अथ पाशलक्षणप्रकरणं सप्तमम् ।
वृत्तिः ।
१शिवः । पूर्वव्यत्यासितस्याणोः पाशजालमपोहति इति मूलसूत्रोपात्तात्
पशुपाशेश्वरलक्षणात् २पदार्थत्रयादवशिष्टमनन्तरपटलोपक्रान्तं
पाशपदार्थं लक्षयितुं प्रकरणत्रयम् । अत्र च
सौत्रप्रारकरणिकपाटलिकपादार्थिकास्सम्बन्धास्सुस्पष्टाः ।
वाक्यात्मकस्तु १प्रावृतीशबले कर्म माया कार्यं चतुर्विधम् । पाशजां
समासेन धर्मा नानैव कीर्तिताः इत्यादिभिर्वाक्यैरनुसन्धेयः ।
अथाविद्यादयः पाशाः
कथ्यन्ते लेशतोऽधुना ।
येषामपाये पतयो
भवन्ति जगतोणवः ॥ १ ॥
अथेति पशुपदार्थानन्तरम् । अविद्या अज्ञानमञ्जन-माणवः
पाशः आदौ येषां ते कर्ममायारोधशक्त्याख्याः पाशाः । अधुना
इदानिं लेशतः सङ्क्षेपतः कथ्यन्ते । येषामपगमे पाश्यत्वान्मुक्ताः
अणवः आत्मानः जगतः पतयो भवन्ति । तत्र
शिववदन्यानधीनस्वातन्त्र्याभिव्यक्तिः मुक्तात्मनां पतिसमत्वम् ।
विद्येश्वराद्यधिकारभाजां तु पञ्चविधकृत्यकारित्वम् । अथ मुक्तेः
प्राक्कुतोऽवसीयते पाशितन्त्वमणोरिति चेत् ज्ञानक्रिययोस्सर्वार्थताव्याहतेः
॥ १ ॥
१। अथानादिमलापेतस्सर्वज्ञस्सर्वकृच्छिव इति पूर्वार्धनिष्ठशिवपदेन सह
उत्तरार्धानुवादः ।
२। पाशान्ते शिवताश्रुतेरित्युपक्रान्तमित्यर्थः ।
३। परमोक्षनिरासप्रकरणे षष्ठश्लोकोयम् ।
दीपिका ।
पाशलक्षणप्रकरणं सप्तमम् ।
अथाविद्यादय इत्यत्र सम्बन्धकथनायाह शिव इत्यादि तत्र सूत्र
सम्बन्धः पाशजालमित्यनेन । प्राकरणिको विद्यापादतया । पाटलिकः
पाशान्त इत्यनेन सूचितः । पादार्थिकः पाशपदार्थतया । वाक्यात्मकस्तु
प्रोक्त एवेति । तत्र प्रथमतश्चतुर्विधानामसाधारणं स्वरूपम्
अविद्येत्यादिसूत्रेण वक्तव्यतया प्रतिज्ञायत इत्याह अविद्येत्यादि । आणवः
पाश इति अणूनामनाद्यावारको मल इत्यर्त्थः । पतिशब्दार्थमाह तत्रेत्यादि
१विद्येश्वरादीत्यादिग्रहणान्मन्त्रादयः । समलो न भवत्यात्मा शुद्धत्वात्
। न चासिद्धो हेतुः साध्यसमो वेति मन्तव्यम् । यतस्स्वभावेन चेत्
पुरुषस्समल एव । न तस्य मलो निवर्तयितुं शक्यः तत्स्वभावत्वात्
नित्यत्वव्यापकत्ववदित्यनिर्मोक्षप्रसङ्गः । ततस्तदन्यथानुपपत्त्या
निर्मलोऽभ्युपगन्तव्य इति परिहरति । ज्ञानक्रिययोरित्यादि । अयमर्थः । आत्मा
केनाप्यनादिना बन्धेन बद्धः । परतन्त्रस्यात् मेवादिवद्धपशुवत् यस्स
बन्धो मल इति मलसिद्धिः । इति ॥ १ ॥
१। ग्राह्या इति शेषः ।
अन्यथा हि ।
पाशाभावे पारतन्त्र्यं
वक्तव्यं किन्निबन्धनम् ।
स्वाभाविकं चेन्मुक्तेषु
मुक्तशब्दो निवर्तते ॥ २ ॥
पाशरहितस्य हि पुंसो न बद्धत्वम् । अबद्धस्य च किङ्कृतं
पारतन्त्र्यम् । यदनिच्छतोऽप्यस्यानिष्टप्राप्तिरिष्टव्याघातश्च भवति । अथ
मन्यसे नास्य तत्पारतन्त्र्यं पाशकृतम्, अपि तु स्वभाविकमिति तर्हि
मुक्ताणुषु मुक्तशब्दस्य निवृत्तिः । व्यपगतपाशे हि मुक्तशब्दो लोके
