अथ चतुर्थं पतिस्वरूपनिरूपणं प्रकरणम् ।
वृत्तिः ।
तदेवमन्वयव्यतिरेकाभ्यां पतिपदार्थं प्रसाध्य
तत्स्वरूपनिरूपणाय मूलसूत्रोपक्रान्तं सर्वकृत्पदं
तावत्प्रपञ्चयितुं पटलान्तरमारभते । अस्य
चानन्तरपटलसूचितकृत्यनिरूपणार्थत्वात्
विद्यापादाख्यप्रकरणानुषङ्गाच्च पाटलिकप्राकरणिकौ सम्बन्धौ
ज्ञेयौ । पदार्थादिसम्बन्धास्तु प्राग्वदनुसन्धेयाः ।
स इत्थंविग्रहोऽनेन
करणेनाहतौजसा ।
करोति सर्वदा कृत्यं
यदा यदुपपद्यते ॥ १ ॥
इत्थम् इत्यनेनोक्तप्रकारेण मन्त्रात्मको विग्रहो यस्य स
भगवानित्थंविग्रहः । अनेनेति करणं च न शक्त्यन्यदिति प्रागुक्तेन
शक्त्यात्मनाऽप्रतिहतसामर्थ्येन करणेन स्थित्यादिकार्यजातं सार्वकालं
सर्वं निर्वर्तयति । न परं युगपत्करोति । यावद्यदा यदुपपद्यते तत्तदा
करोति क्रमेणापि सर्वकार्याणि करोतीत्यर्थः । तदुक्तं प्राक्
क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् । इति ॥ १ ॥
दीपिका ।
अथ चतुर्थं पतिस्वरूपनिरूपणं प्रकरणम् ।
तदेवमित्यादिना स इत्थंविग्रह इत्यादिप्रकरणं सम्बन्धयति ।
पदार्थादिसम्बन्धास्त्वित्यादि तत्र पदार्थसम्बन्धः पतिपदार्थतया ।
सौत्रश्च सर्वकृदिति पदेन । वाक्यात्मकस्तु तद्वपुः पञ्चभिर्मन्त्रै
पञ्चकृत्योपयोगिभिरित्यादिभिरनेकविध । इत्थमित्यादिनेश्वरस्य सामान्यतः
पञ्चविधकृत्यकारित्वमुच्यते इत्याह । इत्थमित्यादि । सर्वं निर्वर्तयतीति
पञ्चविधमित्यर्थ सर्वकार्याणीति सृष्ट्यादीनि ॥ १ ॥
वृत्तिः
अथ प्रथमतः परमेश्वरः किङ्करोतीत्याह ।
तत्रादौ केवलाणूनां
योग्यानां कुरुतेष्टकम् ।
वामादिशक्तिभिर्युक्तं
सप्तकोटिपरिच्छदम् ॥ २ ॥
तत्रेति एवं स्थिते सतीत्यर्थः । एकस्या एव शक्तेः
वामादिकृत्यवशाद्वामादिभेदभिन्नत्वमित्युक्तम् । सा च
शक्तिस्सर्वज्ञानक्रियारूपा शिववत्सर्वाणूनां विद्यत एव । तेषां
चानाद्यविद्यावरुद्धत्वाच्छिवानुग्रहं विना न तत्समानाभवन्तीति
प्रक्षीणकार्ममायीयबन्धानां
विज्ञानकेवलानामञ्जनपरिपाकाद्यनुसारेण तत्पदयोग्यानामष्टकं
मन्त्रकोटिसप्तकपरिवारं वामादिशक्तिनवकयुक्तं च करोति ॥ २ ॥
दीपिका ।
तत्र सृष्टिक्रमं दर्शयितुं तत्रेत्यादिसूत्रमवतारयति । अथेत्यादि
एकस्या एवेत्यादि यदुक्तं प्राक् - विषयानियमादेकं बोधे कृत्ये च तत्तथा इति
। श्रीमत्पराख्येऽपि तद्भेदः कृत्यभेदेन न भेदः परमार्थतः
इत्युपक्रम्य वामा ज्येष्ठा च रौद्री च काली कलविकरिणी परा । बलविकरिणी
