथेत्यादिसूत्रेण मायालक्षणोक्तिः प्रतिज्ञायत इत्याह पाशपदार्थेति   

। अतश्च पाटलिकस्सम्बन्ध इति मायादीत्यनेन सूचित इत्याह । अस्यचेत्यादि ।
पदार्थादीत्यादि । तत्पदार्थसम्बन्धः पाशपदार्थतया । प्राकरणिकोऽपि
विद्यापादतयैव । सौत्रस्तु पाशजालमित्यनेन । वाक्यात्मकोऽपि
मायायास्साधिकाराया इत्यादिभिर्वाक्यैरनेकविधः । अतश्च वाक्यसम्बन्ध
एव सर्वज्ञवाक्येन सूचित इत्याह । प्रावृतीशवलेनेत्यादि । नहीत्यादि ।
साधारणासाधारणरूपाणां कार्यस्रोतसामनन्तत्वात्तद्भेदो वक्तुं न
शक्यते । तत्कारणमात्रस्वरूपोऽत्र साध्यत इत्यर्थः ॥ १ ॥

वृत्तिः ।

तदेकमशिवं बीजं
जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त -
संरोधि व्याप्यनश्वरम् ॥ २ ॥

तद्ग्रन्थितत्वमेकम् । परमकारणत्वात् । अनेकत्वे प्रमाणाभावाच्च ।   

अशिवं मोहकत्वात् । बीजं जगत उपादानकारणम् । विविधशक्तियुक्तं च ।
सहकारिणां कर्मणामधिकारान्तं यावत्संरुणद्ध्यणून् बध्नाति
तच्छीलमिति सहकार्यधिकारान्तसंरोधि । कर्माभावे
ग्रन्थितत्वस्याप्रवृत्तेः ।
व्यापि च तत्सर्वगतम् । स्वकार्यव्यापकम् । अनश्वरं नित्यत्वात् ।
महाप्रलयेऽपि आत्मवदीश्वरवच्च तस्यावस्थानात् । तदुक्तं तत्वत्रयनिर्णये
१शम्भुः पुरुषो माया नित्यं विभु कर्तृशक्तियुक्तं च । सुप्तेऽपि विकृतिजाते
त्रितयं जागर्ति तत्वानाम् ॥ २ ॥


१। तृतीयश्लोक। ।

दीपिका ।

तदेकमित्यादिना मायालक्षणं प्रतिजानीत इत्याह   

तद्ग्रन्थितत्वमित्यादि । एकत्वादीनि चानन्तरमेवोपपादयिष्यति । अशिवं
मोहकत्वादित्यादि । कार्यद्वारेण चैतन्यव्यञ्जकमपि
अनात्मादिष्वात्मादिज्ञानजनकत्वेन मोहकत्वादशिवं मोहकमुच्यत इति ।
बीजं जगत इत्यादि । देहेन्द्रिययभुवनादेर्यदुपादानकारणं सा मायेति ।
विविधशक्तियुक्तं चेति । विविधशक्तिरूपकार्यत्वमित्यर्थः । यद्वक्ष्यति
तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ । विकृतौ व्यक्तिरूपाणि
व्याप्रियन्तेऽर्थसिद्धये इति । न तु मायाया अनेककार्यजनिकाश्शक्तय इति
व्याख्येयम् । शक्तेश्शक्त्यन्तरायोगात् । असदुत्पत्तेर्निराकारिष्यमाणत्वाच्च ।
पूर्वमेव व्याख्यातं यतः । उपादानत्वादेव मृदादिवत्सहकारिणा विना
न तदात्मना देहादिकार्यजनकमित्यादि सहकारिणामित्यादि व्यापित्वं चास्य
सर्वस्वकार्यव्याप्तेरित्याह । व्यापिचेत्यादि । अनश्वरं चेत्यादि ।
कर्मशरीरसन्तानस्य
बीजाङ्कुरसनततेरिवाऽऽदिमध्यान्तरहितत्वादिदमप्यादिमध्यान्तरहितम् ॥
यदाहुः इदं पूर्वमिदं पश्चादिति वक्तुं न पार्यत इति ॥ अत एवेदं न
क्षीरदधिन्यायेन सर्वात्मना परिणामि । किन्तु घृतकीटन्यायेनैकदेशेनैव
बिन्दुवदिति मन्तव्यम् ॥ २ ॥

वृत्तिः ।

युक्त्याऽपि लेशत इत्युक्तम् । अतस्ता युक्तिं दर्शयति ।  

कर्ताऽनुमीयते येन
जगद्धर्मेण हेतुना ।
तेनोपादानमप्यस्ति
न पटस्तन्तुभिर्विना ॥ ३ ॥

सन्निवेशादिमत्वादुत्पत्तिमत्वं किल जगतः कर्तारमनुमापयति ।   

तेनैवोत्पत्तिधर्मत्वेनोपादानमप्यनुमीयताम् ।
नह्युत्पत्तिमतामुपादानकारणं विनोत्पत्तिर्दृष्टा । यथा
पटादेस्तन्त्वाद्यभावे ॥ ३ ॥

दीपिका ।

कर्तेत्यादिसूत्रं सम्बन्धयति युक्त्यापीत्यादि । तत्र   

तावन्मायास्तित्वयुक्तिरनेनोच्यत इत्याह । सन्निवेशादिमत्वादित्यादि ॥ ३ ॥

वृत्तिः ।

किञ्च ।  

तदचेतनमेव स्यात्
कार्यस्याचित्त्वदर्शनात् ।
प्राप्तस्सर्वहरो दोषः
कारणानियमोऽन्यथा ॥ ४ ॥