प्रसिद्धः ॥ २ ॥
दीपिका ।
पारतन्त्र्याभावे बन्धमुक्तिविशेषाभावप्रसङ्ग इत्याह अन्यथा
हीत्यादि ननु समलत्वेऽपि तस्य स्वाभाविकत्वे मोक्षाभावप्रसङ्ग उदीरितः ।
तन्न । अथ मन्यस इत्यादिना शङ्कापूर्वं स्वाभाविकत्वनिराकरणादिति
पारतन्त्र्यास्समल एवाऽऽस्माऽभ्युपगन्तव्य इति । ननु १निर्मलस्येऽपि तस्मिन्
पुंसि प्रकृतेस्सम्बन्धी तामसो राजसश्च
रागस्स्फटिकमणाविवौपाधिकस्सम्भवत्येव । अतो न
बन्धमुक्तिविशेषाभावः । अत्रोच्यते । तस्मात्मनस्संसारिणो यो रागकृतः
तथा दर्शितः स मलनिमित्त एव । न निर्हेतुकः । निर्हेतुकत्वे न
संसारावस्थायामेव रागो भवेत् मुक्त्यवस्थायामपि स्यात् ।
विशेषाभावात् । ननु यं पुरुषं प्रति प्रकृतिरनुपरताधिकारा तं प्रत्येव
रागमुत्पादयति । नतु यं प्रत्युपरताधिकारेयं तं प्रतीत्यस्त्येव विशेषः ।
तत्किमर्नेन निर्निमित्तेन मलेनेति । तन्न । मलानभ्युपगमे
प्रकृतिस्यामाव्याहुस्स्थानेष्वप्यशुद्धेषु भेगेषु तस्य २स्वभावशुद्धस्य
पुरुषस्य सक्तिर्न भवेत् । ब्राह्मणस्येवाशुद्धद्रव्येषु । तदुक्तं
यद्यशुद्धिर्न पुंसोऽसि सक्तिर्भोगेषु किङ्कृतेति दृश्यते च तेषु सक्तिः ।
ततोऽवसीयते नायं स्वभावतो निर्मलः अपि तु ३समल एवेति । ननु
रागतत्वनिन्धनेयं सक्तिरिति चेत् । तन्न । यदुत तदपि न निर्हेतुकं प्रवर्तते
विशेषाभावादित्यनिर्मोक्ष एव । नाऽपि कर्मनिमित्तं पारतन्त्र्यमिति वाच्यम् ।
यत कर्म हि बुद्धिधर्मत्वेन भवद्भिरभ्युपगतम् । नतु
नैयायिकादिभिरिवाऽऽत्मधर्मत्वेनाभ्युपगतम् । अतश्च बुद्धौ सत्यामेव
४तस्य भवति । नतु प्रलयकेवलावस्थायां तदानीं बुद्धेरसम्भवात् ।
यदुक्त भवद्भिरपि प्रकृतेर्महान् महतोऽहङ्कार इति ।
अतस्तस्यामवस्थायां बन्धमुक्त्योर्विशेषकं तत्कर्म न स्यादिति ५पूर्वः
प्रसङ्गः । यदुक्तं पराख्येऽपि विशुद्धे तन्न रञ्जकम् इति । ननु मायैव
मोहकस्वात् मलोऽस्त्विति मायामलवादिनः । प्रधानमेव वा
६तमोमोहादिलक्षणेन पञ्चपर्वात्मना विपर्ययेण युक्तं
मलस्तत्किमन्येनेति प्रकृतिमलवादिनः । अत्र ब्रूमः । स्वरूपेण माया
मलस्स्यात् कार्यद्वारेण वा । न तावत्कार्यद्वारेण । तेषां कलादीनां
स्वकार्यैरेव सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावात् ।
अनेकतत्वपरिकल्पनाभावप्रसङ्गाच्च । किञ्च तेषां सृष्टिकाल एव
सम्भवात् प्रलयकेवलावस्थायां ७प्रोक्त एव प्रसङ्गः । स्वरूपेण
मलत्वेपि तस्य भेदाभावदेकमुक्तौ सर्वमोक्षप्रसङ्गः इति । प्रतिपुरुषं
भेदे तस्या अचैतन्ये सत्यनेकत्वात् कार्यत्वं बुद्ध्यादि वदिति ततोऽन्या माया
वाच्या । तस्याश्च मलत्वे स एव प्रसङ्ग इति ततोप्यन्येत्यनवस्था । नच वाच्यं
मलस्येव तस्या प्रतिपुरुषं शक्तिभेदा भविष्यन्ति इति
शक्तेश्शक्त्यन्तरायोगात् । शक्त्यवस्थैव कारणं व्यक्त्यस्थैव कार्यम् इति