बलप्रमथिनीदमनी च मनोन्मनी । वामयत्युद्गिरत्याशु यया सर्गे त्रिधा
स्थितम् । साऽस्मिन् वामा समुद्दिष्टा इत्यादि । सा चेत्यादि तदुक्तं प्राक् -
चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा इति । केवलाणूनामिति
व्याचष्टे प्रक्षीणेत्यादि अत एवाऽऽगमसिद्धत्वाद्विज्ञानकेवलिनो न
प्रतिक्षेप्याः । युक्तिसिद्धत्वाञ्च । पशवः १कर्ममायात्मकबन्धातीता अपि
केवलमयुक्तास्सम्भवन्ति । तद्व्यतिरिक्तस्य मलस्य च बन्धत्वेनाभ्युपगमात् ।
यो यद्बन्धव्यतिरिक्तो येषां बन्धस्तदभावेऽपि तेषां बन्धस्सिद्धः ।
निगलादिवदिति । नन्वियं सर्वज्ञत्वाभिव्यक्तिरनुग्रहविशेष एव । यद्वक्ष्यति
यान् विमोचयति स्वापे शिवास्सद्यो भवन्ति ते । संहृतौ वा
समुद्भूतावणवः पतयोऽथवेति । श्रीमन्मतङ्गेऽपि
मोक्षस्सप्तप्रकारोऽयम् इति । सत्यम् । अत एव शुद्धाध्वोत्पादनपूर्वं
विद्येश्वरादीनां तदुपादानशरीराद्युत्पादनमेवाऽत्र सर्गत्वेनोच्यते न
सर्वज्ञत्वाद्यभिव्यक्तिमात्रम् । एतदेवाह मन्त्रकोटिसप्तकपरिवारमिति
१। मायात्मिका बन्धिता इति पाठभेदः ।
अमूर्तानामात्मनां व्यापकत्वेन परस्परं परिवृतत्वासम्भवात्तेषां
वास्तवश्शरीरयोग इति । अत एवाऽऽगमसिद्धस्य विद्येश्वरादीनां शरीरस्य
निराकरणायाऽत्र यः केनचित्प्रयोगः कृतः । १विद्याविद्येश्वरा अपि न
वास्तवशरीरयोगिनः । असर्वज्ञत्वप्रसङ्गात् । देवदत्तादियदिति । स
२मायागर्भाधिकारिभिरनेकान्तिकः । तेषां श्रीकण्ठादीनां
सशरीरत्वेऽपि सर्वज्ञत्वस्योक्तत्वात् । यदुक्तं प्राक् -
मन्त्रेश्वराणामूर्ध्वाध्वस्थितेशोपमतेजसाम् । इति ।
योगिभिश्चानेकान्तिकः । योगिनां च सशरीराणामेव सर्वज्ञत्वं श्रूयते
यतः । असिद्धश्चायं हेतुः सशरीरत्वादिति । तथाविधशरीरस्य
तत्रासम्भवात् । यदुक्तं किरणे -
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् इति ।
वामादिशक्तिनवकयुक्तम् इति
वामादिशक्तियोगात्पञ्चविधकृत्यकरणक्षममित्यर्थः । अत एव
विद्येश्वराणां पञ्चविधकृत्यकारित्वं मन्त्राणामनुग्रहकरणत्वमिति
भेदः ॥ २ ॥
वृत्तिः ।
अथैतेषामपि सप्तकोटिसङ्ख्यातानां मन्त्राणामनन्तेशादय
एवाष्टावीशितार इति वक्तुमारभते ॥
तेषामनन्तस्सूक्ष्मश्च
तथाचैव शिवोत्तमः ।
एकनेत्रैकरुद्रौ च
त्रिमूर्तिश्चामितद्युतिः ॥ ३ ॥
१। अत्र अनुमानप्रयोगस्त्वीदृशः । विद्याविद्येश्वराः
वास्तवशरीरयोगाभाववन्तः । सर्वज्ञत्वात् । शरीरवति देवदत्ते
सर्वज्ञत्वाभावस्य विद्यमानत्वात् व्यतिरेकष्टान्तोऽयं देवदत्तः ॥
