०६ पशुलक्षणप्रकरणम्

अथ पशुलक्षणप्रकरणं षष्ठम् ।

अथ विश्वनिमित्तस्य
प्राप्तं लक्षणमात्मनः ।
तदीशोक्तौ गतप्रायं
तथाप्युद्देश उच्यते ॥ १ ॥

वृत्तिः ।

अथेदानीं पाश्चात्यपटलान्तसूचिताभिधानस्याऽऽत्मनो   

लक्षणमुच्यत इति पाटलिकप्राकरणिकौ सम्बन्धौ ज्ञेयौ । सौत्रादयस्तु
प्राग्वदुन्नेयाः । प्रतिपटलमुच्यमाना अतिपौनरुक्त्यमावहन्ति । विश्वस्य
जगतो निमित्तं प्रवर्तनहेतुरात्मा । तद्भोगसाधनाअय
तनुकरणभुवनानामुत्पत्तेः । तस्यात्मनो
लक्षणमीश्वरोक्त्यनन्त्ररमवसरप्राप्तं कथ्यते । तच्च यद्यपि - तेन
स्वभावसिद्धेन भवितव्यं जगत्कृतेत्यत्रेश्वरसिद्ध्यनुषङ्गेण । चैतन्यं
दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतो
मुखम् इत्यादिनोक्तप्रायं कथितकल्पम् ।
तथाप्युद्देशस्सोपपत्तिकतत्स्वरूपसङ्क्षेप उच्यते ॥ १ ॥

दीपिका ।

अथ पशुलक्षणप्रकरणं षष्ठम् ।

अथ विश्वनिमित्तस्येत्यत्र अथ शब्द आनन्तर्यार्थ इत्याह   

अथेदानीमित्यादि । सौत्रादयस्त्वित्यादि सौत्रसम्बन्धोऽणोरिति पदेन ।
पदार्थसम्बन्धः पशुपदार्थतया । वाक्यात्मकस्तु चैतन्यं
दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा इत्यादिभिर्वाक्यैः । ननु कथितकल्पं
चेदात्मलक्षणं किमेतेन प्रकरणेनात आह सोपपत्तिकेत्यादि
अस्यात्मनश्चेतनत्वमात्रं साधितम् । अत्र तु युक्तिपूर्वक देहान्यत्वादि
प्रतिपाद्यत इति ॥ १ ॥

कार्यं क्षित्यादि कर्तेश -
स्तत्कर्तुर्नोपयुज्यते ।
न स्वार्थमप्यचिद्भावात्
नानर्थ्यं कर्तृगौरवात् ॥ २ ॥

वृत्तिः ।

कार्यत्वं तावत् क्षित्यादेरेव सन्निवेशादिमत्त्वेन प्राक्कथितम् । तस्य च   

कर्ता पागुक्ताभिर्युक्तिभिरीशस्सिद्धः । तत्तु कार्यं तदुपयोगि
स्वोपयोग्यनुपयोग्यन्योपयोगि चेति चत्वारः पक्षाः । तत्र न तावदीश्वरोपयोगि
। न हि पृथिव्यादिभिस्तस्य स्वात्मन्यर्थक्रिया काचित्क्रियते ।
नित्यपरिपूर्वस्वरूपत्वात् । नच तत्क्षित्यादि कार्यं क्षित्याद्यर्थमेव क्रियते ।
तेषामचैतन्यात्करणीयस्याभावात् । चेतनय हि धर्मादिचतुर्वर्गप्रेप्सोः
करणीयं सम्भवति न घटादेः । न चैतत्कार्यमनर्थकम् । कर्तृगौरवात् ।
सामान्येनापि कर्त्रा यत्कार्यं क्रियते तन्नानर्थकं भवति । किं पुनः
१परमेश्वरव्यापारितैर्जगत्कर्तृभिर्ब्रह्मादिभिः । तत्कार्यकरणे च
प्रयोजनं प्राक् प्रदर्शितम् ॥ २ ॥