तच्च ग्रन्थितत्वमचेतनम् । अचेतनस्यैव तत्कार्यस्य कलादेरुपलम्भात् ।   

अन्यथेति अचेतनतत्कार्योपलम्भेऽपि तस्य चेतनत्वाभ्युपगमे
कारणानियमलक्षणः सर्वहर इति
सर्वानुमानोच्छेदकस्सकलव्यवहारलोपदोषः प्राप्तः ॥ ४ ॥

दीपिका ।

उपादानकारणत्वादेव तस्याचेतनत्वमित्याह । किञ्चेत्यादि । यदुक्तं   

ये ये यद्रूपिणो भावास्ते ते तद्रूपहेतुजा । इति ॥ ४ ॥

वृत्तिः ।

प्रागुद्दिष्टमविनश्वरत्वं व्यापित्वं च साधयितुं युक्तिमाह ।  

यद्यनित्यमिदं कार्यं
कस्मादुत्पद्यते पुनः ।
अव्यापि चेत्कुतस्तत्स्या -
त्सर्वेषां सर्वतोमुखम् ॥ ५ ॥

जगत्संहारे यद्युपादानकारणस्य मायाख्यस्यापि विनाशःस्यात्   

तत्पुनस्सर्गादौ कस्मादुपादानाज्जगदुत्पद्यते । अतो नास्यानित्यत्वम् । अथोच्यते
सर्गादावुपादानमपि देवस्स्रक्ष्यतीति । नैतद्युक्तम् । एवं हि सति
तत्कार्यस्येवाऽस्याप्युपादानं विनाऽनुत्पत्तेरुपादानान्तरं परिकल्प्यं
तस्याप्यन्यदिति अनवस्था स्यात् । व्यक्त्युपसंहारेण शक्तिरूपतया
त्ववस्थाने न कश्चिद्दोषः । एवमस्याव्यापित्वे सर्वतोमुखस्य
कार्यस्यानुत्पादस्स्यात् । अतो व्यापकत्वमवश्यमभ्युपेयम् ॥ ५ ॥

दीपिका ।

व्यापकत्वमवश्यमभ्युपेयमिति स्वकार्येष्वेव अत एव   

१शुद्धविद्यातत्वादेश्शुद्धाध्वनश्शास्त्रादीनां
चोपादानकारणमन्यदेव महामायात्मकं कुण्डलिन्यादिशब्दवाच्यमिति
वक्ष्यति - योनिर्विश्वस्येति । शक्तेर्नादो भवेद्बिन्दुरित्यादि । शुद्धाध्वन्यपि
मायाया परस्या इति च । श्रीमद्रौरवेपि मायोपरि महामायेति ॥ ५ ॥


१। कामिकादीनामित्यर्थः ।

वृत्तिः ।

अथैकत्वे युक्त्युपन्यासः ।  

यदनेकमचित्तत्तु
दृष्टमुत्पत्तिधर्मकम् ।
न तदुत्पत्तिमत्तस्मा -
देकमभ्युपगम्यताम् ॥ ६ ॥

यद्यस्मात्कारणाद्यद्यदनेकमचेतनं
तत्तद्घटपटादिवदुत्पत्तिमद्दृष्टम् । इदन्तु नोत्पत्तिमत् न कारणजन्यं
परमकारणत्वात् । अत एकम् । नहि परमकारणानि बहूनि भवन्तीति ॥ ६ ॥

वृत्तिः ।

ननु जगदुत्पत्तौ   

परपरिकल्पितपरमाण्वादिवदुपादानकारणबहुलत्वं यदि स्यात्ततः को
दोषः तथाहि ।

पटस्तन्तुगणाद्दृष्ट
स्सर्वमेकमनेकतः ॥ ६� ॥

बहुभ्यो हि तन्तुभ्यः पटस्यैकस्योत्पत्तिर्दृष्टा । तद्वच्च   

जगत्सर्वमनेकस्मात्कारणादुत्पद्यताम् । अलं
ग्रन्थ्यात्मकपरमकारणकल्पनयेति चोद्यम् ॥ ६� ॥

वृत्तिः ।

अत्र परिहारः ।  

तदप्यनेकमेकस्मा
देव बीजात्प्रजायते ॥ ७ ॥

यद्भवताऽनेकतन्त्वात्मकं कारणं पटस्योक्तं तदनेकमपि   

एकस्माद्दुकूलकार्पासादिद्रव्यादनेकाकारपटाद्युत्पत्तिः । एवं
परमकारणात्सर्गस्थितिलयाधाराख्यात्सर्गादौ मायातत्वाज्जगदुत्पत्तिरिति
न कश्चिद्दोषः ॥ ७ ॥

वृत्तिः ।

परमात्मन एव सकाशाच्चिदचिदाविर्भावतिरोभावाविति येषां   

पक्षस्तान् प्रतिक्षिपति ।

येषां चिद्धर्मकाद्धेतो
रचिदप्युपजायते ।
तेषां धूमेन लिङ्गेन
जलं किं नानुमीयते ॥ ८ ॥

चिद्धर्मकाद्धेतोर्यैरचितामप्युद्भवोऽभ्युपगतस्तैर्धूमा-  

ज्जलानुमानं किं न क्रियते । कार्यकारणप्रतिनियमासम्भवे
सत्यतत्स्वभावादपि तत्स्वभावस्योत्पत्तिप्राप्तेः । यथा न दृष्टा
धूमाल्लिङ्गात् कदाचिदपि जलप्राप्तिः । तथाह्यचित्स्वभावस्य
स्वविरुद्धाच्चित्स्वभावान्नोत्पत्तिर्दृष्टा । अतत्स्वभावात्तत्स्वभावोत्पत्तौ
सर्वं सर्वस्मादुत्पद्येत ॥ ८ ॥

