पञ्चकृत्यप्रकरणं पञ्चमम् ।
अथ मूलसूत्रोपात्तसर्वकृत्पदाक्षिप्तपतिपदार्थस्य
अनुग्रहतिरोभावाख्यं कर्मद्वयमवशिष्टमभिधातुं प्रकरणान्तरम् ।
अत्र च सौत्रपादार्थिकसबन्धौ स्पष्टौ । प्राकरणिकस्तु विद्यापादाख्येन
प्रकरणेन ज्ञेयः । वाक्यात्मकोऽपि
जगत्सृष्टिस्थितिध्वंसतिरोभावविमुक्तयः । कृत्यमित्यादिभिर्वाक्यैः ।
पाटलिकः पुनः बोधयन् बोधयोग्यानिति पूर्वपटल एवोपक्रान्तः ।
तमश्शक्त्यधिकारस्य
निवृत्तेस्तत्परिच्युतौ ।
व्यनक्ति दृक्कियाऽनन्त्यं
जगद्बन्धुरणोश्शिवः ॥ १ ॥
१। अप्रसिद्धं तु इति पाठभेदः ।
तमश्शक्त्येत्यादि तमसो मलस्य शक्तेश्च भगवतस्सम्बन्धिन्या
वामाख्याया यो वाऽधिकारो न्यग्भावनमावृतित्वं तस्य
निवृत्तेर्विरामाद्यासौ परिच्युतिः कैवल्याभिमुखीभावः । तथाचोक्तं
श्रीमत्स्वायम्भुवे क्षीणे तस्मिन् यया सा स्यात् परं निश्श्रेयसं प्रति । इति ।
अस्यां तत्परिच्युतौ सत्यां जगदुद्धरणप्रवणः परमेश्वरः
दृक्क्रियानन्त्यमणोरात्मनः प्रकटीकरोति । सत्योरेवानन्तयोर्दृक्रिययोर्-
मलावच्छिन्नत्वादावृतानन्त्ययोस्तत्परिणतेरावरणापगमादभि-व्यक्तिः
क्रियते नतु अपूर्वोत्पाद इत्युक्तम् । वक्ष्यामश्च सत्कार्यवादे ॥ १ ॥
दीपिका ।
अथ पञ्चकृत्यप्रकरणम् ।
तमश्शक्त्यधिकारस्येत्यादिप्रकरणमवतारयति अथेत्यादि । ननु
सर्वज्ञस्सर्वकर्तृत्वादित्यादिना पत्युस्सर्वज्ञत्वमप्यनेन
प्रकरणेनाभिधास्यते । तत्कथं कृत्यद्वयमभिधातुमित्युच्यते ।
प्रथमभावित्वादुपलक्षणत्वेनोक्तमित्यदोषः । अत एव
पञ्चविधस्सम्बन्धोप्यत्रोपलक्षणत्वेनोक्तो ज्ञेयः । तथा पाचयन्
कर्मिकर्मेत्यादीनां पूर्व पटलान्तसूचितानां कर्मपाकादीनाम्
अनुग्रहतिरोभावार्थत्वात् तत्प्रतिपादकानां सूत्राणां पृथक्
सम्बन्धोपयोगः । सर्वज्ञत्वप्रतिपादकानां तु सूत्राणां सम्बन्धः
कथ्यते । तत्र प्राकरणिकपादार्थिकौ सम्बन्धौ प्रोक्तवदेव । सौत्रस्तु
सर्वविदिति पदेन । वाक्यात्मकोऽपि ज्ञेयमस्यै तदेव हि इत्यादिभिरनेकविधः ।
पाटलिकस्य पश्यन् सर्वम् इत्यनेन सूचितः । तत्र रोधस्य तिरोभावात्मनो
भोगभोजनरूपत्वेनोक्तत्वात् तच्च सृष्ट्यादिकरणेनार्थसिद्धमिति
सूत्रकारेण न पृथक् प्रतिपादितम् । अनुग्रहस्तु तमश्शक्त्यधिकारस्येत्यादिना
प्रोक्त इत्याह । तमश्शक्त्यादीति तत्परिच्युतावित्येतत्पदम् अणुसम्बन्धितया
व्याख्येयमित्याह यासावित्यादि तस्मान्मलाधिकारादिति शेषः ।
परिच्युतिश्चात्र तत्परिजिहीर्षयैवेत्याह कैवल्याभिमुखीभाव इति । अस्यामित्यादि
अत एव भक्तिश्रद्धादिभिर्लिङ्गैश्च
शक्तिपातनिश्चयानन्तरमेवाऽऽचार्यैरस्य दीक्षा कर्तव्येति । अणोरिति पदं
जातावेकवचनम् ॥ १ ॥
वृत्तिः ।
यान् विमोचयति स्वापे
शिवास्सद्यो भवन्ति ते ।
संहृतौ वा समुद्भूता -
वणवः पतयोऽथवा ॥ २ ॥
स्वापावस्थितान्यान् परमेश्वरोऽनुगृह्णाति ते तु तत्काल एव
शिवास्सम्पद्यन्ते । न त्वधिकारिणो भवन्ति । तेषां मलांशावशेषतः
प्रेर्यत्वेन शिवत्वायोगात् । तदानीं चाधिकारिणामनुपयोगात् । किञ्च
संहारे सृष्टौ वा यान् विमोचयति तेऽपि सद्य एव शिवास्सम्पद्यन्ते । न
व्यतिरेकेण । अथवेति अनयोस्सृष्टिसंहारकालयोरञ्जनपरिपाकवैलक्षण्यतः
