४६ स्कन्दकलान्यासविधिः

ततः स्कन्दकलान्यासं सैकत्रिंशत्कलास्मृतम् ।
स्कन्दसूक्तस्य षण्मन्त्रैः सकलाभिर्न्यसेत् सुधीः ॥ ४६.१॥

सैकत्रिंशत्कलां वक्ष्ये श‍ृणु कौशिक सुव्रत ।
जया बलोन्नता वामा नन्दिनी विजया रमा ॥ ४६.२॥

सेना माया च शान्ती च सत्या सूक्ष्मा सुमत्यपि ।
वज्रामृता यशश्चैव वरिष्ठा सुप्रतिष्ठिका ॥ ४६.३॥

रुचिरा भ्रामिणी भूती मान्या जीवातुरेव च ।
शुद्धा कृपा सत्वरा च जगती वरदा ततः ॥ ४६.४॥

कामदा हरिणी श्यामा सैकत्रिंशत्कला स्मृताः ।
स्कन्दसूक्तस्य षण्मन्त्रैः प्रथमे षट्कला शिरः ॥ ४६.५॥

द्वितीये षट्कला वक्त्रे तृतीये पञ्चमी कला ।
हृदये कण्ठदेशे तु बाह्वोर्नाभौ तु विन्यसेत् ॥ ४६.६॥

वेदमन्त्रैः कला पञ्च कुक्षौ पृष्ठे ततः परम् ।
उरः स्थले च गुह्ये च शिश्ने चैव न्यसेद् बुधः ॥ ४६.७॥

एते मन्त्रकला वेदा ऊर्वोर्जान्वोश्च विन्यसेत् ।
षष्ठे मन्त्रे कला पञ्च जङ्घयोः पादयोरपि ॥ ४६.८॥

व्यापकाञ्जलिना धीमान् न्यसेदेवं विधानतः ।
सैकत्रिंशत्कलान्यासं न ज्ञात्वा न समर्चयेत् ॥ ४६.९॥

तस्मात् सर्वप्रयत्नेन न्यासं कृत्वार्पयेद् गुहम् ।
य एतत् कुरुते नित्यं सोऽग्निष्टोमफलं लभेत् ॥ ४६.१०॥

कलान्यासक्रमः -
ॐ जगद्भुवं जयायै नमः । । १। –ईशानमूर्ध्नि
ॐ बहुतो वलायै नमः । । २। –पूर्वमूर्ध्नि
ॐ हुतं उन्नतायै नमः । । ३। –दक्षिणमूर्ध्नि
ॐ वचद्भुवे वामायै नमः । । ४। –उत्तरमूर्ध्नि
ॐ नमस्तेऽस्तु नन्दिन्यै नमः । । ५। –पश्चिममूर्ध्नि
ॐ विश्वभुवे विजयायै नमः । । ६। –नैरृतमूर्ध्नि
ॐ जगद्भुवोऽधिपतिर्जरायै नमः । । ७। –ईशानवक्त्रे
ॐ सेनानीः सेनायै नमः । । ८। –पूर्ववक्त्रे
ॐ मयूरप्रियायै नमः । । ९। –दक्षिणवक्त्रे
ॐ षडाननः शान्त्यै नमः । । १०। –उत्तरवक्त्रे
ॐ सत्त्वायाहं नमस्तेऽस्तु सत्यायै नमः । । ११। –पश्चिमवक्त्रे
ॐ सुखं वहस्व सूक्ष्मायै नमः । । १२। –नैरृतवक्त्रे
ॐ सुब्रह्मण्य सुमत्यै नमः । । १३। –हृदये
ॐ बृहस्पतेः सुतां प्रज्ञायै नमः । । १४। –गले
ॐ अस्य पद्मयोने अमृतायै नमः । । १५। –दक्षिणबाहौ
ॐ अयस्यात्मयशसे नमः । । १६। –वामबाहौ
ॐ वहने वहन्तु वरिष्ठायै नमः । । १७। –नाभौ
ॐ सुब्रह्मण्य सुप्रतिष्ठायै नमः । । १८। –कुक्षौ
ॐ रुद्रभुवे रुचायै नमः । । १९। –पृष्ठे
ॐ ब्रह्मभुवे भ्रामिण्यै नमः । । २०। –उरसि
ॐ भुवद्भुवे भूत्यै नमः । । २१। –गुह्ये
ॐ अभूताय मान्यायै नमः । । २२। –शिश्ने
ॐ जगद्भुवे जीवातवे नमः । । २३। –दक्षिणोरौ
ॐ सुब्रह्मण्य रुद्धायै नमः । । २४। –वामोरौ
ॐ कृत्तिकासुतकृपायै नमः । । २५। –दक्षिणजानुनि
ॐ षष्ठाङ्गसत्त्वरायै नमः । । २६। –वामजानुनि
ॐ जगद्भवे जगत्यै नमः । । २७। –दक्षिणजङ्घायां
ॐ वचद्भुवे वरदाय नमः । । २८। –वामजङ्घयां
ॐ स्कन्दविशाखिने कामदायै नमः । । २९। –दक्षिणपादे
ॐ हव्यं यस्माद्धरिभ्यै नमः । । ३०। –वामपादे
ॐ षण्मुखाय श्यामायै नमः । । ३१। –व्यापकाञ्जलिः

इति श्रीकुमारतन्त्रे स्कन्दकलान्यासविधिर्नाम षट्चत्वारिंशत्पटलः ।