२। भिर्नानैकान्तिक इति पाठभेदः ।
श्रीकण्ठश्च शिखण्डी च
राजराजेश्वरेश्वराः ।
ईषदप्राप्तयोगित्वात्
नियोज्याः परमेष्ठिनः ॥ ४ ॥
राजानो लोकेशा इन्द्रादयः तेषां राजानश्शतरुद्राः
तदीश्वराणां मण्डलिप्रभृतीनामप्येते ईश्वराः प्रभवः ।
१विद्यामहेश्वरा इति यावत् । एते च ईषदप्राप्तयोगित्वादिति
अधिकारमलांशावशेषात्किञ्चिदनवाप्तपरमेश्वरसाम्या इत्यस्य एते
प्रेर्याः ॥ ३ - ४ ॥
दीपिका ।
एतदेव प्रकटयितुम् उत्तरसूत्रे तेषामिति पदम् ईश्वरपदाध्याहारेण
व्याख्येयमित्याशङ्कापरिहारमवतारिकाव्याजेनाह अथैतेषामपीत्यादि न
परमेते मन्त्रेश्वराणां महेश्वराः यावन्मण्डल्यादीनामपीत्याह
राजान इत्यादि ननु पञ्चविधकृत्यकारित्वात्किमेते शिवसमाः । नेत्याह । एते
चेति ॥ ३- ४ ॥
वृत्तिः
अथैषामष्टानामपि सर्वज्ञत्वसर्वकर्तृत्वसम्भवात्
किंस्विदभिन्नरूपत्वमुत कश्चिद्विशेष इत्याह ।
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
१। विद्येश्वरा महेश्वर इति पाठः ।
परस्परं विशिष्यन्ते
मन्त्राश्चैवमधस्स्थिताः ॥ ५ ॥
यद्यपि सर्वे सर्वार्थदृक्क्रियाः तथाप्येकैकस्य स्वस्वाधोवर्तिनो
नियोज्या इति प्रेर्यतालक्षणमलांशावशेषादधोऽवस्थितानामेषा-
मूर्ध्वस्थमपेक्ष्य कलया कर्तृत्वस्य न्यूनत्वमिति परस्परविशेषः ।
तदुक्तम् -
योहि यस्माद्गुणोत्कृष्टस्सतस्मादूर्ध्वमिष्यते इति ।
न केवलमेत एव विशिष्यन्ते यावत्तदधोवर्तिनो मन्त्रा अप्येवमेव
परस्परविशेषभाजः ॥ ५ ॥
दीपिका ।
कलया कर्तृत्वस्य न्यूनत्वमिति । सर्वज्ञत्वं तु तेषां समानमिति
भावः । तदधोवर्तिन इति । विद्येश्वरसृष्ट्यनन्तरं मन्त्रसृष्टिरिति भावः ॥ ५
॥
वृत्तिः ।
तानेव मन्त्रान् विशिनष्टि ।
ते च मन्त्रेश्वरव्यक्त -
शिवशक्तिप्रचोदिताः ।
कुर्वन्त्यनुग्रहं पुंसां
यदा येषां स युज्यते ॥ ६ ॥
ते च मन्त्राः परापरमन्त्रेश्वरव्यक्तया शिवशक्त्या व्यापारिताः
योग्यतानुरूपेण कदाचित्केषाञ्चिदनुग्रहं कुर्वन्ति । न तु योग्यतानपेक्षम् ।
अतिप्रसङ्गात् ॥ ६ ॥
दीपिका ।
केषाञ्चिदित्यादि अनुग्रहं प्रति करणत्वं प्रयान्तीत्यर्थः ॥ ६ ॥
वृत्तिः ।
प्रयोक्तृदेहसापेक्षं
तदर्धमखिलेऽध्वनि ।
कृत्वाधिकारं स्थित्यन्ते
शिवं विशति सेश्वरम् ॥ ७ ॥
विनाधिकरणे नान्यत्
प्रधान विकृते रधः ।
कृत्वाधिकारमीशेष्ट
मपैति स्वाध्वसंहृतौ ॥ ८ ॥
तेषां सप्तकोटिसङ्ख्यातानां मन्त्राणामर्धं
प्रयोक्तॄणामनुग्रहकर्तॄणां देहं
