अथ परमोक्षनिरासप्रकरणम् ।
अथानादिमलापेत
स्सर्वकृत्सर्वविछिवः ।
पूर्वव्यत्यासितस्याणोः
पाशजालमपोहति ॥ १ ॥
वृत्तिः ।
सम्बन्धाभिधेयप्रयोजनानि प्रथममेव विवेचितानि
अथेत्यानुषङ्गिकसम्बन्धादिकथनानन्तरं विद्याख्यः पादः प्रारभ्यते
। अत्र च शास्त्रे पतिपशुपाशाख्यास्त्रयः पदार्थाः
पशूनामस्वातन्त्र्यात्पाशानामचैतन्यात् तद्विलक्षणस्य पत्युः
पञ्चविधकृत्यकारित्वं तत्कारकाणि स्वशक्तिरूपाणि मायादीनि च क्रिया च
दीक्षाद्या तत्फलं च पशूनामनुग्रहाख्येन कर्मणा
परकैवल्यासादनमित्याद्यभिधास्यमानं तदेतद्गर्भीकारेणेदं
मूलसूत्रम् । अनादिमलापेत इति अनादि शब्दः क्रियाविशेषणम् अनादिकृत्वा
मलापेतः स्वभावनिर्मलः परमेश्वरः । तथा अनादिश्च मलापेतश्च
तत्प्रसादात्प्रध्वस्तसमस्तमलो मुक्ताणुवर्गः । किञ्च अनादेर्मलादपेतः
स्वाभाविकमलविदारणात्परमेश्वरेण प्रकटीकृतद्दृक्क्रियः ।
किञ्चिदवशेषितत्वादादिमताऽधिकारमलेन युक्तो मन्त्रमन्त्रेश्वरवर्ग
इत्येवं समासत्रयकरणान्मुक्ताणुभिर्-विद्येश्वरादिभिश्च सहितः
पतिपदार्थोऽत्र सूचितः तस्य च त्रिविधस्याऽपि सर्वज्ञता सर्वकर्तृत्वं च
विद्यते । मुक्तात्मनां तु सत्यपि सर्वार्थदृक्क्रियत्वे
पाशजालापोहनसामर्थ्यमेवापोहनम् । अतस्ते करणीयस्याभावात् न
प्रवर्तन्ते अतस्स्वात्मन्येव श्रेयोयोगात् शिवत्वमेवं तेषाम् । विद्येश्वराणां
शिवपदप्राप्तिहेतुत्वात् । भगवतस्तु सर्वानुग्रहप्रवृत्तत्वात् । तथैव
मुक्तात्मनां प्रवृत्त्यभावात् विद्येश्वराणां च परमेश्वरपारतन्त्र्यात्
स्वतन्त्रस्स भगवान् किङ्करोतीत्याह । अणोः पाशजालमपोहतीति
विज्ञानकलप्रलयाकलसकलत्वेन त्रिरूपस्य तथा
विज्ञानकलप्रलयाकलात्मनोरपर्यवसितमलेश्वरशक्त्यधिकारात् तदन्यथा
भावभेदात् प्रत्येकं द्विविधस्य सकलस्यापि त्रिबन्धनबद्धस्य
कुतश्चिदुपायात्प्रक्षीणकर्मतया केवलकलादियुक्तस्य चैवं
द्विप्रकारस्यास्यैव च प्रत्येकं विदेहसदेहभेदात् प्रतिभेदं च
मलाद्यधिकारविरहिणस्तद्युक्तस्य
चेत्येवमष्टप्रकारस्येत्थमनेकभेदभिन्नस्यात्मनः
परमेश्वरः पाशजालं यथासम्भवमपोहतीति सबन्धः । यस्य च
यथाचापोहति तत्सर्वं यथावसरमग्रे वक्ष्यामः । कीदृशस्याणो-रित्याह
पूर्वव्यत्यासितस्येति पूर्वैरनादिकालिकैर्मलकर्ममायापरमे-
श्वरनिरोधशक्त्याख्यैर्यथासम्भवं हेतुतया स्थितैर्व्यत्यासितस्य
परमेश्वराद्वैसादृश्यं प्रापितस्य तत्प्रेर्यस्य बन्धान्तरयोगिनश्चम् ।
अयमर्थः । मलेनेश्वरनिरोधशक्त्या कर्मभिश्च सदसद्भिरणोरशिवत्वं
ततश्च बन्धान्तरयोगः । तदपोहने तु शिवत्वम् । एवं च शिववैसादृश्ये त
एवानादयो हेतवः । शिवस्त्वप्रतिबन्धनिरतिशयसर्वार्थक्रियाशक्तिस्तेषां
योग्यतामपेक्ष्यानुग्रहप्रवृत्तः पाशव्रातमपोहति ।
उपसर्गादस्यत्यूह्योर्वा वचनमिति अपोहतिपदम् ।
तदेवमखिलतन्त्रार्थसूचनादेतन्मूलसूत्रम् । तथाचैवेह
व्याख्यानावसरे वक्ष्यति । यत्र बीज इवारूढो महातन्त्रार्थपादपः ।
आहादिमूलसूत्रं तदथशब्दाद्यलङ्कृत मिति ॥ १ ॥
दीपिका ।
अथेत्यादिशास्त्रारम्भसूत्रं पठति । यद्येवं शास्त्रारम्भे
सम्बन्धादीनि वक्तव्यानि इत्यत आह सम्बन्धेत्यादि तेषु व्यक्त इत्यादिना
पूर्वप्रकरणप्रोक्तानीत्यर्थः । अथेति सम्बन्धादिकथनानन्तरम् इति नार्थः
तस्य व्यपोहतिक्रिययाऽनभिसम्बन्धात् । नाप्यधिकारार्थः । तस्यापि वक्ष्ये
निराकुलं ज्ञान मित्यनेनैव सिद्धेः । कथं पुनरत्रार्थः । उच्यते ।
भविनश्चिच्छक्तिसन्निरोधककर्त्रधिकारक्षयाभिमुखभावदनन्-तरं
शिवः पाशजालमपोहतीत्यर्थः । ननु मङ्गलार्थोऽयमथशब्दः
कस्मान्न कल्प्यते यस्मादानन्तर्यासम्भव एव मङ्गलाद्यर्थम्
अभावविकल्पप्रसिद्ध्या सिद्धम् । कथं
पुनरथेत्यानुषङ्गिकसम्बन्धादिकथनादित्यादि वृत्तिग्रन्थः । नायं
वृत्तिग्रन्थः अपितु अशास्त्रज्ञैः प्रक्षिप्त इत्यदोषः । आदिसूत्रस्य स्वरूपं
दर्शयति अत्र चेन्त्यादि यदनन्तरमेव वक्ष्यति त्रिपदार्थं चतुष्पादं
महातन्त्रं जगत्पतिः । सूत्रेणैकेन सङ्गृह्येति । त्रयः पदार्था इति
पदार्था अर्थराशयः एष्वेवान्येषां वस्तूनामन्तर्भाव इत्यर्थः ।
पशूनामस्वातन्त्र्यादिति बद्धात्मानः पतिनिरपेक्षा न स्वपाशविमोचने
शक्ताः अस्वातन्त्र्यान्मेषादिपशुवत् । पाशाश्च पतिनिरपेक्षा न स्वयमेव
पश्याद्विमुक्ता भवन्ति अचेतनत्वान्निगलादिवदिति ।
नन्वात्मज्ञानादेवाऽऽत्मानो मोचयिष्यन्तीति वेदान्तविदस्तदयुक्तम् । यतो
मलस्य द्रव्यत्वाच्चक्षुषः पटलादेरिव न ज्ञानमात्रान्निवृत्तिः अपितु
चक्षुर्वैद्यव्यापारेणेव ईश्वरव्यापारेण दीक्षाख्येनैवेति ।
स्वशक्तिरूपाणीति समवेतशक्त्यपेक्षया । कथं
पुनरेकस्याश्शक्तेरनेकत्वम् । उपाधिभेदादित्युक्तम् । वक्ष्यामश्च तदेकं
विषयानन्त्याद्भेदानन्त्यं प्रपद्यत इति । मायादीनीति
परिग्रहशक्त्यपेक्षया । आदिग्रहणात् बिन्दुश्च । क्रिया चेत्युपलक्षणं
योगचर्ययोरपीति । दीक्षाद्येत्यादि । आदिग्रहणात्तदङ्गभूतानि
दीक्षोत्तरकालमनुष्ठेयानि स्नानार्चनादीनि१ ।
परकैवल्यासादनमित्युपलक्षणं भोगावाप्तेरपीति ।
तदेतद्गर्भीकारेणेदं मूलसूत्रमिति
पदार्थत्रयसहितसमस्तशास्त्रार्थगर्भीकारेणेत्ययमर्थः । अत्र तावच्छिव
इत्यनेन मन्त्रमन्त्रेश्वरमन्त्रमहेश्वरमुक्तात्मशक्तिशिवानां
पतिपदार्थे सङ्ग्रह इत्युच्यते । अतःपरमणोरित्यनेन
विज्ञानाकलादिभेदभिन्नपशुपदार्थस्सूच्यते । पाशजालमित्यनेन
मलतिरोधानशक्तिकर्ममायारूपाः पाशास्सूच्यन्ते । अपोहतिपदेन
१। गृयन्त इति शेषः ।
च पतिपदार्थान्तर्भूतः क्रियादिपादत्रयवक्ष्यमाणो
भोगमोक्षोपायस्सङ्गृह्यते । नन्वेकस्या एवेश्वरशक्तेः कथं पतिपदार्थे
पाशपदार्थे च सङ्ग्रहः । सत्यम् । पतिपदार्थ एव शक्तेरन्तर्भावः ।
उपचारात्तु पाशधर्मानुवर्तनेन पाशत्वमिति वक्ष्यामः -
तासां माहेश्वरी शक्तिस्सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ इति ।
मलस्त्वेक एवानेकात्मावारकानेकशक्तियुक्तो नित्यो व्यापकश्च ।
कर्माऽपि प्रतिपुरुषं भिन्नं धर्माधर्मात्मकं प्रवाहनित्यम् । माया
च द्विरूपा शूद्धाशुद्धा च स्वस्वकार्यसहितेत्येतत्सर्वं यथावसरं
वक्ष्यामः । एतदेवाङ्गीकृत्य मूलसूत्रं व्याचष्टे । अनादिमलापेत इत्यादि ।
स्वभावनिर्मल इति । न त्वीश्वरान्तरव्यापारेण अनवस्थाप्रसङ्गात् न चात्र
प्रवाहनित्येश्वरपक्षस्सम्भवति ऐश्वर्यस्य स्वरूपव्यक्तिलाभात्मकत्वेन
विनाशासम्भवात् । तत्प्रसादात्प्रध्वस्तसमस्तमल इति । न तु साङ्ख्यानामिव
स्वभावनिर्मलः । न च वेदान्तिनामिव स्वसामर्थ्यान्मुक्त इति वक्ष्यामः ।
सर्वकृत् सर्वविदिति पदद्वयं व्याचष्टे । तस्यचेत्यादि । तत्र सर्वज्ञत्वं
सर्वेषां समानम् । सर्वकर्तृत्वं तु विद्येश्वराणां परमेश्वरादंशेन
न्यूनम् । मन्त्राणां मन्त्रेश्वराणां च ततोऽपि न्यूनमिति वक्ष्यामः ।
त्रिविधस्यापि तस्य अपोहतिक्रियान्वयं शिवपदवाच्यत्वं चाभिधत्ते ।
मुक्तात्मनां त्वित्यादि । विद्येश्वराणां शिवपदप्राप्तिहेतुत्वादिति
परापराणां विद्येश्वराणाम् अनुग्रहकर्तृत्वेन । तदुपलक्षितानां तु
मन्त्राणां तत्करणतयेति । सर्वानुग्रहप्रवृत्तत्वादिति ।
विद्येश्वराणामप्यनुग्राहकत्वादिति । अणोरिति सूत्रवचनं
जात्येकवचनमित्याह अणोरित्यादि । कुतश्चिदुपायादित्यादि ।
विज्ञानयोगसन्यासैर्भोगाद्वा कर्मणः क्षयात् ।
तिष्ठति संस्कारवशात् चक्रभ्रमवद्धृतशरीर इति -
केवलं मलमायायुक्तोऽपि सम्भवति यतः । विदेहभेदादिति ।
देहशब्देनात्र भुवनजशरीराण्युच्यन्ते । ततस्सदेहस्तद्युक्तः । विदेहस्तु
सूक्ष्मशरीरमात्रदेह इत्यर्थः । यथासम्भवमिति मलरोधशक्तिभ्यां
विज्ञानाकलस्य ताभ्यां कर्मसहिताभ्यां प्रलयाकलस्य । व्यत्यासितस्येति ।
अत एव तत्प्रेर्यस्येति । तेन परमेश्वरेण रोधशक्त्या प्रेर्यस्य
बन्धान्तरयोगिनश्चेति बन्धान्तरेण कलादिना योगो यस्य तस्य
मायामलकर्मयुक्तस्य रोधशक्तिप्रेर्यस्य सकलस्येति । एतदेव प्रपञ्चयति
अयमर्थ इत्यादि योग्यतामपेक्ष्येति । साधिकरणानुग्रहार्हत्वं च बुद्ध्वा ।
पाशव्रातमपोहतीति कस्यचिन्मलकर्मणी कस्यचित् त्रिविधमिति यदुक्तं
प्राग्यथासम्भवमपोहतीति ॥ १ ॥
वृत्तिः ।
अथैतत्सूचितार्थप्रकाशनार्थम् उत्तरसूत्रम् ।
त्रिपदार्थं चतुष्पादं
महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन सङ्गृह्य
प्राह विस्तरशः पुनः ॥ २ ॥
पाशसद्भावे ह्यात्मनां
जन्मस्थितिध्वंसतिरोभावानुग्रहकृद्भगवान् भवतीति
पतिपाशात्मव्यतिरिक्तं न किञ्चित्पदार्थान्तरं
प्रयोजनवदेष्वेवान्येषामन्तर्भावात् इति त्रिपदार्थत्वमुक्तम् । किञ्च
पाशजालमपोहतीत्यपोहनक्रियाक्षिप्तः क्रियाचर्यायोगपादः
पतिपशुपाशोक्त्याक्षिप्तश्च विद्यापाद इति पादचतुष्टयोपक्षेपः कृतः ।
महातन्त्रमिति दर्शनान्तरेभ्योऽधिकफलत्वाच्छिवभेदकत्वेन
परत्वाद्वां महत् । तन्त्रिततत्तत्प्रमेयत्वाच्च तन्त्रम् । एकेनैवामुना सूत्रेण
सङ्गृह्य पुनर्विस्तरेणैतदेव प्रमेयं जगत्पतिश्श्रीकण्ठनाथः प्राह ॥ २
