शिवाभ्यां नमः ।
मृगेन्द्रम् ।
दीपिकासहितया वृत्त्याऽलङ्कृतम् ।
विद्यापादः ।
दीपिका ।
यस्य ज्ञानक्रियारूपा शक्तिर्भुवि विमुक्तिदा ।
सर्वज्ञानविधातारं तं वन्दे परमेश्वर ॥ १ ॥
श्रीमन्मृगेन्द्रवृत्तौ नारायणकण्ठपादरचितायाम् ।
युक्त्यागमाविरुद्धं तात्पर्यार्थं प्रकाशयाम्यद्य ॥ २ ॥
योर्थो वृत्तिकृता स्वयं स्फुटतरं व्याख्यायते शाङ्करे
शास्त्रेऽस्मिन्न हि तत्र किञ्चन मया वक्तव्यमालोक्यते ।
यस्स्याद्विस्तरभीरुणा न गदितो यश्चास्फुटं सूचित -
स्तत्रैवागमयुक्तियुक्तमधुना किञ्चिन्मयाप्युच्यते ॥ ३ ॥
रामकण्ठमहाकण्ठकण्ठीरवपदानुगः ।
न कुतार्किकमातङ्गगर्जितेभ्यो बिभेम्यहम् ॥ ४ ॥
तत्र तावदत्रभवानाचार्यश्शिष्टाचारानुविधानाय
शास्त्रस्याप्यविघ्नपरिसमाप्तये च शास्त्रस्य
करणोपादानकर्तॄनवतारकांश्च गुरून् पूर्वोर्धेन प्रणमति ।
उत्तरार्धेन तु शास्त्रव्याख्यां प्रतिजानीते । चन्द्रार्धेत्यादि ।
अष्टाविंशत्यागमेष्वादिभूतकामिकस्योपागममिदं मृगेन्द्रम् ।
मृगेन्द्रसञ्ज्ञाकारणं लग्ने स्पष्टीभविष्यति ।
वृत्तिः ।
चन्द्रार्धचूडचरणाब्जयुगं प्रणम्य
वागीश्वरीं गणपतिं क्रमशो गुरूंश्च ।
लेशाद्यथामति यथागमयुक्तिगूढं
श्रीमन्मृगेन्द्रपरमार्थमहं व्यनज्मि ॥ १ ॥
दीपिका ।
चन्द्रार्धं चन्द्रकला प्रकाशकत्वादाह्लादकत्वाच्च
ज्ञानशक्तिरेव चन्द्रकलात्वेनोच्यते, सैव चूडा भूषणं यस्य ।
ज्ञानचन्द्रकलाञ्चित इति श्रुतेः । तस्य परमेश्वरस्य । चर्यते गम्यते
ज्ञायते आचर्यते अनुष्ठीयते क्रियते चानेनेति चरणौ ज्ञानक्रियाशक्ती
शास्त्रप्रणयनकरणभूते । यद्वक्ष्यति करणण् च न शक्त्यन्यत् । इति ।
विकसनशीलत्वाद्विमलत्वाच्च त एवाब्जे तयोर्युगं समष्टिरूपम् । एकत्वेऽपि
शक्तेरुपचारात्ज्ञेयकार्योपाधिभेदविवक्षया युगमित्युक्तम् । प्रणम्य
कायवाङ्गनोभिः प्रह्वीभूय । वागीश्वरीम् । शास्त्रोपादानभूतां
महामायात्मिकां परिग्रहवर्तिनीं परविद्यास्वरूपां शक्तिम् । यदुक्तं
श्रीमत्पौष्करे परा वागीश्वरी विद्या मायाविद्याऽपरा स्मृता । इति ।
यद्वक्ष्यान्ते शक्तेर्नादो भवेदि त्यादि । तथा गणपतिं गणानां
विद्येश्वराणां विद्यानाम् अपरमन्त्रेश्वराणां पशुसङ्घानां च
पतिः परमशिवः तं च शास्त्रप्रणेतारं प्रणम्य । कर्तुः क्रियायां
साधकतमत्वात्प्रथमं करणोपादानम् ।
सकरणस्याप्युपादानापेक्षित्वात् उपादानोपादानं पश्चात्कर्तुरुपादानम्
। क्रमशः । यथा क्रमम् । गुरून् । अनन्तश्रीकण्ठ शक्रभरद्वाजहारीतान्
तन्त्रावतारकान् अन्यांश्च स्वगुरुपर्यन्तान् प्रणम्य
श्रीमन्मृगेन्द्रपरमार्थं व्यनज्मीति सम्बन्धः । अनेन शास्त्रस्य
परमेश्वरप्रणीतत्वेन प्रामाण्यम्
आत्मनश्चाविछिन्नसम्प्रदायागतत्वेनऽऽसत्वं दर्शयति । लेशात् सङ्क्षेपात्
। यथामति यथाबोधम् । न हि पारमेशं शास्त्रं ब्रह्मणाप्यशेषतः
परिज्ञातुं शक्यम् । यद्येवं स्वमनीषिकया
यत्किञ्चिदभिदधानोसावनाप्त एव स्यात् । अत आह यथागमयुक्तीति ।
आगमानुमानानतिक्रमेणेत्यर्थः । गूढम् अतिगम्भीरम् । अयं च
व्याख्याप्रवृत्तौ विशेषणद्वारेण हेतुः । गूढत्वादेवासौ व्याख्येय
इत्यर्थः । श्रीमन्मृगेन्द्रपरमार्थमिति । श्रीमत्
सर्वेश्वरत्वात्परमेश्वरोऽपि श्रीः सा विद्यते यथा कर्तृतया यस्मिन् शास्त्रे
श्रीमच्चेदं मृगेन्द्रं च । ननु दशाष्टादशभिन्नेषु शिवशास्त्रेषु
मृगेन्द्राख्यया किमपि न श्रूयते । सत्यम् । अत एवेदं कामिकाख्यं
ज्ञानशास्त्रं मृगेन्द्ररूपिणा शक्रेणाऽऽश्रितत्वात् मृगेन्द्रमित्युच्यते ।
यद्वक्ष्यत्युपसंहारे इत्येतत्कामिकं ज्ञानमवाप्तं परमेश्वरात् इति
। तथा । ज्ञानं चैतत्परं गुह्यं यद्विस्पष्टं जगत्त्रये ।
श्रोतुर्मृगेन्द्ररूपत्वान्मृगेन्द्रमिति सूरिभि रिति ॥ तस्य परमार्थे
अर्थयाथार्थ्यम् । व्यनज्मि । प्रकटीकरोमि इति ।
दीपिका ।
ये किल व्याख्यातारः प्रकृतानुपयोगि यत्किञ्चिद्बहुतरं प्रलपन्ति । ये
च कुशलम्मन्यमाना व्याख्येयमर्थं स्पष्टमित्युपेक्षन्ते
तानुभयप्रकारान् द्वितीयेन श्लोकेनाऽऽक्षिपति ।
वृतीः ।
केचित्स्वबोधविभवप्रथनाय ताव -
द्गर्जन्त्यलं न किल यत्प्रकृतोपयोगि ।
अन्ये पुनः पटुधियो न विवेचयन्ति
स्पष्टार्थमेतदिति तत्तदुपेक्षमाणाः ॥ २ ॥
दीपिका ।
तृतीयेनाऽऽत्मव्याख्यायास्साधुत्वं सूचयन् -
वृत्तिः ।
सङ्क्षेपतः प्रकृतवस्त्वपरिस्फुटं ये
व्याचक्षते पदपदार्थसमन्वयेन ।
प्रायः कुशाग्रमतिभिस्तदिहाद्रियन्ते
व्याख्याकृतो विफलविस्तरभीरुभिश्च ॥ ३ ॥
दीपिका ।
साधुव्याख्यालक्षणमाह साक्षादित्यादिश्लोकत्रयेण ।
वृत्तिः ।
साक्षाच्छ्रीकण्ठनाथादिव सुकृतिजनानुग्रहायावतीर्णा-
च्छ्रुत्वा श्रीरामकण्ठाच्छिवमतकमलोन्मीलनप्रौढभास्वान् ।
श्रीविद्याकण्ठभट्टस्तदिदमुपदिशन्नादिदेशैतदेनां
स्पष्टार्थामत्र लघ्वीं विरचय विवृतिं वत्स सर्वोपयोग्याम् ॥
उपर्युपर्येव कृतानि कैश्चि -
न्मतान्तराणां हि निबन्धनानि ।
नोद्भिन्नमुद्रं त्विदमद्य याव -
त्तस्माद्गुरुर्मामिदमन्वशात्सः ॥ ५ ॥
तेनाहमस्यां विवृतौ प्रवृतो
नोल्लङ्घनीया हि गुरोरनुज्ञा ।
यदृच्छया कोऽतिगभीरशब्दं
मृगेन्द्रमाक्षेप्तुमिदं व्यवस्येत् ॥ ६ ॥
दीपिका ।
शास्त्रसम्प्रदायव्याख्याप्रवृत्तौ च कारणमभिधत्ते ।
अध्ययनश्रवणादावित्र शास्त्रव्याख्यानेऽपि गुर्वाज्ञैव
प्रवर्तनहेतुरित्यभिप्रायः । यदुक्तमाचार्यैरपि । गुरूपसदनात्प्रभृति
सर्वत्र तैर्गुरुवाक्यादेव प्रवर्तितव्यमिति । मृगेन्द्रमिति । मृगेन्द्रं शास्त्रं
सिंहं च । गभीरशब्दमिति । गभीरत्वं शास्त्रस्य गभीरार्त्थतया
मन्त्रत्वेन चेति ।
किमपीत्यादिना अनुक्तदुरुक्तसन्दिग्धानि समाधत्ते ।
वृत्तिः ।
किमपि यदिह नोक्तं यच्च किञ्चिद्दुरुक्तम्
कथितमपि मया यत्प्रस्फुटं नावभाति ।
दिनकृत इव दोषापह्नवैकप्रवृत्ता -
स्तदपि विबुधमुख्यास्स्पष्टयन्तः क्षमन्ताम् ॥
अतः परं प्रवर्तन्तां वृत्तयोप्युत्तरोत्तराः ।
प्रज्वालितात्प्रदीपाद्विकस्वरा दीपसन्ततिः ॥
दीपिका ।
दोषेति । रात्रिरित्यर्थः गुणविपर्ययाश्च । वृत्यन्तराण्यप्यनयैव
मातृकया प्रवर्तन्तामित्याह । अतः परमित्यादि ॥
वृत्तिः ।
अथानादिमलापेत इति तन्त्रम् । यत्पुनः परमेशं
नमस्कृत्येत्याद्युपोद्धातप्रकरणं तत्सम्बन्धाभिधेयप्रयोजनं
तन्त्रावतारक्रमनिदर्शनार्थम् । पुरा खलु तत्र भगवान्
भरद्वाजशिष्यस्समधिगतसकलवेदशास्त्रार्थतत्वो मुनिर्हारीतनामा
शिवशक्त्युन्मुखी कृतचेतोभिस्समासादितदीक्षैर्ज्ञानक्रियाचर्या-
योगजिज्ञासुभिर्नैमिशारण्यवासिभिस्तपोधनैः
कृतप्रणामाञ्जलिभिरूर्ध्वस्रोतःप्रसृतं श्रीमत्कामिकभेदमिमं
मृगेन्द्रोत्तरसञ्ज्ञकं पृष्टंस्सदा शिष्यगुणोपपन्नान् दृष्ट्वा
परमेश्वरादिप्रणामपूर्वकमिदमाहेति हारीतशिष्यस्तत्प्रशिष्यो वा
विरक्तिमनुकुर्वन् स्वशिष्यानिदमवदत् ।
मूलम् ।
परमेशं नमस्कृत्य
भरद्वाजमृषिं ततः ।
हरादिन्द्रक्रमायातं
ज्ञानं शृणुत सुव्रताः ॥
वृत्तिः ।
हे सुव्रताः परमेश्वरभक्तिप्रकर्षपरिपोषितशोभातिशय-वत्वात्सु
शोभनं व्रतं शास्त्रीयनियमानुष्ठानं येषां ते । ये च
श्रोतारस्सम्बोधिताः यद्वक्ष्यत्युपसंहारे भवत्सु
शिवशीतांशुज्योत्स्नापाण्डुष्विदं मया । तदिच्छयोक्त मिति ।
हरादिन्द्रक्रमायातं ज्ञानं शृणुत आकर्णयत इति सम्बन्धः । हरति
पशुभ्यः पाशान् पुंसोप्यूर्ध्वे पदमतस्तु हरः इति । यद्यपि
यौगिकीयं सञ्ज्ञा अनन्तेशादिष्वपि सामान्याः ।
तथाऽपीन्द्रशब्दसन्निधेरिहोमापतावेव हरशब्दो ज्ञेयः । यदाहुः
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ।
प्रोक्तास्सामान्यशब्दानां विशेषस्थितिहेतवः । इति । कुत एतदिति
चेद्यस्मादैन्द्रेऽस्मिन् कामिकभेदे भगवत उमापतेर्वक्तृत्वेनेन्द्रस्य
श्रोतृत्वेनैव सम्बन्धः प्रतीतः । तथाहि पुरस्तादिहैव मुनीनामिन्द्रो
वक्ष्यति ।
शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥
तेभ्योवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः ।
ददावुमापतिर्मह्यम् । इति । तस्मा द्धरादिन्द्रत्क्रमाच्छ्रीकण्ठ-
नाथात् इन्द्रादिक्रमेणाऽऽयातमवतीर्णम् । ज्ञायन्तेऽनेन
विद्याचर्याक्रियायोगा इति ज्ञानं शास्त्रम् । किङ्कृत्वा शृणुत परमेश्वरं
नमस्कृत्य सृष्टिस्थितिसंहरणादिभिश्चिदचिल्लक्षणं विश्वमीष्ट इतीशः ।
ईशितृत्वं चानन्तेशादीनामप्यस्तीति परमपदेन विशेषणम् । परमश्चासौ
अन्येषां तदनुग्रहतश्शिवत्वाभिव्यक्तेरीश्वरश्च स्वातन्त्र्येण
सृष्ट्यादिकरणात् परमेशः । तं नमस्कृत्य कायवाङ्मनोभिस्तस्मिन्
प्रह्वीभूय ततः अनन्तरं तन्त्रावतारकं भरद्वाजम् ऋषिमिति ऋष गताविति