दीपिका ।

अत्र तावत् कार्यत्वमित्यादिना परिशेषानुमानेनाऽऽत्मास्तित्वं   

साधितमित्याह कार्यत्वं तावदित्यादि । ननु तदसत्कर्मणो भोगा दित्यादिना
परमोक्षनिरास एव नैरात्म्यवादः प्रतिक्षिप्तः । सत्यम् । अत एवात्र
चार्वाकादिनिराकरणाय देहान्यत्वादि साध्यत इति न पौनरुक्त्यम् । तत्र न
तावदित्यादि । ननु एकाकी २न रमाम्यहमिति न्यायेन परमात्मन एकत्वात्तेन
परमात्मलक्षणेनेश्वरेणात्मनः क्रीडार्थं क्षित्यादि कार्यमुत्पाद्यत इति
क्रीडाब्रह्मवादिनः । तन्न । आत्मबहुत्वस्य वक्ष्यमाणत्वात् पूर्वमेव
साधितत्वाच्च । किञ्च क्रीडापक्षे राज्ञः पशुभिरिव तस्य ब्रह्मणः
सर्वशक्तेर्जीवात्मभिरिच्छाविघातस्य कर्तुमशक्त्यत्वात्
समस्तपुरुषानवैयात्येन आत्मा ज्ञातव्य इत्यादेरपि मुक्त्युपायस्य
निष्फलत्वात् मुक्तेर्न सम्भवः ॥ चित्रब्रह्मपक्षेऽपि स्वभावस्य
वह्नेरौष्ण्यस्येवानुच्छेदकत्वान्मुक्तेरसम्भव एव । शान्तब्रह्मपक्षे
अद्वैतहानिरित्यादिदोषाः प्रोक्ता एवेति । न चैतत्कार्यमित्यादि यदुक्तं
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति । प्रयोजनं प्राक् प्रपञ्चितमिति
३मुक्तस्य शिव एव सः इत्यत्रेत्यर्थः ॥ २ ॥

पारिशेष्यात्परार्थं तत्
क्षेत्रज्ञस्स परस्तयोः ॥ २� ॥


१। परमेश्वरस्य कार्यकरणे तत्तद्व्यापारितैरिति पाठभेदः ।
२। नमाम्यहमिति मातृकासु पाठो विद्यते ।
३। पतिलक्षणपरीक्षाप्रकरणे ५� श्लोकः ।

वृत्तिः ।

तत् क्षित्यादिकार्यम् । कश्चात्र पर इत्याह क्षेत्रज्ञ इति । कर्तृकार्ययोः
परोऽन्यः प्रस्तुताभिधानः क्षेत्रज्ञः पशुश्चात्मेत्यर्थंः ॥ २� ॥

वृत्तिः ।

अत्र चार्वाच्छाययाऽऽत्मनिरासायेदमाशङ्यते ।  

परो देहस्तदर्थत्वात् ।  
परार्थाः क्ष्मादयो ननु ॥ ३ ॥  

ननूपलभ्यमानप्रयोजनानां क्षित्यादीनां परार्थत्वमस्तु स   

त्वत्र परः काय एव । यस्यारम्भकाश्चोपयोगिनश्च पृथिव्यप्तेजोवायवः ।
तस्मान्न क्षित्यादीनां परार्थत्वेनाऽऽत्मानुमानम् ॥ ३ ॥

वृत्तिः ।

अत्रोत्तरम् ।  

कायोऽप्यचित्वादन्यार्थं
सुतरां प्रतिपद्यते ॥ ३� ॥

देहोऽपि परार्थ एव अचैतन्यात्पृथिव्यादिवदिति तस्याप्यन्यार्थं   

परार्थत्वं सुतरामुपपद्यते । ततश्च देहस्य क्षित्यादीनां च परार्थत्वात्
पर आत्मैवात्र युक्त्युपपन्नः ॥ ३� ॥