वक्ष्यामः । ननु मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्नित्यादिना कथं
मायायाश्शक्त्या योगः प्र्ल्क्तः । अत एव तत्र कारणे कार्याण्येव
शक्तिरूपेण स्थितानि नतु कारणस्य कार्यजनिकाश्शक्त्य इत्युक्तम् ।
वक्ष्यामश्च सत्कार्यवादे । अथ जगत्कारणशक्तिभ्योऽन्यास्ता मलशक्तयः
इत्युच्यन्ते यद्येवं सिद्धो व्यतिरिक्तो मल इति नाम्नि विवादः । एवं
प्रकृतिमलपक्षेऽपि वाच्यमिति व्यतिरिक्तमलसिद्धिः । स चाऽऽत्मनां
ताम्रकालिकावदनादिरिति । अत एव मलस्य वस्त्वन्तरत्वेऽपि पशुत्वेऽन्तर्भाव ।
तेन विना पशुत्वायोगात् ॥ २ ॥
१। पुरुषस्येति शेषः ।
२। सिद्धस्येति पाठभेदः ।
३। सक्त एवेति पाठभेदः ।
४। आत्मन इत्यर्थः ।
५। बन्धमुत्योर्विशेषोषाभावप्रसङ्ग इत्यर्थः ।
६। आदिना महामोहतामिस्रान्धतामिस्रा ग्राह्याः ।
७। बन्धमुक्त्योरविशेषप्रसङ्ग इत्यर्थः ।
८। पतिस्वरूपनिरूपणप्रकरणान्तिमश्लोकः ।
वृत्तिः ।
एतदेव घटयन्नाह ।
बन्धशून्यस्य वशिता
दृष्टा बद्धस्य वश्यता ।
एतावती ते बद्धत्व -
मुक्तत्वे बद्धमुक्तयोः ॥ ३ ॥
इयदेव तद्बद्धस्य बद्धत्वं यत्पाशितत्वे सत्यपाशितवश्यता ।
स्वतन्त्रपरमेश्वरायत्तत्वमित्यर्थः । मुक्तस्य चैतावदेव तन्मुक्तत्वम् ।
यद्बद्धत्वापगमात्तद्वशित्वं स्वातन्त्र्याभिव्यक्तिः । तथाहि लोके च
बन्धरहितो वशी बद्धश्च वश्य इत्युच्येते ॥ ३ ॥
वृत्तिः ।
किमत इत्याह ।
तत्पारतन्त्र्यं बद्धत्वं
तस्मिन्नित्ये चिदादिवत् ।
मुक्तिसाधनसन्दोहो
व्यर्थोलमनयाधिया ॥ ४ ॥
तत्तस्माद्धेतोर्यदेतदात्मन इष्टप्राप्त्यादौ पारतन्त्र्यं
तद्बद्धत्वमवगमयतीति शेषः । नह्यबद्धस्य स्वातन्त्र्यव्याघातो
भवतीति । न चैतदात्मनोऽनादिकालीनतया
ज्ञानक्रियाशक्तिवन्नित्यमेष्टव्यम् । अनिष्टप्रसङ्गात् । तथाहि तस्मिन्नित्ये
चिदादिवदिति तस्मिन्नात्मनः पारन्त्र्ये नित्येऽभ्युपगम्यमाने कदाचिदपि
तदनुच्छेदात् मुक्तिसाधनकलापः परैरपीष्टो ज्ञानयोगादिरनर्थकः ।
स्वातन्त्र्याभिव्यक्त्यभावात् । सदैवाऽऽत्मनो
बद्धतयाऽवस्थितेरित्यलमनया धिया निवार्यतामिदृशी
संसारानुच्छित्तिहेतुर्मतिरिति भावः । तस्मात्स्थितमेतत्पाशकृतं
पारतन्त्रयम् । पाशाश्चाञ्जनादयः ॥ ४ ॥
दीपिका ।
अनादित्वेऽपि न तत्पारतन्त्र्यं नित्यमित्याह । न चैतदात्मन इत्यादि ॥ ४ ॥
वृत्तिः ।
स किलाऽऽत्मा ।
नित्यव्यापकचिच्छक्ति -
निधिरप्यर्थसिद्धये ।
पाशवं शाम्भवं वापि
नान्विष्यत्यन्यथा बलम् ॥ ५ ॥
यदि ह्यणुरनाद्यविद्योपरुद्धचिच्छक्तिर्न भवेत् तदा
नित्यव्यापकचिच्छक्त्यास्पदत्वे सत्यपि कथं भवावस्थायां
भोगलक्षणस्यार्थस्य निष्पत्तये पशोरिदं पाशवं पशूचितं
कलाद्युत्तेजनं स्वसामर्थ्यस्यान्विष्यत्यपेक्षते । मुक्तिनिमित्तं च कथं
शाम्भवं बलमन्वेष्टि । नान्यथा बलं प्रतीक्षते । पाशानभ्युपगमे