तत्क्षणं शिवत्वव्यक्त्या निरधिकारमुक्तिभाजस्साधिकाराः पतित्वयोगिनो
वाऽऽत्मानो भवन्ति इत्यर्थः । तत्र संहारे १येषामधिकारवाननुग्रहः ते
तदानीं रुद्राणवः । सृष्टौ त्वधिकारिणो भवितारः । सार्गारम्भे तु
साधिकारानुग्रहानुगृहीताः पतय इति परापरविद्येश्वराद्यधिकारभाजो
भन्तीति । अथ सृष्टिसंहारकालयोश्श्रुतमपि कथमनुग्राह्याणां
शिवत्वं लभ्यत इति चेत् लभ्यत एव मलपरिपाकस्य परमेश्वरानुग्रहस्य
चानियतकालत्वात् ॥ २ ॥
दीपिका ।
तेषामिति अधिकारिणामित्यर्थः । न व्यतिरेकेणेति । निर्विघ्नमित्यर्थः ।
अयं चानुग्रहो निरधिकरणेन भगवता क्रियते ॥ २ ॥
वृत्तिः ।
अथैवं सर्गसंहारस्वापकालेष्वनुगृहीतानां मुक्तिविशेषमुक्त्वा
स्थितिकालानुगृहीतानां तद्विशेषमाह ।
रुद्रमन्त्रपतीशान्-
पदभाजो भवन्ति ते ।
स्थितौ याननुगृह्णाति
गुरुमास्थाय चिद्वतः ॥ ३ ॥
१। अधिकारपदानुग्रहः इति पाठभेदः ।
गुर्वधिकरणः परमेश्वरस्स्थितिकाले चिद्वत इति
तदनुध्यानवशात्परापरनिश्रेयसविषयया प्रशस्यया चिता युक्तान्
यानणूननुगृह्णाति ते मन्दतिव्रादिशक्तिसम्पातवैलक्षण्यात्
पञ्चाष्टकादिरुद्राणां सप्तकोटिसाङ्ख्यातानां मन्त्राणां
तत्पतीनां च विद्येश्वराणामीशानस्य चेश्वरसदाशिवशान्तलक्षणस्य
सम्बन्धि पदं भजन्त इति तत्पदभाजः तत्सालोक्यादिपदयोगिनो भवन्ति
इत्यर्थः ॥ ३ ॥
दीपिका ।
स्थितिकालेऽपि साधिकरणेनापीत्याह गुर्वधिकरण इत्यादि तत्पतीनां च
विद्येश्वराणामिति अपरमन्त्रेश्वराणाम् । नत्वनन्तादीनां तत् द्वयोर्व्यतिकर
इत्यादिनैतत्पदप्राप्तानां च्युतिसम्भवस्य वक्ष्यमाणत्वात् ।
अनन्तादिपदप्राप्तानां च न च्युतिस्सम्भवति । मायोत्तीर्णत्वेन
कर्माद्यसम्भवात् । उक्तञ्च रौरवे भुक्त्वा भोगान्
सुचिरममरस्रीनिकायैरुपेतास्स्रस्तोत्कण्ठाश्शिवपदपरैश्वर्यभाजो भवन्ति
इति । अत एव ईश्वरसदाशिवशान्तलक्षणस्येति ईश्वरशब्दस्यानन्तवाचिनो
विद्येश्वरपदलक्षणत्वात् तेषां
१सदाशिवादिभुवनाधिष्ठानकृल्लयावस्थस्य परमेश्वरस्येत्यर्थः ॥ ३ ॥
वृत्तिः ।
ननु शक्तिपातविशेषात् तत्पदभाजश्चेत् तर्हि तद्विशेषः कथं ज्ञेय
इत्याह ।
१। धिष्ठातुर्लयावस्थस्थेति पाठभेदः ।
येषां शरीरिणां शक्तिः
पतत्यविनिवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं
मुक्तौ द्वेषो भवस्थितौ ॥ ४ ॥
भक्तिश्च शिवभक्तेषु
श्रद्धा तच्छासके विधौ ।
अनेनानुमितिश्शिष्ट -
हेतोस्स्थूलधियामपि ॥ ५ ॥
अशरीरिणां तावद्गुरुभिश्शक्तिपातस्य दुर्लक्ष्यत्वात् शरीरवतां
येषां पारमेश्वरीशक्तिरपुनराविर्भावाय पतति, तेषां तत्पाते
मुक्युत्कण्ठा संसारे द्वेषः परमेश्वरभक्तिपरेषु भक्तिः तच्छासके
शास्त्रे श्रद्धा चेति लिङ्गं चिह्नम् अनेनैव चिह्नेन प्रकर्षवताऽवशिष्टस्य
संसारस्थितिहेतोः पाशजालस्यासूक्ष्म बुद्धिनामप्यनुमानम् ।
पूर्वोक्तानां च चिह्नानामेव मन्दत्वे सति पशोः पाशशैथिल्यमान्द्यं
मन्दमतयोऽप्यनुमिन्वन्तीति भावः ॥ ४ - ५ ॥
दीपिका ।
येषामित्यादिसूत्रमवतारयति नन्वित्यादि
प्रसङ्गादनुग्रहशेषशाक्तपातलिङ्गानि प्रदृश्यन्त इत्यर्थः ॥ ४ - ५ ॥
वृत्तिः ।
ननु किमनेनात्यन्तापूर्वेण शक्तिपातनिश्चयेन । सकलदर्शनप्रसिद्धं