शरीरमाश्रयत्वेनापेक्षमाणमीशमपेक्षत इति ।
तत्सापेक्षमाचार्याधिकरणेश्वरापेक्षम् । अखिले मायीयेऽध्वनि
स्वमधिकारमनुग्राह्यानुग्रहलक्षणं निर्वर्त्य स्थितिकालस्यान्ते
मायेयस्याध्वनोप्युपरमसमये सेश्वरमिति मन्त्रेश्वरैस्सहितं
शिवसायुज्यं गच्छति । अथ प्रथमस्यार्धस्य का वार्तेत्याह
विनाधिकरणेनेति अन्यत् अपरमर्धम् । ईशेष्टमिति यत्र यत्र
परमेश्वरस्यानुग्रहेछा तत्र तत्र तदिछयैव विनाधि करणेनेति
आचार्यलक्षणमधिकरणमनपेक्ष्यैव । प्रधाना चासौ विकृतिश्चेति
प्रधानविकृतिः शुद्धविद्या । अस्या अधः सर्वत्र मायीये चाध्वनि
समधिकारं कृत्वा स्वस्वाध्वनोऽनुग्रहमार्गस्य संहृतौ समाप्तौ अपैति
अपवृज्यते । तदुक्तं तत्रभवद्भिस्सद्योज्योतिपादैः । १जगति कृते तत्रार्धं
मन्त्राणां शिवसमाहृतान् पुंसः । अनुगृह्य याति हि विना देशिकमूर्तिं
प्रयुक्तमीशेन इति ॥ ८ ॥
दीपिका ।
एतदेव प्रपञ्चयितुमुत्तरसूत्रद्वयं व्याचष्टे । तेषामित्यादि
अयमर्थः । तेषां सप्तकोटिसङ्ख्यातानां मन्त्राणां मध्ये ये
परिणतमलाः सार्धकोटित्रयसङ्ख्याताः ते सृष्टिकालावसाने
स्वकारणानन्तानुज्ञयैव विमुक्ता भवन्ति । इतरे तु महाप्रलय इति । यथोक्तं
मतङ्गे -
२ततस्स्वाचारवर्तिन्यो भर्तुराज्ञानुपालिकाः ।
स्थितास्त्वर्धेन सेनाया गताश्शिष्टाः परस्परम् ॥ सम्प्रधार्येति ॥ ८ ॥
वृत्तिः ।
इत्थं मन्त्रानुक्त्वा मन्त्रेश्वरान् वक्तुमाह ।
१। अष्टप्रकरणातर्गत तत्वसग्रहस्थः ३३ - तमश्लोकः ।
२। विद्यातत्वपटलस्यः १४ - तमश्लोकः ।
ततोऽनन्ताद्यभिव्यक्तः
पतीना ग्रन्थितत्वतः ।
कलाद्यारब्धदेहाना
करोत्यष्टादशं शतम् ॥ ९ ॥
तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते
इत्यन्तर्विश्रान्ताणुसङ्घातं मायातत्वं वक्ष्यमाणं
तस्माद्ग्रन्थितत्वतः तद्गर्भाधिकारिणां कलाद्यारब्धशरीराणां
१मण्डल्यादीनां पतीनामष्टादशाधिकं शतमनन्ताद्यभिव्यक्तः
परमेश्वरः करोति कलाद्यारब्धदेहत्वमेषां करोतीत्यर्थः । ननु च
अष्टादशाधिकं चान्यच्छतं मायाधिकारिणाम् ।
विद्येश्वराणामित्यादिना साक्षात्परमेश्वरानुगृहीतत्वमेषामुक्तम् । इह
त्वनन्ताद्यभिव्यक्तस्य भगवतः तत्कारणत्वमुच्यत इति विरोधः । नैवम् ।
यतोऽनन्तादीनामेव कलादियोगकरणे कर्तृत्वम् । न तु परमेश्वरस्य ।
शुद्धेध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः इति श्रुतेः । स तु
कलादियोगिनो भोगभुजस्तान् साक्षादनुगृह्णातीति न कश्चिद्दोषः ॥ ९ ॥
