४८ सुब्रह्मण्यकवचविधिः

सुब्रह्मण्यस्य कवचं वक्ष्येऽहं श‍ृणु कौशिक ।
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ ४८.१॥

ब्रह्मानुष्टुप्छन्दः सुब्रह्मण्यस्य देवता ।
षान्तदीर्घेण कल्पेन षडङ्गन्यासकल्पना ॥ ४८.२॥

ध्यानम्-
सिन्दूरारुणमिन्दुकान्ति वदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततनुः स्वर्गस्य सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ४८.३॥

सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः ।
गुहो मां दक्षिणे पातु भूपतिः पातु वामतः ॥ ४८.४॥

शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् ।
नेत्रयोर्द्वादशाक्षश्च श्रोत्रं रक्षतु विश्वभूः ॥ ४८.५॥

मुखं मे षण्मुखः पातु नासिकां मकरात्मजः ।
ओष्ठं वल्लीपतिः पातु जिह्वां पातु षडक्षरः ॥ ४८.६॥

देवसेनापतिर्दन्तान् चिबुकं बहुलासुतः ।
कण्ठं तारकजित्पातु बाहुं द्वादशबाहुमान् ॥ ४८.७॥

हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः ।
हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ४८.८॥

नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः ।
ऊरुं पातु गजारूढो जानू द्वे जाह्नवीसुतः ॥ ४८.९॥

जङ्घे विशाखो मे पातु पादयोः शिखिवाहनः ।
सर्वाण्यङ्गानि भूतेशः सप्तधातूंश्च षण्मुखः ॥ ४८.१०॥

सन्ध्याकाले निशीथिन्यां मध्याह्ने दुस्तरे जले ।
दुर्गमे च महारण्ये राजद्वारे सहायके ॥ ४८.११॥

तुमुले रणमध्ये च सर्पदुष्टमृगादिषु ।
चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडिते ॥ ४८.१२॥

दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे ।
अस्त्रशस्त्रनिघातेषु त्रातु मां क्रौञ्चरन्ध्रकृत् ॥ ४८.१३॥

सुब्रह्मण्यस्यकवचमिष्टसिद्धिफलं भवेत् ।
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ४८.१४॥

धर्मार्थी लभते धर्मानर्थार्थी चार्थमाप्नुयात् ।
कामार्थी लभते कामान् मोक्षार्थी मोक्षमाप्नुयात् ॥ ४८.१५॥

यत्र यत्र जपेत् तत्र तत्र सन्निहितो गुहः ।
पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ ४८.१६॥

तेषामेव फलावाप्त्यै महापातकनाशनम् ।
यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्न्निधौ ।
सर्वान् कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ४८.१७॥

इति श्रीकुमारतन्त्रे सुब्रह्मण्यकवचविधिर्नाम अष्टचत्वारिंशत्पटलः ।