धातोस्सर्वेषां च गत्यर्थानां ज्ञानार्थत्वादपि परमार्थतया ऋषिः ।
तं च नमस्कृत्य शृणुतेति श्रोतॄणां नमस्कारोपदेशः ।
अनमस्कृतपरमेश्वराणामप्रणत-गुरूणां च निर्विघ्नं
संहिताधिगमनासम्भवात् । यश्च श्रोतृजन-मेवं शिक्षयति सः
अर्थात्कृततथाविधः प्रवर्तत इति गम्यते, तेन यथा परमेश्वरं गुरूंश्च
नत्वाहम् उपदेष्टुं प्रवृत्तस्तथा यूयमपि श्रोतुं प्रवर्तध्वमिति
व्यवस्थितम् । यथा चैतदिन्द्रस्योमाप-तिनोपदिष्टं तत्परिसमाप्तौ यद्यपि
ग्रन्थ एवास्ति । तथाऽपि व्याख्या-नोपक्रमे
सम्बन्धादेरवश्याभिधेयत्वात्किञ्चिदुच्यते ।
कदाचित् अतिरुचिररत्नप्रकरविनिचितकनकमयकमनीयमहीतलमनो-
हरसप्तमजलधिं तद्विहरणभोगिनं नीलोत्पलत्विषं चतुर्भुजं
द्विकन्धराधारमुखद्वयेन वेदाध्ययनसुरापानसाङ्कर्यका-रिणम्
असुरनिवहपरिवृतं दुर्मतं महासुरं त्रिदशपतिरपश्यत् । अथ
तथाविधदुराचारदर्शनजनितकोपाकुलितमुनिगणसहितश्शत-
क्रतुरक्षममाणो लब्धवरत्वात्प्रसभमस्त्रैरवध्यं बुध्यन्
फेनान्तर्हितवज्रेण असुरस्य शिरोद्वयं चिच्छेद । तद्व्यापादनतश्च
वृह्महत्याजनितमघमाशङ्कमानस्तत्प्रशान्तये भगवन्तमच्युतं
नाम्नां सहस्रेण ऋग्यजुस्सामभिश्चास्तौषीत् । प्रसन्नेन हरिणा
नवोदितभास्वद्भासुरं सर्वहत्यभिभावुकं नारसिंहं कवचं
प्रयच्छता प्रोक्तं यथैतत्सन्नद्धदेहस्त्वं तपः कुरुष्व भगवन्तं
पिनाकिनमाराधयन् वर्षसहस्रान्ते तु तं
दृष्ट्वाऽभिमतमासादयिष्यसीत्युक्त्वान्तर्हिते मुरारौ सर्वं तदिन्द्रेण
कृतम् । अथ प्रत्यक्षीभूते भगवति पिनाकिनि निखिलदुःखान्तश्चास्य
सञ्जातः । श्रीमत्कामिकाख्यञ्चास्मै परमेश्वर उपदिदेश । यतश्चेन्द्रस्य
नृसिंहरूपिणस्समुपदिष्टमिदमुमापतिना ततो
मृगेन्द्रश्रोतृत्वान्मृगेन्द्रसञ्ज्ञया प्रथितम् ।
सम्बन्धस्त्वत्र षट्प्रकारः परादिः । तथा हि सर्गादौ परमेश्वर
ऊर्ध्वप्राग्दक्षिणोत्तरपश्चिमस्रोतःपञ्चकभेदभिन्नं ज्ञानं
स्वेच्छानुगृहीतविद्येश्वराष्टकप्रबोधनानन्तरं तदभिव्यक्तं
मन्त्रेश्वरादिभ्यो वक्ष्यमाणवदादिदेश । तथा चोक्तं किरणे -
सृष्ट्यनन्तरमेवेशश्शिवान् सृष्ट्वा दशात्मजान् । ज्ञानमेकं
विभज्याशु तेषां तत्सङ्ख्ययाऽवदत् । कामिकं प्रणवाख्यस्य
योगजमित्यादि ॥ अत्र आत्मजानिति आत्मनैव
निरधिकरणेनानुग्रहेणानुगृहीतानित्याशयः । तेभ्यः उमापतिः प्राप ।
तस्माच्च शक्रः । ततोऽपि भरद्वाजः । तत्सकाशात्तु हारीतः । स पुनः
स्वशिष्येभ्यः प्राहेति परस्तात्सर्वं स्पष्टीकरिष्यामः । अभिधेयाश्चेह
ज्ञानक्रियायोगचर्याः । प्रयोजनं चाऽत्र तत्ज्ञप्तिः । तत्प्रयोजनमपि
भुक्तिमुक्ती । परमेश्वरसद्भावसाधकप्रमाणोप-न्यासः
तद्बाधकनिराकरणं च यद्यपि तत्प्रणीतागमप्रामाण्यसाधनाय
प्रथममेवोपयुज्यते । तथापि शास्त्रकारेणैवाऽत्रैतद्विचारितम् अतस्तत्रैव
वक्ष्यामः । केवलमेतावदेवेह प्रतिजानीमहे । यदुक्तं - आयुर्वेदाच्च
गणितान्मन्त्रवादाच्च सस्वरात् । रसोपनिषदाटोपादाप्तस्स परिगृह्यते ।
इति । तच्चाऽऽप्तत्वं साञ्जनत्वादसर्वार्थदृशां
दर्शनान्तरप्रणेतॄणां स्वस्वविषयमेव ।
नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियाशक्तेस्तु सर्वदा
सर्वानुग्रहप्रवृत्तस्य परमेश्वरत्वादेव सर्वाधिष्ठातुस्सर्वविषयम् ।
एवंविधविशेषणविशिष्टस्य वक्तुंर्विप्रलम्भकत्वासम्भावनात्
नाऽप्रामाण्यम् । एतच्च यथावसरं वक्ष्यामः । तदेवमीदृग्रूपो
भगवानागमस्य कर्ता । आगमस्तु तं ज्ञापयति । अतश्च द्वयोरपि
विसदृशक्रियत्वात् नात्रेतरेतराश्रयदोषस्स्यात् । यथा कश्चिदेवं वक्ति
देवदत्तोऽहमायात-इति । तद्वाक्यश्रवणाच्च तदन्ये मन्यन्ते
देवदत्तोऽयमायात इति । न चात्र देवदत्तस्य तद्वाक्ये चेतरेतराश्रयत्वं
युक्तम् । तदुक्तेषु च दृष्टार्थेषु विषभूतरसवादादिषु तदागमस्य
फलवत्वमुपलभ्याऽदृष्टार्थस्य तच्छासनस्यापि फलदत्वमनुमीयत
इत्यलमनेन । प्रकृतमनुसरामः ॥ १ ॥
दीपिका ।
शास्त्रस्वरूपं दर्शयति अथानादीत्यादिना । उपोद्घातपटलस्य
प्रयोजनमाह यत्पुनरित्यादिना । यदाहुः चिन्तां
प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति । उपोद्घातपटलस्य
प्रस्तावमाह पुरा खल्वित्यादिना । समासादितदीक्षैः इति, नादीक्षितानां
श्रवणाधिकार इत्यर्थः । ऊर्ध्वस्रोत इत्यादि सिद्धान्तरूपं न वामादिकम् ।
मृगेन्द्रोत्तरसञ्ज्ञमिति मृगेन्द्रं प्रत्युक्तवान् मृगेन्द्रोत्तराख्यं न तु
मृगेन्द्रैकदेशभूतम् । ज्ञानादिपादचतुष्टययोगात् । शिष्यगुणोपपन्नानिति
। यदुक्तम् अर्थी शक्तो विद्वान् शास्त्रेणापर्युदस्तस्तन्त्रेऽधिक्रियत इति ।
परमेश्वरादीति आदिग्रहणाद्भरद्वाजः व्याख्यानादौ
पूज्योऽभिवन्द्यश्च गुरुः यतः । हारीतशिष्य इत्यादि हारीतवचनमेव
हारीतशिष्यादिभिरनूद्यत इत्यर्थः । व्रतं शास्त्रीयनियमानुष्थानं
सामान्यविशेषशास्त्रसिद्धम् । श्रीमद्भार्गवे इति वर्णाश्रमाचारान्
मनसापि न लङ्घयेत् । यो यस्मिन्नाश्रमे तिष्ठन् प्राप्तो दीक्षां
शिवात्मिकाम् । स तस्मिन्नेव सन्तिष्ठेत् शिवधर्मं च पालयेदिति ।
श्रीमत्स्वायम्भुवेऽपि - गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् ।
अचारदीक्षितास्तद्वत्कुर्वीरन्निति । हरति पशुभ्यः पाशानित्यादि
हरशब्देनात्रानन्तशिष्यः श्रीकण्ठः प्रोच्यत इति । अत्र हेतुमाह
इन्द्रशब्दसन्निधेरिति तस्यैव ब्रह्माण्डमध्याधिकारित्वादित्यर्थः । एतदेव
प्रपञ्चयितुं प्रश्नयति । कुत एतदित्यादि । परिहरति यस्मादित्यादि
हरादिन्द्रक्रमायातमित्यत्र इन्द्रशब्दो भरद्वाजस्याप्युपलक्षणमित्याह
इन्द्रक्रमेणेति । ज्ञानपदं व्याचष्टे ज्ञायन्तेऽनेनेत्यादि । विद्याशब्देनात्र
विद्यापादवाच्यः पत्यादिरर्थो गृह्यते । तदनुग्रहतश्शिवत्वाभिव्यक्तेरिति ।
विद्येश्वरादीनां शिवानुग्रहादेव सर्वज्ञत्वाभिव्यक्तेः । यद्वक्ष्यति -
तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् ।
वामादिशक्तिभिर्युक्तं सप्तकोटिपरिछद मिति । अतस्तस्मिन्नेवेशशब्दस्य
मुख्यत्वमित्याह स्वातन्त्र्येणेत्यादि अनन्तादीनां तत्प्रेरणयैव
सृष्ट्यादिकरणात् सर्वज्ञत्वेऽपि तेषां शिवापेक्षया कर्तृत्वं
न्यूनमित्यर्थः । भरद्वाजस्य ऋषित्वप्रसिद्धौ ऋषिशब्दस्य
पुनरुक्ततामाशङ्कय परिहरति ऋष गतावित्यादि ।
सम्बन्धादेरित्यादिग्रहणात् अभिधेयं प्रयोजनं च गृह्येते । तत्र
सम्बन्धप्रकाशनार्थमितिहासमाह । कदाचिदित्यादि । विहरणभोगिनमिति
क्रीडाव्यसनिनम् । निखिलदुःखान्तश्चास्य सञ्जात इति निखिलदुःखहेतुत्वात्
निखिलं दुःखं मलः तस्यान्तो व्यपगमः सञ्जातः तत्काल एव
मलपरिपाकवशाच्छक्तिनिपातपूर्वकं निर्वाणदीक्षास्य सम्पन्नेत्यर्थः ।
अत एवाधिकारित्वात् श्रीमत्कामिकाख्यं चास्मै परमेश्वर उपदिदेश
शास्त्रमिति शेषः । सम्बन्धप्रकारानाह सम्बन्धस्त्वित्यादि परादिरिति
परो महानन्तरालो दिव्यो दिव्यादिव्योऽदिव्यश्चेति । तानेव दर्शयति
तथाहीत्यादिना । स्रोतः पञ्चकभिन्नमिति सिद्धान्तरूपमेवेदं
पञ्चमन्त्रपरिग्रहत्वात् पञ्चकृत्यप्रतिपादकत्वात्
पञ्चमन्त्रात्मकशिवदेहाभिव्यक्तत्वाच्च पञ्चस्रोतोरूपमुच्यते । न
वामादिकमपि तेषामशिवकर्तृकत्वात् कथं पुनस्तेषामपि शैवत्वेन
क्वचित्प्रसिद्धिः उपचारात् शिवाधिष्ठिताऽऽत्मान्तरप्रणीतत्वेन । यद्येवं
परमेश्वरस्याशरीरत्वात् शास्त्रोपदेशानुपपत्तिः । न
जगत्सृष्ट्यादिवत्सङ्कल्पमात्रेणैव विद्येश्वरादीमां शास्त्रावबोधकत्वात्
। तदेवाह स्वेच्छानुगृहीतेत्यादि । ननु कामिकादयश्शिवभेदाः
प्रणवादीनामुपदिष्टा इति श्रूयन्ते । तत्कथं विद्येश्वराणामुपदेशः । अत
आह विद्येश्वराष्टकप्रवोधनानन्तरमिति प्रथमं
विद्यश्वेराणामुपदेशः पश्चात्प्रणवादीनामिति । तेभ्य उमापतिरिति
तेभ्योऽनन्तरम् अनन्तभट्टारकाच्छ्रीकण्ठः प्राप न तु सूक्ष्मादिभ्यो वा
। अनन्तशिष्यत्वेनैव प्रसिद्धेः । उक्तञ्च श्रीमद्रौरवे जगतः कारणं
देवमनन्तेशं परं गुरुम् । तेनोक्तं परमेशान श्रीकण्ठाय
महात्मने इति । तदेवं शिवानन्तयोः परस्सबन्धः । अनन्त
श्रीकण्ठयोर्महान् । श्रीकण्ठशक्रयोरन्तरालः । शक्रभरद्वाजयोः
दिव्यः । भरद्वाजहारीतयोर्दिव्यादिव्यः । हारीततच्छिष्ययोरदिव्यः ।
ज्ञानक्रियायोगचर्या इति ज्ञानशब्देनात्र ज्ञेयाः पतिपशुपाशाः कथ्यन्ते
प्रयोजनञ्चात्र ज्ञप्तिरिति अत एवोपायोपेयलक्षणश्चायं सम्बन्धोऽत्र
सूचितः तदेवमीदृग्रूप इति परमाप्तः । द्वयोरपीति कर्तृज्ञापकत्वेन
विसदृशक्रियत्वान्नेतरेतराश्रयदोष इति । तदेवोदाहरणेन स्पष्टयति यथा
कश्चिदित्यादि ॥ १ ॥
वृत्तिः ।
तदेवं हारीतमुनिस्स्वशिष्याणां ज्ञानोपदेशं प्रतिज्ञाय तत