१तावदिदं कैवल्यप्राप्तिकारणं लिङ्गत्वेन किं न निश्चीयते । यदुक्तं न
हृष्यत्युपकारेण नापकारेण कुप्यति । यस्समस्सर्वभूतेषु जीवन्मुक्तस्स
इष्यते । इति तत्राह ।
पशुदृग्योगसिद्धानां
कर्मव्यक्तिद्वयं समम् ।
ज्येष्ठादिफलयोग्यानां
साधिकारासु मुक्तिषु ॥ ६ ॥
उपायादरवैशिष्ट्या -
न्मृग्यते तत्त्रयं पुनः ।
द्वयोर्व्यतिकरः कश्चि -
च्च्युतिसिद्धिविलक्षितः ॥ ७ ॥
पशुदृग्भिः पाशवैर्ज्ञानैस्तदुक्तेन च
कपिलपतञ्जलिप्रभृतिप्रणीतेन योगेन ये सिद्धाः
सत्वगुणप्रसादान्माध्यस्थ्यं प्राप्तास्तेषां
यत्कर्मभ्यामुपकारापकाररूपाभ्यां चेष्टाभ्यां
प्रसादक्रोधलक्षणं व्यक्तिद्वयं सममिति नापकारिणि क्रोधव्यक्तिः ।
नाप्युपकारिणि प्रीतिव्यक्तिः । साध्यस्वथ्यादेवै-तद्भवतु ।
नास्माभिर्निषिध्यते । इह पुनरयं विशेषः यदधिकार-वतीषु मुक्तिषु विषये
उपायस्य दीक्षादेः लोकधर्ममयी दीक्षा शिवधर्ममयी तथा इत्यादिना
वक्ष्यमाणाद्वैशिष्ट्यादादरस्य च तत्तत्पदप्राप्तिप्रीतिश्रद्धात्मनो
वैलक्षण्यात् । यथोक्तं श्रीमत्सूक्ष्मस्वायभुवे यो यत्राभिलषेद्भोगान् स
तत्रैव नियोजितः । सिद्धिभाङ्मन्त्रसामर्थ्यादिति ।
तस्मादुपायादरवैलक्षण्यान्मन्त्र-
महेश्वरादिपदप्राप्तिलक्षणज्येष्ठफलयोग्यतां मन्त्रेश्वरपद-
प्राप्त्यात्मकमध्यफलार्हत्वं पञ्चाष्टकाद्यपराधिकारिपदयो-
जनायोग्यतां च निश्चेतुं कर्मव्यक्तित्रयं मृग्यते अन्विष्यते ।
भक्तिश्रद्धाभिव्यक्तितारतम्यादुत्कृष्टमध्यमापकृष्टरूपसाधि-
कारापवर्गपदभाज इत्यनुग्राह्या भवन्तीत्याशयः ।
यच्चैतत्साधिकारमुक्तित्रयं दर्शितम् । ततः । द्वयोर्व्यतिकर इति
मध्यमापकृष्टयोर्मुक्त्योरुपर्यधोवर्तिनः पदस्य प्राप्यतया
स्वस्मात्पदात् च्युतिसम्भवेन सिद्ध्यतिशयसम्भवेन च
कश्चिद्व्यतिकरोऽन्तरायः । न त्वनन्तरमेवापवर्गस्य प्राप्तिः तृतीयस्यां तु
तत्पदाधिकार्यधिकारसमाप्तिसमनन्तरेणैव तल्लाभः ॥ ६ - ७ ॥
१। इदमिति । उपकारापकारायोहर्षविषादाभाव इत्यर्थः ।
दीपिका ।
पशुदृगित्यादि सूत्रमवतारयितुं मतान्तरेण चोदयति ।
नन्वित्यादितत्रयमिति तच्छब्देन कर्मव्यक्तिः परामृश्यत इत्याह
कर्मव्यक्तित्रयमित्यादि कर्माणि चात्र पूर्वोक्तानि भक्त्यादीन्येष
विवक्षितानीत्याह भक्तिश्रद्धेति नन्वेवं चेदत्र न
हृष्यतीत्युपप्रोक्तकर्मव्यक्तिद्वयमनपेक्ष्यमेव । न । एतद्योगे
भक्तिश्रद्धादीन्यप्यधिकान्यपेक्षणीयानीति भावः ।
द्वयोरित्यादिसूत्रमवतारयति यच्चैतदित्यादि । च्युतिसम्भवेनेति
तत्तद्भुवनप्राप्तिरूपाणां मोक्षाणां महाप्रलयान्तमेवावस्थानात्
पुनस्सर्गारम्भे कर्मशेषेणाऽधोगतिस्सम्भवत्येव । नन्वेवं
चेदनयोर्मुक्त्योर्मुक्तित्वमेव हीयते । सत्यम् । अनयोर्मुक्तित्वं
मुक्त्याभासत्वमेवेत्यविरोधः । सिद्ध्यतिशयसम्भवेनेत्युपलक्षणं मुक्ति
सम्भवेनचेत्यर्थः । यतो मलपरिपाकवशात्तत्राऽपि दीक्षया
मोक्षस्सम्भवत्येव १भुवने भुवने गुरवः प्रतिवसन्ति ॥ ६ - ७ ॥
वृत्तिः ।
अथ किन्निमित्तमेतच्चिह्नवैचित्र्यम् । यद्वशात्त्रित्वं
साधिकारमुक्तेरित्याह ।
ईषदर्धनिवृत्ते तु
रोधकत्वे तमःपतेः ।