सति स्वभावत एवामलचित्स्वरूपत्वात् तदन्वेषणस्याऽऽनर्थक्यात् ।
यतश्चावस्थाद्वयेऽप्ययं पाशवं वा पारमेश्वरं वा
बलोत्तेजनमपेक्षते तस्मात्किमप्यस्यास्ति ज्ञानक्रियासन्निरोधकम् ।
यत्कृतस्स्वातन्त्र्यव्याघातः ॥ ५ ॥
दीपिका ।
पारतन्त्र्याद्बद्ध इत्यमुमेवार्थ व्यतिरेकेण साधयति स
किलाऽऽत्मेत्यादि ॥ ५ ॥
वृत्तिः ।
तदावरणमस्याणोः
पञ्चस्रोतसि शाङ्करे ।
पर्यायैर्बहुभिः प्रोक्त -
मदृष्टं पशुभिस्सदा ॥ ६ ॥
अस्याऽऽत्मनस्तदावरणमञ्जनं पञ्चस्रोतसि शैवे शास्त्रे
वक्ष्यमाणैर्नामभिरभिहितम् । तत्तु पशुभिः पशुशास्त्रप्रणेतृभिः
कदाचिदपि न बुद्धम् ॥ ६ ॥
वृत्तिः ।
अथ कैर्नामभिस्तच्छास्त्रेषूक्तमित्याह ।
पशुत्वपशुनीहार -
मृत्युमूर्च्छामलाञ्जनैः ।
अविद्यावृतिरुग्ग्लानि -
पापमूलक्षयादिभिः ॥ ७ ॥
नच तदेकैकस्मिन्नात्मनि भिन्नम् । अपितु एकम्
अनेकचिदावारकशक्तियुक्तमित्याह ।
तदेकं सर्वभूताना -
मनादिनिबिडं महत् ।
प्रत्यात्मस्थस्वकालान्ता -
पायिशक्तिसमूहवत् ॥ ८ ॥
वृत्तिः ।
तदावरणं चतुर्दशविधस्याऽपि भूतसर्गस्यैकमेव ।
कस्मादित्यत्रैव विशेषणद्वारेण हेतुमाह अनादीति ।
यस्माद्वक्ष्यमाणयोपपत्त्या तत्सर्वभूतानामनादि । न
मायीयबन्धनवदागन्तुकम् । अत एवैकम् । अनेकत्वे हि तस्याचेतनत्वात्
कारणान्तरपूर्वकत्वेनानादित्वानुपपत्तिः । न च कारणान्तरपूर्वकत्वेऽपि
कलादिवत्पारम्पर्येण बन्धकत्वादनादित्वं भविष्यतीति वाच्यम् । यथोक्तं
श्रीमत्किरणे यथाऽनादिर्मलस्तस्य कर्माप्येवमनादिकम् । यद्यनादि न
संसिद्धं वैचित्र्यं केन हेतुना । तस्मादनादिकं कर्म मायाप्येवं
ववेत्तथेति । तद्विरणिणश्शिवस्येव पुनर्बन्धासम्भवात् । तत्सद्भावे वा न
मलरहितत्वमिति वक्ष्यामः । निबिडम् । घनमभेद्यभित्यर्थः ।
व्यापकानामात्मनामावारकत्वात् । महत् । प्रत्यात्मस्थेन
स्वस्वपरिणामकालापसारिणा शक्तिव्रातेन युक्तम् । तथाचोक्तं
तत्वत्रयनिर्णये १मलशक्तयो विभिन्नाः प्रत्यात्मानं च तद्गुणावरिकाः इति ॥
८ ॥
१। ११ - तमश्लोकः ।
दीपिका ।
ननु मलस्यैकत्वात् तस्मादेकस्म्याद्विमुक्तः सर्वमोक्षप्रसङ्ग इत्याह
नच तदेकैकस्भिन्नित्यादि । चतुर्थशविधस्येत्यादि
प्रसिद्धत्वाद्बद्धात्मनामुपलक्षणत्वेनैतत्प्रोक्तमित्याविरोधः ।
प्रत्यात्मस्थेनेत्यादि । नच तदावरणमचेतनत्वात्स्वयं विवर्तते ।
नाप्यात्मज्ञानान्निवर्तयितुं शक्यम् । द्रव्यत्वात्पटलादिवत् । यथाहि
पटलं विज्ञातमपि चक्षुर्वेद्यव्यापारं विना निवर्तयितुमशक्यं
तथेदमपि द्रव्यत्वादीश्वरव्यापारेण दीक्षाख्येन विना
निवर्तयितुमशक्यमित्युक्तम् । वक्ष्यामश्च ॥ ८ ॥
वृत्तिः ।
तच्चाञ्जनम् ।
तदनादिस्थमर्वाग्वा
तद्धेतुस्तदतोऽन्यथा ।
रुणद्धि मुक्तानेवं चे
न्मोक्षे यत्नस्ततो मृषा ॥ ९ ॥
तत्तेषामात्मनामनादौ काले स्थितमनादिस्थम् । न त्वादिमत्वेन