दीपिका ।

येषामिति सूत्रमवतारयति । परमात्मन एवेत्यादि । एतच्चोपलक्षणं   

नारायणाख्यायाः परप्रकृतेरपि । न्यायस्य समानत्वादिति । एतदेवाह
अतत्स्वभावादित्यादि । उपादानत्वादेवाचेतनत्वादिदोषः प्रागुक्त एवेति ॥ ८ ॥

वृत्तिः ।
परमाणुकारणं जगदिति येषामभ्युपगमस्तान् प्रत्याह ।

भूतावधि जगद्येषां
कारणं परमाणवः ।
तेषां पूर्वोदिताद्धेतो -
र्ज्ञातैव ज्ञानसूक्ष्मता ॥ ९ ॥

१येषां भूतावधि क्षित्यन्तं जगत् परमाणवः तत्कारण तेषां   

पूर्वोदितात्प्रागुक्तात् द्रव्यादिषट्पदार्थज्ञानात्
षोडशपदार्थावबोधाद्वा निश्रेयसप्राप्तिहेतोर्ज्ञानस्य सूक्ष्मता
प्रबोधतैक्ष्ण्यं ज्ञातम् । तादृग्विधसूक्ष्मदर्शिन्या बुद्ध्या
परमाणुकारणतामभिदधाना न ते वाच्यतामर्हन्ति । परमाणूनां
कैश्चित्परमाणुतैव निषिद्धा षट्केन युगपद्योगात् । षडंशत्वस्या
परिहार्यत्वात् । किञ्चाचैतन्ये सत्यनेकत्वात् घटपटादिवत्तेषामपि
कारणपूर्वकत्वेन भाव्यमिति कुतः परमकारणता । ततश्च न
तत्प्रकृतिकत्वं जगतः ॥ ९ ॥


