०८ कर्मविचारप्रकरणम्

अथ कर्मविचारप्रकरणम् अष्टमम् ।

अथ पाशपदार्थपरीक्षाधिकारात्   

१समनन्तरपटलान्तसूचितकर्मपाशपरीक्षाप्रस्तावः ।
पदार्थादिसम्बन्धाश्चास्य प्राक्तनप्रकरणारम्भ एवोक्ताः ।

अथेन्द्रियशरिरार्थै
श्चिद्योगस्यानुमीयते ।
निमित्तमागामिभावात्
यतो नागाम्यहेतुमत् ॥ १ ॥

अथेत्याणवरोधशक्त्याख्यपाशद्वयविचारानन्तरम् ।   

इन्द्रियैरन्तःकरणबहिःकरणैश्शरीरेण च
स्थूलसूक्ष्मरूपेणार्थैश्चेन्द्रियार्थैर्विषयैर्योगश्चिदात्मनो
योगस्तस्याऽऽगामिभावादुत्पत्तिमत्वात् कारणं निमित्तमनुमीयते । न
ह्युत्पत्तिमच्चाहेतुकं किञ्चिद्भवति ॥ १ ॥


१। कर्मणश्चोक्त एव सः इत्यव्यवहितपूर्वपटलान्तसूचित इत्यर्थः ।

दीपिका ।

अथ कर्मविचारप्रकरणम् ।

अथेन्द्रियेति प्रकरणस्य प्रस्तावमाह अथेत्यादि ।   

पदार्थादिसम्बन्धाश्चेत्यादि तत्र पाटलिकस्सम्बन्धः कर्मणश्चोक्त इति
पूर्वपटलान्ते सूचितः ! वाक्यात्मकोऽपि तथा बीजं
शरीरादेरित्यादिवाक्यैः । अन्ये तु सम्बन्धाः पूर्वप्रकरणोक्ता एव । तत्र
देहव्यतिरिक्तत्वेन पशुपदार्थप्रकरणे समलत्वेन १चानन्तरप्रकरणे
साधितस्याऽऽत्मनो देहादिसम्बन्धस्य कारणमनेन प्रकरणेन साध्यत
इत्याह इन्द्रियैरित्यादि निमित्तमिति चात्र सहकारिकारणमेवोच्यते । ईश्वरस्य
निमित्तकारणत्वात् । यदुक्तं मतङ्गे २निमित्तकारणं त्वीश इति वक्ष्यति चात्र
ईशाविद्याद्यपेक्षित्वात्सहकारि तदुच्यते इति । ततश्चायमर्थः ।
योयश्चिदात्मनो भोगसाधनेन देहादिना संयोगः तस्य
तन्त्वादिसंयोगस्येवोत्पाद्यत्वात् केन चित्सहकारिणा भवितव्यं यत्तत्सहकारि
तत्कर्मेति । यदुक्तं स्वायम्भुवे कर्मतश्च शरीराणि विषयाः करणानि च इति
। ननु सर्गारम्भभाविनां शरीराणां न कर्महेतुत्वम् । अपितु
तदुत्तरकालभाविनामेव । यदाहुः आद्यो देहः पुरुषार्थमूलस्ततोऽप्यन्ये
कर्ममूलाः प्रतिपन्ना इति । तन्न । पुरुषाणां हि सर्वदा शरीरादि
भोगवैचित्र्यान्यथानुपपत्त्या कर्मणस्सत्वं सिद्धम् इति सृष्टिकालेपि
पशुपक्षिमृगसरीसृपस्थावरमानुषादेर्जन्मवैचित्र्यश्रुतेः ।
महाप्रलयेऽपि कर्मसिद्धितः प्रागनादिकर्मशरीरबन्धस्सिद्ध्यति ॥ १ ॥

वृत्तिः ।

इत्थं सामान्येन कारणमात्रं प्रसाद्ध्य तद्विशेषं वक्तुमाह ।  

१। अव्यवहितपूर्वप्रकरण इत्यर्थः ।
२। मतङ्गे विद्यापादे पुम्प्रधानेश्वरपटले १९ - तमश्लोकः ।