स्थितम् । अत्रैव युक्तिमाह अर्वाग्वेति । यदि ह्यादिमत्वेनाऽऽत्मसु स्थितं
तदभ्युपगम्यते तदा तद्योगे हेतुर्वाच्यः इत्यध्याहारः तदतोऽन्यथेति । यदि
तु तदञ्जनम् अतोऽन्यथेति हेतुमनपेक्ष्यैवाऽऽत्मानमाश्लिष्यति । तदानीं
मुक्तानप्यात्मनो रुणद्धि उपरुद्धदृक्क्रियान् करोतीति प्रसक्तम् । अस्तु को दोष
इति चेत् । मोक्षे यत्नस्ततो मृषेति मुक्तात्मानो यदि पुनः पुनः मलेन युज्यन्ते ततो
गजस्नानप्राये मोक्षेऽस्मिन् मिथ्यैव यत्नः । भूयोऽपि मलयोगतः
संसारितायास्सम्भवात् । तस्मान्नागन्तुक आत्मनां मलः । किं तर्हि
अनादिः । तथाचोक्तं श्रीमत्स्वायम्भुवादौ । अथानादिर्मलः पुंसां
पशुत्वं परिकीर्तितमिति ॥ ९ ॥
दीपिका ।
अनादित्वमेव साधयति तच्चाञ्जनमित्यादि ॥ ९ ॥
वृत्तिः ।
अथाऽस्यैव युक्त्यन्तरमाह ।
तदेकं बहुसङ्ख्यं तु
तादृगुत्पत्तिमद्यतः ।
किन्तु तच्छक्तयो नैका
युगपन्मुक्त्यदर्शनात् ॥ १० ॥
तदञ्जनमेकम् । अनेकत्वे प्रमाणाभावात् । यतो यस्मात् । तादृगिति
तथाविधमनेकत्वपरिणामित्वादिगुणयुक्तम् । यदनेकं तत्
घटादिवदुत्पद्यमानं दृष्टम् । न चैतदुत्पत्तिमत् । अनाद्यात्मावारकत्वात् ।
अत एवैकम् । अनेकत्वे हि कारणपूर्वकत्वा अस्याऽऽदिमत्वं स्यात् ।
प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवदिति यदुक्तं तदुपपादयितुमाह
। किन्तु तच्छक्तय इति एकस्याप्यस्यनेकाः प्रत्यात्मस्थाश्चित्क्रियासन्निरोधिका
अनित्याश्शक्तय एष्टव्याः । अन्यथैकत्वे सत्येकस्मात्पुरुषादपसृते तस्मिन्
सर्वेषां तुल्यकालं मुक्तिस्स्यात् । यतस्तु न मुक्तिर्यौगपद्येनोपलभ्यते
तस्मात्कारणात्तच्छक्तिबहुत्वाभ्युपगमो युक्तः ॥ १० ॥
दीपिका ।
अथास्यैव युक्त्यन्तरमाहेति । एकत्व इति शेषः ॥ १० ॥
वृत्तिः ।
नच तास्तच्छक्तयस्स्वातन्त्र्येण रुन्धन्ति अपसरन्ति वा । किं तर्हि ।
प्रवृतीशबले कर्मेत्यादिना प्राज्यलेन १नान्तरीयकतयोद्दिष्टां
परमेश्वररोधशक्तिं व्यापारेण लक्षयति ।
१। यदन्तरा यन्नोत्पद्यते तन्नान्तरीयकम् । मलानुवर्तनादेव तिरोधामशक्ते
पाशस्वान्मलेन आन्तरीयकरणं तिरोधानशक्तेरिति बोध्यम् ।
तासां माहेश्वरी शक्ति -
स्सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव
पाश इत्युपचर्यते ॥ ११ ॥
तासां मलशक्तीनां चित्क्रियासन्निरोधकत्वलक्षणस्य
धर्मस्यानुवर्तनाद्धेतोश्शैवी शक्तिः पाशतयोपचर्यते । नच तत्र
मुख्यं पाशत्वम् । कुत इति विशेषणद्वारेणात्रैव हेतुः । सर्वानुग्राहिका
श्वेति । सा हि सकलजगदनुग्रहस्वभावत्वेन तच्छ्रेयःप्रसाधिका ॥ ११ ॥
दीपिका ।
इत्थं मलाख्यं पाशं प्रतिपाद्य रोधशक्त्यात्मकमपि
प्रतिपादयितुं तादामित्यादिसूत्रभवतारयति । नच तास्तच्छक्तय इत्यादि ।
कथं पुनर्मलानन्तरं रोधशक्तेरेव प्रतिपादनं न मायादेरत आह
प्रावृतीत्यादि । उद्देशक्रमेण पाशानां प्रतिपादन-मित्यर्थः । तदेव