वृत्तिः ।

ननु देहादन्यत्र यदि चैतन्यं स्यात् एतदेवम् ।   

पृथिव्यादिचतुर्भूतविकारे प्राणादिकारणीभूते गर्भादौ संविदुद्भवः
किण्वादिद्रव्यविकारे मदशक्युत्पत्तिवत् । तथाहि कृशोऽहं स्थूलोऽहमिति
शरीर एवाहम्प्रत्ययो दृष्टः । न च तद्व्यतिरिक्त आत्मोपलभ्यते ।
देहेस्त्यात्मेत्यत्राश्वेविषाणमित्यादिवत् प्रत्यक्षनिराकृतत्वात् । अथ
परार्थाश्च क्षुरादयः सङ्घातत्वात् शयनाद्यङ्गवदित्यादिना
करणानां कर्तृप्रयोज्यत्वादिना वा अनुमानेनाऽऽत्मा प्रसाध्यते । न
तद्युक्तम् । १तस्यात्मापलापिनश्चार्वाकान् प्रत्यसिद्धेः । न ह्येषां
प्रत्यक्षादन्यत् किञ्चित्प्रमाणम् । सिद्धावपि वाऽनुमीयमानस्यात्मनो
देवदत्तदिवत्परत्वं प्रसज्यते । यत्किल स्वयं प्रकाशते स आत्मा ।
तत्प्रकाश्यस्तु पर इति विविक्ततया आत्मपरभावस्य प्रकाशमानस्यैव
सङ्करोऽनवस्थानं च स्यात् । तदुक्तम् । आत्मा यदि भवेन्मेयः तस्य
माताभवेत्परः । पर आत्मा तदानीं स्यात् स परो यस्तु मीयते । इति । तथा
प्रकाशते संविदेका तदन्यत्तु प्रकाश्यते । प्रकाश्यं च भवेत्कर्म तच्च
कर्त्रा विना कथम् इति । तस्मान्नानुमानेन देहव्यतिरिक्त आत्मोपलभ्यते । अपितु
चैतन्यविशिष्टः काय एव वस्तुसन्नित्याशङ्क्याह ।


१। तस्येत्यनुमानस्यत्यर्थः ।

चेतनश्चेन्न भोग्यत्वात्
विकारित्वाच्च जातुचित् ।
भोग्या विकारिणो दृष्टाः
चिद्विहीना घटादयः ।
सोऽप्येवं सति सत्वाद्वा
न सत्यपि शवे चितिः ॥ ५ ॥

अथ मन्यसे काय एव चेतनात्मकः । तथाहि यस्मिन्नुपचिते यस्योपचयः   

पदपचय एवाऽपचयः तत्तदात्मकम् । यथा
वह्नेरुपचयापचययोरुपचयापचयावनुगच्छदौष्ण्यम् ।
यौवनस्थाविरभोजनलङ्घनादिहेतुकौ च
देहसम्बन्धिनावुपचयापचयावनुकुर्वद्विज्ञानं देहात्मकमेव । अतो देह
एव चेतन इति पूर्वः पक्षः । अथैतत्प्रतिक्षेपः न भोग्यत्वाद्विकारित्वाच्चेति ।
सोऽप्येवमिति देहश्चेतनः कदाचिन्न भवति भोग्यत्वाद्विकारित्वाच्च । ये ये
केचन विकारिणः परिणामिनो भोग्याश्च ते ते ह्यचेतना दृष्टाः । यथा
घटादयः । स देहोप्येवंविधस्तस्मान्न चेतनः ।
नन्वङ्गनादिभिर्भोग्यत्वमनैकान्तिकम् । भोग्यत्वेऽपि तत्राचैतव्याभावात् ।
नानैकान्तिकं तदीयस्य देहस्यैव भोग्यत्वात् । यद्येवं निर्जीवस्य देहस्य
कथं नोपभोगः; भवत्येव तदवस्थोचित
उपभोगः क्रव्यादादेः न पुनः कान्तादेः ।
कामिन्याद्यवस्थान्तरापत्तेर्विकारित्वेन बीभत्सरसहेतुत्वात् । तदुक्तं
नैतत्तद्वक्त्रमत्र क्व तदधरमधु क्वायताक्ष्याः कटाक्षा
यस्मिन्नित्यादिभिः एवं गजाश्वादौ च विज्ञेयम् । तस्मात्स्थितमेतद्विकारित्वात्
भोग्यत्वाच्च देहस्याचैतन्यम् । अचैतन्याच्च पारार्थ्यमिति । पुनरपि
परमतमाशङ्कते सति सत्वाद्वेति यस्मिन् सति यस्य भावः यदभावे
चाभावः तत्तस्य कार्यम् । शीतमिव हिमस्य । सति च
शुक्लशोणितात्मकदेहारम्भकभूतविशेषपरिणामे सत्वादसति च
प्रतिध्वस्ते तस्मिन्नसत्वात् चैतन्यं भूतविशेषपरिणामकृतमिति वा
यद्यवैषि तदेतदनुपपन्नम् । यस्मात् न सत्यपि शवे चितिरति । यत्सद्भाव एव
यस्य भावः तत्तस्य कार्यमिति नियमोत्रावश्यं प्रतिज्ञातव्यः । अन्यथा
तदभावेऽपि भवतस्तत्कार्यत्वायोगात् । यथाऽग्निसद्भाव एव
सम्भवद्धूमोऽग्निकार्यः एवं च शरीरारम्भकभूतसद्भाव एव
भावः तदभावे चाभाव एव चैतन्यस्य यदि स्यात् तद्देहसम्बन्धितया
प्रतीयते । यावता शरीरसद्भावेऽपि गर्भादौ १उत्तरकालं च चेतनापगमो
दृष्टः । २तन्न सति सत्वं देहाभिन्नचैतन्यसाधकम् । ननु मृतशरीरेऽपि
प्राणाद्यात्मकस्य वायोरूष्मरूपस्य च तेजसोऽपगमात् न
जीवावस्थायामिव शरीरारम्भकभूतसद्भावः । तस्मादत्राचेतनत्वम् ।
यच्च तत्सति सत्वमनैकान्तिकीकर्तुमशक्तम् । मैवम् । गतासवोऽपि हि केचन
चलत्सन्धयस्सोष्माणश्च कियन्तमपि कालमुपलभ्यन्ते । तेषां च
जीवदवस्थावद्देहारम्भकभूतसद्भावेऽपि न चैतन्यसम्भवः ।
गर्भावस्थायां च सकलसामग्रीसद्भावेऽपि कदाचिच्चैतन्यासम्भवः ।
तस्मात्सति सत्वमनैकान्तिकमेव ॥ ५ ॥


