आचार्यलक्षणं वक्ष्ये शृणु कौशिक सुव्रत ।
आर्यावर्तभृतो गोत्रः सूत्रं चैव समन्वितम् ॥ ५०.१॥
आदिशैवकुलोद्भूतः शिवद्विज उदीरितः ।
परार्थपूजनं तेन कर्तव्यं मुनिपुङ्गव ॥ ५०.२॥
शिवागमपुराणज्ञो गुहपूजाविधानवित् ।
वेदवेदाङ्गतत्त्वज्ञो जपहोमविधानवित् ॥ ५०.३॥
देवाग्निगुरुभक्तिश्च मेधावी कुशलः शुचिः ।
सर्वावयवसम्पूर्णः समयाचारसंयुतः ॥ ५०.४॥
कुलीनः सर्वशास्त्रज्ञः सत्यवादी जितेन्द्रियः ।
शिवशास्त्ररतश्चैव परशास्त्रपराङ्मुखः ॥ ५०.५॥
शिखया बद्धकेशी वा भस्मोद्धूलितविग्रहः ।
दम्भासूयादिरहितः समयाचारपालकः ॥ ५०.६॥
प्रत्युत्पन्नमनः शान्तस्तपस्वी प्रियदर्शनः ।
उपवीतञ्च रुद्राक्षमुष्णीषं चोत्तरीयकम् ॥ ५०.७॥
भस्मशैवादिशैवानां पञ्चमुद्रा प्रकीर्तिताः ।
एवमादिगुणोपेतः कारयेत्स्वामिपूजनम् ॥ ५०.८॥
नास्तिकोऽप्यशुभः क्रुद्धो देवाग्निगुरुनिन्दकः ।
कुष्ठाङ्गी कुमुखी चैव परदाररतोऽशुचिः ॥ ५०.९॥
कुसुमाक्षश्च विकटो मात्सर्यो मददम्भयुक् ।
मधुमांसरतः पापी चोरो रोगसमावृतः ॥ ५०.१०॥
विकलाङ्गोऽतिरिक्ताङ्गश्श्यावदन्तः सुकुब्जकः ।
कुण्डको गोलकश्चैव समयाचारवर्जितः ॥ ५०.११॥
एवमादिगुणोपेतं वर्जयेत्स्वामिपूजने ।
कारयेद्यदिमोहेन कर्ता भर्ता विनश्यति ॥ ५०.१२॥
स्वयम्भुलिङ्गे विच्छिन्ने गौरीहीनेऽपि पूजयेत् ।
आचार्यः पत्निहीनश्चेत् न दोषो मन्त्रविग्रहः ॥ ५०.१३॥
उत्सवस्य तु मध्ये वा प्रतिष्ठादिनमध्यमे ।
सूतके प्रेतकार्ये च आचार्यस्य न विद्यते ॥ ५०.१४॥
न लिप्यते मलैः सोऽपि पद्मपत्रमिवाम्भसा ।
शावकं कर्म कृत्वा तु स्नात्वा देवालयं विशेत् ॥ ५०.१५॥
महोत्सवे समाप्तौ च शेषकर्म समाचरेत् ।
शिवः क्रुद्धो गुरुस्त्राता गुरुः क्रुद्धो गुहेन च ॥ ५०.१६॥
गुरुस्तुष्टो गुहस्तुष्टस्तस्मात् सम्प्रीणयेद्गुरुम् ।
यावत्तोषणमाचार्यस्तावद्देवस्तु तोषणम् ॥ ५०.१७॥
इति श्रीकुमारतन्त्रे आचार्यलक्षणविधिर्नाम पञ्चाशत्पटलः ।