तस्य प्रदेशवर्तित्वा
द्वैचित्र्यात्क्षणिकत्वतः ।
प्रतिपुन्नियतत्वाच्च
सन्ततत्वाच्च तद्गुणम् ॥ २ ॥

तस्येन्द्रियशरीरार्थैश्चितां योगस्य   

यत्सुरनरतिर्यगादिनियतस्थानवर्तित्वं, यच्च वैलक्षण्यं विचित्राणि हि
प्राणिनां शरीराणीन्द्रियाणि विषयाश्च दृश्यन्ते । तत्र
जातिदिग्देशकालादिवैचित्र्यं तावत्प्रसिद्धम् । इन्द्रियवैचित्र्यमपि । यथा -
परावृत्तजिह्वावत्वं गजानां चक्षुश्श्रवस्त्वं भुजङ्गमानाम् ।
अनालोकालोकित्वमुलूकादीनां पुरुषाणां च केषाचिद्विपुलदृशामपि
अदर्शनं १गृध्रप्रायाणामपि सूक्ष्मार्थदर्शित्वमैति । विषयवैचित्र्यं तु
यथाजलधरनिपतज्जलकणोपजीवित्वं चातकानां २मयूराणामपि
अवकराहारत्वं कुक्कुटादीनाम् । कमलकिञ्जल्करसास्वादनं
मधुकरसारसानामित्यादि । यतश्च क्षणिकत्वमनित्यता देहादेः । यस्माच्च
प्रतिपुरुषनैयत्यम् । न हि शरीरेन्द्रियविषयाणां साधारण्यं
भोगसाम्यप्रसङ्गात् । यतश्च तत्सन्ततत्वं तत्तत्कारणप्राणिसन्ततत्वेन किल
जन्मान्तरेऽपि शरीरेन्द्रियादि स्थितम् । यथा - जात्यायुर्भोगप्रदेभ्यः
कर्मभ्यः आयुः प्रदस्योपक्षीणत्वात् मृतस्याऽपि तस्यैव जातिभोगप्रदे
कर्मणी सन्तत्या त्ववतिष्ठेते । न त्वन्यमुपसर्पतः । ताभ्यां च
तत्तज्जातिदेहेन्द्रिययोगः क्रियते । यत एवं तस्मात्कारणात्तत्तदपि कर्म
तादृग्गुणं तत्तद्देशवर्तिनो विचित्रान् विनश्वरान् प्रत्यात्मनियतान्
भवान्तरभाविनश्च देहेन्द्रियार्थान् दातुं क्षममित्येवमनुमीयते ।
कारणासम्भविनां गुणानां कार्येष्वनुपलब्धेः ॥ २ ॥