सूत्रं व्याचष्टे तासामित्यादि एकस्या एव शक्तेरौपा-धिको भेद इत्युक्तम् ।
ततश्चाचेतनत्वान्मलशक्तीनामित्युपलक्षणं मलादिपाशानाम् ।
चेतनाधिष्ठानप्रसिद्ध्यसम्भवात् तद्धर्मानु-वर्तनं
कुर्वाणायाश्शिवशक्तेरुपचारात्पाशत्वामित्युक्तं पूर्वमेवेति । यद्वक्ष्यति
१मायायास्साधिकारायाः कर्मणश्चोक्त एव तदिति ॥ ११ ॥
१। एतत्प्रकरणान्तिममिदं पद्यम् ।
वृत्तिः ।
एवं च ।
परिणामयती ताश्च
रोधान्तं कार्कचित्विषा ।
यदोन्मीलनमाधत्ते
तदानुग्राहिकोच्यते ॥ १२ ॥
परिणामशब्दात्प्रातिपदिकाद्धात्वर्थ इति णिचि कृते परिणामयतीति
रूपम् । एताश्च १सर्वभूतगतास्तस्य सम्बन्धिनीश्शक्तीः । रोधान्तं
तदधिकारकालं यावत् परिणामेन योजयति पतिशक्तिः । कार्कचित्विषा
हेतुभूतयोनीलनं यदा करोति तदाऽनुग्राहिकेत्युच्यते । क शब्देन मूर्धा
सदानुग्रहैकव्यापार ईशानः । ईशानमूर्धा इति मन्त्रलिङ्गम् । स एव
सकलजगदनुग्रहे नित्योद्युक्तत्वादर्केणोपमितः । ततः प्रवृत्तया
परश्रेयःप्रकाशिकया
ज्ञानभासातयोन्मीलितस्वतस्वरूपाणामणुवर्गाणां
यदोन्मीलनमाशयविकासनं करोति तदाऽनुग्राहिका भण्यते ॥ १२ ॥
दीपिका ।
एकस्वमेव शक्तेस्साधयति एवं चेत्यादि ॥ १२ ॥
१। तस्येति मलस्येत्यर्थः ।
अत्र मुनिः प्रश्नयति ।
शम्भोश्चिदाद्यनुग्राह्यं
तद्विरोधितया मिथः ।
युगपन्न क्षमा शक्ति -
स्सर्वानुग्राहिका कथम् ॥ १३ ॥
न च भूतोपकारार्थं
प्रवृत्तस्य जगत्प्रभोः ।
अपकाराकमाविश्य
युज्यते किञ्च तोदनम् ॥ १४ ॥
चितस्सकलात्मानः आदिग्रहणादचितः मलकर्ममायातत्कार्याणि ।
तदेतत्सर्वं सर्वेशत्वादेव किल परमेश्वरस्यानुग्राह्यम् ।
तच्चानुग्राह्यत्वमेषां चिदचितां पाश्यपाशानां तुल्यकालं न घटते ।
तथाहि अचितां पाशानामनुग्रहे पाश्यस्य प्रत्युत तिरस्कारस्स्यात्
नानुग्रहः । चितामनुग्रहे च तद्बन्धानां न्यग्भवनमिति
परस्परविरोधित्वाद्युगपदेषामनुग्रहानुपपत्तिः । तत्कथं
सर्वानुग्राहिका शक्तिरुक्ता । कृपया सर्वभूतानामनुग्रहप्रवृत्तस्य
पत्युरुपकारकस्यापकारकं
दुःखदमाणवादिपाशजालमनुगृह्याऽऽवृतदृक्क्रियाशक्तित्वाद-
स्वातन्त्र्यादिदुःखव्यथितानामप्यात्मनां बन्धकानुग्रहेण
व्यथितव्यथनं न युक्तमिति पूर्वः पक्षः ॥ १४ ॥
दीपिका ।
शम्भोरित्यादिप्रश्नसूत्रद्वयं व्याचष्टे चित इत्यादि सकलात्मानः
सर्वे पश्वात्मान इत्यर्थः । नतु सकला एवेति १प्रसिद्धास्सिद्ध्यन्तीति ।
एतदेवाङ्गीकृत्यात्रापि पूर्ववत्कार्यविशेषादेव कारणविशेषस्सिद्ध इति
व्याख्येयम् । विज्ञानाकलप्रलया २लयोरप्यनुग्राह्यत्वात् ॥ १४ ॥
१। मलत्रययुताः प्रसिद्धारसकः इत्यर्थ ।
२। ग्राहकस्यादिति पाठभेदः ।
वृत्तिः ।
सिद्धान्तस्तु ।
न तोदनाय कुरुते
मलस्याणोरनुग्रहम् ।
किन्तु यत्क्रियते किञ्चित्
तदुपायेन नान्यथा ॥ १५ ॥
सत्यं चिदचितामनुग्राहिका शक्तिः । न चास्यास्तुल्यकालमपि