दीपिका ।
इत्थं शुद्धाध्वविषयां
साक्षाच्छिवसृष्टिमुक्त्वाऽनन्तादिद्वारामशुद्धाध्वविषयां तत्सृष्टिं
वक्तुं तत इत्यादिसूत्रमवतारयति । इत्थमित्यादि तस्माद्ग्रन्थितत्वत इत्यादि
वक्ष्यमाणनयेन मलपरिपाकतारतम्यवशात् प्रलयाकलेषु मध्ये येषां
परममन्त्रेश्वरपदाधिकारः तेषामनन्ताधिष्ठानेन तत्सृष्टिपुरस्सरं
कलादिशरीरयोगं करोतीति । यतोऽनन्तादीनामिति परमेश्वरात्साक्षात्तेषां
सर्वज्ञत्वाद्यभिव्यक्तिः कलादिशरीरयोगित्वं तु अनन्ताधिष्ठानेमेत्यर्थः ।
स तु कलादियोगिन इत्यादि ननु
सकलत्वाद्भोक्तृत्वाच्चैषामस्मदादिसादृश्यप्रसङ्गः । तन्न
अधिकारनिबन्धनयोश्शरीरभोगयोरावश्यकत्वात् । परमेश्वरेण
प्रकटीकृतदृक्क्रियत्वाच । यदुक्तम् । कलायोगेऽपि नो वश्याः कलानां
पशुसङ्घवत् इति ॥ ९ ॥
१। कलामस्तकस्या मण्डलिनोष्टौ । गुणतत्वस्थश्श्रीकण्ठ एकः । कोधादयो
गुणमस्तकस्थाः ब्रह्माण्डाधारका रुद्राश्शतम् । शतरुद्राधिष्ठाता
वीरभद्र एकः । आहत्य अष्टादशाधिकशतं भवति ।
वृत्तिः ।
तेऽप्यन्येषां विनियोक्तार इत्याह ।
तानप्याविश्य भगवान्
साञ्जनान् भुवनाधिपान् ।
येभ्यस्सर्वमिदं येषां
शक्तिः कर्मनिबन्धना ॥ १० ॥
तानपि मण्डलिप्रभृतीनष्टावधिष्ठाय परमेश्वरोन्यानपि
ब्रह्मप्रभृतीन् समलान् भुवनेशान् उत्तेजितदृक्क्रियाशक्तीन् करोतीति
पूर्वेणैव सम्बन्धः । किंविधानित्याह येभ्यस्सर्वमिदमिति
येभ्यस्सर्वमिदं जगत् स्थावरजङ्गमलक्षणमाविर्भवतीति शेषः ।
येषां शक्तिः कर्मनिबन्धनेति कार्मः पाशो येषामुपरोधकत्वात् न
निवृत्तः सकलानामेवैषां परमेश्वरादनुग्रहो यतः ॥ १० ॥
१। अष्टप्रकरणे मोक्षकारिकायां ८३ - तमः ।
दीपिका ।
ब्रह्मप्रभृतीन् समलानिति यदुक्तम् अन्ये प्राधानिका मन्त्रा
ब्रह्मविष्ण्वादयः पराः । साञ्जनास्तेऽण्डमध्यस्था इत्यादि ।
उत्तेजितदृक्क्रियाशङ्क्तीनिति स्वस्वाध्वपर्यन्त एव । एतदेवोत्तरार्धेन प्रोच्यत
इत्याशङ्कापूर्वकं व्याचष्टे किंविधानित्यादि ।
स्थावरजङ्गमलक्षणमिति चतुर्दशविधभूतसर्गात्मकमित्यर्थः ।
यदाहुस्साङ्ख्याः । अष्टविकल्पो दैवस्तिर्ययोनिश्च पञ्चधा भवति ।
मानुष्यश्चैकविधस्समासतो भौतिकस्सर्गः । इति । कर्मपारतन्त्र्याच्च
स्वाध्वावधिकमेव तेषामैश्वर्यमित्याह कार्मः पाश इत्यादि ॥ १० ॥
वृत्तिः
न प्रमेतानेव करोति । किन्तु ।
प्रणेतॄन् पशुशास्त्राणा
पशूंस्तदनुवर्तकान्
स्वसाध्यकारकोपेतान्
कालाधामावधिस्थितान् ॥ ११ ॥