भवन्त्येतानि लिङ्गानि
किञ्चिच्छिष्टे च देहिनाम् ॥ ८ ॥
तमः पतेः दृक्क्रियानिरोद्घुर्वामदेवनाथस्य यद्रोधकत्वं तस्मिन्
किञ्चिन्निवृत्ते अर्धनिवृत्ते मनागवशिष्टे च सति एतच्चिह्नतारतम्यं
शरीरिणां भवति ॥ ८ ॥
१। यस्माद्भुवने भुवने गुरवः प्रतिवसन्ति तस्मात्तत्राऽपि गुरुभिः कृतया
दीक्षया मोक्षस्सम्भवतीत्यर्थः ।
दीपिका ।
ईश्वरस्य तिरोधनाशक्त्यधिकारविराम एवानुग्रहस्य शक्तिनिपातस्य
चिह्नोत्पत्तेश्च हेतुरित्याह अथेत्यादि ॥ ८ ॥
वृत्तिः ।
अत एव ।
योग्यतात्रयमप्येतत्
समतीत्य महेश्वरः ।
स्वापेऽणुमनुगृह्णाति
साऽधिकारमिदं यतः ॥ ९ ॥
एतद्योग्यतात्रयमनपेक्ष्यैव स्वापेऽणुमनुगृह्णाति । अणुमिति
जातावेकवचनम् । योग्यतावैचित्र्येणानुग्रहणमणूनां तदानीं न
करोतीति भावः । अत्रैव हेतुमाह साधिकारमिदं यतः
यस्माद्योग्यतात्रयमधिकारापेक्षम् । न च तदानीमधिकारोपयोगः ।
तस्मान्नापेक्षते ॥ ९ ॥
दीपिका ।
२अधिकारमलस्य च मलपरिणतिरेव हेतुरित्युक्तम् एतद्योग्यतात्रयमित्यादि
। पूर्वपूर्वकृतं च । न त्वत्यन्तमलपरिपाकात्मकमपि योग्यत्वम् ।
अतिप्रसङ्गात् । स्वाप इत्युपलक्षणं स्थितिकालेप्यत्यन्तमलपाकात्
निरधिकरणानुग्रहस्य च सम्भवात् शान्तलक्षणस्य चेत्युक्तत्वाच्च ॥ ९ ॥
१। स्थितिकालस्यापीतिशेषः ।
२। अधिकारविरामस्येति पाठभेदः ।
वृत्तिः ।
सर्गमूले तृतीयायाम् ।
स्वापवद्भूतसहृतौ ॥ ९� ॥
भविष्यति सर्गारम्भे संहारोपान्ते वक्ष्यमाणलक्षणायां
तृतीयस्यां च भूतसंहृतौ याननुगृह्णाति ते शिवास्सम्पद्यन्ते ।
स्वापावस्थानुगृहीताणुवत् ॥ ९� ॥
दीपिका ।
तृतीयस्यां च भूतसंहृताविति महाप्रलयात्मिकायाम् । त्रैलोक्यः
प्रलस्य मध्यमप्रलयस्य च वक्ष्यमाणत्वात् ॥ ९� ॥
वृत्तिः ।
स्वापेणुमनुगृह्णातीति यत्प्रागुक्तं ततोऽणुशब्दं लक्षयितुमाह ।
स यद्व्यपास्य क्रियते ।
तद्विधो योणुरुच्यते ॥ १० ॥
स इत्यनन्तरोक्तस्सर्गादौ तृतीये च भूतसंहारे स्वापे वा
योऽनुग्राह्यस्सः यद्व्यपास्य अपनीय तादृग्विधः क्रियते
अभिव्यक्तशिवभावस्सम्पद्यते सोऽणुशब्दवाच्यो ज्ञेयः । अणुस्सन्न पवृज्यत
इति यावत् ॥ १० ॥
दीपिका ।
स यद्व्यपास्येति सूत्रं सम्बन्धयति स्वापेणुमित्यादि सयद्व्यपास्येति
मलादिकमिति शेषः । यदिति यस्मादर्थे तद्विध इति तच्छब्देनानुग्राह्य
परामृश्यत इत्याह अभिव्यक्तशिवभाव इति पाशरहितत्वेन
सूक्ष्मत्वादगुरुच्यत इति भावः ॥ १० ॥
वृत्तिः ।
तदेवं बोधयन् बोधयोग्यानिति यत्प्रागुक्तं तद्वृक्क्रियानन्त्यव्यक्त्या
प्रदर्शितम् । यदपि रोध्यान् रुन्धन्नित्यादि सूचितं तत् यान्विमोचयति स्वाप
इत्यनेन केषाञ्चिदेव तथाविधानुग्रहभाक्त्वे सति अन्येषामर्थाक्षिप्तो रोध
इति कृत्वा प्रपञ्चितम् । इदानीं तु पाचयन् कर्मिकर्मेत्युक्तं निर्वर्णयितुमाह
।
तथा बीजं शरीरादेः ।
पाचयत्यानिवेशनात् ॥ १०� ॥
भगवतश्शक्तयस्सर्वकार्येषु प्रसृताः ।
ताभिश्शरीरेन्द्रियजात्यायुर्भोगकारणं कर्म देहभाजां तत्स्वापे
पाचयति फलदानोन्मुखमापादयति ॥ १०� ॥
दीपिका ।
तथेत्यादिसूत्रं सम्बन्धयति तदेवमित्यादि अत एव
रोधस्यार्थाक्षिप्तत्वात् शेषभूतं कर्मपाकादि तथेत्यादिनोच्यते इत्याह
