सायरक्षाविधिं वक्ष्ये कौशिक सुव्रत ।
सर्वलोकहितार्थाय सर्वप्राणिसुखावहम् ॥ ५१.१॥
विशेषाद्बालरक्षार्थं सायरक्षां महामुने ।
जनानां नयनोच्छिष्टनिवृत्त्यर्थं प्रदोषके ॥ ५१.२॥
धूपदीपावसाने तु सायरक्षां समाचरेत् ।
सौवर्णं राजतं ताम्रं कांस्यमेवास्य पात्रकम् ॥ ५१.३॥
विंशत्यङ्गुलविस्तारमोष्ठमेकाङ्गुलं भवेत् ।
एकाङ्गुलं समारभ्य रव्यङ्गुलसमावधि ॥ ५१.४॥
दोपाधारन्तु तन्मध्ये वृत्ताकारं प्रकल्पयेत् ।
नवदीपयुतं श्रेष्ठं पञ्चदीपन्तु मध्यमम् ॥ ५१.५॥
कन्यसं त्वेकदीपन्तु युक्त्या युञ्जीत बुद्धिमान् ।
दीपाधारेषु सर्वेषु वर्तिं गोघृतसंयुतम् ॥ ५१.६॥
हस्ताङ्गुलसमुत्सेधं कर्पूरावर्तिरन्तकम् ।
सुब्रह्मण्यश्च लोकेशो नवदीपाधिदेवताः ॥ ५१.७॥
महादिग्देवता स्कन्दः पञ्चदीपाधिदेवताः ।
एकदीपे गुहं प्रोक्तं चतुष्पात्राभितो न्यसेत् ॥ ५१.८॥
निम्बपत्रं सर्षपञ्च ततः कार्पासबीजकम् ।
लवणञ्च क्रमान्न्यस्य द्रव्यं प्रसृतिमात्रकम् ॥ ५१.९॥
एवं सर्वं समासाद्य मण्डपाभ्यन्तरे बुधः ।
स्कन्दायतनयोषिद्भिरथवा परिचारकैः ॥ ५१.१०॥
तानि पात्राणि सर्वाणि वाहयित्वा विचारतः ।
समानीय गुहस्याग्रे न्यस्त्वा वर्तीन् प्रदीपयेत् ॥ ५१.११॥
सायं रक्षा प्रकर्तव्या धूपदीपावसानके ।
गुहस्याचमनं दत्वाभ्यर्च्य तन्मूलमन्त्रतः ॥ ५१.१२॥
अर्चयित्वा विधानेन वह्निबीजमनुस्मरन् ।
अस्त्रेणैव तु मन्त्रेण दिग्विरेचनमाचरेत् ॥ ५१.१३॥
मुकुलीं पद्ममुद्राञ्च दर्शयेद्देशिकेन तु ।
धूपदीपौ समौ दत्वा नृत्तं वाद्यं समाचरेत् ॥ ५१.१४॥
धूपं धूरसिमन्त्रेण दीपमुद्दीप्यमन्त्रतः ।
सायं रक्षां प्रदीप्याथ धूपदीपं ततो न्यसेत् ॥ ५१.१५॥
जगद्भुवादिमन्त्रेण सायं रक्षा प्रदापयेत् ।
त्रिवारं परया भक्त्या भ्रामयेत्स्कन्दमूर्धनि ॥ ५१.१६॥
नृत्तवाद्यं समायुक्तं शङ्खध्वनिसमन्वितम् ।
भेरीमृदङ्गवाद्यैश्च स्तोत्रशब्दैः समन्वितम् ॥ ५१.१७॥
द्रव्याण्यथ क्रमाद्विद्वानावर्त्यावर्त्य मूर्धनि ।
सायं रक्षां प्रदत्वैव दद्याच्छिष्यकरे ततः ॥ ५१.१८॥
पात्रापात्रविधानेषु करं प्रक्षाल्य देशिकः ।
पश्चादाचमनं दत्वा प्रणवेन तु मन्त्रतः ॥ ५१.१९॥
ततोऽस्य स्तबकं गृह्य कर्पूरादिसुगन्धियुक् ।
गृहीत्वा मुद्रया शक्त्या भ्राम्य स्कन्दोपरि त्रिधा ॥ ५१.२०॥
प्रक्षिपेद्दीपपात्रेषु कर्तव्यं स्कन्धमूर्धनि ।
अस्त्रेण विन्यसेदीषत् दक्षिणे धारयेत्ततः ॥ ५१.२१॥
पार्श्वयोर्हृदयेनैव विन्यसेद्भस्म मन्त्रवित् ।
वृन्दञ्च चामरं छत्रं दर्पणञ्च निदर्शयेत् ॥ ५१.२२॥
तानि पात्राणि गणिका मूर्ध्नादिभिधृतानि हि ।
सर्वातोद्यसमायुक्तं पूर्वे वा चोत्तरेऽपि च ॥ ५१.२३॥
वर्तिद्रव्यं तत्र त्यक्त्वा पुनः पात्राणि सङ्गृहेत् ।
सायरक्षां च देवाय दिनं प्रति दिनं प्रति ॥ ५१.२४॥
एवं यः कुरुते मर्त्यो राजा विजयमाप्नुयात् ।
इति श्रीकुमारतन्त्रे सायरक्षाविधिरेकपञ्चाशत्पटलः ।
श्लोकसङ्ख्या ॥ ३५२३॥
॥ इति श्रीमल्ललितागमभेदे कुमारतन्त्रं सम्पूर्णम् ॥
शयनविधिपटलः कोशेषुत्यक्तः ।
॥ शुभम् ॥