१। उत्तरकालं मरणकाल इत्यर्थः ।
२। तस्मान्न सतिसत्वाद्देहारम्भकं चैतन्येति पाठभेदः ।

दीपिका ।

चेतनश्चेदित्याशङ्कासूत्रखण्डं व्याख्यातुं पीठिकां रचयति ।   

ननु देहादन्यत्रेति । गर्भादावपीति शुक्लशोणितात्मके गर्भस्थे देहे । आदि
ग्रहणात्स्वेदजादावपि । आत्मनो देहान्यत्वे प्रत्यक्षविरोधोपीत्याह
दृशोऽहमित्यादि ननु अहं शरीरीत्यपि व्यवहारो दृश्यते । सत्यम् । राहोश्शिर
इति वत् औपचारिकः न मुख्यः इति । अनुमानेन देहान्यत्वमाशङ्कते अथेत्यादि ।
करणानामित्यादि शस्त्रादिवत्करणत्वात् चक्षुरादीनां १प्रयोजकत्वेन कर्त्रा
भवितव्यमिति परिहरति न तद्युक्तमित्यादि
सङ्गताश्शयनाद्रयस्संहतशरीरार्थं दृष्टा इति इन्द्रियैरपि
शरीरार्थैर्भवितव्यमिति भावः । वस्तुवस्तु न परार्थ इत्यर्थः । एतदर्थः ।
एतदेव व्याचष्टे अथ मन्यसे इत्यादि २उत्तरसूत्रं व्याचष्टे देहश्चेतन इत्यादि
तत्र यदुक्तं शरीर एवाहं प्रत्ययो दृष्ट इति । तन्न । यतो
देहस्याप्यन्तस्स्पर्शनेन शूलाद्यात्मना बहिश्च मृदुकर्कंशाविभेदेन
स्वसवैद्यमानतयैवाध्यवसितानुसन्धातृरूपः शरीराद्भिन्नस्स्व
संवेदनसिद्ध एव । अतश्चानुमेयत्वादात्मनः परत्वप्रसङ्ग इत्येतदपि
परास्तम् । किञ्च यदि देह एवाऽऽत्मा भवेत् परदेहदर्शने परचैतन्यस्य
रागद्वेषादि युक्तस्य दर्शनं स्यात् देहस्य तु परगतस्य केवलस्यैव
दर्शनात् देहान्यः पुमानस्तीति प्रतीयते । चार्वाकस्याऽपि
अनुमानमवर्जनीयमिति साधयिष्यन्ननुमानेन देहस्याचेतनत्वं साधयति ।
भोग्यत्वादित्यादि किञ्च न शरीरमेवाऽऽत्मा बाह्येन्द्रियप्रत्यक्षत्वात्
घटादिवत् । यदुक्तं मदशक्तिवत् भूतविकारजन्यं विज्ञानं सिद्ध्यतीति ।
तदेतत्सति सत्वाद्वेति पूर्वपक्षाशङ्कयोपपाद्यत इत्याह यस्मिन् सतीत्यादि
परिहारसूत्रखण्डं व्याचष्टे यत्सद्भाव एवेत्यादि ॥ ५ ॥