१। अन्धप्रायाणामपीति पाठभेदः ।
२। अत्रापिश्चार्थः ।

दीपिका ।

प्रतिपुरुषं स्वरूपभेदेन तस्याचैतन्ये सत्यनेकत्वाद्वा कार्यत्वं   

बुद्ध्यादिवदिति तस्येतिसूत्रेणोच्यत इत्याह । इत्थमित्यादि । कणिकत्वं च न
बौद्धवत्प्रतिक्षणविनाशित्वमित्याह । अनित्यतेत्यादि प्रतिक्षणविनाशित्वे
कर्मणां कालान्तरफलदायकत्वं नोपपद्यत इति भावः ।
तत्तत्कारणप्राणिसन्ततत्वेनेत्यादि । तत्र
सूक्ष्मशरीरस्याऽऽकल्पमनुग्रहान्तं वाऽवस्थानात् सन्ततत्वं
स्थूलशरीरादीनां तु तत्तत्कारणानां कर्मणां सन्तत्यावस्थानात्
तान्यपि शरिरादीनि सन्तत्या स्थितानीत्युच्यन्ते । अत एवाह यथेत्यादि अत एव
नैकस्मिन्न क्रममिति न्यायात् जात्यायुर्भोगप्रदैः
कर्मभिश्शरीरमारभ्यत इति प्रसिद्धम् । प्रत्यात्मनियतानिति । अत एव
तत्प्रत्यात्मभिन्नमात्मनामेव कर्तृत्वमिति भावः । ननु पुरुषस्य
कर्मपारतन्त्र्येणास्वातन्त्र्यात् अकर्तृत्वप्रसङ्गः । तन्न । कर्माणि
पुरुषस्यास्वातन्त्र्यकरणेऽशक्तानि अपितु पलजनने । तथाहि द्विविधः पुरुषः
। कर्मान्तरव्याक्षिप्तव्यापारः अकर्मान्तराक्षिप्तव्यापारश्च । तत्र
योऽदृष्टकर्मशक्त्यनुसारेणान्यदेव - फलं साधयितुं प्रवर्तितोऽन्यदेव
फलमासादयति । क्षेत्रखननप्रवृत्त इव निधानं स एव कर्मान्तराक्षिप्त
उच्यते । यदुक्तं यतो यतः पूर्वकृतस्य कर्मणः फलं
निधानाद्यमिवावतिष्ठते । ततस्ततः तत्प्रतिपादनोन्मुखं प्रदीपहस्तेव
मतिः प्रवर्तते ॥ इति । न चैतावता तस्मिन्नस्य कर्तृत्वाभावः प्रयोज्यस्याऽपि
कर्तृत्वात् । यस्तु कामनया ज्योतिष्टोमादेः कर्ता यश्च
कर्तृत्वबुद्ध्याऽग्निहोत्राष्टकादेः नित्यनैमित्तिकात्मनः कर्ता । यश्च
दृष्टार्थतयैव भयरागादिवशाद्ब्रह्महननपरद्रव्यहरणादेः कर्ता
तेषां स्वातन्त्र्यं लक्ष्यत एवेति । यदुक्तं मतङ्गे १यो येनाशयभावेन
वशीकृत्य शिवेच्छया । नियुज्यतेऽसौ भोगेन कर्मस्वथ तदात्मकम्
इत्युपक्रम्याऽऽदरानादराविष्टः प्रेरितोप्यथ केन चित् । भयाद्रागवशात्
कर्तातादृगेवोपलक्ष्यत इति ॥ २ ॥

वृत्तिः ।
किं च ।

ईशाविद्याद्यपेक्षित्वात्
सहकारि तदुच्यते ।
कर्मव्यापारजन्यत्वा
ददृष्टं सूक्ष्मभावतः ॥ ३ ॥

ईशशब्देन लक्षणयोक्तामैश्वरीं रोधशक्तिमविद्यां च   

मललक्षणाम् आदिग्रहणात् मायां च यस्मादवश्यं
फलदानायापेक्षते तस्मात्सहकारित्वमस्य कर्मणः न तु स्वातन्त्र्यम्
अचैतन्यादित्युक्तम् । अत एवास्यापेक्षणमौपचारिकम् । न तु कुम्भकारस्य
सूत्रदण्डचक्राद्यपेक्षणतुल्यमन्यथा कुम्भकारस्याऽपि
सूत्रदण्डाद्यपेक्षित्वात्सहकारित्वं स्यात् । किञ्चच्यापारेण यज्जन्यमतः
क्रियते इति कर्म । सौक्ष्म्याच्चादृष्टमित्युच्यते ॥ ३ ॥


१। धर्माधर्मनिर्णयपटले ३७ - तमश्लोकः ।

दीपिका ।

सहकारित्वमेवास्य साधयितुमीशेत्यादि व्याचष्टे । ईशशब्देनेत्यादि   

कर्तृत्वेन स्वपदोपात्तमीशं तत्करणत्वेन तदविनाभूतामीशशब्देन
लक्षितां प्रागुक्तां रोधशक्तिं सहकार्यन्तरत्वेन मलमुपादानतया च
मायामपेक्षत इत्यर्थः । तथाहि समस्तदेहादिकार्ये
कर्तृसहार्युपादानलक्षणं कारणत्रयं घटादाविवानुमीयते । न त्वेको
जनकः । अपि तु घटादिदृष्टान्तसत्वात् कर्त्रादिसामग्र्येव कार्यजनिका
यदुक्तं पराख्ये निमित्तमीश्वराख्यं यत् अदृष्टं सहकारिता । उपादानं
च यत्सूक्ष्मं सर्वकार्यानुसंहितम् । कारणानां त्रयं तेन
सर्वकार्येऽनुमीयते । १यतो न जनकं चैकं समग्रीजनिकाभवेत् । इति । न त्वस्य
निमित्तकारणत्वमित्याह न तु स्वातन्त्र्यमित्यादि ननु कर्मणो
धर्माधर्मात्मनः अश्वमेघब्रह्महत्यादेरनुष्ठानरूपत्वेन
विनाशित्वात् तत्कथं कालान्तरभाविनः फलस्य कारणमत आह ।
किञ्चेत्यादि अयमर्थः । नानूष्ठानमात्रं कर्माऽपितु तज्जन्यसंस्कार
एव । अथ सूक्ष्मत्वाददृष्टशब्दवाच्यत्वमित्याह । सौक्ष्म्याच्चेत्यादि ॥ ३ ॥