॥
दीपिका ।
अधुना त्रिपदार्थमिति व्याचक्षाणस्त्रिपदार्थत्वे कारणमाह
पाशसद्भावे हीत्यादि पत्युरनुग्राहकत्वेन पशूनामनुग्राह्यतया
पाशानां चापोद्यतयात्र प्राधान्यम् । अन्येषां तदङ्गतया
तत्कारणतया च तेष्वेवान्तर्भाव इत्युक्तः । चतुष्पादत्वमप्यादिसूत्र एव
सूचितमित्याह । किञ्चेत्यादि । दर्शनान्तरेभ्योऽधिकफलत्वादिति ।
सर्वान्यागमप्राप्यस्थानप्रदर्शनपूर्वं
तदनधिगतार्थप्रकाशकत्वेन सर्वातिशायिमोक्षप्रदत्वादिति ।
जगत्पतिश्श्रीकण्ठनाथ इति । जगच्छब्देनात्र भूरादयो लोकाः कथ्यन्ते
तत्पतिरनन्तशिष्य इत्यर्थः ॥ २ ॥
वृत्तिः ।
मूलसूत्रात्सर्वकृत्सर्वविदिति विशेषणद्वयं व्याचष्टे ।
जगज्जन्मस्थितिध्वंस
तिरोभावविमुक्तयः ।
कृत्यं सकारकफलं
ज्ञेयमस्यैतदेव हि ॥ ३ ॥
तेन स्वभावसिद्धेन
भवितव्यं जगत्कृता ।
अर्वाक्सिद्धेऽनवस्था स्यात्
मोक्षो निर्हेतुकोऽपि वा ॥ ४ ॥
जगतो जन्मवज्जन्तुचक्रस्य भोगोपयोगिपरिकरसहितस्य पौनःपुन्येन
तत्तद्विविधयोनिषूद्भवनं जन्म स्थितिस्तदिच्छानिरुद्धस्य सर्वस्य लोकस्य
स्वगोचरे नियोगस्थापनम् । ध्वंस आदानं जगद्योनावुपसंहारः ।
तिरोभावो यथानुरूपाद्भोगादप्रच्यावः । संरक्षणाख्ययान्यत्रोक्तः ।
यदाह वार्तिककारः स्वसंस्कारोचिताद्भोगादप्रच्यावश्शरीरिणाम् ।
प्रोक्तं संरक्षणं नाम न्यायेन परिपालनम् ।
विमुक्तिशब्देनात्रानुध्यानरूपोऽनुग्रह इत्येतत् परमेश्वरस्य सम्बन्धि
पञ्चविधं कृत्यम् । कारकैश्शक्त्यादिभिः फलेन च भुक्तिमुक्त्यात्मना
सहितं ज्ञेयमवबोद्धव्यम् ॥ ३ ॥
एतच्च न मायादिभिः कर्मभिर्वा निर्वर्तयितुं शक्यम् अचैतन्यात् ।
नापि पुरुषेण । तस्य मलनिरुद्धशक्तित्वात् । नचानीश्वरोऽत्र कर्ता युक्तः ।
यश्चैतत्सृष्ट्यादि कर्तुं शक्नोति सोऽवश्यं तद्विषयज्ञः ।
चिकीर्षितकार्यविषयाणां ज्ञानविशेषाणामंशेनाऽपि वैकल्ये
तत्तत्कार्यानिष्पत्तेः । अतश्च सर्वकर्त्रा सर्वज्ञेन तेन च स्वभावसिद्धेन
जगतः कर्त्रा भवितव्यम् । अर्वागित्यादि आदित्वेन सिद्धे
तस्मिन्नभ्युपगम्यमाने यदि कारणात्कुतश्चित् तस्यासावनुग्रहः तस्यापि
कारणं तत्कारणस्यापि कारणान्तरं मृग्यमित्यनवस्था । अथास्य विनैव
कारणं स्वत एव तथाविधमैश्वर्यं तदकस्माज्जातं तर्ह्येष निर्हेतुको
मोक्षोऽन्यानपेक्षणात्सर्वस्यैव स्यात् । तस्याऽपि वा न स्यात् यदाहुः -
नित्यं सत्वमसत्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातोऽहि भावानां कादाचित्कत्वसम्भवः ॥ इति ।
तस्मात्स्वभावसिद्धनित्यनिरतिशयनिर्मलसर्वार्थदृक्क्रियः
पतिपदार्थः पूर्वमुद्दिष्टोऽनेन लक्षितः परीक्ष्यः परस्तात् ॥ ४ ॥
दीपिका ।
भोगोपयोगिपरिकरसहितस्येति भोगोपयोगिना
सूक्ष्मरूपेणासाधारणेनाऽऽन्तरेण बाह्येन च भुवनाद्यात्मना
साधारणेन भुवनजशरीराद्यात्मना साधारणासाधरणपरिकरेण
शुद्धाशुद्धरूपेण तत्वव्रातेन यथासम्भवं युक्तस्येत्यर्थः ।
तत्तद्विविधयोनिषूद्भवनं जन्मेति । तत्र शुद्धाशुद्धरूपाणां
तत्वानां बिन्द्वात्मनो मायात्मनश्चोपादानात् साक्षात्पारम्पर्येण
चोद्भवनं जन्म । विद्येश्वरादीनां
सर्वज्ञत्वसर्वकर्तृत्वोत्पादनपूर्वं
स्वस्वाधिकारयोग्यबैन्दवशरीरयोगः । पशुसङ्घानां च
स्वस्वकर्माक्षिप्तेषु सन्निहितविषयेषु भुवनजशरीरेषु संयोजनम् ।
अपरमन्त्रेश्वराणां तु सर्वज्ञत्वाद्युत्पादनेन कलादियोगेन च
स्वाधिकारे नियोजनमिति वक्ष्यामः । एतच्च कृत्यं परमेश्वरस्य
शुद्धाशुद्धविषयं साक्षात्पारम्पर्येण चेत्युक्तम् -
शूद्धेध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुरिति ।
तदिछानिरुद्धस्य सर्वलोकस्येति ईश्वरशक्त्या निरुद्धस्य पूर्वोक्तस्य
जगतः । जगद्योनाविति मायायां बिन्दौ च । तत्र कलादिकस्य मायायाम् ।
शुद्धविद्यादेस्तु बिन्दाविति वक्ष्यामः । पशुसङ्घानां च संहारः
पलयाकलत्वमेव । यद्वक्ष्यति -
भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य विश्रमायाऽवतिष्ठत ॥ इति ।
विद्येश्वरादीनां तु संहारकालेऽधिकारपर्यवसाने मोक्ष इत्युक्तम् ।
श्रीमद्रौरवे -
अनन्तोपरमे तेषां महतां चक्रवर्तिनाम् ।
विहितं सर्वकर्तृत्वकारणं परमं पदम् ॥ इति ।
तिरोभावानुग्रहौ यथानुरूपाद्भोगादित्यादिना
प्रदर्शितावित्यविरोधः । शक्त्यादिभिरित्यादिग्रहणान्मायादि गृह्यते ॥ ४ ॥
वृत्तिः ।
इदानीं पशुपदार्थं लक्षयितुमाह ।
चैतन्यं दृक्क्रियारूपं
तदस्त्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ
श्रूयते सर्वतोमुखम् ॥ ५ ॥
सदप्यभासमानत्वा
त्तन्निरुद्धं प्रतीयते ।
वश्योऽनावृतवीर्यस्य
सोत एवाऽऽविमोक्षणात् ॥ ६ ॥
ज्ञानक्रियात्मकं यच्चैतन्यं तदात्मन्यस्ति न तु शरीरसमवेतमिति
चार्वाकनिराकरणे वक्ष्यामः । तच्च सर्वदैवास्ति न तु मुक्तौ संविदभावो
यथा वैशेषिकैरिष्टः तथाविधाया मोहरूपाया
मुक्तेर्निराकरिष्यमाणत्वात् । तच्चात्मनश्चैतन्यं ज्ञानक्रियात्मकं
सर्वतोमुखमस्ति । नतु क्षपणकानामिव देहप्रमाणकत्वनियमादव्यापि
पशुपदार्थप्रकरणे व्यापकत्वस्य च वक्ष्यमाणत्वात् । अत्र हेतुमाह
यतोमुक्तौ श्रूयते सर्वतोमुखमिति मुक्तावात्मनां सर्वतोमुखस्य
चैतन्यस्य श्रवणादित्यर्थः । न च तेषां तदानीमेव तदुत्पद्यत इति वाच्यम् ।
सदुत्पत्तेस्सत्कार्यवादप्रकरणेऽभिधास्यमानत्वात् । अथ मुक्तावेव
तथाविधचैतन्यश्रुतेः पूर्वं च तदनुपलम्भादन्वयव्यतिरेकाभ्यां
संसारावस्थायां सर्वतोमुखत्वं चैतन्यस्य कुत
इत्याशङ्कानिरासायाह सदप्यभासमानत्वादिति
सत्यमनुपलम्भस्संसारावस्थायां तथाविधस्य चैतन्यस्य स
त्वन्यथासिद्धः व्यञ्जकाभावकृतो हि योऽनुपलम्भः स नाभावसाधकः
अपि तु सति व्यञ्जके
यश्चायमनुपलम्भः व्यञ्जकाभावकृतः अतश्च नासत्वं साधयति ।
तच्च सर्वतोमुखत्वं सदपि यस्मान्न प्रथते ततः केनापि
प्रतिबद्धमित्यवसीयते । अस्माच्च हेतोरनावृतनिजसामर्थ्यस्य पुरा मुक्तेस्स
आत्मा वश्य इति ॥ ६ ॥
दीपिका ।
सदुत्पत्तेरित्यादि । नन्वेवं चेत्कलादेरिव संसारावस्थायां शक्ति
रूपत्वं मुक्तौ तु व्यक्तिरूपत्वमिति परिणामित्वादिदोषप्रसङ्गः । तन्न ।
अभिव्यक्तिसाधर्म्यमात्रादेवमुक्तम् । परमार्थतस्तु व्यापकमेव चैतन्यं
मलनिवर्तनेन प्रकटीक्रियत इत्यदोषः । एतदेवाऽऽशङ्कापूर्वमाह अथ
मुक्तावेवेत्यादि ॥ ६ ॥
वृत्तिः ।
एवं द्वितीयं पदार्थमभिधाय तृतीयं पाशपदार्थं
लक्षयितुमाह ।
प्रावृतीशबले कर्म
मायाकार्यं चतुर्विधम् ।
पाशजालं समासेन
धर्मा नाम्नैव कीर्तिताः ॥ ७ ॥
प्रावृणोति प्रकर्षेणाऽऽच्छादयतीत्यात्मनां दृक्क्रिय इति प्रावृतिः
स्वाभाविक्यशुद्धिर्मल इत्यर्थः । ईष्टे स्वातन्त्र्येणेतीशः
१। ईश्वरस्येति शेषः
तदीयं बलं रोधशक्तिर्द्वितीयः पाशः तथा ह्यग्रे वक्ष्यति -
तासां माहेश्वरी शक्तिस्सर्वानुग्राहिका शिंवा ।
धर्मानुवर्तनादेव पाश इत्युपचर्यते । इति ।
क्रियते तत्फलार्थिभिरिति कर्म । तस्य चानादित्वम्
आद्यकोटेरनुपलभ्यमानत्वात् । यतश्र्शरीरवतः कर्मकरणं तच्च
शरीरं कर्मारब्धं तान्यपि शरीरान्तरेण कृतानि तच्च कर्मजमिति सोऽयं
तृतीयः पाशः । मात्यस्यां शक्त्यात्मना प्रलये सर्वं जगत् सृष्टौ व्यक्तिं
यातीति माया यथोक्तं श्रीमत्सौरभेये -
शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये ।
विकृतौ व्यक्तिमायान्ति स्वकार्येण कलादिना इति ॥
कार्यसहितोऽयमप्यनादिकालिकश्चतुर्थः इत्येतदात्मनां
सहजसामर्थ्यप्रतिबन्धकत्वात्पाशानां जालमिव जालं
समासतस्सङ्क्षेपादुक्तम् । एषां च ये धर्मव्यापारास्ते नाम्नैव
प्रदर्शिताः अन्वर्थेन स्वाभिधानेन सूचिताः । तथापि यथावसरं
वक्ष्यन्ते ॥ ७ ॥
दीपिका ।
स्वाभाविक्यशुद्धिर्मल-इति तुषकम्बुकवदनादिकालिको मलः । न तु
ज्ञानक्रियावदात्मस्वभाव इति । पाशधर्मानुवर्तनादुपचारेण शक्तेः
पाशत्वं न मुख्यतः तदेव ज्ञापकेन दर्शयति तथाहीत्यादि तस्य
चानादित्वमिति । प्रवाहानादितया । तदेवाह यत इत्यादि ननु
शुद्धाध्वरूपोऽपि बन्धो विद्यत एव तत्कथं स्वकार्येण कलादिना स्थित
इत्युक्तम् । तद्योगस्य परमुक्त्यपेक्षया बन्धत्वेऽपि
विद्येश्वरादिपदप्राप्तिहेतोरपरमुक्तित्वेन वक्ष्माणत्वात् तस्य
पाशत्वेनानुपादानमित्यविरोधः । सहजसामर्थ्यप्रतिबन्धकत्वादिति
सर्वज्ञत्वसर्वकतृत्वनिरोधकत्वात् । सङ्क्षेपादिति मलशक्तीनां
प्रत्यात्मनियतानां कर्मणां मायाकार्याणां च
साधारणासाधारणोभयरूपाणामनन्तत्वाद्विस्तरोक्तिर्न शक्येत्यर्थः ।
ये धर्मव्यापारा इति स्वरूपावरणतिरोभावनफल-
जनकत्वशरीरेन्द्रियाद्युत्पादनत्वरूपाः ॥ ७ ॥
वृत्तिः ।
अथ पदार्थत्रयोपसंहारः ।
इति वस्तुत्रयस्यास्य
प्राक्पादकृतसंस्थितेः ।
चर्यायोगक्रियापादै -
र्विनियोगोऽभिधास्यते ॥ ८ ॥
इत्थमस्यैव पदार्थत्रयस्य विद्यापादे स्थितस्य चर्यादिपादत्रयेण
विनियोगो विभजनमभिधास्यते । वक्ष्यते । एवंविधेन विधिना पतिः
पाशोपशमनं कृत्वा पशूनां कैवल्यदो भवतीति प्रतिपादमेषामेव
