पतिलक्षणपरीक्षाप्रकरणम् ।
वृत्तिः ।
तदेवं दर्शनान्तरपरिदृष्टमत्युत्कृष्टं भुक्तिमुक्त्याख्यं
फलं तत्साधनोपायाश्चास्मिन् शास्त्रे प्रतिपाद्यन्त इत्युक्तम् । इदानीं
सर्वेशानानीरित इति प्राक्तनप्रकरणोपसंहारे सर्वेशानशब्देन सूचितं
समर्थयन् ईश्वराख्यपदार्थमुपपादयितुमाह । अत्र प्रकरणान्तरोपक्रमे
पञ्चप्रकारस्सम्बन्धो वाच्यः । तथोचोक्तं श्रीमत्पौष्करे -
अन्तन्तरं यत्पटलात् सूत्रं तन्त्रे प्रवर्तते ।
वक्तव्यस्तस्य सम्बन्धः पञ्चधा समवस्थितः ।
तन्त्रवस्तुत्रयात्सूत्राद्वाक्यात्प्रकरणात्तथा । पटलाच्चेति
तन्त्रवस्तुनः पतिपशुपाशात्मकस्य पदार्थत्रयस्य त्रिपदार्थं चतुष्पाद
मित्यनेनोपक्रमात् साम्प्रतं पतिपरीक्षालक्षणस्सम्बन्धः । सौत्रस्तुं
सर्वकृत्सर्वविच्छिव इत्यनेनोक्तः । वाक्यात्मकस्तु तेन स्वभावसिद्धेन
भवितव्यं जगत्कृतेत्यादिभिर्वाक्यैः । प्राकरणिकोऽपि विद्यापादाख्येन
प्रकरणेन । पाटलिकस्तु पूर्वपटलान्ते सर्वेशानशब्देन सूचितान्वयः ।
अनेनैव क्रमेण विद्यापादान्तं यावत्सम्बन्धपञ्चकमनुसन्धेयम् ।
अथोपलभ्य देहादि
वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमो
विशिष्टमनुमानतः ॥ १ ॥
अथ शब्दोऽधिकारार्थः । अत्र हि पतिपदार्थपरीक्षाऽधिक्रियत
इत्यर्थः । अत्र च तनुकरणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन
घटादिवत्कार्यत्वं बुद्ध्वाऽनुमानेनैषां बुद्धिमत्कर्तृपूर्वकत्वं
प्रतीयत इति तात्पर्यम् । ननु देहस्यैव तावत्कार्यत्वमसिद्धम् । न हि
क्वचित्कदाचिद्देहः केनचित् क्रियमाणो दृष्टः । सत्यम् । केन चित्क्रियमाणत्वं
देहस्य न दृष्टमिति कर्तृदर्शनापह्नवो न युक्तः । तस्यानुमेयत्वेन
दर्शनाविषयत्वात् देहस्य क्रियमाणत्वं कथं न दृष्टम् । अभूत्वा
भावित्वमेव हि कार्यत्वम् । तच्च देहस्योपलभ्यत एव ।
शुक्लशोणितकललाद्युपादानात् दिह उपचय इति धात्वर्थगत्त्या
प्रतिमासोपचीयमानो गर्भस्थो देहः प्रतीयत इति कथमेष कार्यतामतिक्रमेत्
। किञ्च सन्निवेशविशेषवत्वाद्विनश्वरत्वाच्च देहादेः
कार्यत्वमपह्नोतुमशक्यम् । यद्यत्सन्निवेशविशेषवद्विनश्वरं
तत्तत्कार्यम् । यथा घटादि । तथा च एते देहादयः पदार्थाः । तस्मादेतेऽपि
कार्याः एवं च सति देहादिवस्तुजातं धर्मि । बुद्धिमत्कर्तृपूर्वकमिति
साध्यो धर्मः । कार्यत्वात् । यद्यत्कार्यं तत्तद्बुद्धिमत्कर्तृपूर्वकं
दृष्टम् । यथा रथादि । यत्तु नैवंविधं न तत्कार्यम् । यथाऽऽत्मादि । ननु
घुणाक्षरे कार्येऽपि न बुद्धिमत्कर्तृपूर्वकत्वमस्तीत्यनैकान्तिकः
कार्यत्वहेतुः । नैवम् । तत्र कार्यताया एवानन्वयात् । यथेष्टचारमात्र एव
किल घुणस्य कर्तृता न तु विशिष्टसन्निवेशाक्षरनिर्मितौ । स तु सन्निवेशस्तथा
। अन्यथास्य परिसर्पत एष स्वभावत एवोपपद्यते । ननु तद्भावे भावात्
तदभावे चाभावात् घुणकर्तृकमेवाक्षरम् । यद्येवं तत्तथाचारित्वे
भावात् अतथाचारित्वे चाक्षरस्यानभिव्यक्तेरव्यवधानेन घुणाक्षरस्य
बुद्धिमत्कर्तृपूर्वकत्वमस्तीति कुतः कार्यत्वहेतोरनैकान्तिकत्वम् ।
नचायमकृष्टजातैश्शाल्यादिभिर्वनद्रुमादिभिर्वाऽनेकान्त्रिकः । तेषु
कर्त्रभावस्यानिश्चयात् तेषां च पक्षीभृतत्वात् । नन्वसिद्धव्याप्ति-कस्य
पक्षीकरणमात्रेण यदि हेत्वाभासतानिरासः तर्हि न केचन
हेतवोहेत्वाभासाः । भवेद्यद्ययं कार्यत्वहेतुरसिद्धव्याप्तिकस्स्यात् ।
यावता दृष्टान्तीकृतदृष्टकर्तृकघटादिव्यतिरिक्तास्त्रैलोक्योदरवर्ति-
नस्तनुकरणभुवनादयो भावा धर्मिणः कर्तृपूर्वकाः । कार्यत्वात् ।
उपलभ्यमानकर्तृकघटादिवदित्यनुमाने क्रियमाणे किमन्यदवशिष्यते ।
यत्र कार्यत्वस्य व्याप्तिर्न सिद्धा स्यात् । ननु चात्रानुमान एव
घटादिदृष्टान्तो धर्मी स दृष्टकर्तृकत्वात् न १तावत्सिद्ध इष्यते
ईश्वरनिर्वर्त्यः । तस्य तु कुम्भकारादिकार्यत्वेनेशस्याऽसर्वकर्तृकत्वम् ।
अथेश्वरकर्तृकत्वं दृष्टान्तधर्मिणो घटादेरिष्टं तत्साध्यावशिष्टो
दृष्टान्तः । प्रतीतिबाधश्च । नहि घटादिकमर्थं
कुलालाद्यन्वयव्यतिरेकानुविधायिनम् ईश्वरकर्तृकत्वेन कश्चिदप्यवैति ।
विरुद्धश्चायं हेतुः यादृशो हि घटादेः कर्ता कुलालादिः
क्लेशादिभागनीश्वरो विनश्वरश्च तादृक् जगतोऽपि कर्ता प्राप्नोति तदुक्तं
जैमिनीयैः -
कुम्भकाराद्यधिष्ठानं घटादौ यदि चेष्यते ।
नेश्वराधिष्ठितत्वं स्यादस्ति चेत्साध्यहीनता ॥
१। सिषाधयिषित इति पाठभेदः ।