इन्द्रक्रमायातत्वं दर्शयितुमाह ।
॥ मू ॥ नारायणाश्रमे पुण्ये
भरद्वाजादयो द्विजाः ।
तेपुः शिवं प्रतिष्ठाप्य
तदेकाहितमानसाः ॥ २ ॥
बदरिकाश्रमनाम्नि विष्णोराश्रमे तदाश्रमत्वादेव पावने
भरद्वाजप्रभृतयो मुनयस्तेपुरिति सम्बन्धः । भरद्वाजादीनामृषीणां
द्विजत्वप्रसिद्धिसम्भवात् द्विजा इति विशेषणं वागीश्वरीविभवसंयोगात् न
सञ्जननादिना । कृतदीक्षत्वेनोत्कर्षवत्वप्रतिपादनार्थम् । तदानीं न
पुनरुपनीतत्वमात्रं स्मार्तवद्विजशब्देनेष्टम् । अदीक्षितानां
तन्त्रादिश्रवणानधिकारात् प्रत्युत प्रत्यवायश्रुतेः । शिवं प्रतिष्टाप्येति ।
लोहबाणलिङ्गादावाधारे सामान्यमन्त्रादिना परमेश्वरप्रतिष्ठापनं
परिकल्प्येत्याशयः । अन्यथा यथावद्विदिततत्तद्विधानानां
परस्तात्प्रतिष्ठादिविषयस्य प्रश्नस्यानुपपत्तेः । तस्मिन्नेवैकस्मिन्नाहितम्
एकाग्रीकृतं मानसं यैस्ते तथाविधास्सन्तस्तेपुः । शिवाराधनलक्षणं
तपश्चक्रुरित्यर्थः ॥
दीपिका ।
द्वितीयसूत्रं सम्बन्धयति तदेवमित्यादिना ।
नारायणाश्रमस्यानेकत्वात्कस्मिन्नित्याकाङ्क्षायामाह
वदर्याश्रमनाम्नीति । द्विजपदं व्याचष्टे भरद्वाजादीनामित्यादि ।
यदुक्तं मायायाः प्रथमं जन्म विद्याजन्म ततः परम् इत्यादि ।
कथं पुनः भरद्वाजादीनाम् इन्द्रसाक्षात्करणात्पूर्वं दीक्षितत्वम् । न
तदानीम् । हारीतवचनकाले त्वस्त्येव । स्मार्तवदिति सूत्रप्रोक्तद्विजशब्दवत् ।
यदाह देवलः मातापितृभ्यां गर्भाधानादिभिस्संस्कृते गर्भाष्टमे
वर्षे उपनयनार्हो भवति । तत्रोपाध्यायः पिता । माता गायत्री । एवमुपनीतो
द्विपितृको द्विजातिस्स्यादिति । तन्त्रादिश्रवणानधिकारादिति । अत्र आदिग्रहणात्
मन्त्रपरिग्रहः । यदुक्तं श्रीमत्कालोत्तरे मन्त्रं तन्त्रं त्वया प्रोक्त
मिति । मन्त्रतन्त्रश्रवणे च दीक्षितानामेवाधिकारः यदुक्तं
श्रीमत्पराख्ये दीक्षितो योऽधिकारी स्याद्योग्यस्स्नानार्चनादिषु इति ।
वक्ष्यति चाध्ययनप्रकरणे पूते महीतले स्थित्वा पशुश्रवणवर्जितः ।
इति । प्रत्यवायश्रुतेरिति । यदुक्तं श्रीमद्रौरवे
आज्ञाविलङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः । इति । यदि वा
द्विजशब्देन तेषां द्विजत्वव्याप्तिफलेनेशज्ञानेन योगादुत्कर्षः प्रोच्यते
ततश्चानात्मादावात्मज्ञानाद्यभावेऽपि सर्वज्ञत्वाद्यदर्शनात्
बन्धान्तरबद्ध्यमात्मानमाशङ्कमानानामेतेषां
शक्तिनिपातवशात्तदुच्छेदोपायज्ञस्य शिवस्याराधनमुपपद्यत इति ।
शिवाराधनलक्षणमिति । परिणतमलत्वेन
शक्तिनिपातवशाच्छिवधर्माद्यात्मकम् । यदुक्तं किरणे समे कर्मणि
सञ्जाते कालान्तरवशात्पुनः । तीव्रशक्तिनिपातेन इति ।
श्रीमत्स्वायम्भुवेऽपि सा शक्तिरापतत्याद्या पुंसो
जन्मन्यपश्चिमे । सन्निपातात्क्षरत्यस्य मलस्संसारकारणं क्षीणे
त्वस्मिन् धिया सा स्यात्परं निश्रेयसं प्रति इति ॥ १ ॥
॥ मू ॥ अथ तान् भावितान् मत्वा
कदाचित्त्रिदशाधिपः ।
तदाश्रमपदं भेजे
स्वयं तापसवेषभृत् ॥ ३ ॥
वृत्तिः ।
अनन्तरं च तान् भावितान् तन्त्रश्रद्धालून् ज्ञात्वा कस्मिंश्चित्काले
मुनिरूपधारी शक्रः तदीयमाश्रमं सिषेवे ॥ ३ ॥
दीपिका ।
तत्र श्रद्धालून् इति पाठे शिवे श्रद्धालूनित्यर्थः ॥ ३ ॥
॥ मू ॥ स तैस्सम्पूजितः पृष्ट्वा
तांश्च सर्वाननामयम् ।
प्रोवाच चोदनाधर्मः
किमर्थं नानुवर्त्यते ॥ ४ ॥
स इन्द्रस्तैर्भरद्वाजादिभिराश्रमसमुचितेनातिथिसत्कारेणाभ्यर्चित-स्तान्
भरद्वाजादीन् प्रत्येकं कुशलं पृष्ट्वाऽब्रवीत् किं तदित्याह
चोदनाधर्मः किमर्थं नानुवर्त्यत इति । चोदनेति क्रियायाः प्रवर्तकं
वचनमाहुः तदाम्नातो धर्मः किमिति नानुष्ठीयते । चोदनैव हि धर्मे
प्रमाणं प्रमाणमेव चोदना इत्येवमयोगान्ययोगव्यवच्छेदेन ततः
प्रवर्तमानानामैहिकस्याऽऽमुष्मिकस्यापि फलस्याविसंवादात् । तथा
चोक्तम् ।
श्रुतिस्मृत्युदितान् धर्माननुतिष्ठन् हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥
इति । तद्विपरीतं तु त्रयीबाह्यलिङ्गाराधनादि यत् तत्त्रयीबाह्यत्वादेव
फल्गुप्रायम् । यदाह भट्टः ।
तथाऽतिक्रान्तवेदोक्तमर्यादव्यवहारिणाम् ।
संवादिष्वपि वाक्येषु नेष्यते मानहेतुता ॥
मनुरपि या वेदबाह्यास्स्मृतयो याश्च काश्चित्कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोभूता हि तास्स्मृताः ॥ ४ ॥
दीपिका ।
सर्वशब्दार्थमाह प्रत्येकमिति अब्रवीदिति मीमांसकदृष्ट्या
चोदितवानित्यभिप्रायः । चोदनाशब्देनात्र विधिनिषेधवाक्यान्यभिधीयन्त
इत्याह चोदनेत्यादि चोदनावाक्यानां कार्य एवार्थे प्रामाण्याभ्युपगमात्
न सिद्ध इति । ननु लिङादेः प्रत्ययमात्रस्य विद्ध्यर्थकत्वेन प्रवर्तकत्वात्
कथं वचनमित्युपन्यासः । सत्यम् । प्रत्ययमात्रस्यैव विधिरर्थः । स तु
भावनापेक्ष एव पुरुषं प्रवर्तयति । अयमर्थः । कुर्यादित्युक्ते किं, केन,
कथमित्याकाङ्क्षायाम् अनेन इत्थं कुर्यादिति वाक्यस्यैव प्रवर्तकत्वम् ।
यदाहुः किमाद्यपेक्षितैः पूर्णस्समर्थः प्रत्ययो विधौ इति ।
धर्मशब्देनात्र न भावप्रत्ययरूपो बुद्धिगुणो विवक्षितः ।
मीमांसकानामनभिमतत्वात् । नाऽपि भावस्वभावः । तस्य कार्यत्वात् ।
नाप्यपूर्वाख्यस्संस्कारः । तस्यानुष्ठानोत्तरकालभावित्वात् । अपि तु
यागाद्यनुष्ठानरूप एवेत्याह । तदाम्नातो धर्म इति । नानुष्ठीयत इति ।
चोदनैवहि धर्मे प्रमाणमिति । धर्मस्यानुष्ठानरूपस्य प्रत्यक्षत्वेऽपि
तज्जन्यस्याप्यपूर्वाख्यस्य तत्फलस्य च स्वर्गादेस्तत्सम्बन्धस्य
चातीन्द्रियत्वात् प्रत्यक्षादिप्रमाणानां तत्र प्रामाण्यं न सम्भवतीति ।
यद्येवं प्रमाणानन्तर्भावात् चोदनाऽपि न प्रमाणम् अत आह
प्रमाणमेव चोदनेति चोदनायास्तु नित्यत्वेन
कर्तृगतविप्रलम्भादिदोषाद्यभावात् अतीन्द्रियेष्वर्थेषु ज्ञापकत्वेन
प्रामाण्यमनिवार्यमेव । यदाहुः - अनधिगतार्थगन्तृ प्रमाणमिति ।
अयोगान्ययोगव्यवच्छेदेनेति प्रमाण । मेवेत्यवधारणं चोदनायाः
प्रामाण्यायोगं व्यवच्छिनति । चोदनैवेत्यवधारणं तु प्रत्यक्षादीनां
प्रामाण्ययोगं व्यवच्छिनत्ति । फलस्याविसंवादादितिननु
क्वचित्पुत्रेष्ट्यादौ फलविसंवादो दृश्यते तत्कथं
फलाविसंवादाच्चोदनायां प्रामाण्यम् । उच्यते । क्वचित्कृष्यादाविव
कर्मकर्तृत्वसाधनवैगुण्येन फलविसंवादः । स च
नाप्रामाण्यफलसाधक इति । फल्गुप्रायमिति अल्पप्रयोजनम् ॥ ४ ॥
वृत्तिः ।
इत्येवं जैमिनिमतानुसारिणस्तस्य वाचश्श्रुत्वा -
॥ मू ॥ त ऊचुर्नन्वयं धर्म -
श्चोदनाविहितो मुने ।
देवताराधनोपाय
स्तपसाऽभीष्टसिद्धये ॥ ५ ॥
ते भरद्वाजादय इन्द्रं तापसरूपत्वेन मुनिशब्देनाऽऽमन्त्र्य
नन्विति वचनमवोचन् । योऽयमस्माभिरभिमतरुद्राख्यदेवता-
प्रसादनोपायलक्षणो धर्मस्तपसा समीहितसिद्ध्यर्थमासेव्यते स
चोदनयैव हि । विहितः । व्यवस्थापितः । तथा हि - चोदना नाम
लिङ्लोट्तव्यादिशब्दव्यवस्थापितविधिनिषेधरूपयजनादिक्रिया-प्रवर्तकं
वचनमभिधीयते । यथा ज्योतिष्टोमेन यजेत स्वर्गकाम इत्यादि । तच्च
मुख्यतया श्रौतम् । तन्मूलत्वाच्च स्मार्तमपि । तथा चोक्तं -
तस्माच्छ्रुतिस्मृती ह्येव प्रमाणं धर्मगोचर इति । तथा वेदोऽखिलो
धर्ममूलं स्मृतिशीले च तद्विदाम् । इति ।
तदास्तां तावदेवंविधाश्श्रुत्यादिसदागमार्थाविरोधिन्यः
पौराणिक्यस्संहिताः अन्याश्च काश्चन श्रुतयः । यासामिदं तात्पर्यम् ।
यथा महाभारतादौ -
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् इति ।
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुः ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः । इति ।
तथा -
आदित्या वसवो रुद्रा मुनयश्च महौजसः ।
विधिवल्लिङ्गमाराध्य पदमिष्टतमं गताः । इति ।
तथा -
मुद्भस्म गोशकृत्पिष्टगुडखण्डादिलिङ्गकम् ।
सम्पूजयन् प्रतिष्ठार्थं श्रद्धावानधिगच्छति इति ।
अभ्युपगम्यापि ब्रूमः यदाभिप्रायेणेदमभिधीयते भवद्भिस्स
तावच्छ्रुत्यर्थ एव स्मर्यताम् ॥ ५ ॥
दीपिका ।
उत्तरसूत्रमवतारयति इत्येवमित्यादि योयमस्माभिरित्यादि चोदनैव
धर्मे प्रमाणमस्तु वयमपि चोदनाधर्ममेवानुतिष्ठाम इत्यर्थः ।
समीहितसिद्ध्यर्थमिति । समीहितं चैषां मलनिवृत्त्यादिः ।
चोदनाधर्मतामेवोपपादयति तथाहीत्यादि । प्रवर्तकं चोदनैवेत्युक्तम् ।
ननु नास्माभिः प्रवर्तकवाक्यमात्रं प्रमाणमिष्यते ; अपि तु श्रुतिरूपैव
चोदना । अत आह अभ्युपगम्यापि ब्रूम इत्यादि ॥ ५ ॥
त्र हि ।
॥ मू ॥ वेदेऽस्ति संहिता रौद्री
वाच्या रुद्रश्च देवता ।
सान्निध्यकरणेऽप्यस्मिन्
विहितः काल्पिको विधिः ॥ ६ ॥
वृत्तिः ।
रुद्रो देवता अस्येति रौद्री संहिता ऋग्यजुस्सामलक्षणे चाथर्वणे च