प्रविवेकोऽभिधास्यत इत्यर्थः ॥ ८ ॥
तत्फलकथनायाह ।
विनियोगफलं मुक्ति
र्भुक्तिरप्यनुषङ्गतः ।
परापरविभागेन
भिद्येते ते त्वनेकधा ॥ ९ ॥
वृत्तिः ।
तस्य च विनियोगस्य विभजनस्य मुक्तिः फलम् । अनुषङ्गतः ।
अनुनिष्पन्नतया भुक्तिरपि । वक्ष्यमाणभौतिकदीक्षादिभिस्समभि-
लक्षितभोगोपभोगात्परतः परवैकल्याविर्भावः । तथाचोक्तं
रुद्रसंहितायाम् -
दीक्षापूता गणपतिगुरोर्मण्डले जन्मवन्त -
स्सिद्धा मन्त्रैस्तरुणदिनकृन्मण्डलोद्भासिदेहाः ।
भुक्त्वा भोगान् सुचिरममरस्त्रीनिकायैरुपेता -
स्स्रस्तोत्कण्ठाश्शिवपदपरैश्वर्यभाजो भवन्ति ॥ इति ।
ते भुक्तिमुक्ती परापरविभागेन बहुधा भिद्येते तत्र परा भुक्तिः
पातालादिकलान्ताध्ववर्तिविचित्रैश्वर्यसम्पन्नतत्तद्भुवनाधिपत्यम् ।
तत्तद्भुवनवासित्वमात्रं चापरा एवं परा मुक्तिः परमेश्वरसाम्यम् ।
अपरा तु मन्त्रमन्त्रेश्वरत्वम् । आसां च यथा बहुभेदत्वं तथाऽग्रे
वक्ष्यामः ॥ ९ ॥
दीपिका ।
विभजनस्य मुक्तिः फलमिति परम्परया विनियोगज्ञानादनुष्था-
नाच्च मोक्ष - इति । अनुनिष्पन्नतया भुक्तिरपीति भौतिकदीक्षायां तु
भुक्त्यनन्तरं मुक्तेर्निष्पन्नत्वात् भुक्तिरपि फलमुच्यत इति । एतदुक्तं भवति
। मुक्तिरेव दीक्षाया मुख्यं फलम् । भुक्तिस्तु वृक्षसेचनोद्य-तस्य
शकुन्तादितर्पणमिव दीक्षागतार्हत्वहेतुर्बूध्यनुपङ्गसिद्धेति । तदेवाह
वक्ष्यमाणेत्यादि ॥ ९ ॥
वृत्तिः ।
अथान्येभ्यो दर्शनेभ्यः कोऽस्य पारमेश्वरस्य ज्ञानस्य विशेष इति
मुनिः प्रष्टुमाह ।
वेदान्तसाङ्ख्यसदस -
त्पादार्थिकमतादिषु ।
ससाधना मुक्तिरस्ति
को विशेषाश्शिवागमे ॥ १० ॥
वेदान्तविदां मतेषु उपनिषदादिशास्त्रेषु । साङ्ख्यमतेषु
चतुष्षष्टितन्त्रादिषु सदसद्वादिनामार्हतानां च मतेषु
अकलङ्कत्रितयप्रभृतिषु द्रव्यादिपदार्थवादिकाणादादिशास्त्रेषु
आदिग्रहणात्सौगतादिमतेष्वपि यतो मुक्तिस्तत्साधनानि च श्रूयन्ते । ततः
कोसौ शिवागमे विशेष इति विशेषजिज्ञासयाऽनध्यवसितस्य मुनेः प्रश्नः ।
न सन्दिग्धत्वेन । आदावेव विशेषसम्भावनानिश्चयतः श्रोतुं प्रवृत्तत्वात्
। नापि विपर्यस्तत्वेन ते वव्रिरे शिवज्ञानमित्यभ्यर्थनाप्रवृत्तत्वेन
दर्शनान्तरानभिनिविष्टत्वप्रतीतेः । तत्तदागमश्रुता मुक्तिः तत्साधनानि च
परस्तात्तेषु तेष्ववसरेषु ग्रन्थकृतैवानुभाष्य दूषयिष्यन्त इति
नास्माभिः पृथक् प्रयत्नेन दर्श्यन्ते ॥ १० ॥
दीपिका ।
वेदान्तेत्यादिसूत्रस्य सम्बन्धमाह अथान्येभ्य इत्यादि
भोगमोक्षप्रसङ्गात् तद्विशेषजिज्ञासया प्रश्नः अत एव मुक्तिशब्दोऽत्र
भुक्तेरप्युपलक्षणत्वेन ज्ञेयः ॥ १० ॥
अत्र सिद्धन्तः ।
वृत्तिः ।
प्रणेत्रसर्वदर्शित्वा -
न्न स्फुटो वस्तुसङ्ग्रहः ।
उपायास्सफलास्तद्व -
च्छैवे सर्वमिदं परम् ॥ ११ ॥
प्रणेतारो हि हिरण्यगर्भाद्याः कणादपतञ्जलिकपिलप्रभृतयश्च । ते
चासर्वज्ञाः अपरत्वेनाभिमताः स्वप्रमेयादूर्ध्ववर्तिनो
युक्त्यागमोपपन्नस्य प्रमेयजातस्य तैरनवगमात् । तदुक्तम् -
स्वभावपुरुषाव्यक्तकर्मकालात्मवादिभिः ।
परमेशमदृष्ट्वैव मुक्तिर्मिथ्यैव कल्पिता इति ॥ तथा -
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
अथोभावपि सर्वज्ञौ मतिभेदः कथं तयोः ॥ इति ।
तैर्यतः प्रणीतानि शास्त्राणि अत एवैतेषु वस्तुसङ्ग्रहोप्यस्फुटः ।
पुम्पतिबन्धापवर्गज्ञानमस्पष्टमित्यर्थः । ये चात्रोपायाः
पुम्प्रकृतिविवेकज्ञाननैरात्म्यभावना
ब्रह्माद्वैताभ्यासषोडशपदार्थतत्वज्ञानादयः फलानि च
स्वर्गापवर्गलक्षणानि तत्सर्वं तद्वदस्पष्टमेव तथा तथा
वक्ष्यमाणवन्निर्वाहासहत्वात् । तस्मात्तेभ्योऽस्य शास्त्रस्यायं विशेषः ।
यदि वा सर्वं प्रकृष्टम् । यतः पशुपाशातीतगोचरेण
निरतिशयसर्वार्थज्ञानक्रियात्मना परमेश्वरेणेदमादिष्टमिति
प्रणेतृगतं परत्वमुपायानामपि दीक्षादीनां परिदृष्टसंवादित्वात्
परत्वम् । तथाहि यद्दीक्षादिना
ब्रह्महत्यादिमहापातकयोगिनोप्यपेतपातकत्वं दृष्टमित्यतो विषस्य
मारणात्मकशक्त्यपहरणवत् पाशानां बन्धकत्वव्यपगमस्सिद्धः ।
तदुक्तम् -
शुद्धिं वृजति तुलायां दीक्षातो ब्रह्महत्यतो मुख्यात् ।
प्रत्ययतो जानीयात् बन्धनविगमं विषक्षयवत् ॥ इति ।
फलं चेहान्यसर्वदर्शनदृष्टात् भोगापवर्गलक्षणात्फलात्प्रकृष्टम् ।
उक्तम् हि मतङ्गे -
अग्निहोत्रादिभिः पूर्तैस्तथा चान्द्रायणादिभिः ।
लोकत्रयेऽपि मोदन्ते विमानस्था यशस्विनः ॥ इति ।
अथाप्नुयुः पदं शाक्रमिष्ट्वा क्रतुशतं विधेः ।
या गतिश्शिवभक्तानां शाठ्येनापि महात्मनाम् ।
न सा यज्ञसहस्रेण प्राप्यते मुनिपुङ्गव ॥ इति ।
अपवर्गोप्यस्मिन् दर्शने सर्वान्यागमागोचरत्वात् परमः ।
तत्तदागमप्रणेतृणां साञ्जनत्वेनासर्वज्ञत्वात् तदुपदिष्टाया
मुक्तेर्मुक्त्याभासत्वात् । उक्तञ्च श्रीमद्भार्गवोत्तरे -
अन्यतन्त्रेषु ये मुक्ता धर्माधर्मक्षयान्नराः ।
तेऽत्र रुद्राणवः प्रोक्ता गुणत्रयविवर्जिताः ॥ इति ॥ ११ ॥
दीपिका ।
सिद्धान्तं व्याचष्टे प्रणेतार इत्यादि । ननु काणादादिषु शास्त्रेषु
कर्तृपूर्वकत्वात्तेषां चानासत्वसम्भावनयाऽस्फुटत्वं सम्भाव्यमिति
तदेतेषु तु कर्तृदर्शनाभावात्तद्दोषानधीनत्वाच्च प्रामाण्यस्य
कथमस्फुटत्वमत आह हिरण्यगर्भाद्या इति अथमभिप्रायः - रचनायाः
पटादेरिव कर्तृपूर्वकत्वसिद्धेः वेदानामपि पौरुषेयत्वसिद्धिः तत्सिद्ध्या
चास्फुटत्वसम्भावनेति । वेदानां च कर्ता हिरण्यगर्भ एव ।
यदुक्तमाचर्यैरपि -
हिरण्यगर्भकपिलमत्स्येन्द्रादयोवेदसाङ्ख्यकौलादितन्त्राणाम् ॥ इति ।
असर्ववेदित्वादिति व्याचष्टे ते चासर्वज्ञा इति ।
पुम्पतिबन्धापवर्गज्ञानमस्पष्टमिति । पुरुषस्य
क्षणिकत्वाव्यापकत्वनिर्मलत्वादिधर्मयुक्तत्वेन पत्युरुपादानादिरूपतया
बन्धस्य चासामर्थ्येन मोक्षस्य च प्रकृतितत्वादि प्राप्तिरूपत्वेन
ज्ञानविनाशादिरूपत्वेन चाभ्युपगमादिति । स्वर्गापवर्गलक्षणानीति
भोगमोक्षरूपाणि । न चान्नापवर्गशब्दः पुनरुक्त इत्याशङ्कनीयः ।
यदुक्तं पूर्वं मोक्षस्वरूपस्यास्फुटत्वमुक्तम् । अत्र तु तत्प्राप्तिषु
विसंवाद इति । ननु शैवस्यापि कर्तृपूर्वकत्वात्
कर्तुश्चानाप्तत्वसम्भावनया कथं नास्फुटत्वमत आह तस्मात्तेभ्यः
इत्यादि परमेश्वरस्य तु परमाप्ततया विप्रलम्भो न सम्भवति ।
तदुक्तमुपोद्धात एवेति तदुपदिष्टाया मुक्तेर्न मुक्त्याभासत्वमिति । यदुक्तम् -
बुद्धितत्वे स्थिता बौद्धा गुणेष्वेवार्हतास्स्थिताः ।
स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥ इत्यादि ॥ ११ ॥
वृत्तिः ।
अथ किं तदन्यदर्शनानामस्फुटत्वमत आह ।
वेदान्तेष्वेक एवात्मा
चिदचिद्व्यक्तिलक्षितः ॥ ११� ॥
आत्मैवेदं जगत्सर्वे नेह नानास्ति किञ्चन । तथा एको वशी
सर्वभूतान्तरात्मा एकं विश्वं बहुधा यः करोति । इत्यादिश्रुतिभिः
परमात्मैव सकलचिदचिद्भावाविर्भावतिरोभावप्रकृतिभूतः
परिपूर्णषाड्गुण्यवैभवस्स्वतन्त्र एकोपि सन् संसरति ।
तत्तद्विविधमनोलक्षणोपाधिभेदस्वभावान्तरानुविधायी
यथावदवगतोभ्युदयाय भवतीति वेदान्तविदः प्रतिपन्नाः । स एव हि
सत्वात्मन्युपाघौ शान्त इव रजोबहुले तु रागवानिवाऽज्ञानात्मके च तमसि
मुग्ध इवाऽऽस्ते । न तु ततोऽन्यत्पृथक्किञ्चिदवतिष्ठते । तस्यैव तथा तथा
वैचित्र्येणावस्थितेरसत्यत्वात्द्वैतप्रतिभासस्य द्विचन्द्रादिज्ञानवत्
भ्रान्तत्वात् । तथा चाह तत्र भवान् भर्तृहरिः -
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।
सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥
तथेदममृतं ब्रह्म निर्विकारमविद्यया ।
कलुषत्वमिवापन्नं भेदरूपे प्रवर्तते ॥ इति ।
एवं चाभिन्नमेवेदं परं ब्रह्म परमात्मलक्षणं मनसां हि
संसारधर्मैस्सुखदुःखादिभिर्योगः । परमात्मा तु सूर्य
इवाम्भःप्रतिबिम्बभेदैरुपाधिभिः अभिन्नोऽपि भिन्न इव प्रतिभाति । तथाच
श्रुतिः यथाऽयं ज्योतिरान्ता विवस्वानापो भिन्ना वाथ एकोऽनुगच्छत् ।
उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवममज्जत आत्मेति ॥ ११� ॥
दीपिका ।
अथाऽन्यदर्शनास्फुटत्वप्रकाशनाय प्रथमं
वेदान्तवादिमतस्यास्फुटत्वं सूचयितुं वेदान्तेष्वित्यादि श्लोकार्धेन
तन्मतमुपन्यस्यते । तदेव दर्शयति आत्मैवेदमित्यादि । अयमभिप्रायः
आत्मनो हि व्यापकत्वात् तदव्याप्तस्यान्यस्य परमणोरप्यसम्भवः
तत्सम्भवे तद्धर्मस्वरूपस्याव्यापकत्वात्तस्य व्यापकत्वासिद्धिः ।
विशेषतो व्यापकानामात्मान्तराणां सम्भवेन च व्यापकानामेकस्मिन्
संसारे स्थितिरपि न सम्भवति । पटव्यातप्रदेशेन पटान्तरस्य
स्थितिविरोधादित्येक एव परमात्मेति । तदेवाह परमात्मैवेत्यादि कथं तर्हि
देवदत्तयज्ञदत्तादिरूपभेदावसरः अत आह
तत्तद्विविधमनोलक्षणोपाधिभेदस्वभावान्तरानुविधायीत्यादि एतदेव
प्रपञ्चयति स एव हीत्यादि । द्वैतप्रतिभासस्येत्यादि
अविद्यानुबन्धतोऽसत्यरूप एव पशुमृगाद्यनन्तशरीरभेदेन
बहुप्रकारोऽयं जीवात्मभिर्दृश्यते । स्वप्न इव स्वप्ने
ह्यनन्तपुरुषप्रकाशादिप्रकाशो दृश्यते । ततश्च द्विचन्द्रप्रतिभासवत्