पशुशास्त्राणामार्हतसाङ्ख्यपाञ्चरात्रादीनां प्रणेतॄनर्हन्
कपिलप्रभृतीन् १तदधिष्ठातॄंश्च पशून् स्वधाध्येन
तत्तच्छास्त्रोपदिष्टेन फलेन तत्साधनहेतुभिः कारकैश्च युक्तान्
कालाग्निभुवनान्तं यावत्करोतीति पूर्वेणैव सम्बन्ध ॥ ११ ॥
१। ते अधिष्ठतारः येषामित्यर्थः ।
कालाग्निभुवनान्तं यावत्करोतीति परम्परया ईश्वर एव विश्वं सृजतीसि ॥ ११
॥
वृत्तिः ।
अथैतान् सृष्ट्वा देवः किङ्करोतीत्याह ।
स्थितौ सकारकानेतान्
समाक्रम्य स्वतेजसा ।
युनक्ति स्वार्थसिद्ध्यर्थं
भूतैरनभिलक्षितः ॥ १२ ॥
एतान् कारकैर्भोगसाधनैस्तत्वभावभुवनादिभिर्युक्तान् स्वतेजसा
निजेच्छाशक्त्या सम्यगधिष्ठाय स्वार्थसिद्ध्यर्थमिति स्वस्य आत्मीयस्य
व्यापारस्य सम्पत्तये । यद्वा स्वैरात्मभिरर्थ्यत इत्यर्थः
भोगापवर्गलक्षणः पुरुषार्थः तस्य निष्पत्त्यर्थं नियोजयति । न तु
उन्मत्तवत् । नाप्यप्रयोजनम् । प्रयोजनानुद्देशेन मन्दस्याप्यप्रवृत्तेः । न च
क्रीडार्थम् । रागादिविरहिणस्तदसम्भवात् । नाप्यात्मनिमित्तम् ।
परिपूर्णत्वात् । भूतैः प्राणिभिरविद्यावशादविदिततत्क्रियः ॥ १२ ॥
इत्थं सृष्टिमुक्त्वा स्थितिं वक्तुं स्थितौ
सकारकानित्यादिसूत्रमवतारयति । अथेत्यादि एतानिति । भोक्तृनात्मनः ।
स्वार्थसिद्ध्यर्थमिति पदं तत्वादिविषयतया व्याचष्टे स्वस्येति अचेतनानां
चेतनानधिष्ठितानां न प्रवृत्तिरित्युक्तम् । भोक्तृविषयतया चान्यथा
व्याचष्टे यद्वेत्यादि भोगोऽपि पुरुषार्थं न स्वतः प्रवर्तते । अमूर्तत्वात्
द्रव्यवदित्यर्थः । पुरुषश्चास्वतन्त्रत्वान्न स्वयं भोगार्थं प्रवर्तत
इत्युक्तम् । न तु स्वस्य सर्गादिव्यापारस्य प्रयोजनस्य वा सम्पत्यर्थमिति
व्याख्येयमित्याह साप्यात्मनिमित्तमित्यादि ॥ १२ ॥
वृत्तिः ।
तदियता सृष्टिस्थिती उक्त्वा संहारं वक्तुमाह -
भोगसाधनमाक्षिप्य
कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य
विश्रमायावतिष्ठते ॥ १३ ॥
भविनां भवखिन्नानाम् ।
सर्वभूतहितो यतः ॥ १३� ॥
स्थित्यन्ते भोगसाधनं तनुकरणभुवनाद्युपसंहृत्य कारणे
मायाख्ये लीनं कृत्वा तच्च मायाख्यं
कारणमन्तर्निहितात्मव्रातमधिष्ठाय संसारिणां
भवाध्वभ्रमणश्रान्तानां विश्रमार्थम् अवतिष्ठते ।
निरुद्धव्यापारांस्तान् करोतीत्यर्थः । कुत इत्याह सर्वभूतहितो यतः इति
यस्मात्सर्वेषां भूतानां हिताय प्रवृत्तः परमेश्वरः खेदापनोदाय
विश्रान्तिं स्वापलक्षणामेषां करोति ॥ १३� ॥
दीपिका ।
भोगसाधनमित्यादिना संहारः प्रोच्यत इत्याह तदियतेत्यादि ॥ १३� ॥