इदानीमित्यादि । आनिवेशनादितिव्याचष्टे । तत्स्वाप इति उपलक्षणं चैतत्
स्थितिकालेऽपि तदारम्भणीयशरीरादिसृष्टिसमयो यावत् तावत्तत्कर्म
पाचयतीत्यर्थः ॥ १०� ॥
वृत्तिः ।
यस्मात् ।
न योग्यताङ्गमभजत् ।
सद्यस्स्यादौषधादिवत् ॥ ११ ॥
योग्यताया अर्हत्वस्य सम्पादकमङ्गं पाकाख्यं
संस्कारमभजत् अनासेव्यमानं तत्कर्म
सद्यस्तत्क्षणहारीतक्याद्यौषधमिव न स्यात् न भवेत् फलदमिति शेषः ।
यदाहुः अप्राप्तपाकं हारीतक्यादि द्रव्यं सदपि
स्वकार्यसम्पादनाशक्तं योग्यताङ्गस्य पाकस्यानासादनादिति । एवं
सदपि कर्मापक्वं तत्फलदानाशक्तम् अतः पाकापेक्षम् ॥ ११ ॥
वृत्तिः ।
पाकश्चास्य न स्वतस्सम्भवतीत्याह ।
पाकार्हमपि तत्पक्तुं
नेशत्यात्मानमात्मना ।
धर्मस्सामान्य एवायं
सर्वस्य परिणामिनः ॥ १२ ॥
पाकयोग्यमपि तत् स्वयमात्मानमात्मना न पाचयितुमीशम् । सर्वस्य
हि परिणामिनो वस्तुनः क्षीरादेरिवाऽयं साधारणो धर्मः
यत्किमप्यवेक्ष्य परिणामित्वं नान्यथा । परिणामित्वाच्च
कर्मणोऽप्यन्यापेक्षो विपाकः । अनेन मायाशक्तीर्व्यक्तियोग्याः ।
प्रकुर्वन्नित्येतदपि प्रकाशितम् । तस्या अपि परिणामित्वात् । नचैषां
मलमायाकर्मणां परिणामित्वमनीशेन सुशक्तमित्युक्तम् ।
ईशतीत्यदुष्टम् । ईश इवाऽऽचरति इत्यर्थे सर्वप्रातिपदिकेभ्यः क्विब्वा
वक्तव्यः इति क्विप्स्मरणात् ॥ १२ ॥
दीपिका ।
पाकयाग्यमपीत्यादि अचेतनत्वात्स्वात्मनि क्रियाविरोधाच्चेति भावः ।
अयं च न्यायो मायादीनामपि तुल्य इत्याह अनेनेत्यादि न चैषामित्यादि
पुरुषस्यास्वतन्त्रत्वात् न तत्परिणामकत्वमित्यर्थः ॥ १२ ॥
वृत्तिः ।
तदियता तावत् सर्वकर्तृत्वं परमेश्वरस्य प्रतिपादितम् । अत एव चास्य
सर्वज्ञत्वं सिद्ध्यतीत्याह ।
सर्वज्ञस्सर्वकर्तृत्वा -
त्साधनाङ्गफलैस्सह ।
यो यज्जानाति कुरुते
स तदेवेति सुस्थितम् ॥ १३ ॥
सर्वकर्तृत्वादेवेश्वरस्य सर्वज्ञत्वम् । सर्वविषयज्ञानं विना
सर्वकर्तृत्वानुपपत्तेः । यो हि यत्क्रियासिद्धिं तदङ्गानि तत्फलानि च जानाति
तस्यैव विचित्रतत्कारकोपयोगाभिसन्धानवतः तत्तत्कर्तृत्वं घटते ।
कुविन्दादेरिव पटादिकृतौ । अतः यस्तु तत्राज्ञस्स तत्कार्यकरणाय नालम् ।
बालिश इव न्यायविद्याद्युपन्यासे इति । एतत्सुस्थितमिति अव्यभिचारीत्यर्थः ॥ १३ ॥
दीपिका ।
सर्वज्ञ इत्यादिसूत्रमवतारयति तदियतेत्यादि तदेव व्याचष्टे
सर्वकर्तृत्वादेवेत्यादि । यत्क्रियासिद्धिमिति क्रियासिद्धिहेतुमुपादानम् ।
तदयमर्थः । पटादिकर्ता हि स्वकार्यस्य पटादेः यत्साधनं तन्त्वादि
यच्चाङ्गं सहकारितयोपकारकं तुरीवेमादि यच्च फलं प्रावरणादि
तैस्सार्धं तत्कार्यं विजानाति । कर्ता च भगवानस्य सर्वस्यैव
शुद्धाशुद्धात्मनो जगतः तत्तस्य यदुपादानं माया
महामायात्मकं यच्चेह सहकारि कर्म ईश्वरसेवात्मकं च कर्म यच्च
फलं शुद्धाशुधाध्वविषयोपभोगः मोक्षश्च तैस्सार्धं
साधुकृत्वात्त्कार्यं जानातीत्ययं सर्वज्ञस्सिद्धः । एतदेव सर्वं यतो
यत्सहाधारेण कार्यं कुर्वन् न लक्ष्यते तन्निराधारं करोति । यथा
दीपप्रकाशादिकम् । ननु शरीरलक्षणाधारयुक्तमेव सर्वं विज्ञानं
स्वकार्यं कुर्वदुपलक्ष्यते । तथापीश्वरे प्रागेव शरीरस्य प्रतिषेधात्