१। येषां पृथिव्यादिभूतावधिस्थित्यन्तं पारमाणवं जगतेषामिति
पाठभेदः ।

दीपिका ।

भूतावधीत्यादि सूत्रं व्याचष्टे येषामित्यादि । ननु परमाणव   

एवद्व्यणुकादिक्रमेण संयुज्यमानाः परमकारणं भविष्यन्ति ।
किमत्रानुपपन्नम् । येनैवमुपालभ्येमहि । परमाणूनामित्यादि । अत एव
सन्निवेशत्वात्कार्यत्वमिति भावः । परमाणुताभ्युपगमेऽपि दूषणमाह
किञ्चेत्यादि । न वाऽस्य हेतोस्सामान्यादिभिर्व्यभिचारः । तेषामपि
पक्षीकृतत्वात् । नच कालात्ययापदिष्टो हेतुः प्रत्यक्षागमबाधितत्वात् ।
तथाह्यस्मदाद्यागमेऽपि सिद्धान् परमाणून् पक्षीकुर्वतो
युष्मदागमाभ्युपगमोऽवश्यम्भावी भवतः । तदयुक्तम्
अस्मदागमेप्यध्वप्रमाणश्रुत्यादिभिः परमाणूनां
सिद्धत्वाद्युष्मदागमाभ्युपगमासिद्धेः कुतस्तद्बाधेन
कालात्ययापदिष्टत्वम् । यथा सामान्ये धर्मिणि
नैयायिकोक्तसर्वगतत्वधर्मबाधाय व्यक्तिसर्वगतत्वं साधयतां
वैशेषिकाणां व्यक्तिभ्योऽन्यत्रानुपलम्भादिति हेतुः । यथाच
नैयायिकानां समवाये धर्मिणि
वैशेषिकाभ्युपगतप्रत्यक्षत्वसमवेताश्रितत्वधर्मद्वयबाधनाय
नित्यानुमेयत्वं स्वातन्त्र्यं च साधयतां हेतुर्न कालात्ययापदिष्टो
भवद्भिरुच्यते धर्मिणस्तत्रोभयवादिसिद्धत्वादेवं सिद्धेषु परमाणुषु
अनित्यत्वं नित्यत्वं च साधयतोरस्मदागमयुष्मदागमस्थयोर्हेत्वोर्मम
हेतुर्न कालात्ययापदिष्टः । अन्यतरसिद्धे तु धर्मिणि स दोष एव । यथा
न्यावैशेषिकसिद्धे समवायाख्यधर्मिणि अनित्यत्वं साधयतस्सत्वाख्यस्य
सम्बन्धत्वात् संयोगवदिति हेतुः समानतान्त्रिकाः सर्वथा
समानत्वाभावादिति । अत एव कारणपूर्वकाः परमाणवः मूर्तत्वात् ।
घटादिवदित्ययमपि हेतुर्न कालात्ययापदिष्टोऽस्माकम् ।
अपित्वनभ्युपगतपरमाणूनामन्यतान्त्रिकाणामेवेति । मन्तव्यम् ।
नन्वप्रयोजकोऽयं हेत्वाभास इति न्यायभाष्यकारः कश्चित् । तन्न ।
अप्रयोजकस्य हेत्वाभासस्याभावात् । न्यायसूत्रकारः
१पञ्चलक्षणाल्लिङ्गात् परोक्षलिङ्गिनि ज्ञानमनुमानमिति
लिङ्गलक्षणमनुमाय तद्व्यावर्तका न
सिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमान् पञ्चैव
हेत्वभासानाह । भाष्यकारोऽपि तस्य प्रयोजकं नामेति । अत एव
भूतावधीत्येतदपि निरस्तम् । सावयवत्वादिना कार्यत्वसिद्धेः
परमाणूनां च कारणत्वनिरोधात् कारणान्तरं मृग्यं यतः ।
किञ्चेदं तावत्कार्यकारणात्मकं शरीरमायाद्यैहिकम् । साङ्ख्यैरपि
मौणं चतुर्विंशतितत्वात्मकमिष्यते ॥ गुणानामत्रापूरकत्वेनावस्थितेः ।
अत्र भूतानि पञ्चतन्मात्राअणि च कार्यशब्दवाच्यानि
इन्द्रियाधिकरणानीन्द्रियाणि दशान्तःकरणत्रयं च कार्यकरणानि योनितो
योन्यन्तरगमनमारभन्ते । इति । तदुक्तमाचार्यैः २एतत्कार्यं दशधा
करणैराविश्य कार्यते चिष्टाम् । अविभूत्वात्करणानि तु कार्यमधिष्ठाय
चेष्टन्ते । इति । यद्येवं गुणात्मिका प्रकृतिरेव कार्यकारणोभयसिद्धावस्त्विति
साङ्ख्याः । तदयुक्तं कलादीनां तत्वानां युक्तिसिद्धानां सम्भवात् ।
तथाहि समलस्य पुंसो ज्ञत्वकर्तृत्वयोरावृतत्वात्प्रलयकेवलिन इव न
भुवनभोक्तृत्वमिति अवश्यं ३तयोर्व्यञ्जकेन तत्वद्वयेन भवितव्यमिति
कलाविद्ये सिद्यतः । अभिव्यक्तचिद्रूपस्य वीतरागस्येव नहि प्रवृतिरिति
तत्प्रवृत्त्यर्थमवश्यम्भावी रागस्सिद्धः । प्रवृत्तस्य
कलननियमनयोरवश्यं भावित्वात् कालनियती सिद्धे । नियतिश्च
कार्यकरणादिविषयापेक्षा । तत्कारणानां प्रागुक्तानां
गुणानामचैतन्ये सत्यनेकत्वात् इन्द्रियाणामिव कारणान्तरेण भवितव्यन्ति
अव्यक्ताख्यं गुणव्यतिरेकेण सिद्धम् । अत एव यस्य तत्वमिच्छन्ति यदाहुः
पाञ्चरात्राः भगवान् वासुदेवोऽसौ गुणेभ्यः प्रकृतिः परा । अव्यक्तं
नित्यमाहुस्तत्परस्मान्नहि विद्यत इति प्रकृतिस्सिद्धा । प्रधानस्याऽपि
प्रतिपुरुषनियतत्वेनानेकत्वाच्चैभिस्तत्वैः प्रतिपुरुषं भिन्नैर्भवितव्यम् ।
भोगसाम्यप्रसङ्गात् । तत्र तेषामचैतन्ये सत्यनेकत्वात्कारणसिद्धेः
स्तैरयोगे पुंसो भोक्तृत्वासम्भवादिति । सा च परमकारणं माया सिद्धेति ।
अत एव बौद्धादयः संहता एव जायन्ते संहता एव निरुद्द्यन्त इति कृत्वा
देहादीनां देहादीन्येव कारणानीत्याहुः । तेषां पक्षो दूरापास्त इति ॥ ९ ॥


१। प्रतिज्ञादिपञ्चावयववाक्यनिश्चिताल्लिङ्गादित्यर्थः ।
२। अष्टप्रकणे तत्वसङ्ग्रहे ४ - श्लोकः ।
३। ज्ञत्वकर्तृत्वयोरित्यर्थः ।

वृत्तिः ।

ननु यदा तावन्मातापितृसम्बन्धिभ्यो   

देहेन्द्रियादिभ्यस्तत्तत्स्वसदृशशरीरकरणाद्युत्पद्यमानमुपलभ्यते । तदा
किमदृष्टेन मायादिना कारणेनाकॢप्तेनेत्याशङ्क्याह ।

शरीरादेश्शरीरादि
यदि तन्निखिलात्यये ।
का वार्तानाखिलध्वंसो
न सर्वज्ञो मृषा वदेत् ॥ १० ॥

मातापितृसंश्लेषशरीरेन्द्रियकारणकं जन्तूनां शरीरेन्द्रियादि   

तद्भावे भावात् तदभावे चाभावादिति यद्यभिमतं तदस्तु ।
किन्त्वेतत्प्रष्टव्यो भवान् । तन्निखिलात्यये सर्वसंहारे देहेन्द्रियाद्युत्पत्तेः
कीदृशी गतिः । अथ सक्रम एव सर्वभावानां नाशः । न तु
युगपत्सर्वसंहार इत्युच्यते । तदयुक्तम् ।
श्रुतिस्मृतीतिहासपुराणादिसदागमगीयमानस्य
संहारस्यापह्नोतुमशक्यत्वात् । तदपह्नवे च प्रथमसृष्टिरपि नेष्टा ।
ततश्च सृष्टिसंहारौ जगतो न सम्भवत इति ब्रुवाणस्सर्वज्ञतामेव जह्यात् ॥
१० ॥

दीपिका ।

१तत्पक्षाभ्युपगमेऽपि दूषणं शरीरादेरित्यादिसूत्रेणोच्यते इत्याह ।   

मातेत्यादि सक्रमस्यैव शरीरादिसंहारस्य
दर्शनाद्दृष्टवच्चादृष्टकल्पना युक्तेति भावः । परिहरति । २तदयुक्तमित्यादि
न ह्यदर्शनमात्रात्सर्वसंहाराभावः । युक्त्यागमसिद्धत्वात्
३सर्वसंहारस्येति भावः । अत एवाह श्रुतिस्मृतीत्यादि ॥ १० ॥