तदनुग्रहोऽनुपपन्नः । परस्परविरोधाभावात् । न त्वणोर्व्यथनार्थं
मलस्य परिणामरूपमनुग्रहं करोति ।
अपित्वनुग्रहायैव । तत्र हि यत्किञ्चिदुपायेन कर्तुमुचितम् । नानुपायेन । अयं
च साधूपायः ॥ १५ ॥
दीपिका ।
सिद्धान्तसूत्रं व्याख्यातुं पीठिकां रचयति । सत्यमित्यादि ।
प्रथमचोद्याभावं प्रतिजानाति नचास्या इत्यादि द्वितीयचोद्याभावमपि
प्रतिजानाति । न त्वणोरित्यादि । तत्र प्रथमप्रतिज्ञामुपपादयति तत्रहीत्यादि ।
चिदनुग्रहायैव चिद्धर्मानुवर्तनम् । तस्य च शिवत्वव्यक्त्यै
अचिदनुग्रहपूर्वकालभावित्वात् प्रोक्तविरोधाभाव इत्यर्थः ॥ १५ ॥
वृत्तिः ।
यदुत ।
न साधिकारे तमसि
मुक्तिर्भवति कस्य चित् ।
अधिकारोऽपि तच्छक्तेः
परिणामान्निवर्तते ॥ १६ ॥
सोऽपि न स्वत एव स्या -
दपि योग्यस्य वस्तुनः ।
सर्वथा सर्वदा यस्मा-
च्चित्प्रयोज्यमचेतनम् ॥ १७ ॥
यावत्किल मलस्याऽधिकारः तवन्न मुक्तिः कस्य चिद्भवति । तन्निवृत्तिरेव
मुक्तिशब्दाभिधेया यतः । अधिकारश्च तच्छक्तेः परिणामात् समाप्यते । स
च परिणामः तदर्हस्याऽपि वस्तुनः न स्वतो भवितुं शक्तः । सर्वप्रकारं
सार्वकालं चाचेतनस्य चेतनप्रयुक्तस्य तत्तत्कार्यदर्शनात् ।
तस्मादनुग्रहस्य तदर्थं चाञ्जनादिपरिणामस्य च परस्परमविरोध इति
प्रथमचोद्यनिरासः ॥ १७ ॥
वृत्तिः ।
अथ द्वितीयस्य परिहारः ।
यथा क्षारादिना वैद्य -
स्वतुदन्नपि न रोगिणम् ।
कोटाविष्टार्थदायित्वात्
दुःखहेतुः प्रतीयते ॥ १८ ॥
पाशावृतदृक्क्रियावृत्तिष्वणुषु तत्तत्पाशशक्त्यनुवर्तन-द्वारेण
१जन्मद्रावणादिदुःखदायित्वाद्वामोऽपि परमेश्वरस्तदन्युदयायैव
प्रवृत्तत्वान्न दुःखहेतुरवगम्यते । यथा वैद्यः क्षारशास्त्रादिना
रोगिणं व्यथयन्नपि कोटावन्तेऽभिमतस्या रोग्यलक्षणस्यार्थस्य
साधकत्वात् व्यथनहेतुरपि न दुःखदायित्वेन ज्ञायते ॥ १८ ॥
१। दृगताविति धातोर्ल्युटि अनादेशे द्रावणमिति रूपम् । मृतिरित्यर्थः ।
दीपिका ।
अत एव द्वितीयचोद्यस्याप्यभावो दृष्टान्तद्वारेण यथेत्यादिना
प्रदर्श्यत इत्याह यथेत्यादि ॥ १८ ॥
वृत्तिः ।
ननु अत्यन्तशुद्धस्वरूपस्य परमेश्वरस्य भगवतः किं
पाशबन्धनानुवर्तनेनेत्याह ॥
सर्वगत्वान्महेशस्य
नाधिष्ठानं विहन्यते ।
नच यत्राऽस्ति कर्तव्यं
तस्मिन्नौदास्यमेति सः ॥ १९ ॥
अचिदधिष्ठानं भगवतो न विहन्यते । सर्वगत्वान्महेशतया
सर्वकर्तृत्वाच्च यत्र यत्र कर्तव्यं किमप्यस्ति तत्र तत्र चासौ
१तादर्थ्यमेत्याऽपि तत्तत्कर्तुरधिष्ठानेन स एव सर्वं
करोतीत्युक्तमीश्वरसिद्धौ । उदास्त इत्युदासः तस्य भाव औदास्यम्
अकर्तृत्वमित्यर्थः ॥ १९ ॥
वृत्तिः ।
तदेवं युगपत्सर्वानुग्राहिकत्वं प्रसाद्ध्य तदेव घटयन्
अनुग्रहशब्दार्थमाह ।
१। तादात्म्यमिति पाठभेदः ।
धर्मिणोऽनुग्रहो नाम
यत्तद्धर्मानुवर्तनम् ।
न सोऽस्ति कस्यचिज्जातु