१। प्रयोजकेनेति पाठभेदः ।
२। उत्तरसूत्रं समाधानसूत्रमित्यर्थः ।

वृत्तिः ।

ननु जीवदवस्थायां परिणामवैशिष्ठ्यात् चैतन्यसम्भवः ।   

तथाविधपरिणामाभावात् गतासुदेहे तदभाव इति पुनरपि
चार्वाकभूमिकयैवाऽऽशङ्कते ।

परिणामस्य वैशिष्ट्या -
दस्ति चेन्न स्मृतिस्तदा ॥ ५� ॥

कौमारयौवनाद्यवस्थाभेदादवान्तरतत्तदवस्थाविशेषभेदेन च   

देहारम्भकभूतपरिणामाभ्यासकृततत्तद्वैशिष्ट्याज्जीव-दवस्थायां
यच्चैतन्यमस्ति तत्तथाविधभूतपरिणाम कृतम् ।
तत्तद्घटपटशकटाद्यनेकार्थप्रकाशकानि १सङ्क्रमणाभिविज्ञानानि
पूर्वपूर्वनिरोधे सत्युत्तरोत्तराणि परिणामवैशिष्ट्यादेव भवन्ति । नान्यत
इति न देहादन्यच्चैतन्यमिति चोद्यम् । अत्र परिहारः न स्मृतिस्तदेति प्रत्यर्थं
सङ्क्रमसंवेदनविशेषस्य परिणामित्वाभ्युपगमे सति स्मृतिर्नावकल्प्यते ।
परिणामविशेषाणां क्रमभाविनां भिन्नत्वात् । असंविदितस्यान्यविदितस्य
चान्येनास्मरणात् । न ह्यननुभूतं देवदत्तानुभूतं वा चैत्रादिना
स्मर्तुं शक्यम् ॥ ५� ॥


१। सक्रगणाभि इति पाठभेदः ।

दीपिका ।

न स्मृतिस्तदेति व्याचष्टे तदेतीत्यादि अयमभिप्रायः   

यदेतद्घटपटशकटाद्यात्मकं २सङ्क्रमं ज्ञानमुक्तं
तन्नात्मस्वरूपम् । अपि तु बौद्धमध्यवसायात्मकमेव । यत्तु तेषां
ज्ञानानामनुसन्धातृ तदेव कर्तृरूपं स्वसंवेदनसिद्धामात्मनोच्यत
इति । अत एव यदुक्तं शरीरोपचयात्तत्तदात्मकमिति तदपि परास्तम् ।
बौद्धस्यैव ज्ञानस्य तथारूपत्वात् । अनैकान्तिकं च केषां
चिन्महाकायानामपि अल्पकायानामपि महामतीनां दर्शनात् । इति ॥ १� ॥