१। बौद्धपक्षाभ्युपगमेऽपीत्यर्थः ।
२। प्रतीकमेतन्मातृकासु न दृश्यते ।
३। भावोस्त्विति पाठभेदः ।

वृत्तिः ।

अथ कथं संहाराभावमभिदधतो मिथ्यावादित्वमित्याह ।  

एकदेशेऽपि यो धर्मः
प्रतीतो यस्य धर्मिणः ।
स तस्य सर्वतः केन
जायमानो निवार्यते ॥ ११ ॥

कोटिशो मरणं दृष्ट्वा
संहतानां शरीरिणाम् ।
सोऽपि प्रतीयते कालो
यत्राशेषजनक्षयः ॥ १२ ॥

सर्वज्ञेन हि स्वस्य वचसः प्रमाणोपपन्नतया परीक्षणं
प्रतिज्ञातम् । यदाह तापाच्छेदान्निकर्षाच्च सुवर्णमिव सर्वतः । परिक्ष्य
भिक्षवो ग्राह्यं मद्वचो नतु गौरवादिति । इयं च संहारसम्भवे
निर्बाधा तावदुपपत्तिः । यदुत यस्य धर्मिणो वह्न्यादेः क्वाप्येकदेशे
धूमप्रकाशदाहादिधर्मो दृष्टः स तस्य सर्वत्रोत्पद्यमानः केन
निषिद्ध्यते । ततश्च दुर्भिक्षमारीकूटभङ्गादिनैकदेशे
जन्तुसङ्घातस्याक्रमिकां कोटिशो विपत्तिमुपलभ्य
कृत्स्नजगत्संहारकालस्सदागमोदितोप्यनुमानेनोल्लिख्यते ॥ १२ ॥

दीपिका ।

युक्तिसिद्धत्वमप्यस्य दर्शयितुमेकदेश   

इत्यादिसूत्रस्याऽऽशङ्कामाह । अथेत्यादि । तस्य सर्वमिथ्यावादित्वं
दर्शयितुं तद्वचस्तावद्दर्शयति । सर्वज्ञेनेत्यादि । तदेतच्च व्याहतं
युक्तिसिद्धसर्वसंहाराभावाभिधानादित्यभिप्रायेणाह । इयं चेत्यादि ।
तामेव युक्तिं दर्शयति यस्येत्यादि ॥ १२ ॥

वृत्तिः ।

तदानीं च मायायामुपसंहृतानि सर्वकार्याण्यासन्नित्याह ।  

तदाधाराणि कार्याणि
शक्तिरूपाणि संहृतौ ।
विकृतौ व्यक्तिरूपाणि
व्याप्रियन्तेऽर्थसिद्धये ॥ १३ ॥

प्रागुक्ताभिरुपपत्तिभिर्नित्यत्वव्यापकत्वादिगुणयुक्तं यत्तु   

मायाख्यं कारणमुपपादितं तदाश्रयाणि तनुकरणभुवनादीनि
संहारकाले शक्तिरूपाण्यवतिष्ठन्ते । सृष्टौ तु व्यक्तिरूपाणि
स्वस्वप्रयोजननिष्पत्तये सव्यापाराणि भवन्तीति सर्वं सुस्थितम् ॥ १३ ॥

दीपिका ।

तदानीञ्चेत्यादि पकृतत्वात्सर्वसंहारकत्वे । अत एव   

द्वितीयकार्यशक्त्यधिकरणं मायातत्वं सिद्धमित्याह ।
प्रागुक्ताभिरित्यादि ॥ १३ ॥

वृत्तिः ।

अत्र मुनिस्सत्कार्यवादमसहमानः प्रश्नयति ।  

तन्त्वादिकारकादानं
पटासत्वे पटार्थिनः ।
सत्वे कारकशब्दोऽपि
व्यपैतीति हतं जगत् ॥ १४ ॥

साफल्यमसदुत्पत्ता
वस्तु कारकवस्तुनः ॥ १४� ॥

यदेतच्छक्तिरूपतया मायाख्ये परमकारणे जगतोऽवस्थानमुक्तम् ।   

तन्नोपपद्यते । तथाहि दृष्टवददृष्टकल्पनाकर्तव्या । दृश्यते च
तन्तुतुरीवेमादिकारकग्रहणमविद्यमानपटस्यार्थिनः । न तु पटसद्भावे
सति । पटस्य हि सत्वे सति कारकशब्दोऽपि तन्त्वादेर्नोपपन्नः ।
विद्यमानत्वादेव । असदुत्पत्तौ हि कारकवस्तुनस्साफल्यं नान्यथेति ॥ १४� ॥