१। यदातु जनकश्चैकसामग्री इति पाठभेदः ।

वृत्तिः ।

तच्च ।  

जनकं धारकं भोग्य -
मध्यात्मादित्रिसाधनम् ।
तत्सत्यानृतयोनित्वा -
द्धर्माधर्मस्वरूपकम् ॥ ४ ॥

जनकं निमित्ततया देहेन्द्रियभुवनादेर्यतः कर्मफलोपभोगायैव   

१तत्तत्तनुकरणादियोगोत्पादः । धारकत्वं च तस्यैव प्रतिनियतकालस्य
दातृत्वेन । भोग्यत्वं च तत्फलद्वारेण । किञ्च अध्यात्मादित्रिसाधनम्
अध्यात्मादित्रयं साधनं यस्य तत्तथा ।
तत्राऽध्यात्मशब्देनान्तःकरणतया सन्निकर्षेणाऽऽत्मानमधिकृत्य
यद्वर्तते तन्मन उच्यते । आदिग्रहणाद्वाक्कायौ गृह्येते । एवं च
मनोवाक्कायास्साधनं यस्य तद्यथाक्रमम्
इष्टदेवतानुध्याननमस्कारस्तोत्रपाठयजनादिरूपं धर्मात्मकं
कर्म परस्वजिहीर्षातत्प्रवादतदुपघातादयो यथासङ्ख्यं
मनोवाक्कायकृतास्साधनं यस्य तदधर्मात्मकम् ।
यद्वाऽऽत्मभूतदैवानि
हेतुतयाऽधिकृत्याऽध्यात्ममधिभूतमधिदैवतं च
यत्सुखदुःखमुत्पद्यते तस्य त्रिविधस्याऽपि साधनम् । कर्मवशाद्धि चेतः
प्रसादाद्युद्वेगादिवाऽऽध्यात्मिकं सुखदुःखमुदेति । आधिभौतिकं
चाङ्गना सम्भोगगजसिण्हाद्यभिभवरूपम् । आधिदेविकं
चाभिमतानभिभतवातवर्षातपादिकृतम् । तत्सत्यानृतेति तच्च कर्म
धर्माधर्मस्वरूपम् । सत्यानृतप्रकृतित्वात् । सत्यप्रकृति कर्म धर्मरूपम् ।
अनृतप्रकृति कर्माऽधर्मरूपम् ॥ ४ ॥


१। विश्वोत्पाद इति पाठभेदः ।

दीपिका ।

निमित्ततयेति सहकारित्वेन । तस्यैवेत्यादि भोगादेः । भोग्यं चेत्यादि   

सुखदुःखात्मनां फलानामिति शेषः । कारणभेदात्कर्मभेदमाह
अध्यात्मादीत्यादि फलभेदात्तत्तद्भेदसाधनाय व्याख्यानान्तरमाह
यद्वेत्यादि तत्सत्येत्यादिसूत्रं व्याचष्टे तच्च कर्मेत्यादि
सत्यानृतप्रकृतित्वादित्युपलक्षणम् अनुग्रहोपघातदानापहरणादेश्च
तत्पात्रादिविशेषस्य । यदुक्तम् अतङ्गे १भूयः कालविशेषेण पुनः
पात्रविशेषतः । भिन्नं क्षेत्रविशेषाच्च भूयो वित्तानुसारत इत्यादि ॥ ४ ॥