तथा सिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता ।
अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यत इति ।
स्यादेष सर्वदोषावकाशः ।
यद्यस्माभिरसर्वविषयमीश्वराधिष्ठानमभ्युपगम्यते । यावता येऽपि तु
कुम्भादीनां कर्तारः कुलालादयस्तेऽपि
तत्प्रत्यवेक्षणानुगृहीतशक्तयस्तत्तत्कार्यनिर्वर्तनसमर्था भवन्तीति
ब्रूमः । ननु कुत्रैतद्दृष्टं यत्कुलालतन्तुवायादिसद्भावे
भावात्तदभावेचाभावादपि घटादिकार्यजातमीश्वराधिष्ठितमिति । कुत्र
वा न दृष्टं किं न श्रुतं भगवता स्वयमादिष्टं
सर्वजनप्रसिद्धेष्वपि शास्त्रेषूद्घुष्यमाणं भवद्भिः ।
समाविश्य तु भूतानि धारयाम्यहमोजसा ।
पुष्णामिचौषधीस्सर्वास्सोमो भूत्वा रसात्मकः । इति ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरमिति । श्रुतावपि यो
रुद्रोऽग्नौ यो अप्सु य ओषधीषु यो रुद्रोविश्वाभुवना विवेश इति । अत एव
भवदुद्भावितः प्रतीतिविरोधोऽपि निरस्तः ।
अज्ञो जन्तुरनीशोयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥
इत्येवं विधायाः प्रत्युत प्रतीतेस्सिद्धत्वात् -
नचायं विरुद्धो हेतुः विपर्ययव्याप्त्यभावात् । दृष्टान्तधर्मिणि घटादौ
स्वसाध्येन बुद्धिमत्कर्तृपूर्वकत्वेन तद्व्याप्तेस्सिद्धत्वात् ।
बुद्धिमत्कर्तृपूर्वकत्वविरहिणो विपक्षादात्मादेर्व्यावृत्तत्वात् । स विरुद्ध
उच्यते यस्सपक्षनिवृत्तः विपक्षमेव व्याप्नोति । यथा नित्यश्शब्दः
कृतकत्वादिति । बुद्धिमत्कर्तृपूर्वकत्वं च घटस्य
कुम्भकारकार्यत्वात्सिद्धमिति का साध्यभ्रष्टता । न च सर्व एव
दृष्टान्तधर्मास्साध्यधर्मिणि क्वाप्यनुमाने भवन्ति ।
येनानीश्वरविनाश्यादिकर्तृकत्वप्रसङ्गस्स्यात् । तथाहि अनित्यश्शब्दः
कृतकत्वात् घटाअदिवदित्यत्राऽपि शब्दस्य
कुम्भकारकार्यत्वलौहित्यपारिवर्तुल्यादयो घटधर्माः किमिति न भवन्तीति
भवद्भिर्वक्तव्यमिति न किञ्चिदेतत् । नन्वेते कार्यत्वसन्निवेशादिमत्वादयो
हेतवः कार्यस्यानेककर्तृतामपि साधयन्तीति
धर्मिस्वरूपविपरीतसाधनत्वाद्विरुद्धाः । तथाचाह मण्डनः ।
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिद्धसन्निवेशादेरेककारणता कुतः ॥
रथाद्यत्रयत्रा नानातक्षनिर्मापिता अपि ।
दृष्यन्ते जगति प्राय उपकार्योपकारकाः ॥ इति
तदप्ययुक्तम् । रथादीनां कार्याणामनेकतक्षविरचितानामपि
एकस्थपतीच्छानुवर्तनं विना निष्पत्त्यदर्शनात् । तदेवं कार्यत्वहेतुना
जगतो बुद्धिमत्कर्तृपूर्वकत्वसिद्धौ योसौ
तत्तद्वैचित्र्यसम्पादकेच्छाज्ञानक्रियाशक्तियुक्तः कर्ता स
इत्यस्मदादिकार्यविलक्षणक्षित्यादिकार्यविशेषजनककारणविशेषा-वगमो
युक्तः । न चैतदप्रसिद्धम् । यस्माद्वैशिष्ट्यं कार्यवैशिष्ट्यादृष्टं
लोकस्थितांवपि लोकव्यवहारेऽपि विशिष्टकार्यं दृष्ट्वा विशिष्टमेव
कारणमनुमीयते यथा
विचित्रभुवनादिवस्तुचित्रलेपादिकलाकलापस्यामुख्यताममध्यत्व-
मनुपमसौन्दर्यसम्पन्नत्वं च दृष्ट्वा तत्कर्तुरपि
तद्गतवैलक्षण्याद्वैशिष्ट्यमवसीयते ॥ १ ॥
दीपिका ।
अथ ।
पतिलक्षणपरीक्षाप्रकरणप्रारम्भः ।
अथेत्यादिपटलमवतारयति तदेवमित्यादि
१प्रासङ्गिकशास्त्रोक्तविषयशिवप्रश्नप्रतिवचनावसाने पूर्वोदितेषु
पतिपशुपाशेषु पतिपदार्थस्तावत्परीक्ष्यत इति । ननु किमस्य
पञ्चविधस्रम्बन्धकथनस्य प्रयोजनम् । उच्यते । पटलानां
परमेश्वरप्रणीतत्वेन प्रामाण्यप्रदर्शनार्थम् । सम्बन्धविरहिणां तु
पटलानां न पारमेश्वरत्वमिति । अनुमानद्वयमनेन सूत्रेण सङ्गृह्यते
इत्याह अत्र चेत्यादि देहस्य तावदनित्यत्वेऽपि केनचित्क्रियमाणत्वं नोपलभ्यत
इति चोदयति नन्वित्यादि परिहरति सत्यमित्यादि ननु न कदाचिदनीदृशं जगदिति
न्यायाद्भुवनादीनां कार्यत्वमेव तावदसिद्धम् अभूत्वा
१। शास्त्रोत्कर्षविषयप्रतिवचनेति पाठभेदः
भावित्वं च तेषां न दृश्यते यतः । तन्न । जीर्णमठकूपादिभिरनेकान्तात्
। तेषामपि क्रियमाणत्वं न दृश्यते यतः । अनुमाननिराकृतश्चायं पक्ष
इत्याह किञ्चेत्यादि ननु न कदाचिदनीदृशं जगदित्युक्तत्वात् असिद्धं
विनश्वरत्वम् । तन्न । कोटिशो मरणं दृष्ट्वा इत्यादिना भुवनानां
विनश्वरत्वस्य वक्ष्यमाणत्वात् । यद्येवं करणानां
शक्तिरूपतयैवाभ्युपगमात् असिद्धं सन्निवेशवत्वमिति कथं
कार्यत्वोपलम्भः । तेषां करणत्वाच्छस्त्रादिवत् कार्यत्वमिति ब्रूमः ।
एवं चेदादिशब्दोपात्तानां परमाणूनां कथं कार्यत्वं