दीपिका ।

तन्त्वादीत्यादिप्रश्नसूत्रं व्याचष्टे यदेतदित्यादिना । अत्र   

सत्कार्यवादिनां चत्वारः पक्षाः । केचिच्छक्तिसमाहारात्मकः कारणं
शक्तय एव व्यक्तीभूताः कार्यमित्युपगन्तव्याः यदाहुः
शक्तिमात्रसमूहस्य भावस्य परिणामतः । कदाचिद्व्यज्यते काचिच्छक्तिः
काचित्प्रलीयते । इति । परेत्वभिव्यक्तिर्भावानां न रूपान्तरपरावृत्तिः । अपि तु
उपलभ्यमानतैव । अतो नित्यत्वात् प्रधानात्मनि तेषां संहारः क्वचिद्वा
धर्मविशेषे केषाञ्चित् । ततश्च क्रमेणाभिव्यक्तिरेव जन्म कथ्यत इति
प्रतिपन्नाः । यदुक्तं क्रमाच्च ग्राह्यरूपेषु स्वातन्त्र्याद्वापि वा श्रिया ।
भावेषु प्रतिभासेन जन्मसञ्ज्ञा निषेव्यते । इति । अन्ये
पुनस्सन्निवेशविशेषमात्रं कारणस्य कार्यम् । हेम्नः
कटककेयूरादिवदित्याहुः । यदुक्तं हेम्नस्सुकुण्डलीभावो व्याग्राणां
वा समग्रता । अथवा जन्मनाशौ तु तत्र केन प्रचक्षत । इति । अपरे तु
क्रमविचित्रस्वभावत्वात् भावाः क्रमेण तं तमवस्थाविशेषमनुभवःतो
जन्मादिव्यपदेशं भजन्तीत्युक्तवन्तः । यदाहुः कारणं कार्यभावेन
यदा वा व्यवतिष्ठते । कार्यं चेदं तथा लब्धकार्यत्वं नानुजायते इति ।
चतुर्ष्वपि चैतेषु पक्षेषु अनामतो विद्यते स इत्ययमेव सत्कार्यसिद्धो न्यायः ।
सचायुक्त इत्याह तन्नोपपद्यते इत्यादि तदेवोपपादयति तथाहित्यादिना ॥ १४� ॥

वृत्तिः ।

अत्र परिहारः ।  

उत्पादयतु सर्वस्मा -
त्सर्वस्सर्वमभीप्सितम् ॥ १५ ॥
अथाशक्यं यतश्शक्य
मत्र वः किं नियामकम् ।
न च पश्यामि तत्किञ्चि -
च्छक्तिश्चेत्सिद्धसाध्यता ॥ १६ ॥

आस्तां तावत्सदुत्पत्तिः । असदुत्पत्तौ कारकवस्तुनः   

तुरीतन्तुवेमादेस्साफल्याभ्युपगमे सर्वेभ्यो
भावेभ्यस्सर्वस्सर्वमभीप्सितं किमिति नोत्पादयति । अथ न शक्यं
सर्वस्मात्सर्वमुत्पादयितुं कुतश्चित्कस्य चित्कार्यस्योत्पत्तिदर्शनात् । एवं तर्हि
यस्मादेव कारणाद्यद्यदुत्पद्यते तस्मादेव तन्नान्यस्मात् । तत्र किं
नियामकं भवताम् । न हि तस्मिन् कारणे किमप्यन्यन्नियामकमुत्पश्यामः
। येनाभिज्ञानेनान्यदनादृत्य तदेव तदुत्पत्त्यर्थिनो गृह्णीमहि । अथ
सर्वस्मात्सर्वोत्पत्तिभयात्तस्यैव कारणस्य तत्कार्यजनिका शक्तिर्नान्यस्येति
तदेतत्सिद्धं काध्यत इत्याह । शक्तिश्चेत्सिद्धसाध्यतेति । किमन्येन
कार्यकारणप्रतिनियमकारणेनेति तत्तत्कार्यजनिका शक्तिरेव नियामिका
भविष्यति । अतच्छक्तिमतस्तज्जननायोगात् । यथा न पुत्रजननं
षण्डस्योपपद्यते । यद्येवं तस्मिन्नेव कारणे तत्कार्यजननशक्तिमत्वं
नान्यत्रेति शक्तिरूपतया तत्र
तत्कार्यमवस्थितमित्यास्माकीनपक्षानुप्रवेशात् सिद्धं साध्यते
भवद्भिः ॥ १६ ॥

दीपिका ।

परिहारसूत्रं व्याचष्टे । आस्तामित्यादि ।   

सक्तिश्चेदित्यादिसूत्रखण्डमवतारयति । अथ सर्वस्मादित्यादिना ।
पूर्वपक्ष्याशङ्कां कुरुते । किमन्येनेत्यादि । परिहारसूत्रं व्याचष्टे ।
यद्येवमित्यादि ॥ १६ ॥

वृत्तिः ।

१उपचयदूषणमाह ।  

अन्यथा कारकव्रात
प्रवृत्त्यनुपपत्तितः ।
श्रुतिरादानमर्थश्च
व्यपैतीत्यपि तद्घतम् ॥ १७ ॥

अन्यथेत्यसदुत्पत्त्यभ्युपगमे कारकव्रातस्यैव २प्रवृत्तिर्नोपपद्यते ।   

असतो हि कार्यस्य वन्ध्यासुतादेरिवोत्पत्तये किं किल कारकाणि कुर्युः ।
कारकप्रवृत्त्यनुपपत्तेश्च घटादिचिकीर्षोर्मृत्पिण्डाद्यानयेत्यादिका श्रुतिः
। तेषां च कारकाणामादानं ग्रहणम् अर्थश्च तद्व्यापारलक्षणा
क्रिया व्यपैति विघटते । तस्मिंश्च व्यपेते सर्वचेष्टाव्याघातः । प्रत्युत
युष्मत्पक्षे जगद्व्याहतं स्यात् ॥ १७ ॥


१। उपचय्येति पाठभेदः ।
२। प्रवृत्तिः किम् इति पाठभेदः ।

दीपिका ।

अन्यथेत्यादिसूत्रं व्याचष्टे । अन्यथेत्यादि ॥ १७ ॥  

वृत्तिः ।

ननु शक्त्यात्मना कारणे कार्यं नावस्थितम् । अपितु तदुत्पादिका   

शक्तिस्तत्रास्तीत्यतच्छक्तिमतस्तज्जननायोगात् कार्यकारणप्रतिनियमसिद्धौ न
काचित् क्षतिरिति पराभिप्रायमाशङ्कय तमपाकरोति ।