वृत्तिः ।

एवं माभूत्स्मृतिः । किं न श्छिन्नमिति चेत्तदप्ययुक्तमित्याह ।  

नाप्येवं सुप्रतीतत्वात्
स्मर्ता कायेतरोऽस्त्यतः ॥ ६ ॥


१। सक्रमसंवेदनेति पाठभेदे । २। सक्रमं ज्ञानमिति पाठभेदः ।

सकललोकप्रसिद्धस्मृत्यपह्नवस्तावन्न शक्यः ।
स्मृतिश्चैवमुपपद्यते । देहस्यासकृत्परिणामित्वेऽपि
एकस्वभावस्तदन्यस्तत्तदर्थसन्निधौ तत्तत्ज्ञानस्यानुभविता स
एवानुसन्धाता स्यादिति अत इति अस्मात्स्मृत्यन्यथानुपपत्तिलक्षणादपि हेतोः
देहान्यस्स्मर्ताऽस्तीति । नच वाच्यं किमेभिः
परानुमानासहिष्णोर्व्यर्थैर्हेत्वादिभिरिति । यतश्चार्वाकस्यानिच्छोरपि
दुर्गतस्य दौर्गत्यमिव बलादेवानुमानं ख्यातिमनुबध्नाति तथाहि । तेन
प्रत्यक्षैकप्रमाणवादिनापि चतुर्महाभूतव्यतिरिक्ततत्वानभ्युपगमे
मृत्पाषाणादिस्थावरलक्षणा पृथिवी जलादि च सरित्समुद्रादीत्यादिना
दृष्टस्य गुणभेदेन न सर्वं प्रत्यक्षेणावगाहितुं शक्यम् । तस्य
१प्रतिनियतव्यक्तिहेतुत्वेनाशेषजगदन्तर्गतपदार्थविषयान्वयग्रहणा-
क्षमत्वात् । अपि च यत्र काठिन्यं सा पृथिवी स्थलोपलपर्वतादिवत् ।
पृथिव्यभावे काठिन्यस्याभावः । वाय्वादाविव । यच्च द्रवस्वरूपं
तज्जलं तैलघृतक्षीरादेरप्युदकत्वादित्याद्यन्वयग्रहणमनुमानाङ्गं
कल्पनीयम् । धर्मिणि च देहे पक्षीकृते तद्गतस्य काठिन्यादेः
पृथिव्यादिधर्मत्वानिश्चयात् । पृथिव्यादिभूतचतुष्टयारब्धत्वमपि
नानुमानं विनाऽवगन्तुं शक्यम् । किञ्च प्रत्यक्षमेव प्रमाणं
नानुमानादिरिति प्रमाणाप्रमाणचिन्ता नास्य प्रत्यक्षनिश्चेया ।
यथाह धर्मकीर्तिः । २प्रमाणेतरसामान्यस्थितेरन्यवियोगतः ।
प्रमाणान्तरसद्भाव इति । न परं प्रत्यक्षसिद्धत्वमनुमानस्य
तत्प्रत्ययनार्थं चेह परिशेषानुमानं प्रकरणारम्भे निदर्शितम् । नतु
स्वसंवेदनत्वेनापरोक्षस्याऽऽत्मनस्साधनाय तत्र
प्रमाणान्तरस्यानुपयोगात् । यदाहुः अनुभूतौ प्रमाणानां परिनिष्ठा
समाप्यते । स्वतस्तयैव या ज्ञप्तिः किं तत्रान्यैः प्रमान्तरैः ॥ इति गतमेतत् ।
यत्तु परिणामस्य वैशिष्ट्यादस्ति चेन्न स्मृतिस्तदा इत्यखण्डमेव श्लोकार्थं
तदेति शवावस्थायां सूक्ष्मतरसंवेदनसम्भवेऽपि
परिणामवैशिष्ट्यादिति स्मृत्यभावप्रतिपादकत्वेन परमताशङ्कया
व्याख्याय समाधीयते । यदुत नाप्येवं सुप्रतीतत्वात् । नह्येवं
क्वचित्प्रसिद्धम् । यद्गतासोस्सूक्ष्मतरसंवेदनमस्ति स्मृतिस्तु नास्ति । इति । अपि तु
सुप्रतीतमेतत् । यन्निर्जीवे वपुषि काठलोष्टादाविव संविन्नास्त्येवेति ।
तस्माद्देहादन्यस्स्मर्ताऽस्तीत्येवमपि व्याख्यायमाने न कश्चिद्दोषः ॥ ६ ॥


