शृणु कौशिक वक्ष्येऽहं सुब्रह्मण्यस्य मातृकाम् ।
भुक्तिमुक्तिप्रदं पुंसां सर्वोपद्रवनाशनम् ॥ ४७.१॥
केशान्ते मुखवृत्ते च नेत्रयोः श्रोत्रनासयोः ।
कर्णयोरोष्ठयोर्दन्तपङ्क्तौ मूर्ध्निमुखेस्वरम् ॥ ४७.२॥
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ।
टवर्गं दक्षपादे च तवर्गं वामपादके ॥ ४७.३॥
पफौ पर्वद्वये न्यस्य बकारं पृष्ठदेशके ।
भकारं नाभिदेशे तु मकारं कुक्षिदेशके ॥ ४७.४॥
यकारं हृदये न्यस्य रलौ दोर्मूलयोर्न्यसेत् ।
वकारं कण्ठपृष्ठे तु शषौ कक्षद्वये न्यसेत् ॥ ४७.५॥
सहौ शिश्ने च गुह्ये च लकारं भुजयोर्न्यसेत् ।
क्षकारं व्यापकं शेषां सुब्रह्मण्यस्य मातृकाम् ॥ ४७.६॥
तान्येतानि न चोक्तानि वर्णेश्वराननं शृणु ।
अमरेश्वर आराध्यस्तत इन्द्रपुरोगमाः ॥ ४७.७॥
ईशपुत्र उमापुत्र ऊर्ध्वरेतो मम प्रिय ।
ऋणोॠणऌन्यश्च ॡहन्तैकनायकः ॥ ४७.८॥
ऐश्वर्यप्रद ओजस्वी औपम्यरहितः पुमान् ।
ततोऽम्बुजासनक्षीणं तेषां स्युः स्वरदेवताः ॥ ४७.९॥
कमण्डलुधरः खड्गपाणिर्गङ्गासुतस्ततः ।
घण्टाहस्तोङप्रियश्च चन्द्रशेखर ईरितः ॥ ४७.१०॥
छन्दोमयश्चैव जगत्पतिश्च झषकेतुजित् ।
ञमूर्तिष्टङ्कहस्तश्च ठस्वरूपोऽथडम्बरः ॥ ४७.११॥
ढक्कप्रियोणगम्यश्च तत्त्वरूपस्थपिष्टकः ।
दण्डपाणिर्धनुष्पाणिर्नगरन्ध्रकरस्ततः ॥ ४७.१२॥
तथैव पद्महस्तश्च फणिहस्तस्तथैव च ।
ततस्तु बहुलापुत्रो भवात्मज इतीरितः ॥ ४७.१३॥
महासेनो यज्ञमूर्ति रमणीयस्तथैव च ।
लम्बोदरानुजश्चैव वचद्भूः शरसम्भवः ॥ ४७.१४॥
षण्मुखः सर्वलोकेशो हरात्मज इति स्मृतः ।
लक्ष्मीवांश्च क्षमाक्षेत्रः कादिक्षान्ताधिदेवताः ॥ ४७.१५॥
अकारादिक्षकारान्तं न्यसेद्देहे स्वनामभिः ।
प्रणवादिनमोऽन्तैश्च ब्राह्मणक्षत्रियोऽपि वा ॥ ४७.१६॥
वैश्यो वाप्यथ शूद्रो वा सुब्रह्मण्याख्यमातृकाम् ।
जपकाले जपेद्यस्तु जयसिद्धिमवाप्नुयात् ॥ ४७.१७॥
पूजाकाले न्यसेदेतत्प्रतिष्ठाकाल एव च ।
गायत्रीजपकाले तु सुब्रह्मण्यस्य मातृकाम् ॥ ४७.१८॥
यः करोति मुखं तस्य सहस्रगुणितं फलम् ।
सप्तजन्म भवेद्विप्रः सोऽन्ते कौमारमाप्नुयात् ॥ ४७.१९॥
इति श्रीकुमारतन्त्रे मातृकान्यासविधिर्नाम सप्तचत्वारिंशत्पटलः ।