पांस्वादिवन्मूर्तत्वादिति ब्रूमः । किञ्च तेषामचैतन्ये सत्यनेकत्वात्
कार्यत्वमिति वक्ष्यति -
यदनेकमचित्तत्तु दृष्टमुत्पत्तिधर्मकम् इति । श्रीमत्पराख्येप्युक्तम् -
अचेतनमनेकं यदवश्यं कारणं नयेदिति । इत्थमनुमानत्रयेण
एतेषां कार्यत्वोपलम्भः । तद्यथा - यद्यन्मूर्तं तत्तत्कार्यम् यथा
पांस्वादि । यत्र तु कार्यत्वं न भवति तत्र मूर्तत्वमपि नास्ति ।
यथाऽऽत्मादि । मूर्ताश्च उभयवादिसिद्धाः परमाणवः । ततस्तेऽपि
कार्या इत्येकः प्रयोगः द्वितीयस्तु यद्यत्सावयवं तत्तत्कार्यं यथा घटादि
। यत्र तु सावयत्वमपि न भवति तत्र कार्यत्वमपि नास्ति यथा आत्मादि ।
सावयवं चैतत्क्षित्यादि भुवनजातं ततस्तदपि कार्यमिति । तृतीयोऽपि
यद्यत्करणं तत्तत्कार्यं यथा शास्त्रादि । यत्र तु कार्यत्वं नास्ति तत्र
करणत्वमपि नास्ति । यथाऽऽत्मादि । करणं चैतच्चक्षुरादि । ततस्तदपि
कार्यमिति । इत्थं देहादेः कार्यत्वमुपपाद्य बुद्धिमत्कर्तृत्वं दर्शयति ।
एवं च सतीत्यादिनचायमित्यादि सावयवत्वादेव तेषां घटादिवत्
कर्तृपूर्वकत्वं सिद्धमिति भावः । ये पितु कुम्भादीनामित्यादि कुलालादयः
प्रयोज्यकर्तारः । ईश्वरस्तु प्रयोजककर्तेत्यर्थः । इदानीं देहादेः
कर्तृपूर्वकत्वसिद्धावपि नैकोपि विश्वकर्ता सिद्ध्यतीति चोदयति नन्वेत इत्यादि
यद्येवमनेकास्सन्तु कर्तार इति चेत्तदयुक्तम् । यतस्तेषामनेकत्वात्
परिदृष्टकर्तृनृपतीनामिव न क्रमः कार्ये सम्भवति ।
यौगपद्येऽभ्युपगम्यमाने कार्यस्यासम्भव एव । तदिदमुक्तम् ।
बहवो यत्र नेतारस्सर्वे पण्डितमानिनः ।
तथा महत्वमिच्छन्ति तद्व्यक्तमवसीदति । इति ।
सिद्धान्तमाह तदप्ययुक्तमित्यादि अयमर्थः कार्यं हि कर्तारं
विना न सम्भवतीति व्याप्तेर्निश्चयात् कार्योपपत्त्या तत्कर्तृत्वं
कस्यचित्प्रतीयते । कार्यं चेदं जगल्लक्षणम् । परस्पराङ्गत्वेन
व्यवस्थितत्वात् एक एव प्रसादादिवत् तस्य ह्येकेन स्थपतिना विना न
परस्पराङ्गभावोऽवयवसन्निवेशस्योपपद्यत इति जगतोप्येक एव कर्ता
सिद्ध्यतीति । ततश्चैकस्यैव विश्वकर्तुः क्रमाद्यौगपद्येन च
कार्यकरणमुपपद्यत इति वक्ष्यमः । क्रमाक्रमसमुत्पत्तेः
क्रमाद्युत्पत्तिशक्तिमत् इत्यत्र । अत एव कार्यवैशिष्ठ्यात् कर्तृवैशिष्ठ्यं
सिद्धमित्याह । तदेवमित्यादि । न चैतदप्रसिद्धमिति
कार्यवैशिष्ठ्यात्कर्तृवैशिष्ठ्यानुमानमेतदेव वैशिष्ट्यमित्यादिना
सूत्रार्धेनोच्यत इत्याह यस्मादित्यादि ॥ १ ॥
वृत्तिः ।
अतश्च ।
यद्यथा यादृशं याव -
त्कार्यं तत्कारणं तथा ॥ १� ॥
यत्कार्यं धूमादि यथेति येन प्रकारेण गिरिगुहागतत्वेन
तदुत्सङ्गवर्तितया तदपरपार्श्ववर्तित्वेनचोपलब्धम् । यादृशं च
तार्णपार्णादिना स्वरूपेण विशिष्टं यावत्परिमाणं
तनुतररेखाकारमम्बुदनिवहबहलं वा । तत्कारणं वह्न्यादिलक्षणम् ।
तथेति पर्वतोत्सङ्गस्थं वा तच्छिखरनिविष्टं वा तत्पश्चाद्भागगतं वा
तादृशं च तार्णपार्णादिरूपं च तावत्प्रमाणकं वाऽल्पत्वबहुत्वेन
यथाऽनुमीयते एवं जगल्लक्षणकार्यस्य
तत्तत्प्राकाराकारवैचित्र्यमुपलभ्य
तत्तद्विशेषविषयनिरतिशयज्ञानक्रियाशक्तियुक्तं कारणमनुमीयते ॥ १� ॥
दीपिका ।
एतदेवोत्तरार्धेन प्रपञ्च्यत इत्याह अतश्चेत्यादि ॥ १� ॥
वृत्तिः ॥
तच्च ।
नित्यं कालानवच्छेदा -
द्वैतत्यान्न प्रदेशगम् ।
क्रमाक्रमसमुत्पत्तेः
क्रमाद्युत्पत्तिशक्तिमत् ॥ २� ॥
यस्याभूत्वा भवनं भूत्वाचाभवनं तस्य काले
नावच्छेदादनित्यत्वम् । यत्तु पूर्वापरकोटिद्वयविरहात् कालानवच्छिन्नमतो
नित्यम् । किञ्च न तत्क्वचिदवस्थितम् अपितु वैतत्यात्
महत्वाद्दिग्देशानवच्छिन्नत्वात् सर्वगम् । सर्वत्र तत्कार्योपलब्धेश्च विभुः
। तथा क्रमयौगपद्याभ्यां तनुकरणादिकार्यस्योत्पादनात् क्रमेण
युगपच्चोत्पादिकया शक्त्या युक्तम् ॥ २� ॥
दीपिका ।
नित्य मित्यादिसूत्रमवतारयति तच्चेत्यादि कर्तृलक्षणं जगत्कारणमिति
शेषः । यस्येत्यादि । अनित्यत्वे जगत्कर्तुरनवस्थेति भावः । किञ्चेत्यादि ।
अनुमानागमाभ्यां सर्वगतमर्थसिद्धमित्यर्थः । तथेत्यादि
अयमभिप्रायः । येन कारणेनैकस्य कर्तुर्देवदत्तार्देयुगपच्च गमनेषु
भक्षणसङ्कथा भारोद्वहनादिकार्यमनेकं दृश्यते
स्नानभोजनशयनादिकं क्रमेणापीति तेन कारणेन शरीरादीनां
केषाञ्चिद्युगपत्केषाञ्चित्क्रमेणोत्पत्तिदर्शनात् तत्कर्तुरीश्वरस्यापि
क्वचिद्यौगपद्येन कर्तृत्वं क्वचिच्च क्रमेणाऽपि प्रतीयत इति क्रमेण
युगपच्चोपादिकया शक्त्या युक्तमिति ॥ २� ॥