वेदेऽस्ति । यजुर्वेदे हि रुद्रैकादशिनी संहिता श्रुयते । यस्यां भगवन्तो
रुद्रास्सर्वाभिप्रेतसाधकाः पठ्यन्ते । ऋग्वेदेऽपि त्र्यम्बकं यजामहे ।
इमा रुद्राय तपसे कपर्दिने । इमा रुद्राय स्थिरधन्विने गिरः ।
इत्यादिकाः र्ग्विधानाम्नाततत्तद्विशिष्टविधान-फला विद्यन्त एव ।
सामवेदेऽपि श्रुयते हि साम्नां विधाने । आवो राजानं तद्वर्गा
देवप्रावृज्यातो हनीत्येषा रौद्री संहिता । एतां प्रयुञ्जानो रुद्रं
प्रीणातीति । एवमाथर्वणेऽपि रुद्राराधनविधयस्तन्मन्त्रसंहिताश्च
सम्भवन्ति । न च केवलं संहितामात्रमेवाऽस्ति । तत्र रुद्र एव देवता
वाच्यरूपतया श्रूयते । यमुद्दिश्य एष ते रुद्रभागस्सह स्वस्राम्विकया
। तं जुषस्व स्वाहेति श्रुतिः । न चैतद्यावत् काल्पिक इति कल्पो वेदाङ्गं तदुक्तो
विधिर्भगवतस्सान्निध्यकल्पनाय श्रूयते । तथा हि काठके
सूत्रपरिशिष्टीये रुद्रकल्पे - त्रिषवणमुदकोपस्पर्शी त्युक्त्वोक्तम् ।
दर्भेष्वासीनो दर्भमुष्टिं धारयमाणो रक्षोभ्योप्यविज्ञेयो भवति ।
शाकयावकपयोभैक्षभक्षष्षड्भिर्मासैः प्रत्यक्षीभवन्तं
भगवन्तं पिनाकिनं पश्यतीति । एवं चाश्रद्धधानमनसां
जैमिनीयच्छायानुसारिणामपि चोदनाप्रदर्शितोऽयमस्त्येव प्रसिद्धः
पन्थाः । किं पुनः परमेश्वरप्रकाशनविहतमहामोहतिमिरतया
विस्पष्टदृष्टीनामन्येषाम् ॥ ६ ॥
दीपिका ।
किं पुनरिति ।
शक्तिपातवशादीश्वरविषयसंशयविपर्ययज्ञानविनाशेन
प्रकाशिततदस्तित्वनिश्चयानामित्यर्थः । नत्वत्र महामोहो मल इति
व्याख्येयं दीक्षयैव तत्क्षपणस्य वक्ष्यमाणत्वात् ॥ ६ ॥
॥ मू ॥ इत्युक्तेऽपि परं भावं
जिज्ञासुः प्रहसन् प्रभुः ।
तानाह मिथ्याज्ञानं व -
श्शब्दमात्रं हि देवता ॥ ७ ॥
वृत्तिः ।
एवमपि कथिते तदीयं भक्तिप्रकर्षं ज्ञातुमिच्छुः इन्द्रत्वेन
परमैश्वर्ययोगात् प्रभुः प्रभवनशीलस्स तान् मुनीन् सस्मितमाह । किं तत्
मिथ्याज्ञानं वः युष्माकं सम्बन्धि यदेतत् लिङ्गार्चनादिशिवाराधन-
प्रतिपादकं ज्ञानं शास्त्रं तन्मिथ्या न सत्यं तत् ।
प्रणेतृतथाविधदेवतानुपपत्तेः । यतः कर्मानुष्ठानादेव फलम् । न
देवतातः । शब्दमात्रं हि देवता । न खलु वयं
प्रत्यक्षप्रमाणेतरप्रमाणापह्नवप्रवृत्तदुराचार-
चार्वाकवदसम्भवमेव देवतायाः प्रतिपाद्यामहे किं तर्हि, विद्यत एव
देवता सा तु न शब्दादतिरिच्यते । अपि तु
अयोगोलकवह्निवदनुपलभ्यमानवाच्यार्थापृथक्भावश्शब्द एव । नैष
तेषु क्रियाविशेषेषु अङ्गभावं गच्छन्
यागसम्प्रदानदेवताविशेषाख्यां लभते । तदुक्तं -
अविनिर्भिण्णशब्दार्थे ध्यायेदोङ्कारमीश्वरम् इति । न चात्र कश्चिदेक
एव विश्वेशिता अस्तीति नियमः प्रतिज्ञातुं शक्यः ।
अनेकाकारसुप्रसिद्धबहुतरदेवताविशेषश्रवणात् ।
तच्चेदमनुपममहिम्नश्शब्दरूपस्यैव विजृम्भितम् । यदेकमपि तत्
तत्तद्देवताविशेषप्रतीतिहेतुतामात्मप्रतीतिहेतुतां चाभ्येति । तथैव श्रुतिः -
इन्द्रं मित्रं वरुणमग्निमाहुरथोदिव्यस्सुपर्णो गरुद्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः इति ।
तत्सुस्थितमेतच्छब्दात्मिका देवतेति ॥ ७ ॥
दीपिका ।
इत्युक्तेऽपीत्यादिसूत्रं व्याचष्टे एवमपीत्यादि । परं भावमिति
व्याचष्टे तदीयं भक्तिप्रकर्षमिति । शक्तिपातयोग्यतैव तन्निष्ठत्वं भक्तिः
योग्यतावेशलक्षणो ज्ञनविशेषः । यदुक्तम् -
अन्योऽपि योग्यतावेशलक्षणोऽपर उच्यते ।
भक्तित्वेन समाख्यातो विज्ञानावयवोप्यथ । इति ॥ अत एवेदानीं
मलपरिणतिस्सम्पन्ना । यतश्शक्तिपातचिह्नभूता परमेश्वरशक्तिर्वर्तते
तदहमेतेषां तत्प्रकर्षं ज्ञातुं पुनरपि
मीमांसकदृष्ट्याऽऽक्षिपामीति समन्दहासमाह न त्वपहासशील इत्याह ।
कर्मानुष्ठानादेव फलं न देवतात इति । तस्या देवताया
वाचकाभिमतरुद्रेशादिशब्दभेदेन प्रमाणान्तरैरसिद्धेः तेन सह
सम्बन्धग्रहणासम्भवादागमेनाप्यसिद्धः तत एव च
सम्बन्धग्रहणादितरेतराश्रयतोऽसिद्धिरेव । ततश्च रौद्रं चरुं
निर्वपेदित्यादावपि उद्देश्याकारतया विशिष्ट कर्माङ्गत्वेन स देवताशब्द
एव प्रतीयत इति क्रियात - एव फल न देवतात इति । इहाऽपि वक्ष्यति न च
तत्साधकं किञ्चित्प्रमाणं भात्यबाधितम् इति ।
अतश्शब्देतरत्वाभ्युपगमेऽपि न युष्मदभिमत देवताविशेषसिद्धिरित्याह ।
न चात्रेत्यादि ब्रह्मविष्ण्वादीनामपि विश्वेशितृत्वेन श्रवणादित्यभिप्रायः ।
न चाभ्युपगमो युक्त इत्याह तत्सुस्थितमेतदिति निश्चितमित्यर्थः ॥ ७ ॥
वृत्तिः ।
एवमन्वयेनाभिधाय व्यतिरेकेणामुमेवार्थं दृढयितुमाह ॥
॥ मू ॥ शब्देतरत्वे युगप -
द्भिन्नदेशेषु यष्ट्टषु ।
न सा प्रयति सान्निध्यं
मूर्तत्वादस्मदादिवत् ॥ ८ ॥
शब्दव्यतिरिक्ता हि यदि देवता विद्यते किं विग्रहवती अविग्रहवती
उभयरूपा अनुभयरूपा वा । अनुभयरूपत्वेऽवस्तुत्वात् । किञ्च न तत्वं
तस्याः । उभयरूपत्वे विरुद्धधर्माध्यासतः
स्वसिद्धान्तविरुद्धानेकान्तवादाभ्युपगमः ।
व्यस्तपक्षद्वयोद्भावितदोषप्रसङ्गश्च । अविग्रहवत्वे शब्देनैवं
किमपराद्धम् । विग्रहवत्वे तु भिन्नदेशावस्थितेषु युगपत्प्रारब्धयागेषु
यज्वसु मूर्तत्वात् तस्यास्तत्सान्निध्यानुपपत्तिः । ननु मूर्तत्वे सत्यपि
सान्निध्यं परस्परविदूरदेशस्थोपस्थातृजनो-
पहृतसपर्ययोरर्केन्दुबिम्बयोर्दृष्टमित्यनैकान्तितिकं मूर्तत्वम् ।
नानैकान्तिकम् । अर्केन्दुबिम्बयोस्स्वप्रभाभास्वरयोरुच्चतरत्वेन
सकलदेशोपलक्ष्यस्थानमात्रस्थयोर्बहुजनोपलम्भयोग्यदेशा-
वस्थानमेव सान्निध्यं भवतां प्रतिभाति न वास्तवम् ।
यथाचात्युत्तुङ्गरङ्गोत्सङ्गवर्तिनी नर्तकी
विदूरदेशवर्तिभिर्भूयोभूयोऽभिप्रेक्षकैः प्रेक्ष्यमाणा नैकैकं प्रति
प्राकाम्यशक्त्या सान्निध्यं भजते । यथा च
समकालमनेकप्रणयिजनोपनिमन्त्रितानामस्माकं
मूर्तत्वाद्युगपदनेकगृहभोजनं न दृष्टम् । एवं देवतायास्तुल्यकालं
भिन्नदेशस्थयागसान्निध्यं मूर्तत्वान्न सम्भाव्यमिति
शब्दमात्रत्वमेवसस्स्यास्साधीयः ॥ ८ ॥
दीपिका ।
शब्देतर इत्यादिसूत्रस्य सम्बन्धमाह एवमन्वयेनेत्यादि अनुभय
रूप इत्यादिविग्रहवत्वाविग्रहवत्वाभ्यामन्यस्याः कोटेरसम्भवादिति ।
उभयरुपत्वे इत्यादि तदेवसत्तदेवासदित्यादिना नैकान्तवादस्य
निराकरिष्यमाणत्वादिति भावः । व्यस्तपक्षद्वयेत्यादि
विग्रहवत्वाविग्रहवत्वयोः पक्षयोर्ये दोषास्सम्भाव्यन्ते
किञ्चित्ज्ञत्वादयोऽकर्तृत्वादयश्च तेषामुभयेषामत्रप्रसङ्ग इति ॥ ८ ॥
वृत्तिः ।
किञ्च ।
न च तत्साधं किञ्चि -
त्प्रमाणं भात्यबाधितम्
न किल तथाविधव्यत्ययदशाविरहितपरमपरोक्षवपुषः
प्रकृष्टातिशयैश्वर्योपपन्नज्ञानानन्दमहिम्नो देवताविशेषस्य
साधकं किमपि प्रमाणं प्रतिभाति । तथाहि - अपरोक्षत्वेन
सकलप्रमाणज्येष्ठस्य प्रत्यक्षप्रमाणस्य तावन्नासौ गोचरः न
ह्यतीन्द्रियग्रहणक्षमत्वं प्रत्यक्षस्य सम्भवति । अथ
व्यवहितविप्रकृष्टार्थविषयं योगिप्रत्यक्षं तत्सत्तानिश्चायकमिति चेत् । तन्न
। यतोऽस्मदाद्यतीन्द्रियार्थदर्शिनो योगिनस्सूक्ष्मादिविषयं तत्प्रत्यक्षं
तेन चेश्वरस्साक्षात्कियत इति सर्वमेतदनुपपन्नं प्रमाणाभावात् ।
अतीन्द्रियोऽतीन्द्रियार्थदर्शी च कश्चित्साधयितुमिष्टः । तस्य
तथाविधपुरुषप्रत्यक्षेणासिद्धेन साधनं प्रामाणिकस्यापि भवतः
किमिति न त्रपावहम् । नन्वस्त्यत्रानुपहतसामर्थ्यमनुमानम् । तथाहि -
जगदिदमुर्वीपर्वतसरित्समुद्रादिधर्मिकार्यमिति साध्यो धर्मः ।
सावयवत्वात् । यद्यत्सावयवं तत्तत्कार्यं यथा
वलभिप्राकारपुष्करिण्यादि विपक्षव्यावृत्तश्चायं हेतुः । यत्र
किलाऽऽत्मादौ कार्यत्वं नास्ति तत्र सावयवत्वमपि नास्तीति । न चास्य
हेतोरीश्वरशरीरेणानैकान्तिकत्वम् । यथाहुर्जैमिनीयाः अनेकान्तश्चहेतुस्ते
तच्छरीरादिना भवेत् । इति । तस्याऽपि
तदिच्छाकार्यत्वेनास्माभिरिष्यमाणत्वात् । इति । सिद्धे च जगतः कार्यत्वे
यद्यत्कार्यं तत्तद्विशिष्टज्ञानक्रियोपपन्नकर्त्रविनाभावि
घटपटादिकार्यवत् । कार्यं चेदं जगत् । तस्मादिदमपि
निरतिशयज्ञत्वकर्तृत्वसम्पन्ननिर्मातारं गमयति । यश्चात्र निर्माता स
ईश्वर इति किमेतन्न प्रमाणम् । भवेदेतत्प्रमाणं यद्यबाधितं स्यात् ।
यावता परमाण्विन्द्रियादेर्जगद्भागस्यासिद्धं सावयवत्वमिति
भागासिद्धोऽयं हेतुः । परमाणूनामचैतन्ये सत्यनेकत्वात् घटादिवत्
कार्यत्वमव्यभिचारीति किल भवतामभ्युप-गमः ।
यदप्येतद्दृष्टान्तीकृतं वलभिप्राकारपुष्करिण्यादि
तद्गतमुपादानसहकारिकारणाद्यानुगुण्यवैगुण्यनिर्वृत्तसदसत्-
सन्निवेशं सावयवत्वं तदन्यदेव तत्तत्सन्निवेशविसदृशमितरदेव हि
महीमहीधरादिगतं सावयवत्वं
वस्तुसादृश्यावलम्बनपूर्वकव्याप्तिदर्शनाहितसंस्काराच्च