१। धर्माधर्मनिर्णयपटले पञ्चमश्लोकः ।

स्वापे विपाकमभ्येति
तत्सृष्टावुपयुज्यते ।
मायायां वर्तते चान्ते
नाभुक्तं लयमेति च ॥ ५ ॥

स्वापे च सर्वभूतसंहारकाले विपाअकं   

परिणाममभितस्समन्तादेति । सृष्टिसमनन्तरमेवास्य यथास्वं भोगे
प्रवर्तते । अन्ते च संहारे मायायां संस्काररूपतया वर्तते न
चाभुक्तं तद्विनश्यति ॥ ५ ॥

दीपिका ।

अन्ते चेत्यादि कृष्यादिकर्मणां प्रकृतिसंस्कारकत्वेन   

दृष्टत्वान्नैयायिकादिपरिकल्पितात्मसंस्कारकत्वायोगात् । आत्मनश्च
परिणामितादिप्रसङ्गात् कर्माधिकरणं माया बुद्ध्यादिद्वारेण सिद्धेति
सैवोपादानमिति वक्ष्यामः । नचाभुक्तमिति । यदुक्तं नाभुक्तं क्षीयते
कर्म कल्पकोटिशतैरपीति ॥ ५ ॥

वृत्तिः ।

उपसंहारायाऽऽह ।

इति मायादिकालान्त -
प्रवर्तकमनादिमत् ।
कर्म व्यञ्जकमप्येतत्
रोधि सद्यन्न मुक्तये ॥ ६ ॥

इत्थं प्रतिपादितस्वरूपमेतत्कर्म   

मायादिकालाग्न्यन्ताध्ववर्तिदेहेन्द्रियार्थप्रवर्तकमियत्येवास्य
प्रभविष्णुता मायोर्ध्वमप्रशंसनात् । तच्चैतद्यद्यपि व्यापारजन्यं
तथाऽपि प्रवाहनित्यत्वादादिमत्वं नास्योपपद्यत इति चर्चितप्रायम् । किं
चैतत्कर्म शुभस्वरूपत्वात् पुण्यव्यञ्जकमपि सद्रोधि रोधकं
संसारकारणमित्यर्थः । कुत इत्याह सद्यन्नमुक्तये इति ।
यस्मात्पुण्यात्मकमपि कर्म सत् व्द्यमानं न मुक्तये नापवर्गाय । अपि तु
तत्प्रतिबन्धायैव कल्पते । यत्कर्मक्षयात्तत्साम्याद्वा
शक्तिपातानुसारसमासादितानुग्रहाणामेव कैवल्यम् । ननु सद्यन्न मुक्तय
इत्ययुक्तमुक्तम् । सत्यपि कर्मणि तत्साम्यान्मुक्तेराम्नातत्वात् । यदुक्तं किरणे
समेकर्मणि सञ्जाते कालान्तरवशात्ततः । तीव्रशक्तिनिपातेन गरुणा दीक्षितो
यदा । सर्वज्ञस्स शिवो यद्वत् इति । नैष दोषः । तथाविधस्य
कर्मणस्सतोऽप्यसत्वं परस्परप्रतिबद्धशक्तित्वेनाफलत्वात् ।
दीक्षोत्तरकालकृतकर्मवत् । यदुक्तं खेटकनन्दनेन १कृतमपि फलाय न
स्याद्दीक्षो पर्यूषरोप्तबीजमिव । बलवद्विशेषशास्त्रव्यतिकरजातं विहाय
कर्मैकम् ॥ ६ ॥


१। अष्टप्रकरणेतत्वसङ्ग्रहे ३७ - तमश्लोकः ।

इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
कर्मविचारप्रकरणमष्टमं समाप्तम् ।