निराधारं तदभ्युपगम्यमाने
१स्वकार्येणासर्वविषयावगत्यात्मनोपलक्षित इति अज्ञ एवेश्वरः प्रसज्यत इति ।
तन्न । वायुनानैकान्तिकत्वात् वायुर्हि शरीरलक्षणेनाधारेणास्मिन् संसारे
श्वसनं कुर्वन्नुपलक्ष्यमाणोऽपि वृक्षकम्पादिकं निराधारः करोत्येवेति
। एवं ज्ञानमपि तथैव करिष्यतीति तन्निराधारत्वादत्र सर्वज्ञत्वसिद्धिरिति ॥
१३ ॥
१। कार्येण सर्वेति पाठभेदः ।
तच्चास्याऽऽवृतिशून्यत्वात्
न व्यञ्जकमपेक्षते ।
तन्न सांशयिकं तस्मात्
विपरीतं न जातुचित् ॥ १४ ॥
वृत्तिः ।
शिवस्य तत्सर्वज्ञत्वम् अनाद्यावरणशून्यत्वात् न व्यञ्जकापेक्षम् ।
नापि संसारिण इव संशयविपर्ययानध्यवसाययुक्तम् अत एव हेतोः ॥ १४ ॥
दीपिका ।
अत एव नास्मदादीनां ज्ञनसदृशमीश्वरज्ञानम् ।
अनावृतत्वादित्याह शिवस्येत्यादि एतच्चोपलक्षणं क्रियाया अपि ॥ १४ ॥
वृत्तिः ।
तथाहि ।
यानि व्यञ्जकमीक्षन्ते
वृतत्वान्मलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन
तानि स्युर्व्याहतान्यपि ॥ १५ ॥
यानि किल ज्ञानानि मलशक्त्यावृतत्वात् भोगनिष्पादनाय व्यञ्जकं
कलाद्यपेक्षन्ते तानि व्यञ्जकस्य कलादेस्स्वल्पप्रकाशकरणात्
तथाविधव्यञ्जनभाजि ज्ञेयविषये व्याघातवन्त्यपि भवन्ति । नचैश्वरं
ज्ञानमेवंविधं पूर्वोक्तादेवावृतिशून्यत्वात्कारणात् । तथाचोक्तं
श्रीमत्किरणे अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततश्शिवः इति ॥ १५ ॥
वृत्तिः
यतश्चैमतः ।
नाध्यक्षं नापि तल्लैङ्गं
न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं
सर्वदा सर्ववस्तुषु ॥ १६ ॥
अक्षसव्यपेक्षं हि ज्ञानं प्रत्यक्षम् । अक्षव्यापाराणां
तत्पाटवापाटवानुविधायित्वात् तद्भावाभावानुविधायित्वाच्च
व्याहतमपि स्यात् । नचैवं शम्भवं ज्ञानमतो न प्रत्यक्षम् ।
नाप्यानुमानिकम् । तस्य प्रत्यक्षाधीनवृत्तिकत्वात् । शाब्दं तु दूरापास्तम् ।
अत्यन्तपरोक्षार्थविषयत्वात् तस्य । न च किञ्चिद्भगवतः परोक्षम् ।
अतस्सर्वविषयं तस्य ज्ञानं प्रकाशते । नतु
पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिना श्रूयत एवाऽऽमेष्वपीश्वरस्य
शरीरेन्द्रिययोगः । तत्सद्भावेऽपि कस्मान्न तत्सव्यपेक्षे ईश्वरस्य
ज्ञानक्रिये । नास्य ज्ञानक्रियोपयोगी शरीरेन्द्रिययोगः । स्वभावत एव
सर्वार्थदृक्क्रियाशक्तिमत्वात् इच्छामात्रेणैव सर्गस्थित्यादिकरणक्षमत्वात् ।
भक्तानुग्रहणार्थं चाऽऽकारग्रहणम् । अन्यथा निराकारे
ध्यानपूजाद्ययोगात् । यदुक्तं श्रीमत्पौष्करे साधकस्य तु लक्ष्यार्थं
तस्य रूपमुदाहृतम् । सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् इति ॥ १६ ॥
दीपिका ।
अत एव चोदयति नन्वित्यादि परिहरति नास्येत्यादि शरीरेन्द्रिययोग
आगमेषूक्त इति शेषः ॥ १६ ॥
तदेकं विषयानन्त्या -
द्भेदानन्त्यं प्रपद्यते ।
कर्तृत्वं तदभिन्नत्वात्
तद्वदेवोपचारतः ॥ १७ ॥
वृत्तिः ।
यथाऽवस्थितवस्त्ववभासात्मनस्तावत् तदीयस्यैकस्य ज्ञानस्य
ज्ञेयानन्त्यात् उपाधिभेदात्कृतमौपचारिकमानन्त्यं शास्त्रात्मनोऽपि
स्रोतोभेदादध्येतृभेदात् प्रवर्तयितृभेदात्तेषां
