४९ प्रदक्षिणनमस्कारविधिः

प्रदक्षिणनमस्कारविधिं श‍ृणु वदाम्यहम् ।
प्रदक्षिणत्रयं कृत्वा नमस्कारन्तु पञ्चकम् ॥ ४९.१॥

पुनः प्रदक्षिणं कृत्वा पुनर्जन्म न विद्यते ।
यानि कानि च पापानि जन्मान्तरकृतानि च ॥ ४९.२॥

तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ।
प्रभाते भुक्तिदम्प्रोक्तं मध्याह्ने भुक्तिमुक्तिदम् ॥ ४९.३॥

रात्रौ च मोक्षदं प्रोक्तं षण्मुखस्य प्रदक्षिणम् ।
आत्मप्रदक्षिणे विप्रा दक्षिणेनैव कारयेत् ॥ ४९.४॥

कुमारगजयोर्मध्ये नैव कार्यन्तु लङ्घनम् ।
परिवारालयं तत्र लङ्घयेन्नैव दोषभाक् ॥ ४९.५॥

गजवालाग्रकं स्पृष्ट्वा कुम्भमध्येऽवलोकयेत् ।
सर्वपापविनिर्मुक्तः स्कन्दलोके महीयते ॥ ४९.६॥

पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गः स्यात् प्रमाणकम् ।
उरसा शिरसा दृग्भ्यां मनसा वचसा तथा ॥ ४९.७॥

पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः ।
वामपार्श्वे शिरो न्यस्त्वा सव्यपादे प्रलम्बितौ ॥ ४९.८॥

नमस्कारः प्रकर्तव्यः प्रागादिद्वारवेश्मसु ।
नित्यानुष्ठानकर्मान्ते प्रकर्तव्यं प्रदक्षिणम् ॥ ४९.९॥

उपोषितः शुचिः स्नात्वा यः करोति प्रदक्षिणम् ।
सहस्रं श्रद्धया धीमान् अश्वमेधफलं लभेत् ॥ ४९.१०॥

पुनः प्रदक्षिणं कुर्यात्सुमित्रेशं प्रदर्शयेत् ।
प्रदक्षिणान् स्वेन कृतान् वित्तादर्धफलं लभेत् ॥ ४९.११॥

अङ्गप्रदक्षिणत्वेन तुल्यं कोटिप्रदक्षिणम् ।
गुहाग्रे देवमभ्यर्च्य करसंस्फोटनादिभिः ॥ ४९.१२॥

उड्डीयन्ते शरीरस्थाः महापातककोटयः ।
पातकानि च सर्वाणि मोक्तुं कामयते च यः ।
कुमारगजयोर्मध्ये दण्डवत्प्रणमेन्नरः ॥ ४९.१३॥

इति श्रीकुमारतन्त्रे प्रदक्षिणनमस्कारविधिर्नाम एकोनपञ्चाशत्पटलः ।