वृत्तिः ।
ततस्तु ।
स्वापावसानमासाद्य
पुनः प्राग्वत्प्रवर्तते ॥ १४ ॥
वक्ष्यमाणकालपरिमाणस्य स्वापस्यान्ते भूयः पूर्ववदहर्मुखे
परमेश्वरश्चेष्टते ॥ १४ ॥
वृत्तिः ॥
तत्स्वापेऽपि क्रियादिशक्तयतत्तत्कार्यनिष्पादनोद्युक्ता भवन्तीत्याह ॥
स्वापेऽप्यास्ते बोधयन् बोधयोग्यान्
रोध्यान् रुन्धन् पाचयन् कर्मिकर्म ।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्
पश्यन् सर्वं यद्यथा वस्तुजातम् ॥ १५ ॥
जाग्रदवस्थायामिव स्वापावस्थायामपि मलपरिपाक तारतम्यापेक्षया
प्रबोधनार्हान् प्रबोधयन् रोधनार्हान् रोधशक्त्या निरुन्धन् कर्मिणां
कर्माणि पाचयन् परिणामयन् मायाशक्तीश्च प्रसवाभिमुखीः कुर्वन्
सर्वं चिदचित्तत्वभावभूतभुवनात्मकं यथावदवलोकयन्नास्ते ।
यद्यथेति न त्वस्मदादिवदयथावस्थितवस्तुस्वभावोप्यस्य भवतीति
वक्ष्यामः । तदियता जगत्सृष्टिस्थितिध्वंसलक्षणं कृत्यत्रयमिहोक्तमिति
प्रकरणोपसंहारः ।
इति भट्टविद्याकण्ठात्मजश्रीभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ तुरीयं प्रकरणम् ।
दीपिका ।
नन्वात्मव्रातवत्स्वापे काले परमेश्वरोऽपि निर्व्यापार
एवेत्येतत्परिहारार्थं स्वापेप्यास्ते इत्यादिसूत्रमित्याह । तत्स्वापेपीत्यादि
कथं पुनरीश्वरस्य लयभोगाधिकारभेदः ।
बिन्द्ववस्थाविशेषाधिष्ठानेनोपचारादिति ब्रूमः । यदुक्तम् अधिकारी स
भोगी च लयी स्यादुपचारतः । इति । अत एव निवृत्त्यादिभुवनाधिष्ठानात्
उपचारेणेश्वरस्यैव निवृत्तिमत्वादिव्यवहार इति वक्ष्यति । निवृत्तिरिति तत्स्थानं
तत्रेशोऽपि निवृत्तिमान् इत्यादिनेत्यविरोधः । दीक्षादिन तत्तत्पदप्राप्तानाम्
आत्मनां तु भेदो वास्तव एवेत्युक्तं स्वायम्भुवे यो यत्राभिलषेद्भोगान् स
तत्रैव नियोजितः । सिद्धिभाङ्मन्त्रसामर्थ्यादिति । रोधार्हान् रोधशक्त्या
रुन्धन्निति ननु रोधो नाम तिरोभावः यथोचितभोगादप्रच्यवनमित्युक्तम् ।
संहारावस्थायां च रोधाभाव एव । तत्कथं रोध्यान् रुन्धन्निति । नैष
दोषः । रोधनार्हान् विश्रमणेन रोधयोग्यान् कुर्वन्नित्यत्रार्थः ।
मायाशक्तीश्चेति मायास्थाः कार्यशक्तीरित्यर्थः । अत्रैव
प्रकरणोपसंहारे हेतुमाह तदियतेत्यादि लोकप्रसिद्धं
तावत्सृष्ट्यादिकृत्यत्रयमिहोक्तम् । १शास्त्रासिद्धं तु कृत्यद्वयं
प्रकरणान्तरे प्रदर्श्यत इति भावः ।
इत्यघोरशिवाचार्यविरचितायां मृगेन्द्रवृत्तिदीपिकायां
पतिकृत्यत्रयनिर्णयपकरणं चतुर्थं समाप्तम् ।