तदनुगुणसाध्यसाधनार्थं प्रमाणिकमिति प्रवर्तत इति युक्तम् । न
पुनस्सावयवत्वं शब्दमात्रसामान्याश्रयणेन । यदाह धर्मकीर्तिः -
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादिमद्युक्तं तस्माद्यदनुमीयते ॥
वस्तुभेदप्रसिद्धेऽपि शब्दसाम्यादभेदिनः ।
नयुक्ताऽनुमितिः पाण्डुद्रव्यादिव हुताशनः ॥
इति । अपि च वलभ्यादीनां पक्षान्तर्भावात् दृष्टान्तत्वायोगः । न च दृष्टं
कारणमपहाय कारणान्तरमीश्वराख्यं कल्पयितुमुपपन्नम् । एवं हि
सति सर्वत्र कार्यकारणभावो विप्लवेत् । तदुक्तम् -
यस्मिन् सति भवत्येव तत्ततोऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥ इति । किं च
न तावदशरीरनिर्मातृदेवताविशेषाभ्युपगमो युक्तः । तस्य
जगल्लक्षणकार्यसम्पादनासम्भवात् । यदाह -
कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।
कार्यत्वात्तेन जगतः कर्ता देही प्रसज्यत ॥ इति ।
ततश्च १धर्मस्वरूपविपरीतसाधनः कार्यत्वहेतुः ।
शरीरवत्वेत्वस्मदादिवदुत्पत्तिप्रलययोगित्वमतश्चास्य शरीरं स्वनिर्मितं
कर्त्रन्तरनिर्मितं वा । स्वनिर्मितत्वे किमसौ सर्गकाले सशरीरश्शरीररहितो वा
। देहेन्द्रियरहितश्चेत् तर्ह्यपि न क्वचित्किञ्चित्कार्यं दृष्टमित्युक्तम् ।
शरीरवांश्चेत् शरीरं सृजति । तर्हि तदप्यस्य शरीरं किङ्कृतम् ।
स्वकृतत्वेऽन्यकृतत्वे
१। साध्यधर्मस्वरूपेत्यर्थः ।
वा अनवस्थेत्येवमादिबाधकसद्भावात्तत्साधकं प्रमाणं न
किञ्चिदुपपद्यते ।
दीपिका ।
एवं सामान्येन देवतायाश्शब्दमात्रत्वं प्रसाध्य
तद्विशेस्येश्वराख्यस्य सद्भावे प्रमाणाभावो न च
तत्साधकमित्यादिना प्रोच्यत इत्याह । न किलेत्यादि । तत्र तावदीश्वरस्य
प्रत्यक्षाविषयत्वमाह अपरोक्षत्वेनेत्यादि नहीत्यादि यदाहुः सति
सम्प्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षनिमित्तम् ।
विद्यमानोपलम्भनत्वादि ति । अथेत्यादिना योगिप्रत्यक्षं
प्रमाणत्वेनाशङ्क्यते । परिहरति तन्नेत्यादि प्रमाणाभावाद्योग्येव
तावन्न सिद्धः । किं पुनस्तत्प्रत्यक्षेणेश्वर इति । ईश्वरसद्भावेऽनुमानं
प्रमाणं भवतीति चोदयति नन्वित्यादि । भरद्वाजादीनां
सिद्धान्तशास्त्रानधिगमात् । पौराणिकमतेनेश्वरस्यैव
शरीरमभ्युपगम्योच्यते । तस्यापीत्यादि । १तस्यापि बाधामाह
भवेदेतदित्यादि । तत्र सावयवत्वादिति हेतोर्बाधामाह
परमाण्विन्द्रियादेरित्यादि । भवतामभ्युपगम इति । युष्मादृशां
परमाण्वनित्यत्ववादिनां साङ्ख्यादीनामित्यर्थ । तर्हि तेनैव तेषां
कार्यत्वमिति चेत् । न । नित्याः परमाणवः । निरवयवद्रव्यत्वात्
आत्मवदित्याद्यपि वक्तुं शक्यं यतः अत एव जगतां कार्यत्वासिद्धेः
कर्तृपूर्वकत्वमपि बाधितं भवतीति । इदानीं जगतः
कार्यत्वमभ्युपगम्य दूषणमाह किञ्चेत्यादि ।
वृत्तिः ।
अथोच्यते वाक्यमागमलक्षणं प्रमाणमस्ति ।
यदत्यन्तातीन्द्रियार्थनिश्चायकं
ततःप्रवर्तमानस्याभिप्रेतसम्पत्तेर्दृष्टत्वात् ।
१। अनुमानस्यापीत्यर्थः ।
तदाहुः अक्षलिङ्गादिगोप्यार्थः पुंसश्शास्त्रेण दर्शित इति । एतदेव
निराकर्तुमाह ।
वाक्यं तदन्यथासिद्धम् ।
लोकवादाः क्व साधवः ॥ ९ ॥
पुराणेतिहासादिगीतम्१ । यथा - महाभारतादौ भगवान् व्यासमुनिः
स शिवस्तात तेजस्वी प्रसादात् द्योततेऽग्रतः । सेन्द्रादिषु च देवेषु
तस्यैवैश्वर्यमुच्यते । तं गच्छ शरणं देवदेवादिं
भुवनेश्वरम् इत्यादि । श्रुतावपि यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो
विश्वा भुवनाविवेश । तस्मै रुद्राय नमो अस्तु । तथा - त्रयम्बकं यजामह
इत्यादि । तदेतदन्यथा सिद्धम् । अत्र हि पौर्वापर्यपर्यालोचनकाकुतो
यथाश्रुतश्रुतिसमुत्पादितो न वाक्यार्थः । अनेन
प्रतीतिमात्रविप्रलब्धबुद्धयस्तथेति प्रतिपत्तिं भावयन्ति । यथा किलविषं
भक्षय सा परगृहे भुङ्क्था इत्यत्र विषभक्षणेऽभ्यनुज्ञानं
श्रूयमाणमपि न वाक्यार्थः । किन्तर्हि प्रतिकूलगृहभोजननिषेध एव
तात्पर्यम् । एवं भारतादावुपाख्यानद्वारेण सोद्वेगस्य
विजीगीषोर्द्विषदुपशमो निर्विघ्नः । क्षत्रियाणां च
स्वधर्मानुष्ठानमभ्युदयाय । इत्येवमर्थः । श्रुतौ तु
मन्त्रार्थवादपदानां कार्यातिशयावेदनं
१। वाक्यामिति शेषः
विनाकृतानां प्रवृत्तेश्श्रद्धावहविविधयज्ञज्ञानोपजननप्रती-
त्यङ्गत्वात् न स्वरूपयाथार्थ्यमिति न तदुक्तिमात्रं विशिष्टदेवतासद्-
भावावेदकम् । तथा चाहुः । स्तुतिवादकृतज्ञान॥॥ंअति विभ्रमः ।
पौर्वापर्यापरामृष्टश्शब्दोऽन्यां कुरुते मतिम् । इति । अथ सकललोक-सिद्धा
प्रसिद्धिरनपह्नवनीया विद्यते । यत्सर्वो ह्ययमाविद्वदङ्ग-नाबालो जनः
परमेश्वरस्येच्छाविधिप्रेरितः प्रवर्तते । दैवमेवात्र कारणमिति ब्रुवाणो
दृश्यते च । उपाख्यानानि च ते ते दक्षमखम-
थनकालदमनमदनदाहान्धकवधत्रैलोक्याक्रमणाद्युपारचितानि
बहुशः पठन्तः कथयन्तश्शृण्वन्तश्चोपलभ्यन्ते । तदुद्देशेनात्र
योगनियमजपतपः प्रभृतिक्लेशकारिणीमपि कर्मपद्धतिमनु-तिष्ठन्तः
मानवा गमयन्ति । तदुत सन्ति देवताविशेषा इत्याह लोकवाद इत्यादि ।
अपर्यालोचितपौर्वापर्यगतानुगतमूर्खजनप्रवर्तितात् प्रवादमात्रात्
असकृत्सिद्धव्यभिचारात् वस्तुसिद्धिमिच्छन् अहो बत वृथैव
दैन्यास्पदतामुपयातोऽसि । अथ प्रत्ययितपुरुषप्रवर्तितः प्रवादः
तर्ह्यागम एवासौ । प्रत्ययितत्वं च तस्य कतमेन प्रमाणेन सिद्धम् ।
तत्प्रवर्तितादागमप्रामाण्याच्च तत्सिद्धिः तत्सिद्धेश्चागमप्रामाण्यम् इति
इतरेतराश्रयदोषः । नित्यत्वेत्वागमस्य कार्य एवार्थे प्रामाण्यम् न सिद्ध इति
न युष्मदभिमतदेवताविशेषः कथमपि सिद्ध्यति ॥ ९ ॥
दीपिका ।
वाक्यं तदन्यथासिद्धमिति व्याख्यातुमाशङ्कामाह । अथोच्यत इति ।
अथोत्तरमनेन सूत्रखण्डेनोच्यत इत्याह । एतदेवेत्यादि ।
पुराणेतिहासादिगीतमिति प्रवर्तकवाक्यसामान्यविवक्षया । श्रुतावपीति
विशेषविवक्षया । उभयप्रकारमपि वाक्यं दूषयितुं तदन्यथासिद्धमिति
व्याचष्टे । तदेतदन्यथा सिद्धमिति । चोदनानां कार्य एवार्थे
प्रामाण्यमित्यभिप्रायः । तदेवोपपादयति अत्र हीत्यादि । तर्हि वेदे
ह्यर्थवादादिवाक्यानामप्रामाण्यप्रसङ्गः । अत आह श्रुतौ त्वित्यादि
इदानीमुपमानार्थापत्त्योरनुमानान्तर्भावात्तान्य-नादृत्य लोकवादाः
क्व साधव इति व्याख्यातुं
पौराणिकमतेनैतिह्यप्रमाणसिद्धत्वमीश्वरस्याऽऽशङ्कते । अथ
सकललोकसिद्धेत्यादि आहेति । उत्तरमाहेत्यर्थः । तमेव सूत्रखण्डं
व्याचष्टे अपर्यालोचितेत्यादि । नैतिह्यस्य प्रामाण्यं सम्भवति ।
व्यभिचारदर्शनादिति भावः । ननु आसप्रवर्तितस्य प्रवादस्य व्यभिचारो न
दृश्यत इत्याशङ्कते । अथेत्यादि अत्रापि दूषणमाह तर्हीत्यादि । आगमस्य तु
अयमेवोक्तो दोष इति । आसत्वं च तत्तद्वाक्यकर्तॄणाम् । न१
प्रमाणसिद्धमित्याह । प्रत्ययितत्वं चेत्यादि तस्येति आगमकर्तुः । ननु
वेदेऽस्ति संहिता रौद्री वाच्यो रुद्रश्च देवता इत्युक्तमत आह नित्यत्वे
त्वित्यादि । एतच्च पूर्वोक्तमिति ॥ ९ ॥
वृत्तिः ।
इति शक्रोक्तिमभिधाय हारीतमुनिस्स्वोक्त्या स्वशिष्यानाह ॥
इत्यनीशवचोवारि -
वेलानुन्नोऽब्धिनेव सः ।
कुतः प्रमाणेति पाथभेदः
शक्रेण न चचालैषां
धीशैलस्सारगौरवात् ॥ १० ॥
इत्यनेन क्रमेणेश्वरनिराकरणवचनान्येव निम्नमार्गानुसरणात्
वारीणि तेषां वेला समुल्लासः तया नुन्नः प्रेरितोप्येषां
भरद्वाजादीनां सम्बन्धी मतिपर्वतः सारवत्वात् गुरुत्वाच्च हेतोर्न
चचाल न चकम्पे । केन नुन्न इत्याह । अब्धिनेव शक्रेण । यथा किल
वेलाचलस्समुद्रः जलतरङ्गदृढाहतः स्वावष्टम्भनान्न चलत्येवं
मुनिमतिस्तीक्ष्णाग्रत्वादि साधर्म्यात् पर्वतेन रूपीकृतः स्वस्थैर्यान्न
व्यचलत् ॥ १० ॥
दीपिका ।
इत्यनीशेत्यादिसूत्रमवतारयति इति शक्रोक्तिमित्यादि
सारवत्वात्गुरुत्वाच्चेति । बुद्धेस्सारवत्वं सूक्ष्मार्थग्राहित्वम् । गुरुत्वं
च स्थैर्यम् । १गृहीतार्थापरित्यागे इत्यर्थः ॥ १० ॥
वृत्तिः ।
ततश्चेन्द्रं प्रति ते पुनरिदमभ्यदधुः ।
न जातु देवतामूर्ति -
रस्मदादिशरीरवत् ।
विशिष्टैश्वर्यसम्पन्ना
साऽतो नैतन्निदर्शनम् ॥ ११ ॥
१। गृहीतार्थपरिग्रह इति पाह्तः ।
विभूतियोगतारतम्यमस्मदादिलोचनगोचरसशरीरसामान्यपुरुष-
मात्राश्रयं दृष्टम् अदृष्टविग्रहस्य
देवताविशेषस्याणिमाद्यैश्वर्यसम्पत्तिमनुमापयति तत्कथं
प्राकाम्यशक्तिजनितं युगपदनेकदेशसन्निधिमसम्भाव्यं मन्यसे । नहि
कदाचिदस्मदादिशरीरादिवत् देवतामूर्तिः क्लेशकर्मविपाकयोगिन्यव्यापिका
वा । इच्छामात्रेणास्मदादिसृष्टिस्थितिध्वंसकरणक्षमविशिष्टैश्वर्य-
सम्पन्नत्वात् । मूर्च्छिताणुत्राणाद्धि मूर्तत्वम्
अस्मदादिमूर्तत्वविलक्षणं चास्य । ततश्च