अथास्त्युपादिका शक्ति -
र्न कार्यं शक्तिरूपकम् ।
तयोर्विशेषणं वाच्यं
नैतत्पश्यामि किञ्चन ॥ १८ ॥

अथ मतं प्रतिनियतकार्यजनिका कारणे शक्तिरस्ति । न तु शक्त्यात्मना   

कार्यमवस्थितमिति तदेतच्छब्दमात्रेण भिन्नं नार्थेन । वक्तव्यं ह्यत्र
विशेषणं भवता । यदुत तत्तत्कार्यजनिका शक्तिः कारणेऽस्ति । शक्त्यात्मना
वा तत्तत्कार्यं कारणे व्यवस्थितमित्यत्र नहि किञ्चिद्विशेषमुत्पश्यामः ॥ १८

दीपिका ।

शक्तिश्चेदित्यादिनोक्त एवार्थोऽथास्तीत्यादिसूत्रेण प्रपञ्च्यत इत्याह ।   

नन्वित्यादि । तदेव सूत्रं व्याचष्टे । अथमतम् इत्यादि ॥ १८ ॥

वृत्तिः ।

यत एवम् ।  

तस्मान्नियामिका जन्य
शक्तिः कारकवस्तुनः ।
सान्वयव्यतिरेकाभ्यां
रूढितो वाऽवसीयते ॥ १९ ॥

तस्मात्स्थितमेतत् यदुत जन्यशक्तिः कारकवस्तुनो नियामिका   

इदमस्मादेवोत्पद्यत इति । सा च जन्यशक्तिरन्वयव्यतिरेकाभ्यां प्रसिद्ध्या
चावगम्यते । सत्येव मृत्पिण्डे घटाद्युत्पत्तिः ।
असत्यनुत्पत्तिरेवेत्यन्वयव्यतिरेकौ । रूढिश्चेयम् आबालबालिशाङ्गनासु
स्थिता । यद्घटोत्पत्त्यर्थिनो न मृत्पिण्डव्यतिरिक्तमुपादानं
कुलालस्योपहारयन्तीति । ननु यदि मृत्पिण्डे घटस्स्यात्
तत्कुम्भकारव्यापारं विनाप्युपलभ्येत । नचोपलभ्यते । तस्मान्न
मृत्पिण्डे घटोऽस्ति । अपितु ततः कुम्भकारेण क्रियते ।
यतस्तद्व्यापारानन्तरम् उत्पद्यमानस्य घटस्योपलम्भः । नैतत्
उपलब्धिकारणाभावात्तत्र घटस्यानुपलम्भः । न त्वसत्वात् । यदा पुनः
कुलालदस्याभिव्यञ्जनक्रिययोपलब्धियोग्यता भवति तदोपलभ्यत एव । यथा
खननादिना कीलमूलोदकादेः । ननु कीलमूलोदकादेः प्राक्सत्वे
प्रमाणमस्ति । नतु मृत्पिण्डे घटस्य तस्माद्घटस्ततो भवति । नत्वभिव्यज्यत
इति युक्तमुक्तम् । एवं चेत्तदत्राऽपि सत्वे प्रमाणम्
असदकारणादुपादानग्रहणादित्यादि सम्भवेदित्यभिव्यक्तिवाद एव युक्तः ॥
१९ ॥

दीपिका ।

जन्यशक्तिरिति । कारणस्था कार्यशक्तिरित्यर्थः । ननु सत्कार्यपक्षे   

जन्मनाशानुपपत्तिरितिचेत् । तन्न । यतोऽर्थक्रियायुक्तत्वमेव जन्म ।
तदभावस्तु नाशः । यथाह्यात्मनोऽनादित्वेऽपि
शरीरयोगार्थक्रियायुक्तत्वादुपचारेण जन्मत्वेनोच्यते । तद्वियोगस्तु विनाश
इति । अत एव चोदयति । नन्वित्यादि । परिहरति नैतदित्यादि । यदाहुस्साङ्ख्याः ।
असदकारणादुपादानग्रहणात् सद्यस्सम्भवाभावात् । शक्यस्य
शक्त्यकरणात् कारणावाच्च सत्साध्यमिति । किञ्चानुभवेनापि
आविर्भावतिरोभावावेव जन्मनाशौ । तयोरेव प्रत्यक्षत्वात् । तथाहि प्रत्यक्षे
च क्षीराद्येव दध्यात्मना भवदृश्यते । न च क्षणिकत्वाद्भावानां
क्षीरविनाशे दध्याद्युत्पन्नमिति वाच्यम् । क्षणिकत्वस्य पूर्वमेव
निरस्तत्वादिति ॥ १९ ॥

वृत्तिः ।

यद्येवं तर्हि सतो भावस्य सत्वादेव जननं नोपपद्यते ।   

दृश्यमानस्य घटादेरिवेति पुनस्स दोषस्तदवस्थ एवेत्याह ।

तद्व्यक्तिर्जननं नाम
तत्कारकसमाश्रयात् ।
तेन तन्तुगताकारं
पटाकारावरोधकम् ॥ २० ॥
वेमादिनाऽपनीयाथ
पटव्यक्तिः प्रकाश्यते ॥ २०� ॥