वृत्तिः ।
ननु जगत्सृष्टिस्थित्यादिका तत्क्रिया नाकरणिका । क्रियात्वात् । छिदिक्रियावत्
। अतस्तस्याऽपि करणेन भवितव्यमित्याह ।
तस्याऽस्ति करणं येन
दृष्टा नाकरणा कृतिः ।
अनागामि च तत्ज्ञेयं
कार्यस्यानादि संस्थितेः ॥ ३� ॥
यस्मादकरणिका क्रिया न सम्भवति अतस्तस्य भगवतः
किमप्यवश्यं करणमस्ति । तच्च कृत्यस्य
सर्गादेरनादित्वेनावस्थानादनागामि अनागन्तुकम् ॥ ३� ॥
दीपिका ।
तस्येत्यादिसूत्रं व्याख्यातुमाशङ्कामाह । नन्वित्यादि
करणाभावादीश्वरस्याकर्तृत्वप्रसङ्ग इति भावः । तन्न । यतः
कर्तृत्वान्यथानुपपत्त्यैव तस्य करणमप्यस्तीति प्रतीयत इत्याह
यस्मादित्यादि तच्च शक्तिरूपमित्यनन्तरमेव वक्ष्यति । करणं च न
शक्त्यन्यदिति । अयमर्थः । क्रियाशक्तिरेवेश्वरस्य करणं सर्वकर्तृत्वात्
योगिन इव योगिनश्च सर्ववादिसिद्धाः चार्वाकैरपि विषग्रहचिकित्साकारित्वेन
मण्यौषधादिवन्नाक्षेप्तुं शक्याः । यदाहुः अचिन्त्यो हि
मणिमन्त्रौषधादीनां प्रभाव इति । अतश्चेश्वरसमवायिनी
क्रियाशक्तिरेवात्र साध्या न ज्ञानशक्तिः । तत्सामर्थ्यसिद्धत्वात्तस्या इति
वक्ष्यामः -
सर्वज्ञस्सर्वकर्तृत्वात्साधनाङ्गफलैस्सह ।
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् । इति ।
नापि परिग्रहवर्तिनी महामायात्मिका शक्तिः१ । तस्या उपादानत्वात् ।
अतश्च समवेतशक्त्यैव करणभूतयासौ तद्भुवनादिकार्यं करोतीत्याह
तच्च कृत्यस्येत्यादि ॥ ३� ॥
वृत्तिः ।
अथ किं तत्करणमित्युच्यते ।
करणं च न शक्त्यन्यत्
शक्तिर्नाचेतना चितः ।
१। करणमिति शेषः ।
विषयानियमादेकं
बोधे कृत्ये च तत्तथा ॥ ४� ॥
शक्तिरेवास्य विश्वेशितुः करणं तयैव तत्तत्क्रियानिष्पादनात् । सा
चेच्छादिरूपेति वक्ष्यामः । उक्तं च किरणे -
इच्छैव करणं तस्य यथा सद्योगिनो मता इति ।
शक्तिश्च वेदनरूपा । न हि चित्स्वभावस्याचिद्रूपा शक्तिर्भवति ।
यच्चैतच्छक्त्यात्मकं करणम् । विषयानियमादेकम् इति यस्य ज्ञेयानां
करणीयानां चाऽऽनन्त्यं तस्मात्तस्य करणैरप्यनन्तैर्भवितव्यम् ।
अपरिमितविषयं च परमेश्वरस्य ज्ञानं कृत्यं च यद्वक्ष्यति शाङ्करं
ज्ञानमित्युपक्रम्य -
तदेकं विषयानन्त्याद्भेदानन्त्यं प्रपद्यते ।
कर्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारत इति ।
तस्माद्विषयस्य ज्ञेयस्य करणीयस्य चानियतत्वात् अनवच्छिन्नत्वात्
एकमपि तच्छाक्तेरूपं करणं बोधकविषये कृत्यविषये च तथेति
अनवच्छिन्नम् अनन्तमेवेत्यर्थः ॥ ४� ॥
दीपिका ।
तदेव करणं चेत्यादिना प्रपञ्च्यते इत्याह शक्तिरेवाऽस्येत्यादि ।
नन्वीश्वरः कर्ता न भवति इन्द्रियरूपकरणरहितत्वात् यो यः कर्ता स स
इन्द्रियकरणयुक्तः यथा कुलालादिरिति । तन्न ।
विशेषशक्तियुक्तत्वाद्भगवानयस्कान्तवत्सन्निधिमात्रेणैव कार्यजनकः ।
यद्येवमयस्कान्तोऽचेतनस्तथेश्वरोऽपि स्यात् । नैवमात्मना
सवित्रादिभिश्चानैकान्तात् । विशिष्टशक्तियुक्तत्वात् सन्निधिमातेणैव
कार्यजनकः । स्वदेहस्पन्दादौ चेतनात्मवत् । किञ्च सविता यथा
स्वशक्त्यात्मकैरेव करणैः कमलकुमदादीनां विकाससङ्कोचकर्ता न
व्यतिरिक्तेन करणेन । तथायमीश्वरोऽपीति । ननु सवितुश्शरीराद्यस्त्येव ।
सत्यम् ।
स्वशक्तिमात्रकरणतयाऽत्रानैकान्तिकविषयत्वेनास्योपादानादित्यविरोधः ।
नहि सर्वथा दृष्टास्सम्भवतीत्युक्तम् । तथा च सति
पक्षसपक्षविभागाभावेन हेतोर्व्याप्तिग्रहणासम्भवात्
सर्वानुमानोच्छेदप्रसङ्ग इति । ननु दृष्टे कर्तरि आदित्यादाविव शक्तिः
करणत्वेनाऽस्तु । अदृष्टे तु कर्तरि द्वयोरपि तच्छक्त्योः
कार्यान्यथानुपपत्तिकल्पनीयत्वात् कर्तृकल्पनश्चैव तदुपपत्तेः
कथमन्यथा शक्तिः कल्प्यते । तदिदमुक्तं प्राभाकरैः कल्प्यं
पुनर्निरुणद्धिकल्पनाम् इति । अत्रोच्यते त्वया।पि जैमिनीयपक्षस्थितेन
रूपदर्शनान्यथानुपपत्त्या कल्पितस्याऽपि त्वगैकदेशविशेषलक्षणस्य
चक्षुषोऽन्यस्य कल्प्यत्वात्
विपुलोयमनेकयोजनलक्ष्यव्यवहितध्रुवतारकादेरर्थस्य ग्रहोऽनुपद्यत इति
कल्पितस्यापि शक्तिः कल्प्यते यथा प्रमाणबलात्तथाऽतीन्द्रियस्याऽपि तस्य
कर्तुः कल्पितस्य पूर्वोक्तानुमानेन अतीन्द्रिया शक्ति कल्प्यत इति
समानोऽयमुपपत्तिनिश्चयस्साध्यवस्तुना इति न प्रागुक्तदोषः इति । ननु
शक्त्या विनेश्वरस्याऽपि कर्तृत्वासम्भवाच्छक्तिरेव जगत्कारणत्वेन
कल्प्यताम् । तन्न । शक्तेर्धर्मत्वेन धर्मिणमन्तरेण स्थित्यसम्भवात् ।
तदुक्तं मतङ्गे -