च परापरत्वाद्गौणमेवाऽऽनन्त्यम् । सर्वज्ञानक्रियारूपा शक्तिरेकैव
शूलिनः इत्यनया दृशा तस्मात्ज्ञानादभिन्नत्वात् कर्तृत्वमपि
तथैवोपचारात् आनन्त्यं परपद्यते ॥ १७ ॥
दीपिका ।
एतच्च पूर्वमेवोक्तमिदानी तयो पूर्वोक्तमौपचारिकमनेकत्वं
तदेकमित्यादिना प्रपञ्च्यत इत्याह यथावस्थितेत्यादि ॥ १७ ॥
वृत्तिः ।
अथ निर्वर्णितार्थोपसंहाराय व्याख्येयोपक्षेपाय चायं श्लोकः ।
सत्तास्वरूपकरणार्थविधेयदृग्भि -
र्लेशोदिताभिरिति ये विदुरीशतत्वम् ।
ते मोचयन्ति भविनो भवपङ्कमग्ना -
न्नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥ १८ ॥
अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । कर्तारमस्य जानीम
इत्यादिना तावदीश्वरस्य सत्ता साधिता । नित्यं कालानवच्छेदाद्वैतत्यान्न
प्रदेशगम् । क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् इति !
तत्स्वरूपमुक्तम् । करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः इत्यनेन
करणं कथितम् । विनियोगफलं मुक्तिः भुक्तिरप्यनुषङ्गतः इत्यमुनार्थं
प्रयोजनमुपवर्णितम् । जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः ।
कृत्यमित्यनेन पञ्चविधं विधेयमुक्तम् । दृक् चास्य ज्ञानम् नाध्यक्षं
नापि तल्लैङ्गम् इत्यादिना
निर्णीतमित्येताभिस्सत्तास्वरूपकरणार्थविध्येयदृग्भिस्सङ्क्षेपेणोक्ताभिरी"
सतत्वं ये विदुर्जानन्ति ते पुरुषास्संसारकर्दममग्नान् संसारिणो
मोचयन्ति । नतु विस्तरेण पशुरूपं पाशरूपं वा ईश्वरं ये विदुः । यथा
आत्मैवेदं सर्वं पुरुष एवेदं सर्वम् एवंविधपुरुषरूपेश्वरवादिनः
कर्मकालाव्यक्तादिपाशरूपेश्वरवादिनो वा । पशूनां च तत्पाशन एव
चरितार्थत्वात् तत्तत्संयोगवोयोगादौ निगलादिवत् परापेक्षत्वे सति
अनीश्वरत्वात् तथाविधेश्वरावबोधात् पाशमोचनं सकललोकोपहासावहं
यतः । पशुशब्दश्चात्र
समनन्त्ररप्रकरणोपक्रम्यमाणात्मतत्वोपक्षेपायोपहृतः ॥ १८ ॥
इति भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ पञ्चकृत्यप्रकरणं प्रञ्चमं समाप्तम् ।
दीपिका ।
एवं स्थितस्य च महेश्वरस्य परिज्ञानं निष्प्रयोजनमित्यत आह
इत्येताभिरित्यादि अत एव आचार्येण ज्ञानिना भवितव्यमित्युक्तं
यदुक्तमाचार्यैः दीक्षाव्याख्यात्योः कर्तुराचार्यस्य ज्ञानं प्रधानमिति
। एतच्च प्रयोजनं दर्शनान्तरसिद्धेश्वरज्ञानिनां न सम्भवतीत्याह नतु
विस्तरेणेत्यादि तेषां
पशुपाशरूपत्वेनावान्तरपूर्वकत्वात्तत्ज्ञानादेतत्प्रयोजनं न
सम्भवत्येव । तथाहि प्रकृतिरेव परब्रह्मवाच्यः नारायणो वा
कैश्चिदध्यात्मविद्भिः पाञ्चरात्रैश्चेष्यते । तस्योपादानकारणत्वात्
तन्त्वादिपटप्रकृतेरिव अवश्यं धात्रन्तरेण भवितव्यम् । यो हि
हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । इत्यादिश्रुत्यर्थतया
हिरण्यगर्भाख्यस्तस्याः प्रकृतेर्विकारोऽध्यात्मविद्भेदैरीश्वरः प्रोक्तः ।
पाञ्चरात्रिकभेदैर्वा चातुरात्म्यलक्षणः । यदुक्तम् ईशास्तु ते दमभवन्
प्रक्टेः परस्या कृष्णानिरुद्धमकरध्वजरौहिणेयाः । इति
तस्याप्युत्पत्त्यपवर्गयोगित्वात् ब्रह्मेन्द्रादेरिव धात्रन्तरेण भवितव्यम् ।
यश्चापि बुद्धिसंयोगादीश्वरः पातञ्जलैरुक्तः । मनस्संयोगाच्च