१। व्यक्तिगतत्वेनेति पाठभेदः ।
२। ग्रामान्यास्थितेरन्याधियोगतः? इति पाठभेदः ।

दीपिका ।

नाप्येवमित्यादि व्याचष्टे सकललोकेत्यदि । स्मृतिश्चैवमित्यादि अत   

एवऽसिद्धोयं तद्भावे भावादिति हेतुः । तथाहि यस्य हि यत्राभावस्सिद्धः
स विशिष्टवस्तुसन्निधाने तत्र भवन् तत्सादृश्याभावेऽपि तत्कार्यतया
सिद्ध्यति । सूर्यकान्तादेर्वह्न्यादिवदिति । न तु तत्र भावसम्भावनायाम् ।
तदानीं ह्यालोकादिसन्निधौ घटवत्तदभिव्यङ्ग्य एव सिद्ध्यति ।
तत्तत्कार्यव्यापकत्वेन चाऽऽत्मनसत्राऽपि भावः सम्भाव्यत इति
आलोकनाद्घटादेरिव सत्वसिद्धये स्वसंवेदनेन ग्रायाच्छरीराद्भेदेन
आत्मनस्सिद्धत्वात् । ननु शुक्लशोणितसंयोगात्प्राक् सत्वमप्यस्य कुतः । तर्हि
संशय एव युक्तः तन्न । स्मृत्यन्यथानुपपत्याऽनुमाने निश्चयात् ।
प्राणिनां स्थानकरणादेराकुञ्चनप्रसारणाद्यं कर्म
हिताहितस्मरणाविनाभावि व्यवहारकाले सिद्धमिति बालानामपि
तद्दृश्यमानं स्वकारणमनुभवस्मरणं गमयतीति
शुक्लशोणितसंयोगात्प्रागपि अनुभवैतुस्सत्वसिद्धिः । अन्यथा
कारणाभावान्नैवाऽऽकुञ्चनादिकं भवेत् तेषां बालानामिति । नच तस्य
क्षुज्जृम्भादेरिव वस्तुशक्त्यैव भवतोऽतत्कारणत्वमाशंसनीयम् ।
प्रयत्नपूर्वकत्वेनोपलब्धेः । यदाहुः प्रेरणाकर्षणे वायोः प्रयत्नेन
विना कुतः इति । नचावगमनात्पूर्वं प्रयत्नस्सम्भवति । बालानामपि
तीव्रतररोदनानुमापितक्षुधाद्युपगमनसमर्थतया
क्षणात्क्षणान्तरादहर्जातानामपि बालानां प्रयत्नविशेषेण
प्राणरोधरक्षापूर्वकमाकर्षतां वमनादिपरिहारेण
तृप्तिलक्षणफलप्राप्तिः । यावच्च निगिरतादर्शनात्
हिताहितस्मरणावगमपूर्वकत्वं प्रयत्नादेरवगम्यत इति कुतोऽयं स्यात्
वस्तुशक्त्यैव भवः । क्षुज्जृम्भादीनां तु केशनखादीनामिव
हिताहितावनमपूर्वकत्वेन प्रयुक्तत्वादृष्टेर्युक्त एव
वस्तुसामर्थ्येनोद्भवः । न त्वाकुञ्चनादेः । अतस्तदन्यथानुपपत्त्यैव
जन्मनः पूर्वमेव द्रष्टा सिद्धः । तदुक्तम् आद्यः करणविन्यासः
प्राणस्योर्ध्वं समीरणम् । स्थानानामभिघातश्च न विना पूर्ववेदनाम्
इति । यदुक्तम् अनुमानमसिद्धमस्माकमिति तत्परिहरति नच वाच्यमित्यादि
आगमप्रमाणमपि तैरनिवार्यमित्याह किञ्चेत्यादि । न परं
प्रयक्षसिद्धत्वमिति पृथिव्यादेरिति शेषः । अत एवानुइमानस्य ।
तत्प्रत्यायनार्थं चेति प्रामाण्यप्रत्यायनार्थम् । अत एव यदुक्तम्
इन्द्रियचैतनिकैः शरीरस्य भोग्यत्वेऽपि शरीरव्यतिक्तानामिन्द्रियाणा-मेव
द्रष्ट्टत्वात् नैतव्यसिरिक्ताऽऽस्मसिद्धिरिति । तदप्यनुमानेन निराकृतं
वेदितव्यम् । यानि किल रूपाद्यन्यथानुपपत्त्या चक्षुरदीन्द्रियाणि लोके
सिद्धानि तान्येव यदि भवद्भिश्चेतनानि निर्दिश्यन्ते तदयुक्तम् । तेषां
दर्पणवत् करणतयैव सिद्धिः चैतन्यासम्भवात् । यदुक्तं सौगतैरपि
परापरप्रार्थनतो विनाशोत्पादबुद्धितः । इन्द्रियादेः
पृथग्भूतमात्मानं वेत्त्ययं जनः इति । अथ ततोऽन्यानि स एवाऽऽत्मेति
नाम्नि विवादः । तस्मादिन्द्रियवर्गस्य युष्मन्मते भौतिकत्वेनास्मन्मते
त्रैगुण्येन सङ्गत्वात् शयनादेरिवान्यो भोक्ता प्रतिपत्तव्य इति । तेषां
शरीरार्थत्वं तु शरीरस्यापि भोग्यत्वात् पूर्वमेव निराकृतमिति । यदुक्तम्
अनुमेयत्वादात्मनः परत्वमिति तत्परिहरति नत्वित्यादि एतच्च
पूर्वमेवदर्शितमिति । उक्तार्थमुपसंहरति गतमेतदिति व्याख्यान्तरमाह
यत्तु परिणामस्येत्यादि ॥ ६ ॥