तदेवं पटादेर्भावस्य जननमभिमतम् ।   

यत्तुरीतन्तुवेमादिसमाश्रयात् शक्त्यात्मनावस्थितस्य तस्याऽभिव्यक्तिः ।
यतः पटाकारप्रतिबन्धकं तन्तुगतमाकारं
वेमादिकारकव्रातेनापास्यानन्तरं पटव्यक्तिः प्रकाश्यते । न
तूपलभ्यमानपटान्तरवत्सदेव तन्तुभ्यः पटाद्युत्पद्यत इति । अभिव्यक्तिरपि
किमसत्कार्या उत व्यङ्ग्येत्येवं कुतार्किकविकल्पपरिहारो
ग्रन्थविस्तरभीरुत्वान्न लिखितः । व्यक्तिस्वभावत्वादभिव्यक्तेरभिव्यङ्ग्यता
न वेत्यादयः किल वितर्का दूरापेता एव प्रकाशवत् । यथा हि प्रकाशः
प्रकाशात्मकत्वात् न प्रकाशान्तरप्रकाश्यः एवमभिव्यक्तिस्वभावात्
नाभिव्यक्त्यन्तरमपेक्षत इति ॥ २०� ॥

दीपिका ।

तद्व्यक्तिरित्यादिसूत्रस्याऽऽशङ्कामाह यद्येवं तर्हीत्यादि ।   

अयमभिप्रयः - यदि पूर्वं सन्त एव मृदादिषु घटादयो गृहोदरादिष्विव
दीपादिभिः कुलालादिव्यापारैरभिव्यज्यन्ते । कोयं विभागो दीपो
घटमभिव्यनक्ति । कुलालस्तूत्पादयति । एतत्परिहारायेदं सूत्रं व्याचष्टे ।
तदेतदित्यादि । एतदुक्तं भवति । द्विधा खल्वभिव्यक्तिः । एका
ह्यर्थप्रतिबन्धाकारस्य वस्तुनोऽबोधनिमित्तस्य तन्निमित्तभावोयेन
प्रतिबद्ध्यते तदुत्सारणम् । यथा घटस्यान्धकारतिरोहितस्य
तदुत्सारणमभिव्यक्तिः । अन्या तु
प्रतिबन्धकारणस्याकारप्रतिबन्धोत्सारणं यथा मृडादिषु
घटाद्याकारः पूर्वोकारेण प्रतिबद्धः तस्य पूर्वाकारस्य प्रोत्सारणम् ।
घटत्वाभिव्यक्तिविशेष एवायमुत्पत्तिशब्दो ब्राह्मणविशेष इव
कर्णादिशब्दोपचारत इति । अभिव्यक्तिरपीत्यादि । ननु सत्कार्यवादितो
भावान्तरवदभिव्यक्तिरपि सतीति व्यापारानर्थक्यप्रसङ्गः । सत्यम् ।
यद्यभिव्यक्तिरपि सती घटादिवदिष्यते सा त्वसति कारकव्यापारैराविर्भाव्येति
किमनुपपन्नम् । ननु यद्यभिव्यक्तिरपि असतीति कुलालेन क्रियते किमपराद्धं
घटेन यन्न क्रियते इति । तच्च नैवं तुल्योयमावयोरिति ।
तथाप्यन्धकरतिरोहितघटाभिव्यक्तौ अभिव्यक्तिरसती घटस्तु सन्नेवेति
सिद्धन्तः । तत्र शक्यं प्रसञ्जयितुम् अभिव्यक्तिवत् घटोऽपि जन्यते । तद्वच्च
अभिव्यक्तिस्सतीत्यादिप्रसङ्गसाधारण्येनान्यतरो न पर्यनुयोज्यः । यदुक्तं
यत्रस्यादुभयोर्दोषः परिहारोऽपि वा समः । नैकः
पर्यनुयोक्तव्यस्तादृमर्थविनिश्चये इति । वृत्तिकारस्तूभयपक्षेऽपि न दोष
इत्यभिप्रायेणाह । कुविकल्पपरिहार इति । यद्येवमभिव्यङ्ग्यत्वात्
अभिव्यक्तेरपीत्याद्यनवस्था । अत आह । व्यक्तिस्वभावत्वादिति ।
किञ्चाभिव्यक्तेरति तत्सहकारिसन्निधौ
तद्व्यक्तिस्वभावत्वेनास्याभिव्यक्तेरभ्युपगमात् सतीत्वे न दोषः कश्चित् ।
ततः कारणरूपायां मायायां शक्तिरूपाणां
कार्याणामुपसंहारः सिद्धः ॥ २०� ॥

वृत्तिः ।

तदेवं प्रकृते किं सिद्धम् इत्याह ।  

यथा कटादिगूढस्य
पटादेस्तद्व्युदासतः ।
नासतः क्रियते व्यक्तिः
कलादेर्ग्रन्थितस्तथा ॥ २१� ॥

यद्वत् कटाद्यवच्छिन्नस्य पटादेर्वस्तुनः   

तत्तदाच्छादनापनयनान्नाविद्यमानस्य व्यक्तिः क्रियते । अपि तु सदेव पटादि
व्यज्यते । एवमुपसंहारकाले शक्त्यात्मना लीनं कलादिकार्यमहर्मुखे
ग्रन्थितत्वादनन्तेशव्यापारेणाभिव्यज्यत इति मायाख्यं परमकारण
सिद्धम् ॥

इति भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ मायालक्षणपरीक्षाप्रकरणं नवमं समाप्तम् ।

दीपिका ।

एवं वक्ष्यत इत्याह । तदेवमित्यादि ।  

इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
मायालक्षणपरिक्षाप्रकरणं नवमम् ।