यः पत्या नानुवर्त्यते ॥ २० ॥
धर्मिणोऽनुग्राह्यस्य धर्माणां यदनुवर्तनं
१सोनुग्राहकस्यानुग्रहः । क्रमविकस्वरस्वरूपाणां पद्मानामिव
विवस्वतस्स इति । तथाविधो धर्मः कस्यचिदपि धर्मिणो नास्ति । यः
परमेश्वरेण नानुवर्त्यते नाधिष्ठीयते तस्य सर्वव्यापकत्वात् ॥ २० ॥
१। अनुग्राह्यस्येति पाठभेदः ।
दीपिका ।
अनुग्रहशब्दार्थमाह धर्मिण इत्यादि उत्तरार्धेनेशस्य
सर्वाधिष्ठानमुच्यत इत्याह कस्य चिदित्यादि ॥ २० ॥
वृत्तिः ।
एवं च ।
गताधिकारनीहार -
वीर्यस्य सत एधते ।
पशोरनुग्रहोऽन्यस्य
तादर्थ्यादस्ति कर्मणः ॥ २१ ॥
गतस्समाप्तः श्रेयोदृक्प्रतिरोधकत्वरूपोऽधिकारो यस्य
तद्गताधिकारं नीहारस्य तमसो मलस्य सम्बन्धि वीर्यं सामर्थ्यं यस्य
तस्य तथाविधस्य सतः पशोः बद्धात्मनोऽनुग्रहः एधते वर्धते
बहुलीभवति । निवृत्ताधिकारायां मलशक्ताविति यावत् । अन्यस्य तु मलादेः
पाशजालस्य यत्कर्मनः परिणामित्वादेस्तादर्थ्यं तत्प्रयोजकत्वं
तस्मादनुग्रहो भवति । बद्धात्मविमुक्त्यै यत्परिणामिता प्रयोजकत्वं स एव
पाशानामनुग्रह इत्यर्थः ॥ २१ ॥
दीपिका ।
गतेत्यादिनोक्तार्थ एवोच्यत इत्याह एवं चेत्यादि ॥ २१ ॥
वृत्तिः ।
एवं च प्रकृते किं व्यवस्थितमित्याह ।
बोद्धृत्वपरिणामित्व -
धर्मयोरनुवर्तनम् ।
मलस्य साधिकारस्य
निवृत्तेस्तत्परिच्युतौ ॥ २२ ॥
मलस्य साधिकारस्येति
आणवस्याञ्जनस्याधिकारनिवृत्तेस्तद्भावभाविन्या अनादिकालीनायाः
परमेश्वरोधशक्तेरपगमौन्मुख्याः परिच्युतौ किञ्चिच्छिथिलीभावे सति
बोद्धृत्वधर्मानुवर्तनमात्मनोऽनुग्रहः । परिणामित्वधर्मानुवर्तनं
पाशानामिति ॥ २२ ॥
दीपिका ।
बोद्धृत्वेत्यादिनोत्तरार्धोपसंहार इत्याह । एवञ्च प्रकृत इत्यादि
परिच्युताविति व्याचष्टे । तद्भावभाविन्या इत्यादि ॥ २२ ॥
वृत्तिः ।
उपसंहरन्नाह ।
इत्येवं यौगपद्येन
क्रमात्सुघट एव हि ।
मायायास्साधिकारायाः
कर्मणश्चोक्त एव सः ॥ २३ ॥
इत्येवमुक्तया युक्त्या यौगपद्येन चिदचिदनुग्रहो न विरुद्धः
क्रमात्सुघट एव न दुरुपपादः । मलवच्च मायायाश्च
कलादिक्षित्यन्तस्वाधिकारसहितायाः
कलाद्याविर्भावलक्षणस्तदुपसंहारात्मकश्च कर्मणस्तु
फलदानौन्मुख्याऽऽपादनात्मकः । सोऽयमनुग्रहो
मायाकर्मणोरनुक्तोऽप्युक्त एव विज्ञेयः । १सर्वथा सर्वदा
यस्माच्चित्प्रयोज्यमचेतनम् इति । सामान्येन सर्वस्यैवोक्तत्वादिति ।
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ पाशपरीक्षाप्रकरणं समाप्तम् ।
१। अस्मिन्नेव प्रकरणे १७ - तमश्श्लोकः ।
दीपिका ।
इदानीं प्रौढवादितया सूर्यादिवदीश्वरस्य
सन्निधिमात्रेणानुग्राहकत्वात् युगपदपि चिदचिदनुग्रहो नानुपपन्नः । किं
पुनः क्रमादित्येवमुपसंहारव्याजेनोच्यत इत्याह । उपसंहरन्नित्यादि ।
इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
सप्तमं मलादिविचारप्रकरणं समाप्तम् ।