युगपदनेकदेशसन्निधिनिराकरणायोपात्तस्य मूर्तत्वाख्यस्य
हेतोरप्रयोजकत्वम् । दृष्टान्तश्चानुपपन्नः । साध्यधर्मासिद्धत्वात् ।
साध्यो हि धर्मः तुल्यकालमनेकदेशासन्निधिलक्षणोऽत्र सर्वात्मना
नास्तीति यस्मादस्मदादिमध्यवर्तिनां मूर्तिमतां
सतामप्यणिमादिसिद्धिप्रकर्षयोगिनां युगपदनेकदेशसन्निधिरद्यत्वेऽपि
नासम्भाव्यः । न च निरतिशयसकलोत्कर्षयोगिनः परमेशवरस्य
स्वदर्शनाभिनिवेशिभिः
कुम्भकारादिनिदर्शनकलुषीक्रियमाणजगन्निर्माणस्य कियान् किमाश्रयः
किमुपकरणः इत्याद्यसद्विकल्पविप्लवोऽनुप्रविशति । तथाचोक्तं
सिद्धचूडामणिना ।
किमीहः किङ्कायस्स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥
इति । यथा च अशरिरदेवताविशषसम्भवोऽसम्भवाद्बाधितः तथा
ईश्वरप्रकरणे वक्ष्यामः । स तु तथा तथा प्रतिपाद्यमानोऽपि न
तन्निराकरणप्रवीणानां प्रयोजनहेतुर्भविष्यतीति । यथा चाह
राजाऽजानको उत्कलदेवः -
समुज्वलन् न्यायसहस्रसाधितो-
प्युपैति सिद्धिं न विमूढचेतसाम् ।
महेश्वरः पाणितले स्थितोऽपि सन्
पलायते देवहतस्य सन्मणिः । इति ॥ ११ ॥
दीपिका ।
न जातु इति सूत्रस्य सम्बन्धमाह ततश्चेत्यादि अयमत्र
सिद्धान्तवादिनामभिप्रायः - देवतायाश्शब्दमात्रत्वेऽभ्युपगम्यमाने
ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ स्वर्गाद्यात्मकमपि फलं
प्रमाणान्तरासिद्धत्वात् शब्दमात्रमेव स्यात् । अथ
पुराणेतिहासादिप्रसिद्धत्वात् स्वर्गशब्दोऽपि विशिष्टमेवार्थं
फलत्वेनाभिधत्त इत्युच्यते तदिहापि समानामिति
देवतायाश्शब्देतरत्वसिद्धिरिति । अतश्च शब्देतरत्वे देवतायास्सा किं
विग्रहवती अविग्रहवती उभयरूपा अनुभयरूपा वेत्ति ये विकल्पाः
पूर्वपक्षोक्ताः तत्रोत्तरयोः पक्षयोरनभ्युपगमेन परिहारः । विग्रहवत्वे
यद्दूषणमुक्तं युगपदनेकदेशसन्निधानासम्भव इति तस्य परिहारः न
जात्वित्यादिनोच्यत इति दर्शयति विभूतियोगतारतम्यमित्यादि ।
क्लेशकर्मविपाकातिशययोगिनीति । नहि ब्रह्मेन्द्रादिदेवताशरीराणि
अस्मदादिवद्दुःखबहुलानि अव्यापिकावेति
स्वाधिकारान्तमणिमाद्यैश्वर्ययोगिनीत्यर्थः । इच्छामात्रेणेति
प्राकाम्यशक्त्या यदाहुः - अनेकानि शरीराणि योगी निर्माय चात्मनः ।
युगपत्स्त्रीसहस्राणि भुङ्क्ते प्राकाम्यशक्तितः इति । मूर्च्छिताणुत्राणाद्धि
मूर्तत्वमिति । मूर्च्छितानामज्ञानबहुलानामणूनां, भूतानां
त्राणादित्युपलक्षणं स्थित्यादिकरणादित्यर्थः । अणिमादीनां
कार्यकरणात्मकशरीरजत्वात्तत्रैव तेषां तत्कार्याणां च
सृष्ट्यादीनामारोपः । यदुक्तं मतङ्गे तृतीयं
कार्यतस्सिद्धमैश्वर्यमणिमादिकम् । प्राप्त्यादयो गुणाः पञ्च योगिनः
करणात्मजा इति । योगिनामिति । न च योगिनोऽस्माकमसिद्धा इति वाच्यम् ।
यच्छ्रूयते आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् । इति । अत एव
योगिप्रत्यक्षेणाऽपि देवतासिद्धिः । इत्थं सामान्येन देवतास्तित्वं
प्रसाद्ध्य तद्विशेषमीश्वराख्यं दर्शयति । न चेत्यादि अशरीरत्वेऽपि
देवतायाश्शरीरनैरपेक्ष्येणापरिमितशक्तिमत्वात् अर्थसाधकत्वम् ।
अतश्शब्देनाविनाभूता सती तत्र तत्र सान्निध्यमेति केवलस्तु
शब्दोऽचेतनत्वान्न फलादिदाने शक्तः कर्माऽपि जडत्वादधिष्ठातारं
विना न फलजनकमिति वक्ष्यामः । यदुक्तम् ईश्वरस्याशरीरत्वे जगत्करणं
नोपपद्यत इति । तत्राह यथाचाशरीरदेवताविशेषसम्भवोऽसम्भवात्
बाधित इति । अशरीरस्याऽपि स्वदेहस्पन्दादौ कर्तृत्वं दृष्टमिति भावः ।
उत्तरत्राऽपि भविष्यतीत्याचार्य आह तथैवेश्वरप्रकरणे वक्ष्याम इति ।
ततश्चानुमानेनापि ईश्वरा?य सिद्धिरिति भावः । परमाणूनां यथा
कार्यत्वं तथोत्तरे वक्ष्यामः । भूतावधि जगद्येषां कारणं
परमाणव इत्यादौ । इति ॥ ११ ॥
वृत्तिः ।
ईदृशाम्यां च हेतुदृष्टान्ताभ्यां
साद्ध्यसिद्ध्यभ्युपगमेऽन्यत्राप्ययमेव न्यायः प्रसज्यत इत्याह ।
अथास्त्वेवं घटे न्याय
श्शब्दत्वादिन्द्रशब्दवत् ।
नादत्ते घटशब्दोम्भ
श्चन्द्रशब्दो न राजते ॥ १२ ॥
भवता किल शब्दमात्रं हि देवतेति प्रतिज्ञातम्
अतश्शब्दव्यतिरिक्तदेवतानभ्युपगमे सत्येतदापतितम् । यदुत
वाचकव्यतिरिक्तवाच्यार्थासम्भवः । इन्द्रादिशब्दानां यथा नान्यो
वाच्योऽर्थो विद्यते एवं शब्दत्वाविशेषात् घटादावप्ययमेव न्यायः । न
चैतद्युक्तम् । अनुभवविरोधात् । तथाहि नादत्ते घटशब्दोम्भ इति घटते
चेष्टतेऽर्थक्रियार्थमिति घटः । चन्दति आह्लादयति दीप्यते चेति चन्द्र इत्येवं
विधया शब्दव्युप्तत्या शब्दव्यतिरिक्तवाच्यार्थासम्भवतो
घटशब्दस्यैवोदकाहरणं चन्द्रशब्दस्यैव चाऽऽह्लादनादि प्राप्तं न
चानयोस्तदस्ति अपितु तद्वाच्ययोः
पृथुबुध्नोदराकारभास्वरबिम्बस्वरूपयोस्तत्तदर्थ-
क्रियाकरणक्षमत्वं दृष्टम् । अतो न वाच्यवाचकयोरैक्यम् । ततश्च न
शब्दमात्रं देवता किं तर्हि तद्वाच्यैवेति सिद्धम् ॥ १२ ॥
दीपिका ।
अथास्त्वेवमिति सूत्रमवतारयति ईदृशाभ्यां चेत्यादि
मूर्तत्वादस्मदादिवत् इत्येताभ्यां हेतुदृष्टान्ताभ्यां
देवतायाश्शब्दमात्रत्वाभ्युपगमेपि अनुभवविरोध इत्यर्थः ॥ १२ ॥
वृत्तिः ।
इदानीं वाक्यं तदन्यथासिद्धमिति परमतमनूद्य दूषयति ।
अथान्यविषयं वाक्य
मस्तु शक्रादिवाचकम् ।
कर्मरूपादिशब्दानां
सार्थकत्वं कथं भवेत् ॥ १३ ॥
इन्द्रो वज्री हिरण्मय इत्यादीनि शक्रादिदेवतालिङ्गानि
मन्त्रार्थवादपराणि । न त्वेषां स्वरूपयाथार्थ्यमिति
यद्भवद्भिरभिहितं तत्तथाऽस्तु । स्वार्थप्रतिपादनपराणां तु
श्रूयमाणानां कर्मरूपादिशब्दानां कथमर्थवत्वं स्यात् । तत्र
कर्मशब्दाः क्रियाभिधायिनः व्रीहीनवहन्तीत्यादयः रूपशब्दा
जात्यादिशब्दाश्च । यथा श्वेतच्छागमालभेतेत्यत्र श्वेतशब्दस्य
रूपाभिधायिनश्च्छागस्य च
जातिवाचिनश्शक्रादिशब्दवच्छब्दत्वाविशेषात् स्वरूपयाथार्थ्यासम्भवे
सत्यानर्थक्यम् । ततश्च चोदनावाक्यानाम् अकिञ्चित्करत्वम् । यद्वा
शक्रादिवाचकस्य वाक्यस्य अन्यविषयत्वे कल्प्यमाने तद्विषयाणाम् इन्द्रो
वृत्रमवधीदित्यादीनां
कर्मशब्दानां सहस्रदृग्वज्रपाण्यादीनां च रूपाद्यभिधायिनां
शब्दानां कथमर्थवत्वं स्यात् । न चार्धजरतीयन्याय उपपादयितुं
शक्यः । येन विधिशब्दानामेव स्वरूपयाथार्थ्ये न इन्द्रादिशब्दानामिति
स्यात् ॥ १३ ॥
दीपिका ।
अथान्यविषयमित्यादिसूत्रस्य सम्बन्धमाह इदानीमित्यादि तथास्त्विति
शब्दो हि तावत् विदितपदपदार्थसम्बन्धस्य मुख्यतोऽर्थप्रत्यायकत्वेन
भवतोऽपि सिद्धः । ततस्तत्प्रत्यायकत्वानुपपत्त्या इन्द्रादिशब्दानामपि
स्वरूपयाथार्थ्यमनिवार्यमेव तथाप्यभ्युपगम्य ब्रूम इत्यर्थः ।
यद्वेति व्याख्यानान्तरम् । कथं पुनर्विषं भक्षयेत्यादेरन्यपरत्वम्
आचार्यस्य गृहे भुङ्क्था इत्युत्तरवचनसामर्थ्यादिति ब्रूमः ।
तदेवमागमेनापि विशिष्टदेवतासम्भव इति ॥ १३ ॥
वृत्तिः ।
यदप्युक्तं लोकवादाः क्व साधव इति तदयुक्तं यतः ।
प्रवादोऽप्यखिलो मिथ्या
समूलत्वान्न युक्तिमत् ।
स चेदमूलो भूतानां
हतास्सर्वप्रवृत्तयः ॥ १४ ॥
नद्यस्तीरे गुडशकटं पर्यस्तमित्यादेर्निर्मूलस्यापि
प्रवादस्यैकान्तेन न मिथ्यात्वम् । कदाचित्संवादित्वात् । ततश्च सर्वप्रवादो
न सत्य इत्येतन्न युक्तिमत् । न प्रमाणोपपन्नम् । समूलत्वे सति
मिथ्यात्वासिद्धेः । मूलं चास्यागमः । तथा चाहुः प्रसिद्धिमागमः
प्राप्तो लोक इत्यभिधीयते । इति । अथ निर्मूलो यः प्रवादः स चेन्मिथ्यारूपः
तदप्ययुक्तं यस्मादेवं कल्प्यमाने भूतानां सर्वाः प्रवृत्तयो
व्याहन्येरन् । सर्वो हि हितप्रेप्सुरहितजिहांसुर्वा न प्रमाणघटनां कृत्वा
तां पुरस्कृत्य लोकव्यवहारे दृष्टफले सेवाकृष्यादौ अदृष्टफले
वेष्टापूर्तादौ प्रवर्तते किन्तु प्रायशो गतानुगतिकया
प्रवादमात्राधिवासितमतिः । कीदृशं च भवता प्रवादस्य
मूलमन्वेष्टव्यं यदि चिरकालप्रवृत्तत्वेन बहुजनोद्धुष्यमाणत्वं
तद्युक्तमेव अन्यथा प्रवाद एव नासौ । तथा सति नास्य मिथ्यात्वम् ।
चिरतरमनेकजनप्रथितत्वेऽपि कुतोस्योद्भव इत्येवंविधं मूलं परीक्ष्यते
किन्तर्हि आगमपरीक्षैवेयम् । न लोकवादविचारः । न चैतदेवम् । यतो
भवद्भिरपि श्रुतिरूपादागमादन्य एव सज्जनसेवितो
व्यवहारश्शिष्टाचाराख्यो धर्ममूलत्वेनाभ्युपगत इत्यलं
तत्प्रद्वेषणेन । तदेवं समूलेन
लोकप्रवादेनेश्वराख्यविशिष्टदेवतासम्भवस्तूपपादितः ।
उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः । किं न नाम
अखिलप्रतीतमेतत् । यथा हि मुनिरुपमन्युः परमेश्वरेण
१। प्रवर्तत इति शेषः ।
वरप्रदानेनानुगृहीतः तथा च महाभारते आनुशासनिके पर्वणि
भगवद्व्यासमुनिना उपमन्युवाक्यं दर्शितम् ।
आगम्य भगवानीशः प्रहसन्निह शङ्करः ।