गुणा गुणिनमाश्रित्य विचेष्टन्ते स्वके स्वके ।
विषये न निराधारा इति ।
तस्मादग्नेरौष्ण्यमिव ईश्वरस्याऽपि शक्तिरविनाभूतेति । इत्थं शक्ति
रूपं करणं प्रसाध्य तस्य
ज्ञेयकार्यभेदादौपचारिकमानन्त्यमित्याह । यच्चेत्यादि ॥ ४� ॥
वृत्तिः ।
अथ मतान्तरनिरनुभाषणेनेश्वरास्तित्वमेव दृढयति ।
कार्यं न स्थितिजन्मादि
बीजस्य प्रकृतेरणोः
पारिशेष्यान्महेशस्य
मुक्तस्य शिव एव सः ॥ ५� ॥
ननु किमत्र करणापेक्षेणेश्वरेण कल्पितेन तस्मिन् कर्मनैरपेक्ष्येण
कर्तृत्वानभ्युपगमात् । तच्चरितानि कर्माण्येव सृष्टिस्थित्यादिकारणतया
भवन्त्विति जैमिनीयाः । यदाहुः -
कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृ नेष्यते ।
कर्मभिस्सर्वजीवानां तत्सिद्धेस्सिद्धसाधनम् । इति ।
यद्वा बीजमिवाङ्कुरादीनां कलादिकार्याणामुपादानं
मायैवान्यानपेक्षिणी सृष्ट्यादिकृद्भवतु । प्रकृतिरेवाऽव्यक्ताख्या
एतत्कर्तृत्वेनाऽस्तु । यां विना तस्येश्वरस्याऽपि तत्कार्यानिष्पत्तिरुपलभ्यते
क्षित्याद्यात्मना पारार्थ्यप्रवृत्तान्यानपेक्षिणी १प्रकृतिरेव । अतः
किमीश्वरेणेति कापिलाः । तथाहि -
यद्यथा परिणामैकस्वभावं तत्र तत्तथा ।
अन्यानपेक्षिबीजादिसामग्री यद्वदङ्कुरे ।
महदादिविकारौघपरिणामस्वभावकम् ।
त्रिगुणात्मप्रधानं च तेन साङ्ख्यमनीश्वरमिति ।
यदि वा पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् इति । अणोः
पुरुषादेव विवर्तया चिदचिल्लक्षणविश्वप्रादुर्भावो भविष्यति किमीश्वरेणेति
तदसत् । बहिर्बीजभूतानां कर्मणां मायादीनां चाचेतनानां
बुद्धिमदधिष्ठितानां सृष्ट्यादिकृत्यमुपपन्नमित्युक्तत्वात् ।
प्रकृतेरप्यौत्सुक्यनिवृत्यर्थः कार्येषु प्रवृत्तिर्नितरामयुक्ता तस्या
अचैतन्यादौत्सुक्यस्य च चेतनधर्मत्वात् पुरुषस्यापि
परिणामित्वाद्यनेकदोषोपनिपातात् स्वतन्त्रस्य
चाभिरुचितहानेरनिष्टोपनिपातस्य चाभिरुचितहानेरनिष्टोपनिपातस्य
चोपपत्तेरस्ववशत्वात् स्थितिजन्मप्रलयकर्तृत्वनिरासे सति
पारिशेष्यान्महेश्वरस्यैव तत्स्थितिजन्मादिकार्यमिति
पारिशेष्यानुमानमनवद्यमिति गमकमेतत् । इदमिदानीं विविच्यते यदि
तावत्परमेश्वरः कारुण्यात्संसारिजनोज्जिहीर्षया जगतां स्थितिजन्मादौ
प्रवर्तते तत्किमर्थं प्रत्युत सांसारिकेषु
१। कर्तृत्वेनास्त्विति पूर्वेणान्वयः ।
दुःखेषु वराकानिमान्प्राणिनो नियोजयति । अथ तस्यैवंविध एव स्वभावः
स मुक्तमपि जन्तुं किं न संसारयतीत्याह मुक्तस्य शिव एव सः सत्यं
कारुण्यादेव भगवान् प्राणिनोऽनुगृहीतुं प्रवर्तते । यद्दुःखमोहादिना
निरयाद्युपभोगेन वा तान् संयोजयति तन्निजकर्मानुरूपवशात् । न च
कर्मापेक्षितया ईश्वरस्य स्वातन्त्र्यहानिरित्याशङ्कनीयं करणापेक्षया
कर्तुस्स्वातन्त्र्यव्याघातादर्शनात् । भाण्डागारिकापेक्षस्य राज्ञः
प्रसादादिदानवत् । यदुक्तं सिद्धगुरुभिः ।
स्वातन्त्र्यान्याप्रयोज्यत्वं करणादिप्रयोक्तृता ।
कर्तुस्स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षिता ॥ इति ।
न चाभुक्तस्य कर्मणः क्षयो भवति ।
तत्तद्योनिशरीरोपभोगभुक्तविचित्रकर्मक्षयतः
तत्साम्याद्वाऽत्युत्कटमलपरिपाकवशप्रवृत्तशक्तिपातापसारितमल-
स्यावाप्तानुग्रहस्य जन्तोर्निरस्तसमस्तपाशत्वात्
आविर्भूतसर्वार्थज्ञत्वकर्तृत्वस्य मुक्तात्मनस्संसार्यताहेतोः
पशुत्वस्याभावात् शिवस्वरूप एव भगवान् भवति । न तु पशोरिवास्य
कुत्सितभवभोगोपभोगहेतुर्भवतीति भावः ॥ ५� ॥
दीपिका ।
कार्यं न स्थितिजन्मादि सूत्रमवतारयति । अथेत्यादि
तदेतद्व्याख्यातुमाशङ्काप्रकारानाह नन्वित्यादि परिहरति तदसदिति तत्र
बीजशब्देन कर्मोच्यत इत्याह वहिर्बीजभूतानां कर्मणामिति ।
अयमभिप्रायः (किञ्चं तत्कृष्यादिकर्मवदचेतनत्वाद्योजकं तत्र कर्मैव
कारणमस्त्विति यदुक्तं तन्न वस्तुप्रतिबन्धमूलत्वेनास्यानुमानस्य
धूमाद्वह्न्यनुम्भनस्येवोक्तत्वात् वह्निकार्यो धूम इवाकर्तृकं कार्यं
न सम्भवत्येव यतः) । किञ्च कृष्यादिकर्मवदचेतनत्वाद्योजकं
संविधातारमपेक्षते । न च तस्य तनुकरणजननादावस्य पुंसोशक्तत्वात्
संविधातृत्वं सिद्धमिति तद्व्यतिरिक्तस्येश्वरस्य सिद्धिः । मायादीनां
चेत्यादि प्रकृतिशब्देनात्र बिन्दुमायाप्रधानात्मकं प्रकृतित्रयमुच्यत
इत्यर्थः । बुद्धिमधिष्ठितानामिति मायादयः पाशाः पुरुषं प्रति
चेतनशक्त्यधिष्ठिता एव प्रवर्तते । अचेतनात्वाद्रज्वादिवदित्युक्तं प्रागेवेति ।