द्वैतप्रतिभासोप्यसत्य इत्येक एवात्मा श्रुतितो युक्तितश्च सिद्धः । स च
यथावदवगतोभ्युदयाय भवतीत्युक्तमिति ॥ ११� ॥
वृत्तिः ।
तदेतन्नोपपद्यते यतः ।
प्रतिज्ञामात्रमेवेदं
निश्चयः किन्निबन्धनः ।
अथ प्रमाणं तत्रात्मा
प्रमेयत्वं प्रपद्यते ॥ १२ ॥
ओमित्युपपत्त्यनुपपत्तिपर्यालोचनपरिहारेण यद्येतदङ्गीक्रियते ।
काममवतिष्ठताम् । न तु प्रामाणिकरीत्या यस्मात्प्रतिज्ञामात्रमेवैतत् । न
त्वत्र हेतुदृष्टान्तादिसम्भवः । तदभावान्निश्चयः किन्निबन्धनः
किमाश्रयः प्रमाणनिबन्धनो हि निश्चयः तत्तत्प्रमेयव्यवस्थापनसमर्थो
भवति । नान्यथा । नन्वत्र प्रमाणमागमस्तावच्छ्रुतिरूपः प्रदर्शित
एवेत्याह अथ प्रमाणमिति यदि प्रमाणमसत्यरूपं परमार्थतः
परमात्मन एव सत्यत्वात् । तथाविधेन प्रमाणेनैतत्प्रमीयमाणं
मनोनिर्मितेन प्रदीपेन सन्तमसावस्थितपदार्थप्रविवेचनप्रायम् । अथ
सत्यमेव प्रमाणमागमस्तावच्छ्रुतिरूपः एवं तर्हि स परमात्मा
प्रमेयत्वेन स्थितः । प्रमाणं हि प्रमेयं परिच्छिन्दत्
प्रमाणतामासादयति । इतरथा प्रमाणतैवास्य न स्यात् ।
दीपिका ।
सिद्धान्तसूत्रमवतारयति तदेतदित्यादि आत्मैकत्वम्
आत्मज्ञानान्मोक्षश्च नोपपद्यत इति । तदेतदाह ओमितीत्यादि नन्वत्र
हेतुरुक्तः व्यापकत्वादिति तदयुक्तम् । विपर्ययव्याप्तत्वेन विरुद्धत्वात् ।
व्याप्यं हि पृथ्वीपर्वतादि व्याप्नुवद्व्यापकस्सिद्धः । सूर्यालोकादिवत् न तु
स्वात्मन्येवावस्थितः अनवस्थाप्रसङ्गादिति व्यापकत्वसिद्ध्यैव प्रत्युक्तो
द्वैतनिरासः । यदप्युक्तं पटव्याप्तप्रदेशवदेकेन व्याप्ते जगति द्वितीयस्य
व्यापकस्यावस्थानं न सम्भवतीति । तत्सत्यं मूर्तानां न
त्वमूर्तानां विरोधासिद्धेः । गृहान्तर्व्यापकानां
शीतधूमालोकादीनामिवेत्यदोषः । यदप्युक्तम् अविद्याहेतुको
द्वैतप्रतिभास इति । तन्न । अविद्याया विद्यानिवर्त्यत्वेनाभ्युपगमात्
विद्यायाश्च तदन्यत्वमिति अद्वैतविरोधात् । ननु विद्यैव सत्यभूता न त्वविद्या
यद्येवमवस्तुत्वेनाविद्यायाश्शशविषाणादेरिव नित्यनिवृत्तत्वात्
तन्निवृत्युपायोऽयमात्मा ज्ञातव्यो मन्तव्यो निदिध्यासितव्य इत्यादि र्व्यर्थ
एव स्यात् शशविषाणादिनिवृत्युपायवत् । अथोच्यते आत्मप्रतिपत्युपायोऽयं
भविष्यतीति । तन्न यतस्तस्याविद्यात्मनः परमार्थिकस्य बन्धस्याभावात्
विद्यात्माधिगत एव । अन्धकाराभावे प्रकाशवदिति तत्रासावुपायो व्यर्थ इति
भावः । युक्तित एकत्वमिति प्रतिक्षिप्तम् । अथ श्रुतित एकत्वमिति
प्रतिक्षेप्तुमागमप्रमाणेनात्मैकत्वं प्रसङ्गाच्चोदयति । नन्वत्र
प्रमाणमित्यादि । आहेति उत्तरमाहेत्यर्थः । सिद्धान्तसूत्रं व्याचष्टे
यदीत्याअदि अयमभिप्रायः भेदप्रतिपादकानां श्रुतीनां सम्भवात्
एकत्वश्रुतीनां चान्यपरत्वात् तस्याऽऽगमरूपस्याऽपि
प्रमाणस्यार्थवत्वमिति कृत्वा प्रमाणत्वाभ्युपगमेऽपि तत्प्रमाणं
सत्यमसत्यं वा सत्यत्वे स एवाऽद्वैतविरोधो दोषः । असत्यत्वे
निष्प्रमाणत्वमिति ॥ १२� ॥
वृत्तिः ।
किञ्चातः किमन्यत् ।
यत्रैतदुभयं तत्र
चतुष्टयमपि स्थितम्
अद्वैतहानिरेवं स्यात्
निष्प्रमाणकताऽन्यथा ॥ १३� ॥
भोगसाम्याविमोक्षौ च ।
यौ नेष्टावात्मवादिभिः ॥ १४ ॥
यत्रैतद्द्वितयं प्रमाणप्रमेयलक्षणं तत्र
प्रमातृप्रमित्यात्मकमन्यदपि द्वयमन्योन्यसव्यपेक्षत्वात् स्थितमेव । न हि
प्रमातारमन्तरेण प्रमाणप्रमेययोः क्वचित्किञ्चित्करत्वम् ।
करणकर्मणोः क्रियासिद्धौ कर्त्राश्रयत्वात्प्रमितिरपि क्रियारूपो व्यापारः
तेभ्यः पृथगेवान्वयव्यतिरेकाभ्यामुपलभ्यत इति चतुष्टयमवश्यम्भावि
। यदाहाक्षपादः । चतसृषु चैवंविधासु सर्वोऽपि व्यवहारः
परिसमाप्यत इति । किञ्चात इत्याह अद्वैतहानिरिति
प्रमाणप्रमेयव्यवहाराङ्गीकरणे सति अद्वैतहानिरेव ।
अतस्स्वाभ्युपगमविरोधः । तदपह्नवे तु निष्प्रमाणकत्वम् । भोगसाम्येति ।
किञ्चभोगसाम्यमविमोक्षश्चाऽऽत्मवादिभिरनभ्युपगतौ दोषौ प्रसज्येते ।
सर्वैरेवाऽऽत्मवादिभिः प्रत्यक्षविरोधभीरुभिर्दृश्यमानं
भोगवैचित्र्यम् अवश्यमभ्युपेयम् । आत्मनां च मुक्तिरेष्टव्या ।
निश्रेयसहेतुतयैव शास्त्राणां प्रवृत्तेः । तदिह नादत्ते कस्यचित्पापं न
चैवं सुकृतं विभुः । तथा न कर्तृत्वं न
कर्माणीत्यभ्युपगमाद्विचित्रफ्लदायिनां प्रतिनियतजन्तुकृतत्वेन
भोगप्रतिनियमकारिणां कर्मणामेवाभावाद्भोगसाम्यप्रसङ्गो
दुर्निवारः । आत्मनानात्वे हि कश्चित्सुखितः कश्चिद्दुःखितः इति
भोगवैचित्र्यमुपपन्नम् । नान्यथा यत एव च संसारितायाः प्रभवः
तत्रैव निरंशे परमात्मनि यदि लयो मोक्षः तर्हि पुनरपि तत एव
प्रादुर्भावः पुनश्च मोक्ष इति सेयं गतानुगतिका न तु मोक्षः । तथाहि
तत्रभवानवधूताचार्यः त्वन्मते परविज्ञाननिष्पन्ना अपि मुक्तयः ।
भजन्ते नापि संवादमम्भसा इव वृष्टयः इति ।
ततश्च मोक्षाभावात्तदुपायानाम् आत्मा वा अरे श्रोतव्यो मन्तव्यो
निदिध्यासितव्य इत्यादीनामानर्थक्यम् । अपिचास्य
परमात्मनश्चेतनाचेतनविश्वोत्पत्ति हेतुत्वे चेतनाचेतनत्वं प्राप्तं
कार्याणां कारणस्वभावान्वयात् । यदाहुः -
तदेतद्रूपिणो भावा स्तदेतद्रूपहेतुजा । इति ।
अतश्च विरुद्धयोरन्योन्याभिभवेनैवाऽऽत्मलाभात्
भावाभावयोरिवैकस्मिन् काले चेतनाचेतनस्वभावयोः
परमात्मन्यवस्थानं नोपपद्यते । यदाह तत्र भवान् खेठ कनन्दनः -
विरुद्धावेककालस्थौ धर्मावेकाश्रयं गतौ ।
इतरेतरनाशात्तौ कुरुतो लोपमात्मनः । इति ।
न चास्य अनंशत्वात् केनचिच्चाचेतनत्वं युक्तम् ।
सांशत्वाभ्युपगमे तु कुड्यकुसूलादिवत् कार्यत्वात् परमकारणताहानिः ।
किञ्च यद्यदुपादानकारणं तत्तदचेतनं यथा मृदादि । अचेतनश्चायं
परमात्मा उपादानकारणत्वात् । चेतनत्वे नास्योपादानकारणत्वम्
अस्त्वचेतनं को दोष इति चेत् चेतनानां कारणं स्वयं चाचेतनमिति
विचित्रेयमुक्तिः । अचैतन्याभ्युपगमे चास्य बुद्धिमत्कर्त्रधिष्ठितस्य
मृत्पिण्डादेरिव न स्वकार्यजनने सामर्थ्यम् । येऽपि च ग्राहकत्वेन
स्वसंवेदनसिद्धा आत्मानो भोक्तारस्तत उत्पन्ना इत्युच्यन्ते
तेषामुत्पाद्यत्वात् घटादिवदचेतनाः प्रसज्यन्त इति अनेकदोषाश्रयस्य
परमात्मा द्वैतस्यानुपपत्तिः ॥ १४ ॥
दीपिका ।
दूषणान्तरमाह किञ्चात इति भोगसाम्यप्रसङ्गमेव दृढयति
तदिहेत्यादि । भोगवैचित्र्याभ्युपगमेन चाऽऽत्मनानात्वं सिद्धमित्याह
आत्मनानात्वे हीत्यादि अयमभिप्रायः । भोगो हि सुखदुःखसंवेदनात्मक
इत्युक्तं भोगोऽस्य वेदना पुंसस्सुखदुःखादिलक्षणा इति । ततश्च
भिन्नात्संवेदनात्मकाद्भोगात् भिन्नश्चाऽऽत्मा सिद्धः । एतदुक्तं भवति
यथा परमात्मनश्चिद्रूपत्वेन स्वसंवेदनात्मकत्वादिकत्वं सिद्धं
तथा जीवात्मनामपि भिन्नात्स्वसंवेदनादेव भेदस्सिद्धः ।
यत्स्वसंवेदनेन सिद्धं तत्सत्यमेव । यथा परमात्मन एकत्वम् ।
स्वसंवेदनसिद्धश्चायं जीवात्मभेदः ततस्सोऽपि सत्य एवेति अद्वैतनिरासः ।
न चायमसिद्धो हेतुः यतोऽयं स्वात्मपरात्मानुमातृतया स्वयमाभासते
। ननु भेदस्येतरेतराभावग्रहणपूर्वकत्वात् भावविषयेण प्रत्यक्षेण
ग्रहणं न सम्भवत्येव । यदुक्तम् आहुर्विधातृ प्रत्यक्षं न
निषेद्धृविपश्चितः इति । तदयुक्तम् । सिद्धे हि भेदेऽसावितरेतराभावः अन्यथा
पयोऽर्थी पावकमप्यनुधावेदिति सर्वमसमञ्जसमिति । अविमोक्षप्रसङ्गं
च दृढयति यत एवचेत्यादि । ततश्च मोक्षस्यासम्यक्त्वात्
एतदुपायानामसम्यक्त्वमित्याह ततश्चेत्यादि । इतश्च
तत्ज्ञानमसम्यगित्याह किञ्चेत्यादि । विचित्रेयमुक्तिरिति कार्याणां च
कारणान्वयादिति भावः । दूषणान्तरमाह येऽपि चेत्यादि ॥ १४� ॥
वृत्तिः ।
अथैवं वेदान्तवादिनां मते निराकृते
कापिलोक्तात्प्रकृतिपुरुषविवेकज्ञानात् निश्रेयसावाप्तिर्भविष्यति । यथा चाहुः
एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषात् ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति इति । श्रुतिरप्याह अजामेकां
लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको
जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः । इति ॥ एतदपि
निराकर्तुमाह ।
साङ्ख्यज्ञानेऽपि मिथ्यात्वम्
कार्ये कारणबुद्धितः ॥ १४� ॥
साङ्ख्यज्ञानेऽपि एतदसम्यक्त्वं यत्कार्ये मायोद्भूतकलाजनिते
प्रधाने कारणबुद्धिः परमकारणताभ्रमः ॥ मूलप्रकृतिरविकृतिरिति
तेषामभ्युपगमः । कलादीनां तत्वानां
पृथक्पृथगुपलभ्यमानप्रयोजनानां तत्तत्कारणरूपस्य
जगन्निधिरूपस्य मायात्मनोऽनुपगमात् । उक्तं च क्वचित्
गुणतत्वोर्ध्वभोग्यस्य कर्मणोऽनुपलब्धितः । कैवल्यमपि साङ्ख्यानां
नैव युक्तमसङ्क्षयादिति । तदयमर्थः । येयं कापिलैः परमकारणतया
परिकल्पिता सत्वरजस्तमोलक्षणगुणत्रयसाम्यात्मिका प्रकृतिः तस्यास्तावन्न
गुणेभ्योऽन्यत्वं गुणा एव प्रकृतिरिति हेतुभिः प्रतिज्ञाते गुणेभ्योऽनन्यत्वे
चावश्यमनेकत्वमस्याः यच्चाचैतन्ये सत्यनेकं तत्कारणान्तरपूर्वकम् ।
यथा तन्तवो मृत्पिण्डा वा सति च कारणान्तरपूर्वकत्वे न परमकारणता
इदं च ते प्रष्टव्याः । यदुत द्रष्ट्टृदृश्ययोस्संयोगः संसारहेतुः