वत्सोपमन्यो प्रीतोस्मि पश्य मां मुनिपुङ्कव ।
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितस्त्वसि ।
अनया वत्स भक्त्या ते ह्यत्यर्थं प्रीतवानहम् ।
तस्मात्सर्वान् प्रदास्यामि वरान् यान् मनसि स्थितान् । इति ।
अथोच्यते मिथ्यैतदुपमन्युना आत्मप्रभावकथनायोक्तम् । अत्र हि किं
प्रमाणं यदेवायमसौ भगवताऽनुगृहीत इति । तदसत् । यस्मात्कथं तस्य
वचो मिथ्या यस्य वश्यः पयोनिधिः यस्य किल
सकलमुनिजनप्रत्यक्षपरिदृश्यमानः क्षीराब्धिस्स्वाधीनः तस्य वचसः
किं नाम मिथ्यात्वम् । अयमाशयः परमेश्वरात्प्राप्तवरोऽहमिति
अनृतवादित्वं तदिदानीं तस्य भवेद्यदि दुग्धोदधिवशीकारः
प्रचुरमुनिजनप्रत्यक्षो न स्यात् । यदि च संवादीन्यपि वचांसि मिथ्या तर्हि न
किञ्चित्सत्यं वचनम् । प्रशान्तरागद्वेषाणां
साक्षात्कृतभूतभविष्यदर्थानां मुनीनामपि मिथ्यावादित्वाभ्युपगमे
मन्वादयोऽपि दत्तदक्षिणास्त्वयेत्यहो त्वद्दर्शनकौशलं किञ्च -
क्रोडीकृतो हि पाशेन विषज्वालावलीमुचा ।
हुङ्कृत्य मोचितः पत्या दृष्टश्श्वेतो घनैर्जनैः ॥
विषानलार्चिः परम्पराक्षेपभीषणेनाशीविषपाशेन विवशीकृतः श्वेतः
पातीति पतिः तेन पत्या त्राणशीलेन परमेश्वरेण हुङ्कारमात्रं कृत्वा
क्रोधाग्निना भस्मीकृत्य मोचित इति घनैरविरलैर्भूयो
जनैरस्मत्सजातीयैर्मुनिप्रभृतिभिश्च दृष्टः । अत्राऽपि च
त्रिकालामलदर्शिभिर्देवैश्च प्रवर्तिते प्रवादे यद्यसमाश्वासस्तर्हि
आगममेव न सहत इति वक्तव्यम् । तथाच सति श्रुतिरप्यसहनस्य भवतः
प्रामाण्यालाभे दैन्येन भीतभीता मुखमन्वीक्षत इति तदनुकम्पया
सन्त्यज्यतामतिसाहसम् । ननु मिथ्यात्वहेतूनां दोषाणां
कर्त्राश्रयत्वादकृतकत्वेन नित्यत्वश्रुतेः अतस्तस्याः प्रामाण्याय
कोऽयमुपहासः । न कश्चित् किन्तु कर्त्रभावनिश्चये प्रमाणं नोत्पश्यामः
। प्रत्युत स्वयम्भुवे नमस्कृत्येत्यादि वाक्यवत् रचनावत्वात्
कर्तृव्यापाराविनाभावित्वमुत्प्रेक्षामहे इत्यलमनेन । प्रकृतमनुसरामः ॥
१४ ॥
दीपिका ।
इष्टापूर्तादाविति इष्टं यज्ञेषु यद्दानावाप्तिः । कूपतटाकादि
पूर्वमिति । भवद्भिरित्यादि वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदा
मित्युक्तं यतः समूलेन लोकप्रवादेनेति पुराणेतिहासादिसिद्धेन ।
समूलत्वमेव दर्शयति यथाहीत्यादि । तर्ह्यागममेव न सहत इति । भवानिति
शेषः । आगमानां देवादिप्रणीतत्वादिति भावः ।
प्रसङ्गाच्छ्रुतीनामप्याप्तप्रणीतत्वेन प्रामाण्यमिति दर्शयति ।
तथाचेत्यादि अत एव चोद्यवाद्याह नन्वित्यादि । आचार्य आह न कश्चिदिति ।
नायमुपहास इत्यर्थः । अत एव यथार्थमाह किन्त्वित्यादि
उत्तरसूत्रमवतारयति प्रकृतमनुसराम इति ॥ १४ ॥
इति वादानुषङ्गेण
हरशंसाप्रहर्षितान् ।
साश्रुगद्गदवाचस्तान्
वीक्ष्य प्रीतोऽभवद्धरिः ॥ १५ ॥
वृतीः ।
उक्तवत्प्रस्तावायातपरमेश्वरप्रशंसाहर्षप्रवृत्तानन्द-
वशादविस्पष्टगिरस्तान् भरद्वाजादीन् दृष्ट्वा इन्द्रस्तान् प्रति परं
तुतोषेत्येवं हारीतमुनिः स्वशिष्यानाह ॥ १५ ॥
दीपिका ।
तान् प्रति तुतोषेतीति तीव्रशक्त्याघ्रातत्वेनावेत्य तेषामनुग्रहाय मतिं
चक्र इत्यर्थः ॥ १५ ॥
स्वं रूपं दर्शयामास
वज्री देवश्शतक्रतुः ।
तरुणादित्यसङ्काशः
स्तूयमानं मरुद्गणैः ॥ १६ ॥
वृत्तिः ।
प्रत्यग्रभास्वरं देवगणैस्स्तूयमानम् आत्मीयरूपं वज्रपाणिः
देवश्शतक्रतुः प्रकटीचकार । तेजोतिशययोगस्य हेतुतया वज्रीति शतक्रतुरिति च
विशेषणद्वयं कुलिशस्य हि स्वभाव एवायं यदद्भुतप्रभास्वरत्वं
शतक्रतुत्वाच्च तज्जनितपुण्यप्रभावोद्भूतभूरिमहस्समूहत्वमिति ॥ १६ ॥
दीपिका ।
स्वं रूपमित्यादेस्सूत्रस्यार्थद्वयं विद्यते । तत्रैकस्तावदाचार्येण
प्रदर्शितः । अपरस्तु प्रदर्श्यते । शतक्रतुः अनुष्ठितानन्तशैवक्रतुराचार्य
इत्यर्थः । अन्येषां शास्त्रोपदेशाद्यनधिकारादेव
पूर्वसूत्रप्रकृतत्रिदशाधिपः । वज्रीत्युपलक्षणम् ।
वज्रहस्तत्वसहस्रनेत्रत्वादिविशेषणविशिष्टो भूत्वा
मलान्धकारापगमादुदर्कसन्निभं मरुद्भिः ब्रह्मादिभिर्गणैश्च
विद्येश्वरादिभिस्स्तूयमानं तेषां भरद्वाजादीनाम्
आत्मीयमनागन्तुकं सर्वज्ञसर्वकर्तृत्वात्मकं रूपं प्रकटीचकार ।
एतदुक्तं भवति शक्तिपातनिश्चयानन्तरं
प्रकटीकृताधिकारनिबन्धननिजशरीरस्त्रिदशाधिपो
दीक्षाख्येनाऽऽत्मव्यापारेण तेषां मलादिबन्धमपनीय शिवत्वं
व्यक्तं करोतीति । नन्वेवं चेदनन्तरमेव शरीरपातप्रसङ्गः ।
असद्योनिर्वाणदीक्षायां प्रारब्धकार्यकर्मभोगोपरोधेन तदसम्भवात् ।
यदुक्तं किरणे येनेदं तद्धि भोगत इति । इमं चार्थं
प्रणामस्तुतिप्रतिपादकेनोत्तरसूत्रेण शास्त्रोपदेशान्यथानुपपत्त्या
चार्थसिद्धत्वादुपेक्षितवानाचार्यः ॥ १६ ॥
ते तमृग्भिर्यजुर्भिश्च
सामभिश्चास्तुवन्नताः ।
सोऽब्रवीदुच्यतां कामो
जगत्सु प्रवरो हि यः ॥ १७ ॥
ते वव्रिरे शिवज्ञानं
श्रूयतामिति सोऽब्रवीत् ।
किन्त्वेकोऽस्तु मम प्रष्टा
निखिलश्रोतृसम्मतः ॥ १८ ॥
वृत्तिः ।
ते भरद्वाजादयस्तं प्रत्यक्षीकृतस्वरूपम् इन्द्रमृग्यजुस्सामभिः
प्रह्वास्सन्तस्तुष्टुवुः । स च सर्वजगत्प्रवरो वरो भवद्भिरभ्यर्थ्यताम् इति
तानाह । ते तदैवमुक्ताः पारमेश्वरं ज्ञानं शास्त्रं वृतवन्तः
तदभ्यर्थितं ज्ञानोपदेशं दातुं तान् प्रतिवचनं श्रूयतामित्याह ।
किन्तु ममैक एव भवतां मध्यात् सकलश्रोतृजनाभिमतो
यथावसरमनुक्तवस्तुनः प्रष्टा भवतु । सर्वैश्चाऽपि
भवद्भिश्र्श्रूयतामिति ॥ १७ - १८ ॥
दीपिका ।
अत एवाह प्रह्वास्सन्तस्तुष्टुवुरिति । स च सर्वजगत्प्रवर इति
निश्शेषभुवनपतिः उच्यतां काम इति व्याचष्टे । वरो भवद्भिरभ्यर्थ्यता
मिति अथवा स चेन्द्रः । सर्वोत्कृष्टो वरो भवद्भिः प्रार्थ्यतामित्यर्थः
पारमेश्वरं ज्ञानमिति परमेश्वरप्रणीतत्वेन प्रकृष्टतरं न
वामादिकमिति ॥ १७ - १८ ॥
वृत्तिः ।
एवं भगवता शक्रेणोक्ते सति ।
अथ तेषां भरद्वाजो
भगवानग्रणीरभूत् ॥
वाग्मी प्रगल्भः पप्रछ
न्यायतस्सुरपूजितम् ॥ १९ ॥
अथानन्तरं तेषां मध्यादैश्वर्यादिगुणयोगाद्भगवान्
विविधशास्त्राभ्यासाधिवासप्रशस्यवाग्युक्तत्वाच्च वाग्मी
प्रष्टव्यावसरेषु अकौशलाप्रतिपत्त्याद्ययोगात् प्रगल्भश्च भरद्वाजो मुनिः
न्यायत इति न्यायेन शिष्योचितया नीत्या युक्त्युपपन्नपूर्वपक्षीकरणेन च
इन्द्रमपृछत् ॥ १९ ॥
दीपिका ।
अथेत्यादिसूत्रसम्बन्धमाह एवमित्यादि ऐश्वर्यादिगुणयोगादिति
यदाहुः ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः । वैराग्यस्य च
बोधस्य षण्णां भग इतीरितः इति श्रुतिरिति । अकौशलाप्रतिपत्त्याद्ययोगादिति
आदिशब्देनाधारणादिपरिग्रहः । शिष्योचितया नीत्येति । विनयादिकया
श्रीमन्मतङ्गे सुविनीतस्सुशान्तात्मा नातिदूरे न सन्निधावित्या दि ।
युक्त्युपपन्नेत्यादि यदुक्तं तत्रैव प्रष्टव्यं व्यक्तये शिष्यैस्सन्देहस्य
पुनः पुनः इत्यादि ॥ १९ ॥
वृत्तिः ।
किं पप्रछेत्याह ।
कथं महेश्वरादेत
दागतं ज्ञानमुत्तमम् ।
किञ्च चेतसि संस्थाप्य
निर्ममे भगवानिदम् ॥ २० ॥
यदेतद्भगवतास्मभ्यमुपदेष्टुमारब्धम् । इतरेभ्यो
ज्ञानेभ्यस्सातिशयफलत्वाच्छ्रेष्टतमं ज्ञानं तत्कथं
महेश्वरात्प्रशान्तस्वरूपान्निष्कलाच्छिवात्प्रसृतम् । ज्ञानं हि द्विरूपम् ।
अवबोधरूपं शब्दरूपं च तदवबोधरूपं शब्दरूपारूढमर्थेषु
प्रवर्तते तत्रादितः परमेश्वरादवबोधरूपमेतावत्कथं प्राप्तं कथं
च शब्दरूपतामेत्य बहुभेदभिन्नं सम्पन्नम् । किञ्चाकलय्य
भगवानिदमकरोत् नह्यनभिसंहितप्रयोजनः कश्चित्कर्ता किञ्चित्कार्यां
कुर्वन् दृष्टः । तस्य च भगवत एतत्करणे किं कारणमित्यर्थः ॥ २० ॥
दीपिका ।
उत्तमपदं व्याचष्टे इतरेभ्यो ज्ञानेभ्य इत्यादि ।
सर्वान्यागमप्राप्यस्थानप्रदर्शनपूर्वं तदनधिगतार्थावबोधकत्वात्
प्रमाणभूतम् । यदाहुः अनधिगतार्थगन्तृ प्रमाणमिति । फलस्य च
सिद्धिमुक्त्यात्मनस्सातिशयत्वं विशुद्धत्वादपुनरावृत्तेश्च । यद्वक्ष्यति
शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तस्सृष्टौ पुंवरोऽम्येति नाधः । इति ।
शब्दरूपतामेत्येति शब्दात्मनो ज्ञानस्य प्रकाश्यतामेत्येत्यर्थः । अयं
चात्र प्रश्नार्थः । ज्ञानं हि द्विरूपम् । अवबोधरूपं शब्दरूपं च ।
अवबोधरूपमपि शब्दरूपारूढमेव प्रवर्तते । ततस्तच्छब्दरूपं
कर्यकारणरहिताच्छिवात्कथं विद्येश्वरादिभिः प्राप्तम् । किञ्च
प्रयोजनमभिसन्धायेदं शास्त्रमकरोत् इति । इदमेव चात्रोत्तरम् ।
अवबोधरूपं तावत्ज्ञानं सर्गारम्भ एव भोगमोक्षात्मनः
पुरुषार्थस्य सिद्ध्यर्थं परमेश्वरः प्रथमं नादरूपेण प्रकाश्य
पश्चादधिकारावस्थो भूत्वा शब्दरूपारूढं विद्येश्वरादिभ्य