ननु यद्यथा प्ररिणामैकस्वभावं तत्र तत्तथा ।
अन्यानपेक्षबीजादिसामग्री यद्वदङ्कुरे इत्युक्तत्वात् प्रकृतिरेव
महदाद्यात्मना पारार्थ्यात्पुरुषं प्रति प्रवर्तत इत्युक्तमत आह
प्रकृतेरपीत्यादि मृदादिवदचेतनत्वात्प्रकृतेः कर्तृस्वमयुक्तं कर्तुः
करणान्तरप्रवृत्तिनिवृत्तिहेतुत्वेन चैतन्याव्यभिचारात् । यदाहुः -
प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः ।
अप्रवृत्तः प्रवृत्तो वा स कर्ता नाम कारकः । इति ।
नन्वचेतनमपि अयस्कान्तादि स्वयं प्रवर्तमानं दृश्यते । तन्न ।
यतोऽयमयस्कान्तोऽपि योक्तारमपेक्ष्यैव प्रवर्तत इत्युक्तम् । नन्वचेतनमपि
क्षीरं गवादेर्वत्सादिविवृद्ध्यर्थं स्वयं प्रवर्तमानं दृश्यते ।
यदाहुस्साङ्ख्याः वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ इति । यद्येवं
विरुद्धोऽयं हेतुः । दृष्टान्तेऽस्मिन् साध्यविपर्ययेण सह
दृष्टव्याप्तिकत्वात् । अचेतनं हि क्षीरं चेतनगवाधिष्ठितं प्रवर्तमानं
सिद्धमितिप्रधानस्याचेतनत्वात् प्रवर्तकेन चेतनेन भवितव्यमिति
ईश्वरस्सिद्धः ।
१। एतदधिकपाठः पुस्तकान्तरेनास्ति ।
पुरुषस्याप्युपादानत्वे परिणामित्वादिदोष इत्युक्तमित्याह पुरुषस्यापीत्यादि
किञ्चास्वातन्त्र्यादिदर्शनात्तस्य सृष्ट्यादिकर्तृत्वं च नोपपद्यत इत्याह
अभिरुचितहानेरित्यादि । अतश्च परिशेषानुमानादपि ईश्वरसिद्धिरित्याह
पारिशेष्यादित्यादि । मुक्तस्य शिव एव स इति व्याख्यातुं
प्रासङ्गिकीमाशङ्कामाह इदमिदानीमित्यादि तत्र प्रथमचोद्यस्य
परिहारः । सत्यमित्यादि यद्येवं कर्मापेक्षित्वादीश्वरस्य स्वातन्त्र्यहानिरत
आह न च कर्मापेक्षितयेत्यादि अत एव द्वितीयञ्चोद्यमपि परिहृतमित्याह
तत्तद्योनीत्यादि अस्य च समासपदस्य जन्तोरित्यस्यानन्तरमन्वयः ।
समस्तकर्मक्षयस्य दीक्षानिर्वर्त्यत्वात् । विज्ञानयोगादिजन्यस्याऽपि
विज्ञानकेवलत्वमात्र एव हेतुत्वात् । यदुक्तं धर्माधर्मक्षयकरी दीक्षा
इति । तथा अन्य तन्त्रेषु ये मुक्ता धर्माधर्मक्षयान्नराः । तेऽत्र
रुद्राणवः प्रोक्ता इति । तत्साम्याद्वेत्येतत् कर्मासाम्यं मोक्षस्य हेतुरिति
वादिभिः प्रक्षिप्तमित्युपेक्षणीयम् । तस्य संसारावस्थायामपि भावात् ।
विरुद्धकर्मक्षयमात्र एव चरितार्थन्त्वाच्च न मलपरिपाकादिहेतुत्वमिति
वक्ष्यामः । अपसारितमलस्येति परिपाकवशादपसरणोन्मुखमलस्येत्यर्थः ।
अपसरणं तस्य दीक्षयैव । अत आह अवाप्तानुग्रहस्येति प्राप्तदीक्षस्यैव ।
यदुक्तं स्वायम्भुवे -
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि इति ।
ततश्चायमर्थः । मलपरिपाकशक्तिपाताभ्यां दीक्षया
सर्वकर्मक्षयात् । तयैव मलमायारोधशक्तीनां तद्बन्धकत्वस्य
निवृत्तेरवाप्तशिवत्वस्य परमेश्वरो न संसारहेतुर्भविष्यतीति ॥ १� ॥
वृत्तिः ।
पुनरपीश्वरकर्तृकत्वमेव जगतो घटयितुमनुमानं
प्रतिसमाधातुमाक्षिपति ।
सम्बन्धाग्रहणाद्बाधा
मानस्याभ्येति कस्यचित् ।
सा परस्याऽपि धूमाग्न्यो
र्गिरौ माहानसाद्यतः ॥ ६� ॥
नन्वस्य स्थितिजन्मादेः कार्यस्याविनाभावलक्षणसम्बन्धो यदि
कदाचिज्जगत्कर्त्रा सह केनचिदपि गृहीतस्स्यात् तदैतदनुमानं सिद्ध्येत् ।
सम्बन्धस्यैवत्वग्रहणात् कथं नास्य बाधेति यदि कस्यचिन्मतं स्यात्
तदिदमप्यसौ प्रत्यनुयोज्य इत्याह । सापरस्यापीति सैषा बाधा
सर्वस्याप्यनुमानवादिनः प्रसक्ता । तथाहि महानसादिगतानां
विशिष्टदेशकालकारिणामेव धूमाग्निव्यक्तीनां सम्बन्धग्रहणे
धूममात्राच्च पर्वतादौ वह्निमात्रानुमानमिति अगृहीतसम्बन्धैव
धूमव्यक्तिः कथं तथाविधवह्निव्यक्तिं गमयेदिति
सम्बन्धग्रहणपर्यनुयोगस्समानः । ततश्च -
यत्र स्यादुभयोर्दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविनिश्चये१ इति ।
नैतदस्माकमेव चोद्यम् । अथ धूममात्रस्य
वह्निमात्राविनाभावलक्षणस्सम्बन्धो गृहीतः तदिहापि
कार्यमात्रात्कर्त्रनुमानं दृष्टम् ।
१। विचारण इति पाथभेदः
अन्यथा सर्वानुमानमात्रोच्छेद एव स्यात् । तदुक्तम् -
साध्यसाधनसामान्येनाविनाभावनिश्चयात् ।
प्रवृत्तिरनुमानस्य तदभावस्तदन्यथा इति ।
इत्थं च
विचित्रतत्तत्कर्मातिशयाधिवासितभोक्तृभोगतत्साधनतदुपादानादि-
विशेषज्ञः कर्ताऽनुमानान्तरेणानुमीयत इति न कश्चिद्दोषः । तदिदमुक्तं
तत्रभगवद्बृहस्पतिपादैः भवभोक्तृभोगसाधनतदुपादानादि यो
विजानाति । तमृते भवेन्नहीदं पुङ्कर्माशयविपाकज्ञम् इति ॥ ६� ॥
दीपिका ।