तत्पूर्वकश्च वियोगोऽपवर्गकारणमिति यदुच्यते तर
संयोगस्तावत्पुम्प्रधानयोः द्रष्ट्टृदृश्यलक्षण एव । न
परस्पराश्लेषरूपः । उभयोरप्यमूर्तत्वेन तादृशस्यानुपपत्तिः ।
प्रधानं च न स्वतो दृश्यम् अप्रत्यक्षत्वेन तस्येष्टत्वात् । न च
महदहङ्कारादिरूपेण परिणतां द्रष्टा तां दृष्टुं शक्नोति ततश्च
कथमनयोराद्यस्संयोगः तदभावाच्च कथं तत्पूर्वको वियोगः । एवं च
संयोगवियोगानुपपत्तेरकारणत्वमेव पुरुषार्थं प्रति प्रधानस्य । अतश्च
मिथ्यात्वमेतदीयस्य ज्ञानस्य ॥ १४� ॥
दीपिका ।
अथ साङ्ख्यज्ञानेपीत्यादिसूत्रं व्याख्यातुमुत्सूत्रमेव
साङ्ख्यमतं सङ्क्षेपेण दर्शयति । अथैवमित्यादि । एवं तर्हि कापिला
मन्यन्ते पुरुषो ह्यकर्ता स्वभावनिर्मलः तस्य विवेकज्ञानात्पूर्वं
परार्थम्प्रवृत्तावस्वतन्त्रत्वात् परमकारणं प्रकृतिरेव महदादिरूपेण
सुखदुःखमोहात्मना स्वकार्येणाऽऽत्मानं भोग्यतया दर्शयति स एव
संसार इत्युच्यते । न चाचेतनस्य प्रवृत्तिर्न युक्तेति वाच्यम्
अयस्कान्तादीनामयस्समाकर्षणादौ प्रवृत्तिदर्शनात् । ततश्च तस्य यदा
प्रकृतिपुरुषविवेकज्ञानपुरस्सरं सत्वपुरुषान्यताप्रत्ययो भवति तदा तं
प्रति प्रधानं भोग्यत्वान्निवर्तते । स एव तस्य मोक्ष इति । यदाहुस्साङ्ख्याः
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा रङ्गात् । पुरुषस्य तथात्मानं
प्रकाश्य विनिवर्तते प्रकृतिः । इति तथा - प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति
मे मतिर्भवति । यादृष्टास्मीतिपुनर्न दर्शनमुपैति पुरुषस्य इति ।
साङ्ख्यज्ञानेपीत्यादि व्याचष्टे साङ्ख्यज्ञानेप्येतदित्यादि कथं
पुनस्साङ्ख्यानां भ्रान्तित्वमत आह कलादीनामित्यादि । तानि च तत्वानि
स्वस्वकार्यैरनुमानागमतश्च सिद्धानीति वक्ष्यामः । कार्यत्वमेव
दर्शयति तदयमर्थ इत्यादि । दूषणान्तरमाह इदं चेत्यादि । पुरुषो
ह्यकर्तेति यदुक्तं तद्दूषयितुमाह अतश्चेत्यादि ॥ १४� ॥
कुत इत्याह ।
अकर्तृभावाद्भोक्तुश्च
स्वातन्त्र्यादप्यचिद्वतः ॥ १५ ॥
अभोक्तुः पुरुषस्य भोगायतनेन देहेन
भोगसाधनैरिन्द्रियैर्भोक्तव्यैरिन्द्रियार्थैर्भोगेन च
सुखदुःखवेदनात्मना फलेन किं प्रयोजनम् । यतश्चास्य
भोगस्तदधिकरणतत्साधनसहितो-ऽस्ति अतो भोक्तृत्वमपहातुमशक्यम् । यश्च
भोक्ता स कथमकर्ता । अकर्तरि करणादिसम्बन्धस्य निरर्थकत्वात् ।
दृक्क्रियात्मकत्वमेव स्वरूपं चैतन्यस्य ततश्च कर्तृत्वनिरासात् ज्ञत्वमपि
निरस्तम् संवेदनस्यापि क्रियात्मनः कर्तृत्वानपगमात् । न
ह्यकर्तुस्संवेदनं चाप्युपपन्नम् । अतश्च साङ्ख्यज्ञानस्य
मिथ्यात्वमित्याह स्वातन्त्र्यादप्यचिद्वत इति । अचेतनमपि प्रधानं
बुद्धिमत्कर्तृप्रेरणं विना स्वातन्त्र्येण कथं कार्यकरणे प्रवर्तते । न
ह्यनुसन्धानशून्यस्य बुद्धिमतोऽपि घुणकीटस्येवाक्षरलेखने
प्रवृत्तिर्युक्ता । किं पुनः परिणामिनो जडस्य । यश्चात्र चेतनः पुरुषः स
तदधीनो न कर्तेति प्रकृतिस्थानां नेयं मुक्ति रुचिता ॥ १५ ॥
दीपिका ।
भोक्तृत्वं तावदात्मनः प्रत्यक्षमित्याह अभोक्तुरित्यादि ।
भोक्तृत्वादेव कर्तृत्वं सिद्धमित्याह यतश्चेत्यादि । चैतन्याव्यभिचारादेव
कर्तृत्वं संवेदनसिद्धमित्याह दृक्क्रियात्मकमित्यादि । अयमभिप्रायः ।
पुरुषस्तु चेतनरूपः कर्ता तस्यैव सर्वान्यकारकप्रवृत्तिनिवृत्तिहेतुत्वेन
संवेदनात् । प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः । अप्रवृत्तः
प्रवृत्तो वा स कर्ता नाम कारकः । इति । ननु क्रियावेशो हि कर्तृत्वं यदि
पुंसस्स्यात् परिणामिता भवेत् वाय्वादेरिवेति । तन्न । यतः क्रियावेशो न
कर्तृत्वं येनास्य परिणामिता प्रसङ्गः । अपि तु क्रियायां
शक्तत्वमेवायस्कान्तमण्यादीनामिव । न ह्यस्कान्तमणे क्रियावेशः । अपि तु
तच्छक्त्या अयस एव दृश्यते । तथा नात्मनः क्रिया अपि तु तच्छक्त्या
देहादेरेवानुभूयत इत्यविरोधः । यद्येवं शरीरात्मिकायाः प्रकृतेरेव
तत्कर्तृत्वमस्तु । तदयुक्तमिति स्वातन्त्र्यादिनोच्यत इत्याह । अचेतनमपीत्यादि ।
अयमर्थः । न हि शरीरस्य प्रकृतिस्वभावस्य
कर्तृत्वमचेनतत्वाद्घटादिवदिति । नन्वचेतनस्यापि प्रधानस्य कर्तृत्वं
पुरुषार्थं प्रति प्रवृत्तिः क्षीरस्येव युक्तम् । क्षीरं हि गवादेर्वत्सादि
वृद्ध्यर्थं स्वयमेव प्रवृत्तं दृष्टमेव । यदाहुस्साङ्ख्याः
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं
तथा प्रवृत्तिः प्रधानस्य इति । यद्येवमचेतनं क्षीरं चेतनेन
गवादिनाऽधिष्ठितं प्रवर्तमानं दृष्टमिति प्रधानस्याप्यचेतनत्वात्
प्रवर्तकेन चेतनेन भवितव्यमिति न स्वातन्त्र्यं प्रधानस्य । पुरुषस्य
निर्मलत्वेनाऽभ्युपगमान्न तं प्रति प्रवृत्तिर्युक्ता । प्रवृत्तौ वा सर्वान् प्रति
प्रवर्तते विशेषाभावादिति अनिर्मोक्ष एव साङ्ख्यानामिति । निर्मलत्वं च
पुरुषस्य न युक्तमिति वक्ष्यामः ॥ १५ ॥
वृत्तिः ।
इदानीमनेकान्तवादिनिराकरणाय साङ्ख्यातस्तन्मतं
पूर्वपक्षयितुमुच्यते ।
इह सप्तपदार्थास्स्यु -
र्जीवाजीवास्रवास्त्रयः ।
संवरो निर्जरश्चैव
बन्धमोक्षावुभावपि ॥ १६ ॥
स्याद्वादलाछिताश्चैते
सर्वे नैकान्तिकत्वतः ॥ १६ ॥
तत्र तावज्जीवपदार्थः नित्यो जीवास्तिकायसञ्ज्ञया परिभाषितः ।
त्रिविधश्चासौ अनादिसिद्धमुक्तबद्धभेदात् । अत्रानादिसिद्धोऽर्हन्
जीवास्तिकायाख्यः । व्यपेतमोहादिबन्धो मुक्तः । तदावृतस्तु बद्धः ।
अजीवपदार्थोऽपि पुद्गलाकाशधर्माधर्मास्तिकायैश्चतुर्भिर्भेदैर्भिन्नः ।
अत्रादिः पृथिव्यादिमहाभूतानि चत्वारि तृणगुल्मलतादिरूपं स्थावरं
जरायुजाण्डजस्वेदजोद्भिज्जं जङ्गमं चेति षट्प्रकारोऽयं
पुद्गलास्तिकायः । आकाशास्तिकायो द्विरूपः ।
लोकाकाशास्तिकायोऽलोकाकाशास्तिकायश्चेति ।
लोकानामन्तराकाशं लोकाकाशमिति स्मृतम् ।
अलोकाकाशकायश्च बहिस्तेषां स कीर्तितः ॥
धर्मास्तिकायः पुद्गलास्तिकायादन्योऽभ्युदयहेतुः ।
अधर्मास्तिकायोऽपि तत्प्रतिबन्धकृदिति । अयमसावजीवपदार्थः चतुष्प्रकारः
। आस्रवश्चक्षुरादीन्द्रियपञ्चकस्य यथास्वं प्रवृत्तिः । तथाचाहुः वृत्तिः
पञ्च विकल्पा ध्रुवाध्रुवा चक्षुरादिवर्गस्य । सैषा स्रवत्यजस्रं
तस्मात्त्वेता इहास्रवः प्रोक्तः । इति ।
इन्द्रियसंयमलब्धप्रतिष्ठाकध्यानमास्रवनिरोधात्मकात्वत्
संवृणातीत्यास्रवमिति संवरः ।
तप्तशिलारोहणनखकेशोल्लुञ्च्छनादितपस्सञ्चयं निर्जीर्णवीर्यं कर्म
निर्जरशब्देनोच्यते । नानाविकारसंसरणकारणं मोहादिरष्टविधो
गुणस्स्वातन्त्र्यविघातहेतुत्वाद्बन्धः । उक्तञ्च -
मोहादिको गुणश्चैष बन्धो जीवस्य कल्पितः ।
लोहपञ्जरसम्बद्धं यथा क्षिप्तं जलाशये ।
अलाबुकमधो याति तद्वज्जीवस्सबन्धनः ॥
इति । प्रक्षीणसर्वावरणत्वात् स्वातन्त्र्यसम्प्राप्तावूर्ध्वपदासादनं
मोक्षः । यदाहुः -
लोहपञ्जरविच्छेदात्प्लवतेऽलाबुकं यथा ।
आरोहति तथा मोक्षं जीवो मोहादिसङ्क्षयात् ।
नित्यबोधसुखाद्यैश्च धर्मैर्युक्तस्स तिष्ठति ॥ इति ।
एते च सप्तपदार्थाः । स्याद्वादानुगताः । तथाहि
देहग्रहणात्पूर्वं जीवो किमस्ति उत नेति यः पर्यनुयुङ्क्ते तं
प्रत्यनेकान्तवादोऽभ्युपगन्तव्यः । स्यादस्ति । स्यान्नास्ति । स्यादस्ति च नास्ति च ।
स्यादवक्तव्यम् । स्यादस्ति चावक्तव्यम् । स्यन्नास्ति चावक्तव्यम् । स्यादस्ति च
नास्ति चावक्तव्यं च । इति । अत्र हि यद्यत्पर्यनुयोज्यं तत्तत्सदसत्तया
समाधेयम् । तत्र वाच्यतयाऽवाच्यतयाऽपि च विरोधहानिस्तु घटनीयेति
सप्तभङ्ग्यमोघब्रह्मास्त्रवताम्
अजय्यमितीह किं तत् । यत्स्यादस्तिस्यान्नास्तीतिपुद्गलवाग्भ्राम्यते जगत्सर्वमिति ।
ननु चानैकान्तवादिना
तावदेकान्तानभ्युपगमान्नियमेनानैकान्तवादोऽभ्युपगन्तव्यः । तथा च
स एवैकान्त इति कुतस्सर्वत्र सप्तभङ्गी । नैष दोषः ।
अनेकान्तवादेप्येकान्तानभ्युपगमात् । यत्स्यादनेकान्तः । स्यादेकान्तः ।
स्यादनेकान्तश्चैकान्तश्च । स्यादवक्तव्यः । स्यादेकान्तश्चावक्तव्यश्च ।
स्यादनेकान्तश्चावक्तव्यश्च । स्यादेकान्तश्चानेकान्तश्चावक्तव्यश्च इति ॥
१६� ॥
दीपिका ।
इहेत्यादिसूत्रस्य व्याख्यातुमवतारयति इदानीमित्यादि । तदेवव्याचष्टे
तत्रेत्यादि । नन्वात्रानेकान्तवादिनिराकरणोद्यतस्य सप्तपदार्थोपवर्णनं
सागरं गन्तुकामस्य हिमवद्गमनोपमम् इत्ययुक्तम् । तन्न ।
वस्तुसङ्ग्रहस्योक्तस्यासम्यक्त्वप्रदर्शनपूर्वं तदुपरिष्टाया
मुक्तेस्तत्साधनस्यासम्यक्त्वप्रदर्शनार्थमित्यदोषः ॥ १६� ॥
वृत्तिः ।
तदेतल्लेशतो दूषयितुमाह ।
तदेव सत्तदेवास -
दिति केन प्रमीयते ॥ १७ ॥
स्यादस्ति स्यानास्ति चेति यदुक्तं तदसङ्गतम् । नहि यद्यदेव वस्तु
अर्थक्रियाकारितया सत्वेनावगम्यते तत्तदानीमेवाऽसत्वेनैकान्ततः
कश्चिदप्यवैति । कः किलानुभ्रान्तमतिः पुरः प्रस्फुरद्रूपे सदिति
प्रत्ययकारिणि घटादौ नायमस्तीति बुद्धिं कुर्यात् । असति च तस्मिन्
प्रख्योपाख्याविरहिणि सत्तानिश्चयानुदयात्
विधिनिषेधरूपयोर्भावाभावयोः परस्परपरिहारेणैवात्मलाभात् ।