उपदिदेशेति । उपदेशश्च सृष्ट्यादौ सङ्कल्पमात्रसिद्ध इत्युक्तं पूर्वमेव ॥
२० ॥
वृत्तिः ।
अत्र प्रतिवचनम् ।
सृष्टिकाले महेशानः
पुरुषार्थप्रसिद्धये ।
विधत्ते विमलं ज्ञानं
पञ्चस्रोतोऽभिलक्षितम् ॥ २१ ॥
सर्गप्रारम्भे परमेश्वरः पुरुषार्थस्य भुक्तिमुक्त्यात्मनः
सम्पत्त्यर्थं विमलमिति अवबोधात्मनो नादरूपत्वेन प्रथमं प्रसृतत्वात्
अगृहीतोपाधिभेदम् ।
परतस्तूर्ध्वप्राग्दक्षिणपश्चिमोत्तरस्रोतःपञ्चकेनाभितस्समन्तात्-
प्रसृतत्वेनलक्षितमिति सदाशिवरूपेण दर्शनात्मतां प्रापितं ज्ञानं
निर्मिणोतीति क्रमः । प्रयोजनं च पूर्वप्रश्नितमुपवर्णितम् ॥ २१ ॥
दीपिका ।
अवबोधात्मनो नादरूपत्वेनेति । नादप्रकाश्यत्वेन परस्त्वित्यादि तच्च
ज्ञानं पञ्चमन्त्रपरिग्रहत्वात् पञ्चमन्त्रात्मकशिवदेहाभिव्यक्तत्वाच्च
पञ्चस्रोतोऽभिलक्षितमित्युक्तं न त्वत्रेश्वरस्य विद्येश्वरादीनामिव
बैन्दवशरीराभ्युपगमो युक्तः
तस्योत्पत्तिप्रलययोगित्वेनानीश्वरत्वप्रसङ्गात् । अनवस्थाप्रसङ्गाच्चेति
वक्ष्यामः ॥ २१ ॥
किञ्च ।
तद्वर्तिवाचकव्रात
वाच्यानटौ महेश्वरान् ।
सप्तकोटिप्रसङ्ख्यातान्
मन्त्रांश्च परमेऽध्वनि ॥ २२ ॥
मन्त्रोद्धारप्रकरणाभिधास्यमानज्ञानमध्यवर्तिनो
वाचकव्रातस्य मन्त्रगणस्य ये वाच्या अनन्तादयोऽष्टौ विद्येशाः
तांस्तथा मायेयस्याशुद्धस्याध्वनस्तत्कालमनाविर्भावात्
शुद्धविद्याभुवने कृतस्थितीन् सप्तकोटिसङ्ख्यातान् मन्त्रान् परमेश्वरो
विधत्त इति पूर्वेण सम्बन्धः । कालसामान्येऽपि प्रथमस्य
करणस्येष्टत्वात् सृष्टिकाले व्यधादित्यर्थः । प्रतिसर्गकालं वा तथा करोतीति
वर्तमानतैव । तत्र विद्येश्वराणां वामादिशक्तियोगित्वेन
स्वसम्प्रभाविर्भावनं नाम करणं मन्त्राणां तु आवरणापनयात्
प्रकटीकृतदृक्क्रियत्वमुभयेषाम् एषां परमेश्वरात्
ज्ञानक्रियांशक्त्योरुद्दिपनं ज्ञेयं न पुनर्मुक्ताणुवन्निर्मलीकरणम्
अधिकारमलेनापरत्वान्मुक्तेरस्या इति वक्ष्यामः ॥ २२ ॥
दीपिका ।
अथोपदेशक्रमं दर्शयितुम् अनुग्रहक्रमस्तद्वर्तीत्यादिनोच्यत इत्याह
मन्त्रोद्धारेत्यादि -
मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः ।
मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते इति
न्यायान्मन्त्रशब्दोऽत्र मुख्यतश्शिवशक्तितदनुगृहीतेषु वर्तते उपचारात्तु
वाचकशब्देषु प्रवर्तते इत्याह । वाचकव्रातस्य मन्त्रगणस्य ये वाच्या
इत्यादि । अष्टौ विद्येशा इति अणुपक्।ए शक्तिपक्षशम्भुपक्षयोरपि सम्भवात् ।
उक्तम् च
अनुग्रहाय लोकस्य शिवो मन्त्र इति श्रुतिः ।
या त्वनुग्राहिका शक्तिः सा मन्त्रत्वमिहागता ॥ इति ।
अत एव स्वस्याधिष्ठानोपाधिभेदभिन्नाभ्यां शिवशक्तिभ्यां सह
चतुर्विंशतिर्भवन्ति । सप्तकोटिसख्याता मन्त्रा अपि त्रिरूपा एव । तदुक्तम् ।
चतुर्विंशतिराख्याता मन्त्राणामीश्वराः पराः ।
आणवाश्शाम्भवाश्शाक्तास्तथान्या मन्त्रकोटयः ॥ इति ।
एते च मन्त्राश्शुद्धा एव न त्वशुद्धा इत्याह । मायेयस्येति ।
श्रीमद्रौरवेप्युक्तं -
अन्ये प्राधानिका मन्त्रा ब्रह्मविष्ण्वादयोऽपराः ।
साञ्जनास्तेण्डमध्यस्थास्सात्वराजसतामसाः ॥ इति ।
विधत्त इति पूर्वक्रियानुषङ्गोत्र कार्य इत्याह विधत्त इत्यादि
सर्गारम्भ एवैषां विधानं वर्तमानतया विनिर्दिश्यत इत्याह ।
कालसामान्येऽपीत्यादि करणस्य सृष्टेः कालत्रयसम्बन्धेऽपि
प्रथमस्येष्टत्वात् लकारव्यत्ययोत्र कर्तव्य इत्यर्थः । परिहारान्तरमाह
प्रतिसर्गकालं वेत्यादि कथं पुनरेषां नित्यत्वात्करणमुपपद्यत इत्याह
तत्रेत्यादि अत एव विद्येश्वराणां पञ्चविधकृत्यकारित्वम् । यदुक्तं रौरवे
स्थिति संरक्षणादानभावानुग्रहकारिणः इति । मन्त्राणां च
अनुग्रहहेतुत्वमिति वक्ष्यामः । विज्ञानकेवलिनामेवैषामनुग्रह इत्याह
आवरणापनयनादिति मलापनयनात् । यद्येवं शिवसमत्वादमूर्ता एव ते
सम्पन्ना इत्याह उभयेषामित्यादि ॥ अधिकारमलांशावशेषान्न
शिवसमत्वमिति ॥ २२ ॥
वृत्तिः ।
तदेवं मन्त्रमहेश्वरान् मन्त्रांश्चोक्त्वा मन्त्रेश्वरान् वक्तुमाह ।
अष्टादशाधिकं चान्य
च्छतं मायाधिकारिणाम् ।
मन्त्रेश्वराणामूर्धाध्व
स्थितेशोपमतेजसाम् ॥ २३ ॥
मायायामधिकारिणः मायाधिकारिणः
तेषामुपरितनशुद्धाध्ववर्तिविद्येश्वरसमानधाम्नामष्टाधिकं
शतं विधत्त इति पूर्वेण सम्बन्धः । तत्र मण्डलिनोष्टौ वक्ष्यमाणाः
क्रोधाद्याश्चाष्टावेव शतरुद्राणां च ब्रह्माण्डाधारकाणां शतं
श्रीकण्ठवीरभद्रौ चेत्येवमष्टादशोत्तरं शतं प्राग्वन्मन्त्रेश्वरत्वे
शिवेन नियुक्तमित्यर्थः ॥ २३ ॥
दीपिका ।
सकलानामेवापरमन्त्रेश्वरत्वेनानुग्रह इत्याह ।
मायायामधिकारिण इत्यादि । येषां शिवादेव
सर्वज्ञत्वाद्यभिव्यक्तिस्ततस्सकलत्वेऽपि पशूनामिव न
पाशवश्यत्वमित्याह । उपरितनशुद्धाध्ववर्तिविद्येश्वरसमानधाम्नामिति
। यदुक्तं - कलायोगेऽपि नो वश्याः कलानां पशुसङ्घवत् । इति । अत एव
शिवशक्त्याऽधिष्ठितत्वादेतेऽपि त्रिरूपाः पूर्ववदेव । यदुक्तं -
अण्डस्याधारका ह्येवं वीरभद्रपुरस्सराः । श्रीकण्ठवीरभद्रौ च इति ॥
श्रीकण्ठश्चायं गुणतत्वोर्ध्वभुवनावासी । न तु ब्रह्माण्डान्तर्वर्ती ।
तस्य शिवशिष्यत्वप्रसिद्धेः । न च विद्येश्वरमध्यपठितः तस्य
कलादियोगाभावात् ॥ २३ ॥
तेषु व्यक्तस्स भगवा -
निदं योग्येषु सिद्धये ।
प्रकाशयत्यतोन्येषु
योऽर्थस्समुपपद्यते ॥ २४ ॥
वृत्तिः ।
तेष्वनन्तादिषु मन्त्रमहेश्वरेषु मण्डल्यादिषु च
मन्त्रेश्वरेष्वभिव्यक्तो देव इदमित्यनन्तरोपक्रान्तं ज्ञानं
प्रकाशयति । अस्मिन् विषये किमर्थं प्रकाशयतीत्याह योग्येषु सिद्धये
परिपक्वाञ्जनत्वान्निरतिशयश्रेयःप्रेप्सुषु भुक्त्यर्थं मुक्त्यर्थं च
वक्तीत्यर्थः । अतोऽन्येष्विति । एतच्छास्त्रार्हेम्यो येऽन्येऽपरिपक्वाञ्जनतया
पशुशास्त्रानुवर्तिनस्तेषु विषयेषु यः कापिलपाञ्चरात्रादिप्राप्योऽर्थः
सम्यगिति तदुक्तयोग्यतानुसारेणोपपद्यते अनुगुणो भवति तं प्रकाशयति ।
पशुशास्त्रप्रणेतॄनधिष्ठाय तत्तच्छास्त्रप्रकाशनमपि पारम्पर्येण
कुरुत इति यावत् ॥ २४ ॥
दीपिका ।
तेष्वनन्तादिष्वित्यादि । इत्थमेतान् विस्येश्वरादीननुगृह्य तेषु
प्रकाशितमेतत्ज्ञानमेतानेव साक्षात्परम्परया वाचाऽधिष्ठाय योग्येषु
प्रकाशयति । सिद्धय इति पदमत्रोपलक्षणमित्याह भुक्त्यर्थं मुक्त्यर्थं
चेति ॥ २४ ॥
वृत्तिः ।
अथास्य ज्ञानस्यास्मभ्यमभिधीयमानस्य किमभिधानमित्याह ।
शिवोद्गीर्णमिदं ज्ञानं
मन्त्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति
प्रगीतं बहुविस्तरम् ॥ २५ ॥
परमेश्वरात् प्रोक्तेन क्रमेण प्रसृतमेतत्ज्ञानं शास्त्रं स्कन्दस्य
देव्यास्तदन्येषां च पृथक् पृथक् श्रोतॄणां बहुत्वात् बहुभेदत्वेन
सविस्तरमभिहितम् । कामदत्वात्कामिकत्वेनोपदेष्ट्टभिर्मन्त्राणां
मन्त्रेश्वराणां चेश्वरैर्मन्त्रमहेश्वरैरनन्तादिभिरुपदिष्टम् ॥ २५ ॥
दीपिका ।
एवं प्रसङ्गात्सर्वज्ञानविषयम् उपदेशक्रमं प्रतिपाद्येदानीं
भरद्वाजादीनामुपदेश्यं ज्ञानं शिवोद्गीर्णमित्यादिना
विशेषयतीत्याह अथास्येत्यादि ॥ २५ ॥
वृतीः ।
तेभ्योवगम्य कस्मै कियता ग्रन्थेन को दत्तवानित्याह ।
तेभ्योऽवगम्य दृग्ज्योति
र्ज्वालालीढमदद्रुमः ।
ददावुमापतिर्मह्यं
सहस्रैर्भवसम्मितैः ॥ २६ ॥
तेभ्योऽनन्तादिभ्यः तृतीयनेत्राग्निशिखानिर्दग्ध
स्मरतरुर्भगवानुमापतिरधिगम्य
भवसङ्ख्यैरेकादशभिस्सहस्रैस्सङ्क्षिप्य मह्यमदात् ॥ २६ ॥
तेभ्य इत्यादि तेभ्योऽनन्तादिभ्योऽनन्तरमुमापतिरनन्तदेवादधिगम्य
मह्यमदादिति । अनन्तशिष्यत्वेनैवास्य प्रसिद्धेः । मदशब्दो
मदहेतुत्वान्मदनवाचीत्याह स्मरतरुरिति ॥ २६ ॥
सोऽहमिदानीं -
तत्राऽपि विस्तरं हित्वा
सूत्रैस्सारार्थवाचकैः ।
वक्ष्ये निराकुलं ज्ञानं
तदुक्तैरेव भूयसा ॥ २७ ॥
वृत्तिः ।
तत्राप्यर्थवादानुवादरूपं विस्तरं त्यक्त्वा
सारार्थाभिधायिभिर्बाहुल्येन क्वचिदुक्तैः क्वचिच्चात्मीयैराकुलं
सङ्कुलं ज्ञानं शास्त्रमभिधास्य इतीन्द्रो मुनीनामाहेति
हारीतस्स्वशिष्यान् ब्रूते ॥ २७ ॥
इति श्रीभट्टविद्याकण्ठात्मज श्रीभट्टनारायणकण्ठकृतौ
मृगेन्द्रवृत्तौ उपोद्घातप्रकरणं प्रथमं समाप्तम् ॥
दीपिका ।
क्वचिच्चात्मीयैरिति त्रिपदार्थं चतुष्पादं महातन्त्रमित्यादौ
ममाऽपि कर्तृत्वमस्तीत्यर्थः । यद्येवं भरद्वाजवक्तृत्वेनात्र
वक्ष्यमाणानां न पारमेश्वरत्वम् । नैवम् । अद्यत्वेऽपि शास्त्रकरणे
तथा दर्शनात् । पूर्वपक्षोत्तर रूपमेव शास्त्रं शिवेन प्रणीतम्
अनुग्रहात् भरद्वाजादिपदानि प्रश्नेषु क्षिप्तानीति गुरवः ॥ २७ ॥
इत्यघोरशिवार्यविरचितायां मृगेन्द्रवृत्ति दीपिकायाम् उपोद्घातप्रकरणं
प्रथमं समाप्तम् ।