इत्थं प्रासङ्गिकचोद्यद्वये निराकृते प्रकृतमेवानुमानं
सम्बन्धेत्यादिनाऽऽक्षिपतीत्याह पुनरपीत्यादि कस्यचिदित्यनेन
प्रमाणपरामर्शेनाऽपि तद्वादिपरामर्श इत्याह कस्य चिन्मतं स्यादित्यादि
कार्यमात्रस्य कर्तृमात्रेण सम्बन्धग्रहणं कुम्भकारादौ सिद्धमिति
कृत्वा साध्यधर्मिण्येव सम्बन्धग्रहणेऽभ्युपगम्यमाने
सर्वानुमानां बाधा प्रसज्यत इति । सा परस्येत्यादि नोच्यत इत्याह ।
तदिदमप्यसावित्यादि । अथ धूममात्रस्येत्यादि अत एव यदुक्तं
बलभ्यादिसन्निवेशाद्विसदृशो भूधरादिसन्निवेश इति । तदप्ययुक्तम् ।
सन्निवेशमात्रस्य कार्यमात्रेण व्याप्तिसिद्धेः । तदिदमुक्तमस्माभिः
पाषण्डापजये -
सन्निवेशादिमात्रादि कार्यमात्रेण सङ्गतम् ।
कार्यमात्रं तथा व्याप्तं कर्तृमात्रेण निश्चितमिति ॥ ६� ॥
वृत्तिः ।
अस्तु तर्हि ईश्वरः कर्ता । स तु न तावदशरीरः प्रत्येतव्यः । कार्यं
शरीरयुक्तेन कर्त्रा व्याप्तं सदैवयत् । इत्यादिना देहविरहिणः
कर्तृत्वायोगस्योक्तत्वात् । तथाहि -
लोके वपुष्मतो दृष्टं
कृत्यं सोप्यस्मदादिवत् ॥ ७ ॥
लोके वपुष्मतो दृष्टमिति लोके वपुष्मतो दृष्टं कृत्यं
घटपटादिकार्यं शरीरवतैव क्रियमाणं दृष्टम् । नाशरीरेणेति ।
किञ्चातः सोऽप्यस्मदादिवदिति क्लेशादियुक्तोऽसर्वज्ञः
परिमितशक्तिर्देशाद्यवच्छिन्नस्सोपीश्वरश्शरीरवत्वात्प्राप्नोतीति पूर्वः
पक्षः ॥ ७ ॥
दीपिका ।
लोक इत्यादि प्रश्नसूत्रमवतारयति अस्तु तर्हि इत्यादि ।
वृत्तिः ।
सिद्धान्तस्तु ।
मूलाद्यसम्भवाच्छाक्तम्
वपुर्नैतादृशं प्रभोः ॥ ७� ॥
अशरीरस्याऽपि तावत्स्वदेहस्पन्दादौ कर्तृत्वं दृष्टमिति । कार्यं
शरीरयुक्तेन कर्त्रा व्याप्तमित्युक्तमभ्युपगम्याऽपि ब्रूमः ।
शरीरवत्वेऽपि भवतो न प्रागुक्तदोषप्रसङ्गः । कुत इत्याह
मूलाद्यसम्भवादिति मूलं मलः सर्वानर्थमुलत्वात् ।
अविद्यावृतिरुग्लानिपापमूलक्षयादिभिः । पर्यायैर्वक्ष्यमाणत्वाच्च ।
आदिग्रहणात्कर्माणि रोधशक्तिश्च । तदसम्भवात् नहि परमेश्वरस्य
मलकर्मादिपाशजालं सम्भवति । यन्निमित्तं प्राकृतं वपुः कल्प्यते । अपि
तु शाक्तमिति शक्तिस्वरूपैस्सद्योजातादिभिः पञ्चभिर्मन्त्रैस्स्वेच्छानिर्मितं
परिमितसामर्थ्यं दिग्देशकालाकारव्यवच्छिन्नमनुपममभिमतं
शरीरम् । न त्वस्मदादिशरीरसदृशम् ॥ ७� ॥
दीपिका ।
लोकेऽपि न शरीरयुक्तस्यैव कर्तृत्वमित्याह अशरीरस्यापीत्यादि एतच्च
पूर्वमेवोक्तमिति । सशरीरस्यैव कर्तृत्वाभ्युपगमेऽपि तच्छरीरस्यैव
शाक्तत्वात् नास्मदादिशरीरवत् क्लेशादिहेतुत्वमित्याह शरीरवत्वेऽपीति
अयमर्थः अस्मदादीनां मलावृतशक्तित्वात् केषुचित्कार्येषु
शरीराद्यपेक्षित्वम् । भगवतस्त्वनावृतशक्तित्वाच्छक्ति-
रेवोपचारात्सर्वकार्यं कुर्वतीति शरीरमित्युच्यते । शक्तिश्च कार्यकरीत्युक्तं
प्रागेवेति । अन्यत्र धूमादावपि कार्येऽग्न्यादि-शक्तय एव कारकं न
द्रव्यम् । तत्सत्तामात्रेण कार्योत्पत्तिप्रसङ्गादिति ।
मूलाद्यसम्भवादित्यादिनैतदेव प्रपञ्च्यत इति प्रश्नपूर्वं दर्शयति कुत
इत्यादि अत एव सृष्ट्यादिकृत्यभेदभिन्नाभिर्मननत्राण-
रूपाभिरीशानादिभिश्शक्तिभिरुपेतत्वात्पञ्चमन्त्रतनुर्भगवान् कथ्यते ।
तदीयाभिरष्टत्रिंशत्कलाभिर्युक्तत्वात्सकल इति ॥ ७� ॥
अत एव हि ।
तद्वपुः पञ्चभिर्मन्त्रैः
पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोर
वामाजैर्मस्तकादिकम् ॥ ८� ॥
यथाक्रममनुग्रहतिरोभावादानरक्षणोत्पत्तिलक्षणे कृत्यपञ्चके
अवश्यमुपयोग येषां तैरीशानादिभिः
पञ्चभिर्मन्त्रैस्तन्मूर्धादिवपुर्देवस्योच्यत इत्यध्याहारः । वरैः
पुष्णाति ध्यायिन इति वपुश्शब्दस्यान्वर्थता । भक्तानुग्रहणाय
तत्तदाकारग्रहणस्याऽगमेषूपदिष्टत्वात् । तथाचोक्तं पौष्करे साधकस्य
तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् ॥ ८� ॥
दीपिका ।
तद्वपुरित्यादिसूत्रैरेतदेव व्यस्तसमस्तत्वेन
दर्शयितुमुपचारतस्तेषामीशानादीनां मूर्धाद्यवयवरूपत्वं
प्रोक्तमुच्यत इत्याह । अत एवेत्यादि अत एवाऽऽतमेनापीश्वरसिद्धिरिति भावः ।
योगिप्रत्यक्षगम्यत्वं चोपोद्घात एव प्रदर्शितमिति । कथं
पुनर्हेमालिहिमरत्नभेत्यादिना पञ्चवक्त्रदशभुजाकारं वपुरीश्वरस्य
१वक्ष्यति अत आह वरैः पुष्णाति ध्यायिन इत्यादि
ध्यानार्थमेवेश्वरस्याऽऽकारकल्पनं
१। क्रियापादे सदाशिवध्याने इति शेषः ।
न परमार्थतः । निराकारे ध्यानपूजाद्ययोगात् यदाहुः -
आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः । इति