अभावो हि तदसम्भवलब्धजन्माऽपि यदि तेनैव भावेन सहितः स्यात्
तदानीम् अभाव एव न स्यात् । तदुपमर्देनैव तस्य स्वरूपसिद्धेः । एवं
भावोऽपि यदि स्वप्रतिक्षेपेणाभावेनाव्यतिरिक्तः तर्हि भाव एव न भवेत् ॥ १७
॥
दीपिका ।
तदेवेत्यादिसूत्रं व्याचष्टे स्यादस्तीत्यादि । कुतस्स्यादयुक्तमित्याह
नहीत्यादि एतदेव प्रपञ्चयति कः किलेत्यादि ॥ १७ ॥
वृत्तिः ।
ननु घटरूपेण स्वात्मनाऽस्ति घटः । परात्मनापटरूपेण नास्तीति
सदसत्वमुक्तम् । न तद्युक्तम् । किं किलैतावता प्रतिपादितं स्यात् । घटो
घटात्मना भवति । घटे पटो नास्तीति । तदेतदभिमतमेव । अतदात्मकत्वेन
तत्राविद्यमानत्वात् पटाद्भिद्यमानोऽयं घटोऽन्य एवेति सिद्धं साद्ध्यते
तदाह ।
सदन्यदसदन्यच्च
तदेवं सिद्धसाद्ध्यता ॥ १७ ॥
ननु स्वात्मना यथा घटः स्वसामर्थ्यक्रिया करोति एवं
पटात्मनाऽपि तत्कार्यं कुर्यात् । न च करोति । अतः पटात्मना नास्ति । यदि
स्वात्मनाऽपि पटात्मवन्न स्यात्तदा स्वकार्यमपि न कुर्यात् । तस्मादस्ति च
नास्ति चेत्युक्तम् । तदेवं घटत्वमघटत्वं परस्परमभिन्नम् । विभेदे हि
तद्बुद्ध्याभिधानानुवृत्तिर्न स्यात् । घटश्चाघटश्चेति
सामानाधिकरण्यं च न भवेत् । अस्ति चैतत्तस्मादुभयात्मकोऽसौ क्रमेण
तच्छब्दाभिधेयतामुद्वहन् स्याद्घटश्चाघटश्चेत्यविरोधः ।
एतदप्ययुक्तम् । यतो नास्ति कश्चिदभेदः । तथाहि । अघटशब्दो घटो न
भवतीति प्रसज्यप्रतिषेधो वा स्यात् घटादन्यः पटादिरिति वा पुर्यदासः ।
आद्ये पक्षे घटश्चाघटश्च स्यादित्युक्ते घटाघटयोरव्यतिरेकात्
घटस्याभाव एव घट इत्यभिप्रेतम् । एवं चेष्यमाणे सूर्याभावोऽपि
सूर्य एव स्यात् । तथाच सति सर्पादिवत् तदभावादपि भयं स्यात् ।
ससर्पविसर्पदेशयोस्सम एवोपलम्भो भवेत् । पर्युदासपक्षेऽपि
घटत्वादन्यदघटत्वं भिन्नमेव पटत्वादिकं कथ्यते ।
तद्धिघटाद्भिन्नम् । अभेदे हि घटादिष्वपि पटबुद्ध्यभिधानानु-
वृत्तिस्स्यात् । घटादावपि स्पष्टे घटप्रत्ययश्च न स्यात् । तस्मान्न
घटाघटयोरभेद इति न सदसतोरेकाश्रयत्वम् ॥ १७� ॥
सदन्यदसदन्यच्चेति पूर्वपक्षाशङ्केत्याह नन्वित्यादि । तदुत्तरतया
तदेवमित्यादि व्याचष्टे । नन्वित्यादि तद्बुद्ध्यभिधानानुवृत्तिरिति ।
घटबुद्ध्यभिधानानुवृत्तिः । सामानाधिकरण्यं च न भवेदिति ।
घटार्थ एव भावाभावयोस्सामानाधिकरण्यमित्यर्थः ॥ १७� ॥
किञ्च ।
असज्जघन्यं सछ्रेष्ठ
मित्यपि ब्रुवते बुधाः ।
नैकत्र तदपेक्षात
स्स्थितमेवोभयं ततः ॥ १८� ॥
वृत्तिः ।
यदपि सदसच्छब्दाभिधेयं श्रेष्ठाश्रेष्ठरूपं वस्तु तदपि
तद्विदो नैकत्राभिदधति । तस्यापि भिन्नविषयत्वात् । न हि यदेवाश्रेष्ठं
तदेव श्रेष्ठमिति वक्तुं शक्यम् । अयमेव हि भावानां भेदः ।
यद्विरुद्धधर्माध्यासः । अथ मतं यत्तच्छ्रेष्ठाश्रेष्ठत्वं तदेकत्र
सम्भवत्येव अपेक्षाबलात् । यथायं देवदत्तो यज्ञदत्तसकाशादभिरूपः
चैत्रापेक्षया तु नीरूपः इति । एवं तर्हि यज्ञदत्तस्याश्रेष्ठत्वं चैत्रस्य
श्रेष्ठत्वमित्युभयम् तत अपेक्षात एव भिन्नं लब्धम् । यदपि द्वयं
तदापेक्षिकत्वादसत्यम् । अपेक्षा हि नाम न वास्तवी । तस्याः किल वस्तुतस्सति
सद्भावे किं प्रयोजनं सिद्धसत्ताकत्वेनानपेक्षत्वात् । तथाचाहुः -
संश्च सर्वो निराशंसो भावः कथमपेक्षत इति ।
न चालब्धसत्ताके वस्तुनि अपेक्षायाः किमपि करणीयमस्ति ।
तस्यासत्वादेव तदपेक्षानुपपत्तेः । तदिदमुक्तम् ।
अपेक्षा न सतां सिद्धेरसिद्धेरपि नासताम् इति ।
तदेवं न कथं चिदपि सदसतोरभेदोपपत्तिः ॥ १८� ॥
दीपिका ।
असज्जघन्यामित्यादि व्याचष्टे यदपीत्यादि । तदपेक्षात इति
पूर्वपक्ष्याशङ्क्तेत्या अथ मतमित्यादि तदुत्तरतया व्याचष्ट एवं
तर्हीत्यादि ॥ १८� ॥
अथ चेत्सदसद्भाव -
स्सदा युक्ततरो मतः ।
तत्कर्मसङ्करभया -
दव्यापित्वं च ते जगुः ॥ १९� ॥
सामान्येतरसम्बन्ध -
ज्ञानाभावादचेतसः ॥ २० ॥
वृत्तिः ।
तस्य देहात्पूर्वं सदसत्वेनाभिमतस्य व्यापकत्वात्पुद्गलान्त-
रैस्सह कर्मसङ्करश्शक्यते । व्यापकत्वे हि विप्रकीर्णानां कर्मणां
भोक्तॄन् प्रति नियमः किङ्कृतः । अव्यापकानां तु तेषां प्रत्येकं
व्यवस्थितो मोहादिबन्धपदार्थ एव तन्नियामक इति
कर्मसङ्करभयादव्यापकत्वं तेऽचेतसो दुर्बुद्धयो जगुरूचुः । कुत
एषां मन्दबुद्धित्वमित्याह सामान्येतरसम्बन्धज्ञानाभावादिति ।
सामान्येनानादिकालीनेनऽऽत्मनोव्यापकत्वेन यस्सम्बन्धः स
सर्वकालभावित्वेन साधारणमस्येतरेण च मुक्तावेव सञ्जातत्वात्
तथारूपेण यस्सबन्धस्तयोर्ज्ञानं सम्यगवबोधस्तेषां पुद्गल-
वादिनां नास्ति । यदि हि तदवबोध एषां स्यात् तदा ते नैवमयुक्तमेव
कल्पयेयुः । मोहादिपाशावरुद्धसहजव्यापकत्वस्वभावस्याऽऽत्-
मनस्स्वभावत एव अव्यापकत्वाभ्युपगमो यस्तस्य विरुद्धत्वात् ॥ २० ॥
दीपिका ।
तत्कर्मेत्यादि व्याचष्टे तस्येत्यादि । एतदुक्तं भवति व्यापकस्य
ह्यात्मनस्सर्वत्र संस्थितत्वात्स्वकर्मफलेनेव परकर्मफलेनाऽपि संयोग
इति तदपि भोग्यं स्यात् ततश्च स्वकर्मफलभोक्तृत्वनियमानुपपत्तिः
ततस्तदुपपत्त्यन्यथानुपपत्त्या पुद्गलोऽयभविभुत्वेनाभ्युपगन्-तव्यः ।
किच्च शरीराद्बहिरणुमात्रमपि असंवेदनाच्छरीरावधिक एवात्मा सिद्ध
इत्यनेकान्तवादिभिरुत्कम् । तदयुक्तमेव तैरुक्तमित्याह । अचेतस इत्यादि ।
अयुक्तकथने च तेषां कारणामाह । सामान्येत्यादि अयमभिप्रायः ।
अविभुत्वे ह्यात्मनो यद्देशान्तरफलं कर्म काश्मीरस्थस्य दक्षिणापथे
भुज्यमानं दृश्यते तन्नोपपद्यते अमूर्तत्वेन तस्याऽऽकाशस्येव
गमनासम्भवात् । ननूक्तं -
कथञ्चित्पुद्गलो मूर्तो ह्यमूर्तश्च कथं च न ।
स्यादनेकान्तवादोऽस्मिन् दर्शने येन संस्थिते इति ॥
तदयुक्तं मूर्तत्वामूर्तत्वयोः परस्परपरिहारेणैवाऽवस्थानात् ।
यदाहुः विरुद्धावेककालस्थौ धर्मावेकाश्रयं गतौ । इतरेतरनाशात्तौ
कुरुतो लोपमात्मन इति । कथं पुनश्शरीरद्बहिरसंवेदनमत आह
मोहादीत्यादि मलावृतत्वाद्यत्र शरीराद्यभिव्यञ्जकसद्भावः तत्रैव
अभिव्यज्यत इति । तस्य विरुद्धत्वादिति । अव्यापकत्वस्य विरोधात् ॥ २० ॥
तथाहि -
यः प्रागव्यापकस्सोऽन्ते
कथमन्यादृशो भवेत् ।
स विकासादिधर्मी चेत्
ततो दोषपरम्परा ॥ २१ ॥
वृत्तिः ।
प्राक् पूर्वं संसारावस्थायामव्यापको यस्स कथं मोक्षे
व्यापकः । अव्यापकत्वं च तदानीमभ्युपगन्तुमयुक्तम्
एवं हि संसारिमुक्तयोरविशेषः स्यात् । अथ तथा विधमस्य
विकाससङ्कोचधर्मित्वमभ्युपगम्यते । यदुत संसृतौ सङ्कोचमेति मुक्तो तु
विकासमेति इति । ततोऽपि परिणामित्वजडत्वाद्यनेकदोषसन्ततिः प्रसज्यत इति न
कथञ्चिदपि सदसद्वादिमतमुपस्थापयितुं शक्यम् ॥ २१ ॥
दीपिका ।
विरोधमेव दर्शयन् प्रागित्यादि व्याचष्टे प्राक्पूर्वमित्यादि ।
ननूक्तं कर्मसाङ्कर्यात्फलसाङ्कर्यमिति । तन्न । प्रतिपुरुषं
कर्महेतुश्चिकीर्षा भिद्यत एव । तद्भेदात्कर्मभेदस्तत्फलभेदश्च सिद्ध इति
यत्किञ्चिदेतत् ॥ २१ ॥
इदानीं पादार्थिकदर्शनप्रदर्शितमुक्तिनिराकरणायाह ।
षट्पदार्थपरिज्ञाना -
न्मिथ्याज्ञानं निवर्तते ।
रागद्वेषौ ममत्वं च
तद्विशेषगुणास्ततः ॥ २२ ॥
क्रमशो विनिवर्तन्ते
देहसंयोगजा यतः ।
सा मुक्तिर्जडतारूपा
ततो मुक्तश्शवो न किम् ॥ २३ ॥
द्रव्यगुणकर्मसामान्यविशेषसमवायानां
साधर्म्यवैधर्म्यतत्वज्ञानं निश्रेयसहेतुरित्यभ्युपगमात्
द्रव्यादिपदार्थषट्कस्य यथावत्ज्ञानादज्ञाननिवृत्तौ
रागादिदोषोपशमे
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां
नवानामात्मगुणानां देहसंयोगजत्वात्क्रमेण निवृत्तौ या मुक्तिस्सा
बुद्ध्याद्युपरमे सति आत्मनस्तद्विनाकृतस्य
किञ्चित्ज्ञत्वोपरमाज्जडतारूपाऽङ्गीक्रियते । ततश्शवोऽपि किं न मुक्तः
कल्प्यते । तस्यापि बुद्ध्यादिगुणविरहेणेच्छाज्ञानादिविनाकृतत्वादिति भावः
॥ २३ ॥
दीपिका ।
ननु ततश्च तदुक्तस्योर्ध्वपदासादनाख्यस्य मोक्षस्य
तप्तशिलाशयनादेश्च तदुपायस्यासम्यक्त्वं परिकल्प्य तस्यावरणं मलः
कल्प्यते भवद्भिः तद्वरं स एव जडोऽस्तु । एवं हि न बह्वदृष्टं कल्पितं
भवति । स्यादेतत् । तस्य प्रकृत्यैव चैतन्यं गुणो वह्नेः प्रकाशकत्वमिवेति ।
तदपि न । यतस्तच्चैतन्यमस्य शरीरेन्द्रियादिसामग्रीसन्निधाने प्रदृश्यते
तदभावे च न दृश्यते इति तज्जन्यमेव सिद्ध्यति
कुम्भकारादिसामग्रीजन्यघटादिवदिति स्वभावतो जड एवाऽऽत्मा । तस्य च
यावच्छरीरं नात्यन्तिकं सुखदुःखनिवृत्तिः । यच्छ्रूयते न हि वै
सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये
स्पृशत इति । तस्य च निवर्तकधर्मोपगृहीततत्वज्ञानान्मिथ्याज्ञाननिवृत्तौ
शरीरादिविरहादात्यन्तिकी दुःखनिवृत्तिरिति । एतदेवाह द्रव्यादीत्यादि ।
दूषणमाह तत इत्यादि । इह हि शरीरादिविषयसंवेदनसमये तत्प्रकाशको
हर्षविषादादिसंवेदनात्मा प्रकाशते वा न वा । न
तावन्न प्रकाशत इति युज्यते वक्तुम् । स्वानुभवविरोधात् । अथ प्रकाशत एव
तत्तु बौद्धमेव ज्ञानमिति चेत् तदयुक्तम् । सर्वदा तत्तदर्थप्रकाशकत्वेन