वृत्तिः ।

एवं पशुपदार्थं प्रसाध्य तद्विशेषान् वक्तुमाह् ।  

नाव्यापको न क्षणिको
नैको नापि जडात्मकः ।
नाकर्ताऽभिन्नचिद्योगी
पाशान्ते शिवताश्रुतेः ॥ ७ ॥

स चात्मा नाव्यापकः । नापि क्षणिकः ।   

देशकालाभ्यामनवच्छिन्नत्वात् । तदाह अनवच्छिन्नसद्भावं वस्तु
यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुः नित्यता इति । न
चासावेकः । एको वशी सर्वभूतान्तरात्मेति प्रतिपन्नानां ब्रह्मविदामिव
जन्ममरणकरणादिप्रतिनियमदर्शनस्य
पुरुषबहुत्वज्ञापकस्यापह्नोतुमशक्यत्वात् । न च
नैयायिकवैशोषिकाणामिव जडः । नापि साङ्ख्यानामिवाकर्ता । नच
केषाञ्चिदिवाऽऽगन्तुना चिता युक्तः । कुत इत्याह पाशान्ते शिवताश्रुतेः इति ।
पाशानामविद्यादीनामन्ते तत्प्रतिबन्धकव्यपगमे
यतोऽस्यात्मनश्शिवत्वव्यक्तिश्श्रुयते । तथाचोक्तम्
अथात्ममलमायाख्यकर्मबन्धविमुक्तये । व्यक्तये च शिवत्वस्य
शिवात्ज्ञानं प्रवर्तत इति । न च तच्छिवत्वमव्यापकत्वादिधर्मयुक्तं
ज्ञत्वकर्तृत्वादिरहितं वा । नित्यं कालानवच्छेदाद्वैतत्यान्न प्रदेशगम् ।
इत्यादिना प्रागुक्ततत्तद्विलक्षणस्योपपादितत्वात् । न च
व्यापकत्वमित्यत्वदिर्मुक्तावेवोदयात् संसार्यवस्थायामभाव इति
मन्तव्यम् । असदुत्पत्त्यसम्भवस्योपपादयिष्यमाणत्वात् । इति ॥ ७ ॥

इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ षष्ठं प्रकरणं समाप्तम् ।

दीपिका ।

नाव्यापक इत्यादि सूत्रं व्याचष्टे सचात्मेत्यादि व्यापकत्वादिनि चात्मनः
१परमोक्षनिरासप्रकरणे प्रसङ्गात्साषितानीति नेह प्रतन्यन्ते । ननु
जडोप्यसौ वाह्यार्थविज्ञानेन प्रकाश्यत इति नैयायिकभेदः । तन्न ।
२अकमतयैव सर्वदा भासमानत्वादित्युक्तम् । नचास्मिन्
जडात्मन्यर्थप्रकाशोप्यपपद्यते । तत्प्रकाशादात्मान्तरवत् । तथाहि
अर्थप्रकाशोऽयं नार्थस्वभावः । तस्याविशेषात्
सर्वप्रकाश्यताप्रसङ्गात् अपितु आत्मस्वभाव एव । तस्य चाप्रकाशत्वे
सर्वाप्रकाश इत्यायातमान्ध्यमस्य जगतः । तदुक्तम् अप्रत्यक्षोपलम्भस्य
नार्थदृष्टिः प्रसिद्ध्यति इति अजस्र एव आत्मा सिद्धः इति । येतु शरीराभावे
चैतन्याभावात् नात्मस्वभावं चैतन्यमित्याहुः वैशेषिकानुवासनया ।
तान् प्रत्याह । नच केषां चिदिवेत्यादि तैरपि कर्मफलवत्ज्ञानमपि
शक्तिरूपतया तत्रस्थमभ्युपगन्तव्यम् । असदुत्पत्तेस्सत्कार्यवादे
निराकरिष्यमाणत्वात् । इति । ननु कर्मफलं बुद्धिस्थमेव
भवद्भिरभ्युपगम्यते । सत्यम् । शक्तिरूपावस्थाने तु
दृष्टान्तत्वमित्यविरोधः । अत एव सङ्क्रान्तिवादोऽपि निरस्तः ॥

इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
पशुपदार्थविचारप्रकरणं षष्ठं समाप्तम् ॥


१। २१श्लोक ।
२। स्वस्य प्रकाशरूपत्वात् प्रकाशमर्मत्वं स्वस्मिन्न सम्भवतीति भावः ।
एकस्यैव कर्तृकर्मविरोधात् ।