वक्ष्यति च ।
वपुषो विद्यमानत्वाद्यद्यत्कृत्यं करोति सः ।
तत्र तत्रास्य तत्कर्तृवपुषाऽनुकृतं वपुः । इति ।
अत एव वपुश्शब्दोप्यत्र दीक्षाशब्दवत् तत्र नीत्या वरं पुष्णातीति
पदैकदेशोपादानेन ज्ञेय इति ॥ ८� ॥
वृत्तिः ।
अथ कथं भगवत ईशानादिमूर्धत्वमित्याह ।
ईष्टे येन जगत्सर्वं
गुणेनोपरिवर्तिना ।
स मूर्धसमदेशत्वात्
मूर्धा नावयवस्तनोः ॥ ९� ॥
येन गुणेन मन्त्रेण
सर्वस्रोतोऽनुस्रोतसामुर्ध्वस्थितत्वात्सर्वानुग्रहहेतुत्वाद्वोपरि वर्तिना
जगच्चिदाचदात्मकं विश्वमीष्टे । स उत्तमाङ्गवत्
सर्वोर्ध्वस्थितत्वान्मूर्धेव मूर्धा न परमार्थतो देहावयवः ॥ ९� ॥
वृत्तिः
तत्पुरुषवक्त्रं व्याचष्टे ।
तस्य तस्य तनुर्या पू -
स्तस्यां १वसति येन सः ।
तत्त्राणाद्व्यञ्जनाच्चापि
स तत्पूरुषवक्त्रकः ॥ १०� ॥
तस्य तस्यामरनरादेर्या पूः पुरी तनुः तस्यां
पुरियजमानस्वरूपतया अधिष्ठातृभावेनोषितस्तत्पुरुषः । तदुक्तं
स्वात्मैवायं वसति सकलप्राणिनामीश्वरोन्तरिति तत्पुरुष इति । यस्माद्व्यनक्ति
ज्ञानक्रिये त्रायते तज्जन्मादिभयात्ततः तत्पुरुषवक्त्रम् ।
व्यञ्जनत्राणरूपत्वाद्वक्त्रमित्यभिधीयत इति श्रुतेः ॥ १०� ॥
वृत्तिः ।
अघोरहृदयं व्याचष्टे ।
हृदयं बोधपर्याय -
स्सोष्याघोरश्शिवो यतः ।
परिग्रहस्य घोरत्वा -
द्धोरोक्तिरुपचारतः ॥ ११� ॥
१। मातृकासु तस्यामुपतीति पाठो विद्यते ।
हृदयमाशयो बोध इति पर्यायः । अघोरः शिवो बोधो यस्माद्भगवतः
तस्मादघोरहृदयः । ननु १घोरमश्रेयोरूपं यदुच्यते तद्घोररूपता
कथं देवस्येत्याह परिग्रहस्य घोरत्वादिति येयं परमेश्वरस्य
घोररूपोक्तिः सा न वास्तवी । किन्तु परिग्रहस्य
स्वशक्युत्तेजितसामर्थ्यस्याशुद्धाध्वाधिकारिनिकुरुम्बस्य घोरत्वात् ।
१घोरशक्तिर्देव उपचारादुच्यते । तथाचोक्तम् -
विषयेष्वेव संलीनानधस्सम्पातयन्त्यणून् ।
रुद्राणून् यास्समालिङ्ग्य घोरतर्योऽपरास्स्थिताः ॥
इति ॥ ११� ॥
वृत्तिः
वामदेवगुह्यत्वमभिधत्ते ।
वामस्रिवर्गवामत्वात्
रहस्यश्च स्वभावतः ।
२वामं धाम परं गुह्यं
यस्यासौ वामगुह्यकः ॥ १२� ॥
धर्मार्थकामलक्षणेन त्रिवर्गेण प्रलोभ्य वमति अधोनिक्षिपतीति
वामः । स्वभावेन रहस्यो गुह्योभावः कथ्यते ।
१। देवे घोरोक्तिरिति पाठभेदः ।
२। वामं धाम च यस्यासौ देवस्स्याद्वामगुह्यकः । इति पाठभेदः ।
इत्थं पृथगनयोः पदयोरर्थं प्रदर्श्य विग्रहं करोति । वामं धामेति
दिवेर्धातोर्द्युत्यर्थत्वात् देवशब्देन तेजोऽभिमतम् । तेन
वाममधस्तनेऽध्वनि वमनशीलं यत्तेजस्तद्गुह्यमप्रकटमस्येति
वामदेवगुह्यः परमेश्वरः ॥ १२� ॥
वृत्तिः ।
सद्योजातमूर्तित्वं निरूपयति ।
सयोणूनां मूर्तयस्सम्भवन्ति
यस्येच्छातस्तेन सद्योऽभिधानः ।
सद्यो मूर्तीर्योगिनां वा विधत्ते
सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥ १३� ॥
पत्युरिच्छया हि कर्मप्रक्षयाय क्षिप्रमेवात्मनां तास्तामूर्तयो
जाता इति सद्योजातमूर्तिर्देवः । यद्वक्ष्यति दीक्षाप्रकरणे -
सद्येन जनयेत्सद्यो नानानिष्पन्नविग्रहम् । इति ।
यद्वा योगिनां तत्तत्समाधिभाजां सद्यस्तत्क्षणं मूर्तिर्विधत्ते ।
प्रोक्तवन्मन्त्रमयस्वमूर्तिसदृशीं तनुं
सम्पादयतीत्यचिरात्स्वसमाधिव्यञ्जकत्वात् सद्योमूर्तित्वम् । नतु
शीघ्रसञ्जातस्वदेहत्वादित्यर्थः ॥ १३� ॥
एतदेव दृढयति ।
इत्थं शक्तिः कुर्वती देहकृत्यं
देहाभावादुच्यते देहशब्दैः ।
तस्या भेदा येऽपि वामादयस्स्यु -
स्तेऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥ १४� ॥
परमार्थतः परमेश्वरस्याशरीरत्वात् शक्तिरेव देहकार्यं कुर्वतीति
देहाख्ययोक्ता तस्याश्चैकस्या अपि कृत्यभेदाद्वामादिभेदभिन्नत्वम् । यहा
वह्निशक्तेर्दाह्यप्रकाश्यपाच्यार्थविषये दाहप्रकाशपाककरणात्
गौणमनेकत्वम् । वस्तुत एकत्वात्तस्याः ॥ १४� ॥
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ तृतीयं पतिपदार्थसाधनं प्रकरणम् ॥
दीपिका ।
इत्थं शक्तिरित्यादिपूर्वार्धेन शरीरतयोक्ताया
ईशानादिभेदभिन्नायाश्शक्तेरुपसंहार इत्याह परमार्थत इत्यादि
उत्तरार्धेन तु करणरूपेण प्रागुक्ताया वामादिभेदभिन्नाया उपसंहार
इत्याह । तस्याश्चेत्यादि कथं पुनरेकस्या एवानेकत्वमिति चेत्
ज्ञेयकृत्यभेदेनोपचारादित्युक्तम् । एतदेव दृष्टान्तेन दृढयति यथेत्यादि ।
इति अघोरशिवाचार्यविरचितायां श्रीमन्मृगेन्द्रवृत्तिदीपिकायां
पतिपदार्थसाधन तृतीयं प्रकरणम् ।