सुखादिभोक्तृतया च प्रकाशनात् आत्मैवासौ । एवं रूपत्वात्तस्य । अत एव
युगपदिव क्रमेणार्थभेदेऽपि सर्वदा तत्तदर्थग्राहकत्वेन स्थिरतयैव
भासमानः । न तत्तदिन्द्रियादिसामग्रीजन्यमस्य ज्ञानम् । अपि तु
ज्ञत्वस्वभावतैव तत्तत्सामग्रीवशात्तु
तत्तदर्थग्रहणप्रतिनियतस्वभावतेति सर्वदाचिदात्मनैव भासमानोऽजड
एवऽऽत्मा सिद्धः तत्तु तस्य चैतन्यं मलावृतत्वाच्छरीरादिविना नार्थेषु
प्रवर्तते । यदुक्तं मतङ्गे ।
चितेश्चित्सहजो धर्मस्स त्वनादिमलावृतः - इति ।
ततश्च तन्मतेऽपि वस्तुसङ्ग्रहस्यास्फुटत्वं सिद्धम् । तथा
बुद्ध्यादिविरहाज्जडरूपा काष्ठादीनामपि सुलभा
मोक्षात्संसारावस्थैव तेषां वरेति तदुक्ताया मुक्तेरसम्यक्तुम् । अत एव
तदुपायस्याप्यसम्यक्त्वमिति ॥ २३ ॥
वृत्तिः ।
अथ सौगतमुक्तिनिराचिकीर्षया तन्मतमनुभाव्य दूषयति ।
चिद्व्यञ्जकस्य कर्मादेः
क्षणिकत्वान्मुहुर्मुहुः ।
व्यज्यते जायमानेव
क्षणिकेति मता परैः ॥ २४ ॥
चित् ज्ञानं ग्रहीतृरूपं संवेदनं सा चित् व्यञ्जकस्य व्यक्तिहेतोः
कर्मणो व्यापारस्य योगसङ्ग्रहणादेर्यदि
वा कर्मणो ग्राह्यस्य घटपटादेः । आदिग्रहणात्करणस्य चक्षुरा-
देस्सहकारिण आलोकादेश्चानतिस्थैर्यात्प्रतिक्षणमुत्पद्यमानेव व्यज्यते
प्रकटीभवति । अयमर्थः वक्ष्यमाणसत्कार्यवाददृशा-
ऽभिव्यक्तितिरोभावभाजां भावानां व्यापारभेदेन देशकालादि-भेदेन
चानतिस्थैर्यात्तत्तत्ज्ञानमपि तत्तदुपाधिभेदान्मुहुर्मुहुर्-व्यज्यमानं
क्षणिकम् तदेव च प्रमाणमिति परे मन्यन्ते । तदाहुः -
नित्यं प्रमाणं नैवास्ति प्रामाण्यात् वस्तुसङ्गतेः ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनः । इति ॥
चिदेव हीयं क्षणिका तत्तदर्थप्रकाशरूपा अनुभवसिद्धा
नत्वेतद्व्यतिरिक्त आत्मा विद्यते संवेदनव्यतिरिक्तस्य भेदेनाप्रतिभासनात् ।
यदाहुः एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं
पश्यामः तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामिति संवेदन एव क्षणिके
जलधाराप्रवाहवत्सदृशपरापरोत्पत्तिभ्रमात् विकल्पेन
स्थर्यमध्यारोप्यत इत्यविद्याजनिता सेयमात्मदृष्टिः । तदुक्तम् -
मिथ्याध्यारोपणार्थं वो यत्नोऽसत्यपि भोक्तरि इति ।
आत्मग्रहे सति तदन्यत्र परत्वाभिमानात् स्वपरभेदः । ततश्च
रागद्वेषाद्यनर्थोद्भवादात्मग्रहो बन्ध इति भगवता सुगतेन
नैरात्म्यभावनोपदिष्टा । यदुक्तम् आत्मनि सति परसञ्ज्ञा
स्वपरविभागात्परिग्रहद्वेषौ । अनयोस्सम्प्रतिबद्धास्सर्वे दोषाः प्रजायन्ते
इति । न चाभ्युपगतस्याऽऽत्मनो नित्यत्वं घटते । यत्सत्तत्सर्वं क्षणिकम्
अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रियाऽनुपपत्तेः सत्ताया
एवासिद्धत्वात् । तदाहुः -
अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् ।
असन्तोऽक्षणिकास्तस्मात्क्रमाक्रमविरोधत इति ।
तथा नित्यो भावः क्रमेण वा अर्थक्रियां कुर्याद्युगपद्वा । न तस्य
तावत्क्रमेण करणमुपपद्यते ।
यस्मादयमप्रच्युतोऽनुत्पन्नस्थिरैकस्वभावः स च
कालान्तरनिर्वर्त्यामर्थक्रियां तदानीमेव किं न करोति । न
ह्यसाववसरान्तरकरणीयं स्वभावान्तरेण कुर्यात्
स्वभावस्यैकरूपत्वात् । स्वभावान्यथाभावे हि तद्वतोऽपि
तदव्यतिरेकाद्विनाशः ततश्चानित्यत्वम् । अथोच्यते । स पदार्थोऽर्थक्रियां
करोत्येव यदि सहकारिणोऽस्य सन्निहितास्स्युः तदसन्निधानादकुर्वाणस्य
नास्योपालम्भयोग्यत्वमिति । नैवम् । सहकारिणोऽस्याकिञ्चित्कराश्चेत्
किमर्थं तानपेक्षते । किञ्चित्करत्वे तु यत्किञ्चित्कुर्वन्ति तत्ततो व्यतिरिक्तं
वाऽव्यतिरिक्तं वा व्यतिरिक्तकरणे किं तस्य तदपेक्षया । तदव्यतिरिक्तकरणे स
एव सहकारिभिः किं क्रियत इत्यायातम् । न चास्य स्थिरस्य करणमुपपन्नं
तत्स्वभावस्य सतस्स्वहेतुभ्य एवोत्पत्तेः कृतस्य च कर्तुमशक्यत्वात् । अथ
स्थित्स्वभावस्याऽस्य सहकारिणोऽतिशयाधानं कुर्वन्ति येन
कालान्तरेऽर्थक्रियां करोतीति । एतदप्यसत् ।
यस्मादनाहितातिशयस्वभावादाहितातिशयोऽन्य एवेति स्थिरैकस्वभावतैव
त्रिट्यति । तथाहि सहकारिभ्योऽतिशयोत्पत्तौ स
पूर्वोत्पन्नानाहितातिशयस्वभावस्स्वत एव विनष्टोभ्युपगन्तव्यः ।
तस्यानश्वरस्वभावत्वेन नाशहेतोरपि तत्राकिञ्चित्करत्वात् ।
विनश्वरोद्भवस्वभावत्वे वा वैयर्थ्यात् तस्य च स्वभावस्याविशेषात्
प्रतिक्षणमिति क्षणिकता । तदेवं न नित्यस्य क्रमेणार्थक्रिया । नापि
युगपत्करणमुपपद्यते । यस्माद्यौगपद्येन निर्वर्तितार्थक्रियोऽपि
तस्मात्स्वभावान्न विरमेत् स्थिरतैकस्वभावत्वात् तत्स्वभावविरतौ
स्वभावहानिरिति क्षणिकत्वमेव । अथ नास्य स्वभावान्तरयोगः किन्तु न
करोत्येवायम् । कार्यस्य त्वयं हि विपाकः । कृतस्य यत्कर्तुमशक्यत्वमेव ।
तदप्ययुक्तम् । तस्य तावदर्थक्रियामकुर्वतो हि सत्ताया एव दुर्लभत्वात् ।
अर्थक्रियासमर्थं यत् तदत्र परमार्थसदित्युक्तत्वात् ।
अर्थक्रियाकरणलक्षणात्स्वभावात् तदकरणात्मस्वभावोऽन्य एवेति
कथमस्य न स्वभावान्तर योगः । यदि च यौगपद्येनापि कुर्वन्ननवरतं
करोति तदा स्वभावाविशेषात् सर्वदा सर्वार्थक्रियाकरणप्रसङ्ग इति
क्षणिकमेवेदं संवेदनं युक्तम् । न तु तद्व्यतिरिक्तनित्यात्मसिद्धिरिति
पूर्वः पक्षः ॥ २४ ॥
दीपिका ।
चिद्व्यञ्जकस्येत्यादिसूत्रमवतारयति । अथेत्यादि दूषयतीति
परैरित्यन्तेन पदेन दूषणमुपक्षिपतीत्यर्थः । योगसङ्ग्रहणादेरिति ।
योगोऽर्थेद्रियसन्निकर्षः । सङ्ग्रहणमवबोधनादिना तद्रूपपरामर्शः ।
कर्मादेरित्यादिग्रहणात्सूत्रेऽर्थादि गृह्यते । अत एव रूपान्तरेण व्याचष्टे
यदिवेत्यादि एतदेव प्रकटयति अयमर्थ इत्यादि । ननु बौद्धस्य
ग्राह्यपरामर्शात्मन एव ज्ञानस्य क्षणिकत्वं न त्वात्मनो
ग्राहकरूपस्य । अत एवाऽऽह चिदेवहीत्यादि । न हि द्वावुपलम्भो स्तः
एकोऽर्थस्यापरश्चाऽऽत्मन इत्यर्थः । कथं पुनस्तस्य स्थिरत्वाभासः अत
एवाह । संवेदन इत्यादि । ज्ञानव्यतिरिक्ताऽऽत्माभ्युपगमेऽपि न तस्य
स्थैर्यमुपपद्यत इत्याह नचाभ्युपगतस्येत्यादि एतदेव प्रपञ्चयति
तथाहीत्यादि ॥ २४ ॥
वृत्तिः ।
सिद्धन्तस्तु ।
तदसत्कर्मणो भोगा -
दतीतानुभवस्मृतेः ॥ २४� ॥
तदेतत्क्षणिकत्वं संवेदनस्य नैरात्म्यवादाभ्युपगमनं च न
युक्तम् । स्वसंवेदनसिद्धस्य स्थिररूपस्यापरोक्षस्याऽऽत्मनः प्रकाशनात्
। ननु सदृशपरापरक्षणोत्पत्तिविप्रलब्धत्वात्
स्थैर्यमध्यारोपितमित्युक्तम् । तदयुक्तं स्वात्मनि क्रियाविरोधात्
अध्यारोपानुपपत्तेः । यदपि क्षणभङ्गसाधनार्थम् अक्षणिकस्य
क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् सत्ताया एवासिद्धत्वात् यत्सत् तत्
क्षणिकमिति अनुमानघटनं कृतम् ।
तत्स्वसंवेदनलक्षणप्रत्यक्षबाधितत्वादयुक्तम् । अक्षणिकस्य सतस्सर्वस्य
संवेदनस्यानुभवसिद्धत्वात् अनैकान्तिकश्च । सर्वस्य सतः क्षणिकत्वेन
व्याप्तिप्रदर्शने सति अक्षणिकस्य परमार्थसतो
वैधर्म्यदृष्टान्तस्यासम्भवात् विपक्षव्यावृत्त्यदर्शनेन हेतोः
केवलान्वयिनो गमकत्वाभावात् । विरुद्धश्चायं सत्वाख्यो हेतुः ।
साध्यविपर्ययेणाक्षणिकत्वेन सर्वदाऽर्थक्रियाकारिणि घटादौ
सिद्धव्याप्तिकत्वात् । यदप्येतद्व्याप्तिसाधनार्थं नित्यस्य
क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् इति हेत्वन्तरम् ।
तदप्याश्रयासिद्धत्वादयुक्तम् । न हि नित्यः कश्चिदर्थो
भवद्भिरभ्युपगतः । यत्रायं १हेतुस्सिद्धस्स्यात् । न चाक्षणिकस्याऽपि
मण्यादेरर्थस्य क्रमेणानेकदेशस्थांस्तांस्तान् भावान् प्रकाशयतो
युगपच्चैकगृहगतान् घटपटादीनवभासयतः कश्चिद्विरोधः । अपि च न
तावत्क्षणिकं संवेदनम् अनेकक्षणनिर्वर्त्यार्थक्रियानुष्ठानसमर्थम् ।
उत्पत्त्यनन्तरध्वंसिनस्तदुपपत्त्याद्ययोगात् । न चारोपितं स्थैर्यं
तत्तद्व्यापारनिर्वर्तनक्षमम् ।
१। नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति हेतुरित्यर्थः ।
तस्य च स्वात्मनि अध्यारोपानुपपत्तेरित्युक्तत्वात् । आरोप्यस्य
चाऽवस्तुत्वेनार्थक्रियानुष्ठानासम्बन्धः । वस्तुत्वे च
स्थिररूपस्यैवावबोधस्याऽऽत्मरूपत्वेनाऽस्माभिरप्यभ्युपगमात् नास्ति
भेदः । कणिकव्यतिरिक्तश्च सत्तासन्तानो न कथञ्चिदुपलभ्यते ।
तस्मात्कर्मानुष्ठानसम्बन्धदर्शनान्यथानुपपत्त्या
वस्तुसिद्धमेवाऽस्य चिदात्मनः स्थैर्यम् । इतश्चैतत्क्षणिकत्वमयुक्तम् ।
कर्मणो भोगात् क्षणान्तरानन्वयिनि विज्ञाने कर्मभोगानुपपत्तेः । येनैव
हि दृष्टं सेवाकृष्यादि कर्म कृतं तमेव तस्य भोक्तारमुपलभामहे
दृष्टवच्चादृष्टकल्पना युक्तिमती । यद्युभयजन्मनि शरीरादिभेदेप्यभिन्न
एक एव भोक्ताऽभ्युपगम्यते तदा हि कर्मफलभोगो निर्बाधो भवति । अन्यथा
चैत्यवन्दनाख्यं कर्म अन्येन कृतमन्यस्यैव तत्फलेन स्वर्गादिना योग
इत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गो दुर्निवारः । उक्तं च मतङ्गे -
कृतमेकेन यत्कर्म तद्विपाकं परः कथम् ।
प्राप्नोति युक्तिदौर्बल्यात् इति । ननु नायं दोषः ऐहिकस्य