नैयायिकवैशेषिकैरिष्टः तस्यापीश्वरत्वोपायभूतोऽसौ
संयोगस्संयोगत्वादेव घटपटादिसंयोगवदनित्योऽव्यापकश्चेति न
सर्वत्र सर्वदा चेश्वरत्वम् । अतो भुवनेश्वराणामपि धात्रन्तरेण
भवितव्यम् । यश्चैवं सर्वेषामेव धाता स
एवास्माभिर्महेश्वरत्वेनाभ्युपगतः । तस्यैव धातृपूर्वकत्वासिद्धेः ।
ननु दर्शनान्तरसिद्धानामीश्वराणां लोकवेदसिद्धत्वात् कथं
महेश्वरत्वं प्रतिक्षिप्यत इति चेत्तन्न वेदादिशास्त्रतो लोकप्रसिद्ध्या चास्यैव
महेश्वरत्वप्रदर्शनात् । तथा च श्रुतिः एक एव रुद्रो न द्वितीयायतस्थे इति ।
अत्रावधारणेन द्वितीयनिषेधेन च रुद्रस्यैव महेश्वरत्वं ख्याप्यते ।
रुद्रेष्वपि महेश्वराय शितिकण्ठाय साम्बकाय नम इति । पुराणेष्वपि
नौषधीभिर्महेशानो मन्त्रैर्न नरसाधनैः । प्राप्यते कुशलं तादृक् ऋते
त्वन्नामकीर्तनात् । इति । भारतादावपि वासुदेवार्चनकृतेषु
स्वप्नशतरुद्रीयादिस्तोत्रेषु तस्यैव महेश्वरत्वेन प्रसिद्धिः । अत एव
भगवद्गीतासु दशमेध्याये यो मामजमानादिं च वेत्ति लोकमहेश्वरम् ।
इत्यात्मनो नारायणभट्टारकः परिमितमेव भूरादिसप्तलोकविषय
महेश्वरत्वमाह । नतु सर्वतत्वभुवनादिविषयमिति । कथं तर्हि भारते न
देवः केशवात्पर इत्युक्तम् । अत एव भौतिकसर्गविषयात्
विशाचादिपितामहन्तादष्टविधात् देवयोनिवर्गादसौ परः प्रोक्तः । न तु
महेश्वरादिति को विरोधः । यदुक्तम् अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा
भवति । मानुष्यश्चैकविधस्समासतो भौतिकस्सर्गः इति । एवमेव च ब्रह्म च
ब्राह्मणश्चे त्यादावप्यवसेयम् । यदुक्तम् अग्निर्वै देवानामवमो विष्णुः
परम इति लोकेऽपि ब्रह्मविष्ण्वादीनां चक्रस्वामिमधुरास्वामीति पदैः
स्वामित्वेन प्रसिद्धिः । भगवत एव प्रयागादिस्वयम्भूक्षेत्रेषु
महेश्वरस्थानेषु भीमेश्वरभूतेश्वरादिभिः पदैः
प्रतिष्ठास्थानेष्वपि १ब्रह्मेश्वरसोमेश्वररामेश्वरादिभिः । अतश्च यद्यपि
स्वामिन्यैश्वर्य इति पठ्यते तथाऽपि अनुदेवतत्स्वाम्यं
पदप्राप्तबालादावभिधानादिकेऽस्य दृश्यते । अन्यच्चेश्वरत्वं
प्रभुरूपं यत्प्रचण्डतरनृपत्यादौ सिद्धमिति । लोकप्रसिद्ध्यापि स एव
महेश्वरस्सिद्धः । उक्तं च श्रीमत्पराख्ये ईश्वरो रूढितोगम्य इति ।
नचाप्रमाणं प्रसिद्धम् । यदाहुः द्रव्यजातिक्रियाशब्दो
गुणजातिस्तथापरः । यौगिको योगरूढश्च प्रसिद्ध्यैव व्यवस्थितः ।
सूर्योगौश्चलनं शुक्लः पङ्कजः पङ्कजोः यथा ।
तत्तदर्थाभिधायित्वाच्छब्दः प्रोक्तस्तु तद्विधः इति । ननूक्तं
प्रसिद्धिर्वटयक्षवत् अप्रमाणमिति जैमिनीयभेदाः । तदप्ययुक्तम् । यतः
प्रसिद्धिनिबन्धनो हि सर्वः पदपदार्थसम्बन्ध इत्युक्तम् ।
तस्याश्चाप्रमाण्ये वेदार्थस्याप्यप्रतिष्ठेति सर्वमसमञ्जसमिति शास्त्रतो
लोकत्स्स एव महेश्वर इति सिद्धः । उक्तं चास्माभिः पाषण्डापजये
श्रुतिभिस्स्मृतिभिः पुराणवाक्यैर्मुनिमुख्यैरपरैश्च घुष्यमाणाम् ।
प्रभुतामवतार्य चन्द्रमौलेः कथमेवं मनुजाः पुनर्विमूढाः । इति ॥
१८ ॥
इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायाम्
अनुग्रहादिविचारप्रकरणं पञ्चमम् ॥
१। पदैरीश्वरत्वेन प्रसिद्धिरित्यर्थः ।