दीपिका ।

मायोर्ध्वमप्रशंसनादित्यादि । असामर्थ्यादित्यर्थः ।   

तत्रैवंविधस्य कर्मणोऽभावात् बुद्धिस्थत्वेनोक्तत्वाच्च । किं पुनस्तत्र
सहाकारिकारणम् ईश्वरसेवात्मकं कर्माऽधिकारमलश्चेति ब्रूमः । अत
एव प्रतिसर्गमेवम्भूतत्वात्
बीजाङ्कुरन्यायेनानादिकर्मशरीरप्रवाहसन्तान इत्युक्तं पूर्वमेवेत्याह
किञ्चैतदित्यादि । कर्मक्षयादित्यादि । अत्र चायमर्थः ।
मलपरिपाकशक्तिपाताभ्यां
पूर्वोक्तादिष्टानिष्टनिमित्तकर्मद्वयसाम्यादवाप्तदीक्षाणां तयैव
कर्मक्षयान्मुक्तिरिति । यदाहुः न हृष्यत्युपकारेण नापकारेण कुप्यति ।
यस्समस्सर्वभूतेषु जीवन्मुक्तस्स उच्यते । इति । न तु विरुद्धयोः कर्मणोरिति
व्याख्येयम् । तस्य संसारावस्थायामपि भावात्
शक्तिनिपातहेतुत्वासम्भवाच्च । तथा यदात्र
धर्माधर्मविपाकलक्षणस्वर्गनरकादिफलनिमित्ते धर्माधर्मात्मके वा
स्वर्ग ब्रह्मलोकप्राप्तिनिमित्ते धर्मात्मके वा
१रौरवावीचिनिमित्तेऽधर्मात्मके वा द्वे अत्यन्तरूक्षे कर्मणी तीव्रवेगत्वेन
परिपाकप्राप्त्याऽत्यन्तसमलस्य पुंसः
पतितशरीरस्याऽपतितशरीरस्याप्यदृष्टफलायुष्यानायुष्यलक्षणे
युगपद्भवतः । तदा तयोर्द्वयोरपि विरुद्धयोः
कर्मणोर्युगपत्सुखदुःखलक्षणस्वर्गनरकादिदानासम्भवात्
समत्वादेव च क्रमेणाप्यनुपपत्तेः
क्रमयौगपद्यव्यतिरिक्तप्रकारान्तरासम्भवाच्च कस्यचित्कदाचित्
कर्मान्तराणां विरुद्धानामप्यभोग्यपर्यवसायिन्याऽऽलोच्य
तत्कर्मविरोधादीश्वरश्शक्त्यधिष्ठितया नियत्या पुरुषमुद्धरति । २मतङ्गे
धर्माधर्मविपाकेऽस्मिन् तुलाकोट्युपलक्षिते । नियतिस्तत्समुद्धाराद्यदा
पश्यति कर्मणि । समे भोक्तुस्तदा तस्य युगपत्स्थित्यसम्भवात् ।
शून्यवत्संस्थितेति ॥ यदा तु कर्माण्युद्गतान्यशेषाणि कस्यचित्कदाचित्
सम्परिपाकाद्विरुद्धानि तदा च पारमेश्वरी शक्तिः तानि सार्वाणि विनाश्य
विज्ञानकेवलित्वं ददाति नतु मोक्षं तस्य मलपरिपाकाद्यविनाभावात् ।
यदुक्तं किरणे । समे भोगस्तदा नास्तीति । इदमेव च भवावस्थायामपि
कर्मसाम्यमुच्यते । नतु ३धर्माधर्मराशिद्वयसाम्यम् । ततश्च यदा
मलपरिपाकशक्तिपातयुक्तं कस्य चित्कदाचिदेवम्
इष्टानिष्टनिमित्तकर्मद्वयसाम्यं भवति तदा तस्य दीक्षया
कर्मक्षयान्मुक्तिर्भविष्यतीति वक्ष्यति । अत एव नन्वित्यादिचोद्यपरिहारौ
शास्त्रज्ञैः प्रतिक्षिप्तावित्युपेक्षणीयावेव । यतस्समे कर्मणी त्यादावपि
सूत्रे कालान्तरशब्दो मलपरिपाकवाचकत्वेन
कर्मसाम्यशब्दश्चोपकारापकारनिमित्तकर्मद्वयसाम्यवाचकतया
तत्रभवता रामकण्ठेन किरणवृत्तौ व्याख्यातः । इति ।

इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
कर्मविचारप्रकरणमष्टमं समाप्तम् ।


१। अवीचिरिति कस्यचित् नरकस्य सञ्ज्ञा ।
२। नियति पटले १५ - तमश्लोकः ।
३। शरीरद्वयेति पाठभेदः ।