कर्मणोऽलब्धशरीरेण ज्ञानसन्तानेन परत्र भोगोपपत्तेः । तदयुक्तम्
अशरीरस्य ज्ञानसन्तानस्य सद्भावे प्रमाणाभावात् ।
कर्मफलभोगान्यथानुपपत्त्या विज्ञानसन्तानसिद्ध्ः तत्सिद्ध्या च
कर्मफलभोगः इत्यनुपपन्नमस्थैर्यं संवेदनस्य । अतश्च क्सणिकं
संवेदनमित्यसत् । कुत इत्याह अतीतानुभवस्मृतेरिति । अतीतस्समतिक्रान्तो
योऽनुभवस्तस्य स्मरणात् । यदा हि स्थिरस्वभाव
उभयकालानुसन्धात्रात्माऽभ्युपगम्यते ।
तदाऽनुभूतविषयसम्प्रमोषरूपं स्मरणमुपपद्यते । न तु क्षणिकत्वे ।
नहि १प्राक्तनक्षणानुभूतसुखदुःखादिसंवेदनं वर्तमानेन
कालान्तरभाविना वा क्षणेन स्मर्तुं शक्यं तस्यान्यत्वात् । यथा न
देवदत्तानुभूतं तत्पुत्रस्स्मरति । दृश्यते च शैशवाद्यनुभूतं
यौवनस्थाविराद्यवस्थासु स्मर्यमाणम् । सा चेयमतीतानुभवस्मृतिः
क्षणिकतां विज्ञानस्य निरस्यति न तु स्थिरस्वभावमात्मानमनुमापयति ।
तस्य स्वसंवेदनसिद्धस्य स्वानुभूत्येकप्रमाणत्वात् । तदेवं
कर्मोपभोगादतीतानुभवस्मृतेश्च न क्षणिकत्वमुपपद्यते चितः ॥ २४� ॥
दीपिका ।
तदसदित्यादिसूत्रं व्याचष्टे तदेतदित्यादि संवेदनस्येति
गृहीतृरूपस्य न तु बौद्धस्य तस्यास्थिरत्वेनैवाभ्युपगमात् । तदेव
दर्शयति स्वसंवेदनसिद्धस्येति ।
ग्राह्यपरामर्शात्मनोऽस्थिराद्बौद्धज्ञानाद्व्यतिरेकेण
ग्राहकात्मनोऽनुसन्धानरूपस्य स्थिरस्यैव स्वसंवेदनसिद्धत्वादित्यर्थः
। क्षणिकत्वे दूषणमाह अपिचेत्यादि अयमर्थः क्षणिकत्वे ह्यात्मनः
शास्त्राभ्यासः तदुक्तचैत्यवन्दनादिकर्मानुष्ठानं चासम्भाव्यमिति ।
ननु क्षणिकत्वेपि विज्ञानस्य
१। क्षणेनानुभूतमित्यर्थः ।
तत्सन्तानस्यार्थक्रियोपपद्यत इत्याह क्षणिकत्वव्यतिरिक्तश्चेत्यादि ।
ततश्चोत्तरक्षणस्य पूर्वक्षणेन सम्बन्धे स्थिरत्वमेव असम्बन्धे
अर्थक्रियानुपपत्तिरिति । स्वसंवेदनेन कर्मानुष्ठानान्यथानुपपत्त्या
चाऽऽत्मनस्स्थैर्यं प्रसाध्यकर्मभोगान्यथानुपपत्त्या च
स्थैर्यमित्याह इतश्चेत्यादि । अतीतानुमवस्मृतेरितीदं च हेत्वन्तरमवतारयति
अतश्चेत्यादि तदेव प्रश्नपूर्वकं दर्शयति कुत इत्यादि । तदेव स्फुटयति
यदाहीत्यादि ॥ २४� ॥
तदेवाह ।
स्थितिर्निरन्वये नाशे ।
न स्मृतेर्नाऽपि कर्मणः ॥ २५ ॥
सूच्यग्रनिपतत्सर्षपवदनवस्थायित्वात् अविश्रम्यैव विनश्यत्सु
विज्ञानक्षणेषु प्रोक्तवन्न स्मृतेरवस्थितेरुपपत्तिः कल्प्यते । नापि कर्मण
इत्यलमलीककल्पनाकुलीकृतस्थितिना क्षणभङ्गाभिनिवेशेन ॥ २५ ॥
दीपिका ।
एतदेव स्थितिरित्यादि श्लोकार्घेन प्रपञ्चयतीत्याह तदेवाहेति ॥ २५ ॥
वृत्तिः ।
किञ्चायमपरोऽत्र दोषः । यदुत ।
विनाशलक्षणोऽपैति
न मुक्तावप्युपप्लवः ।
न चास्यत्यनुभवः कश्चित्
भवावस्था वरं ततः ॥ २६ ॥
शुद्धचित्सन्ततिसमुत्पादो भवतां मोक्षस्स्यात् यदि वा
प्रदीपनिर्वाणरूप ? । आद्ये पक्षे स्वपरिकल्पितस्य प्रतिक्षणविनाशित्व-
लक्षणस्योपप्लवस्यमुक्तावप्यनुपशमः । द्वितीये तु
प्रदीपनिर्वाणरूपत्वात् संवेदनासम्भवतः कञ्चिदप्यनुभवो नास्तीति
तथाविधात् संवेदनविनाशात्मकात् काष्ठकुड्यादीनामपि सुलभात्
मोक्षात्संसारावस्था वरं सौगतानामिति कृतमेवंविधमोक्षलिप्सया ॥
२६ ॥
दीपिका ।
एवं वस्तुसङ्ग्रहस्यास्फुटत्वं प्रकाश्य तदुक्तस्य मोक्षस्या-
स्फुटत्वं दर्शयितुं विनाशेत्यादिसूत्रमवतारयति किञ्चेत्यादि अत्रेति
बौद्धमते मुक्त्युपायस्य नैरात्म्यभावनादेरस्फुटत्वमात्मस्थैर्-
यसाधनादेव सिद्धमिति ॥ २६ ॥
वृत्तिः ।
तदियता वेदान्तसाङ्ख्यसदसत्पादार्थिकादिमतेषु
असर्वदर्शिप्रणेतृकत्वात् वस्तुसङ्ग्रहस्यास्फुटत्वमसम्बद्धतां
चोद्भाव्य दर्शनान्तराणामप्येषैव वार्तेति तत्तदभिनिवेशिनां न
निरतिशयनिश्रेयसयोग इति वक्तुमाह ॥
इत्याद्यज्ञानमूढानां
मतमाश्रित्य दुर्धियः ।
अपवर्गमभीप्भसन्ति
खद्योतात्पावकार्थिनः ॥ २७ ॥
शिवशक्तिविद्येश्वरादावुपादेयवस्तुनि कर्ममलमायादौ च हेये
परमार्थत येषां नास्त्येव बोधः तेषामज्ञानमूढानां
दर्शनान्तरप्रणेतॄणां सम्बन्धि मतं शास्त्रमाश्रित्याऽकुशलमतयो
मुक्तिमिच्छन्ति ते खद्योतादग्न्यभ्यर्थिनः कीटमणेर्वह्निं लिप्सवः । ते यथा
व्यर्थश्रमास्तथा तेऽपि विफलक्लेशा भवन्तीत्यर्थः ॥ २७ ॥
दीपिका ।
इत्यादीति सूत्रम् अवतारयति तदियतेत्यादि दर्शनान्तराणामपीति
आदिशब्दोपात्तानां पाञ्चरात्रादीनाम् ॥ २७ ॥
वृतीः ।
तथाहि ।
यत्कैवल्यं पुम्प्रकृत्योर्विवेका -
द्यो वा सर्वं ब्रह्म मत्वा विरामः ।
या वा काश्चिन्मुक्तयः पाशजन्याः
तास्तास्सर्वा भेदमायान्ति सृष्टौ ॥ २८ ॥
यदेतत्कपिलकल्पितं पुम्प्रकृत्योर्विवेकात्कैवल्यं या च सर्वं खल्विदं
ब्रह्मेति मत्वा द्वैतविकल्पप्रहाणे सति ब्रह्मप्राप्तिः, याश्च पाशजन्याः
कैश्चित्पाञ्चरात्रादिभिः मुक्तयोऽभ्युपगताः । यथाहुः ईशास्तु ते
समभवन् प्रकृतेः परस्याः कृष्णानिरुद्धमकरध्वजरौहिणेयाः । इति ।
यथावा कलैकवादिनाम् -
कालस्सृजति भूतानि कालस्संहरति प्रजाः ।
कालस्सुप्तेषु जागर्ति कालो हि दुरतिक्रमः इति ।
यथा वा केषाञ्चित् ।
चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।
तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥
एताः किल प्रकृतिकालबुद्ध्यादीनां बन्धकत्वेन पाशरूपत्वात्
पाशजन्या मुक्तयस्सर्गारम्भे भेदमायान्ति विनश्यन्ति इत्यर्थः । यदुक्तं
मतङ्गे -
तस्मात्प्रधानशब्देन तत्वमुक्तमचेतनम् ।
तस्मात्परं नास्त्यपरं येषां भावः प्रतिष्ठितः ॥
न ते मुक्ता मुनिव्याघ्र पुनरायान्त्यधोगतिम् । इति ।
तथा -
उपादानेषु लीनानां पुनरावर्तनं ध्रुवम् ॥ इति । तेषां तु
तथाविधाभ्यासभाजां न
निरन्तरमज्ञानध्वान्तसन्ततिरन्तःकरणमावृणोति । अपि तु ते क्रमेण
विवेकप्रथनात्परमेश्वरानुग्रहास्पदतां कस्मिंश्चिदपि काले यास्यन्ति ।
तथाचोक्तं श्रीमत्पौष्करपारमेश्वरे -
न मोक्षं यान्ति पुरुषा स्स्वसामर्थ्यात्कदाचन ।
मुक्त्वा प्रसादं देवस्य शिवस्याशिवहारिण इति ॥ २८ ॥
दीपिका ।
यत्कैवल्यमित्यादिसूत्रेण एतदेव स्फुटयतीत्याह तथाहीत्यादि तत्र
पूर्वार्धेन प्रकृतिलयब्रह्मप्राप्त्युपलक्षितानां प्रोक्तमुक्तीनां
निरासोपसंहारः । उत्तरार्धेन पाञ्चरात्रादिमुक्तीनां निरास इति ।
केषाञ्चिदतीन्द्रियचैतनिकानामेषां च पाञ्चरात्रादिमोक्षाणां
पाशजन्यत्वं दर्शयति । एताः किलेत्यादि तत्र किल नारायणाख्यायाः
परप्रकृतेरुपादानत्वेनाभ्युपगमात् अचेतनत्वाच्चास्वतन्त्रमेवेत्युक्तम् ।
कालस्यापि भूतादिरूपतया त्रैविध्येनाचैतन्ये सत्यनेकत्वादनित्यत्वमिति न
कारणत्वम् । चित्तस्यापि व्यक्तत्वाद्भूतादिवदचेतनत्वं सिद्धमेवेति
तत्तत्वप्राप्तानां १तत्तत्संहारावधिरेव मोक्षः । ततश्च सृष्टिकाले
मलकर्मसद्भावात् पुनरपि संसार इत्यर्थः । यद्येवं न कदाचिदपि
तेषां मुक्तिसम्भवः । नेत्याह तेषां त्वित्यादि मलपरिपाके सति तेषामपि
शिवप्रसादात् मुक्तिस्सिद्ध्यतीति ॥ १८ ॥
वृत्तिः ।
अथैवं मतान्तरोक्ताया मुक्तेः प्रागुक्तवदसत्यत्वे ततः किं
तद्वैलक्षण्यमिहेत्यनयोस्सिद्धिमुक्त्योरित्याह ॥
१। सञ्ज्ञावधिरेवेति पाठभेदः ।
शैवे सिद्धे भाति मूर्ध्नीतरेषां
मुक्तस्सृष्टौ पुंवरोऽभ्येति नाधः ।
विश्वानर्थान् स्वेन विष्टभ्य धाम्ना
सर्वेशानानीरितस्सर्वदास्ते ॥ २९ ॥
इह शास्त्रे यस्सिद्धस्स विविधभुवनोपपन्नविचित्रैश्वर्यसम्पादि-
ततत्तद्भोगभाक् सर्वोत्कर्षशाली भवति । तथा चोक्तं बृहस्पतिपादैः
यन्माहात्म्यं भवति परमशिवेऽनुपममव्ययमचिन्त्यम् । तन्मा-
हात्म्यं सिद्धे हतबन्धनमण्डले भवति । इति । न च दर्शनान्तरप्रति-
पन्नब्रह्मलयसंविद्वि नाशप्रकृतिपुरुषविवेकाद्यात्मनो
मोक्षस्यैवङ्गुणत्वमित्युक्तम् । यस्त्वस्मिन् दर्शने मुक्तस्स
बन्धकारणानां मलकर्ममायापरमेश्वरनिरोधशक्तीना-
मुपरताधिकारत्वात् पुनस्सर्गप्रारम्भे नाधोभ्येति न संसारी
भवतीत्यर्थः । किं तर्हि स करोतीत्याह विश्वानर्थानिति आविर्भूतनिरति-
शयसर्वार्थज्ञत्वकर्तृत्वतश्शिवसमानमहिमत्वात्स्वतेजसा
समधिष्ठितसर्वार्थोऽपि स मुक्तात्मा न किञ्चित्करोति करणीयाभावात् । एवं
चेन्मुक्तेः पूर्वमकिञ्चित्करोभूत् मुक्तश्च तद्रूप एवेति कोऽस्य मुक्तौ
विशेषः अयं विशेषः । यतस्सर्वेशानेन परमेश्वरेणानीरितोऽप्रेरितः
तदानीमसौ भवति । किं कञ्चिदेव कालमप्रेर्यः नेत्याह सर्वदेति
सार्वकालं तं प्रत्यप्रेरकश्शिवभट्टारको भवतीत्यर्थः ।
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायाम्
मृगेन्द्रवृत्तौ द्वितीयं प्रकरणं समाप्तम् ।
दीपिका ।
शैवे सिद्ध इत्यादि । शैवे सर्वमिदं परमिति
पूर्वोक्तस्यैतच्छास्त्रसिद्धस्य भोगमोक्षस्फुटत्वस्योपसहारः क्रियते इत्याह
। इहेत्यादि नन्वत्रत्याया अपि मुक्तेर्महाप्रलयावसाने पुनरावृत्तिसम्भवः ।
अत आह बन्धकारणानामित्यादि निश्शेषपाशवियोगरूपत्वादस्य मोक्षस्य
न पुनरावृत्तिरित्यर्थः ।
इत्यघोरशिवाचार्यविरचितमृगेन्द्र वृत्तिदीपिकायाम्
परमोक्षनिरासप्रकरणं समाप्तम् ।